नत्वा नारायणं देवं पूर्णबोधाधिकान् गुरून् । व्याख्यास्यामि यथाबोधं पौरुषं सूक्तमुत्तमम् ।।

पुरुषसूक्तम्

नत्वा नारायणं देवं पूर्णबोधाधिकान् गुरून् ।

व्याख्यास्यामि यथाबोधं पौरुषं सूक्तमुत्तमम् ।।

पीठिकाभागः

कथमुत्तमताऽस्य सूक्तस्येति चेत्, परमपुमर्थाख्य-मुख्यहेतुज्ञान विषय पुरुषशब्दित सर्वोत्तमविष्णु प्रतिपादकतयात्युत्तम विषयप्रयोजनवत्वादिति ब्रूमः । ननु कथमस्य विष्णु प्रतिपादकता यत्पुरुषेण हविषा' (पु.सू. ६ ऋक्) इति, "अबध्नन् पुरुषं पशुम् (पु. सू. १५, ७ वा) इति च पशुपुरुषस्यैवात्र प्रतिपाद्यत्व प्रतीते: पुरुष एवेदं सर्वं' (२ ऋक्) इत्युक्तसर्वात्मकत्वस्य देह योगवशात् भूतभव्यत्पादेश्चपशाविव विष्णावयोगात् नच तत्प्रतिपादनं व्यर्थम्, तस्य पशुपतेर्महा देवस्य प्रीतिहेतुत्वादिति चेत् "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्येष ह्येवाचिंत्यः परः परमो हरि" रित्येतत्सूक्त प्रतीकपूर्वं तस्य वैष्णवोक्ति परश्रुतिविरोधात् 'यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् तथैव मे मनो नित्यं भूयाद्विष्णु परायणम् इति ब्राह्मस्मृत्या, 'तस्मिन् काले महाराज राम एवाभिधीयते यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते स्कांदस्मृत्या च विरोधात् अत्र सूक्ते विष्ण्वसाधारणश्रुतिलिंगानां वक्ष्यमाणत्वेन तद्विरोधात्।यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् न तथा सर्ववेदाश्च वेदांगानि च नारद " इति स्मृतौ इतरव्यवच्छेदपूर्वं वेदादिभ्योऽतिशयेन विष्णोरेव प्रतिपाध्यत्वोक्त्या, तन्मध्यगतस्य 'यत्पुरुषेण हविषा' (पु.सू. ६ऋ.) इत्यादेरन्यथा व्याख्येयत्वात् (तथाच इति).                                   

तत्रैव व्याख्यास्यामः (ऋष्यादिनिरूपणम्) 'यो ह वा अविदितार्षच्छंदो दैवत' इत्यादेः छंदोदैवतादिज्ञानमावश्यकमिति तदुच्यते 'सहस्रशीर्षा षोडश नारायण: पौरुषमानुष्टुभं त्रेष्टुबंत्यम्' इत्यनुक्रमणिकोक्त्या नारायण ऋषिः अनुष्टुप् छंदः अंत्या ऋक् त्रिष्टुप् "तंत्रसारे तु 'तारवन्निखिलं स्मृतम् पंचाशदक्षराणां च पुंसूक्तस्यापि सर्वशःअनुष्टुभश्च त्रिष्टुप् च छंदोऽस्य त्रिष्टुभोऽपि वा” (१अ. ४४।४५ श्लो.) इत्युक्ता अंतर्यामी ऋषिर्ज्ञेयः छंदोभिमानिदेवता तु "ब्रह्माण्यनुष्टुभिंद्राणि त्रिष्टुप् स्वाहेति चोच्यतेइति ऋग्भाष्योक्ता (अ.१., श्लो. ४४) ध्येया सूक्तदेवता तु भगवान् पुरुषनामा हरिरेवेति षोडशर्चमिदं सूक्तं वर्गत्रयात्मकम् ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् 

 भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङुलम् ॥१॥

तत्रजगृहे पौरुषं रूपं, भगवान् महदादिभिः संभूतं षोडशकलमादौ लोकसिसृक्षया ” (भाग. १।३।१) इत्युक्तदिशा पुरुषरूपाद् ब्रह्मांडादिसृष्टिंतस्माद्विराळजायत” (पु. सू. ५ मंत्र: ) इत्यादिना वक्तुं "न च कर्तुः करणम्” (ब्र.सू. २।२।४३) इत्यादिसूत्रोक्तरीत्या हस्तपादादि-मच्छरीरहीनस्य स्रष्टृत्वायोगात् तदुपयोगितया दिव्यविग्रहवत्वमहिमानमादावाह।सहस्रशीर्षेति। पुरुषशब्दो हिस वा अयं पुरुषः सर्वासु पूर्ष पुरिशयो नैनेन किंचनानावृतम्इति श्रुतौ (बृ. उ. ४।५।१८) 'पूर्षु' देहेषु, 'पुरिशयो' हृदये शयो वर्तमान इति; “भूतैर्महद्भिर्य इमाः पुरो विभुः, निर्माय शेते यदमूषु पूर्षु" इति द्वितीयस्कंधे (४अ. २३ श्लो.) च सर्वांतर्यामितया पुरुषपदवाच्यत्वोक्तेः, तथा प्रागुक्तश्रुतिविशेषे (६ पश्यत)परः परमो हरिः पुरुषः" इति, “पुरुषो ह वै नारायणः इति श्रुतौ, “पुरुषपर: आत्माऽजो ब्रह्म नारायणः प्रभुःइत्यादिस्मृतौ च प्रयोगात्, “पुरुषविधमपि चैन मधीयतेइति सूत्रकृता पुरुषसूक्तसमाख्यया वैश्वानर विद्यायाः वैष्णवत्वोक्तेश्च विष्णौ मुख्यः 'सहस्र' शब्दोऽत्र अनंतवाची, प्रागुक्त (६) श्रुतिशेषे "परमो हरिरादिरनादिरतोऽनंतशीर्षोऽनंता क्षोऽनंतबाहुरनंतगुण" इत्युक्तेः तथाच अनंतानि शीर्षाणि अनंतान्यक्षीणि अनंता: पादाः, अनंता बाहवः इत्युपलक्षणम्। यस्य स तथा अनंतशीर्षादिरित्यर्थ: पादशब्दस्य "संख्यासुपूर्वस्य" (पा. ५।४।१४०) इत्यंतलोपः नन्वेवं "अशरीरः प्रज्ञात्मा” (ऐ.उप. २।२।४) इत्यादिश्रुत्या, “अरूपवदेव हि तत्प्रधानत्वात्" (ब्र.सू. ३।२।१४ ) इति सूत्रेण च विरोध इति चेन्न श्रुत्यादेः प्राकृतरूपाभावपरत्वात् 'विकरणत्वान्नेति चेत्तदुक्तम्" (ब्र.सू. २।१।३२) इति सूत्रेण पाणिपादादिकरणाभावेन स्रष्टृत्वानुपपत्तिमाशङ्क्य अप्राकृतकरणानामुक्तेश्च अतोऽस्य पुरुषस्य प्रकृत्यतीतत्वादप्राकृतविग्रह इति भावेन तस्य प्रकृत्यतीत्वमाह । स भूमिमिति 'यत्किंच जगत्यां जगत्' (ई. उ. १) इति ईशावास्ये जगतीशब्द इवात्र भूमिशब्दः सर्वाधारत्वसाम्येन वा, भवत्यत्र जगदिति औणादिक मि प्रत्ययांततया योगेन वा, प्रकृतिपरः प्रकृतिरिति वाच्ये भूमिरित्युक्तिः भूम्युपलक्षितपंचभूतात्मकविग्रहोपि लौकिकानामिव नेति वक्तुं; भूतातीतत्वस्यापि प्रदर्शनाय 'भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः' इति मात्स्यवचनात् (सू. भा. ३।२।१४) स पुरुषः, भूमिं, प्रकृतिं, पंचभूतानिवा अत्यतिष्ठत् । अतिक्रम्य वर्तते सर्वदा तदतिक्रांतः, तदस्पृष्ट एव वर्तत इत्यर्थ: । 'आदित्यवर्णं तमसः परस्तात्' इति श्रुतेः अतीत्य तिष्ठतीत्यत्र कियद्दूरमित्याशंकायामुक्तं दशांगुलमिति दश अंगुलयः परिमाणमस्येति दशांगुलम् । 'तत्परुषस्यांगुलेः संख्याव्ययादेः' (पा. ५।४।८६) इत्यंगुलिशब्दादच् प्रत्ययः 'दशेतिसर्वम्' (ऐ.उ. २।३।४) इत्यैतरेयश्रुतौ सर्वसंख्यानां दशसंख्यांतर्भावस्योक्तेः अपरिमितदेशकालव्यवधानेनात्यतिष्ठदित्यर्थः कस्मिन्नपि देशे कस्मिन्नपि काले प्रकृत्यनतिक्रमो नेति भावः तत्र हेतुः । विश्वतोवृत्वेति प्रकृतिं विश्वतः । सर्वत्र, बहिरंतश्च, वृत्वा आवृत्य, प्रकृतेः तां सत्तापरिणामादिप्रदत्वहेतुना प्रकृतिमभिव्याप्येत्यर्थः, वशीकृत्ये तियावत्, अतोऽत्यतिष्ठदिति तथा च भाष्यम् । 'प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वादरूपवदेवे' ति (सू. भा. ३।२।१४) एतेन प्राक् पुरुषपदेन सर्वप्राणिहृदयगुहास्थत्वेन अंतर्यामितया पुरुषत्वोक्त्या प्राप्ता अव्याप्तत्वशंकाऽपास्ता । यद्वा 'सर्वासु पूर्षु पुरिशय: ' (बृ. उ. ४।५।१८) इति श्रुत्या अंतर्यामितया पुरुषपदार्थतत्वोक्तौ अव्याप्तत्वशंकायां तां निरसितुं प्राप्तं । स भूमिमित्यादि 'तेनेदमावृतं विश्वं वितस्तिमधिष्ठता' इत्यादि । द्वितीयस्कंधषष्ठाध्याये (१५. श्लो.)वितस्ति मात्रं हृदय मास्थायव्याप्नुते जगत्' इति तत्तात्पर्योक्त गारुडस्मृत्युक्तरीत्यादशांगुलपरिमाणवितस्तिमात्रपरिमितं प्राणिनां हृदयं, सः पुरुषः अत्यतिष्ठत् । अधिष्ठितवान् । कथम् भूमिं प्रकृत्यादि जगत्, विश्वतः। सर्वत्र, वृत्वा आवृत्य, व्याप्येतियावत् व्याप्तिमविहायैव हृदये समास्थितवानित्यर्थःएष म आत्मांतर्हृदये ज्यायान्' (छां. उ. ३।१४।३) इति श्रुतेरिति ।। १ ।।

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् 

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥

एवं पूर्वमंत्रे सर्वकारण । प्रकृति नियंतृत्व । तदतीत्वाख्यमहिमा उक्ता द्वितीय मंत्रेणप्राकृतसर्वनियंतृत्वादिमाहात्म्यमाह । पुरुष एवेद मिति इदम् । प्रमाणप्रमितं, भूतं अतीतं, यच्च भव्यं आगामि, भवदित्युपलक्षणम्, वर्तमानमित्यर्थः यत्इत्युक्ते तदिति लभ्यते तत् । एतत् सर्वंपुरुष एव ।राजा राष्ट्रम्' इतिवत् पुरुषाधीनमेव 'यदधीना यस्य सत्ता तत् तदित्येव भण्यतेइति स्मृते:इदं हि विश्वं भगवानिवेतरो, यतो जगत्स्थान निरोधसंभवःइति भागवते (१।४।२०) जगदुत्पत्त्यादिहेतुत्वात् जगदात्मकत्वेनोच्यते भगवानिति व्याख्यानाच्च "पुरुष एवेदं सर्वमिति पुरुषेणैव इदं सर्वं व्याप्तं तृणादा करीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषाइति शाखांतरब्राह्मणेनास्य वाक्यस्य प्रतीकपूर्वकं सर्वव्याप्ति त्वार्थकत्वेन व्याख्यानाच्च । व्यापित्वस्य तन्नियमनार्थत्वेन सर्वस्य तदधीनत्वलाभात् त एव सुधायां उपासनापादे व्याप्तं वशीकृतं' इति व्याख्यातम्पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत् उच्यते तद धीनत्वात् न तु सर्वस्वरूपतः इति प्रथमे बृहद्भाष्योक्त (३।५।४) भारतवचनाच्च यद्वा सुधोक्त रीत्या, 'पत्यादिशब्देभ्य:' (ब्रसू. १।३।४३) इत्यत्र टीकोक्तरीत्या च, भूतभव्यादिकं संसारिप्राणिजातं, तेषां देह द्वारा भूतत्वाद्युपपत्तेः, पुरुष एव पुराषाधीनमेव यत् यस्मात्, अन्नेन द्वितीयार्थे तृतीया, अन्नं=अद नीयं, मरणशीलं संसारिजीवजातं, अतिरोहति । अतिक्रामति, अमुक्ताधिपतिरिति यावत्, तस्मात् अमृतत्वस्य । भावभवित्रोरभेदात्, मुक्तवर्गस्यापि, ईशानः उतशब्दोऽप्यर्थः संसारे स्वाधीनं जगत् यदि मुक्तौ स्वादीनतां जह्यात्, तदा प्रेक्षावान् तन्न मोचयेत्; अतो मुक्तावपि तदधीनमेवेति पुरुष एवेदं इति पूर्वार्धोक्तामुक्तेशत्वं यदन्नेनेत्यनेन हेतुतयाऽनूद्य उतेति वाक्ये मुक्तवर्गेशानत्वं विधीयते इत्येवार्थो, न सर्वात्मत्वं, येन पशुपुरुषोऽत्रोच्येत मुक्तामुक्तस्वामित्वस्य च "मुक्तानां परमा गतिः” “अमृतस्यैष सेतुः’(अथ. उ. २।२।५) 'मुक्तोपसृप्यव्यप देशात् ( ब्र. सू. १।३।२) इति श्रुतिसूत्रादिभिः विष्ण्वेकनिष्ठत्वेन तल्लिङ्गत्वात् । "सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्इति द्वितीयस्कंधे षष्ठेऽध्याये (१७ श्लो) अन्नेनेत्येतदन्नमिति हेतुतयाऽनूद्य सोऽमृतस्येशानः इति मुक्तेशत्वोक्तेश्चेति ।। २ ।।

एतावानस्य महिमातो ज्यायाँश्च पूरुषः 

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

एतावानस्य महिमेति अस्यां ऋचि (अत्र मंत्रे) प्रागुक्तमुक्तामुक्तवर्गेशानत्वं कथमित्यतो मुक्तप्राप्यलोकेशत्वमहिमोच्यते । अस्य पुरुषस्य महिमा सहस्रशीर्षत्व विश्वव्याप्तत्व (व्यापित्व) मुक्तामुक्त (मुक्तादि) सर्वनियंतृत्वादिरूपप्रागुक्तो महिमा, एतावान् इति काकुस्वरः एतावानेव नेत्यर्थः किंत्वित्यत आह । अतो जायानिति (अत इति) अतः-प्रागुक्तमहिम्नोऽपि ज्यायान् ज्ञानानंदबलैश्वर्या प्राकृत लोकेशत्वादिभिः, ज्यायान् श्रेष्ठः कथमित्यतो व्यनक्ति । पाद इति । अस्यप्रकृतपुरुषनाम्नो हरेः, विश्वा विश्वानि, 'सुपां सुलुक् पूर्वसवर्ण' ( पा ७ । १ । ३९) इत्यादिसूत्रेण प्रथमाविभक्तेराकारादेश: भूतानि । चेतनाचेतनवस्तूनि, (एकः) जीवराशिरेव वा, एक: पाद: एक: अंश: ( एकांश:), तदीय ज्ञानानंदबलैश्वर्यादिमाहात्म्यस्य चतुर्धा विभागे कृते चतुर्थो भागो यावान् तावद् ज्ञानानंद । बलाद्युपेतानि सर्ववस्तू (भूता) नीत्यर्थः । एतच्चतुर्गुण परिमित ज्ञानानंदादिमान् हरिरिति यावत् । एतच्चबुद्ध्यर्थः पादवत्" (ब्र.सू. ३।२।३४) इति सूत्रोक्तदिशा अपरिमितज्ञानानंदादिवतो हरेर्महिम्नो बुद्ध्यारोहार्थमेवोक्तं ध्येयम् । पादगूं षड्ढोर्तुर्नकिला विवित्सेइति श्रुतेः "ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्इति स्मृतेश्च । अस्य पुरुषस्य त्रिपात् (त्रयश्च ते पादाश्च त्रिपादा: । 'संख्यासुपूर्वस्य' (पा. ५।४।१४०) इत्यंतलोपः) "शेश्छंदसि” (पा. ६।१।७०) इति शिलोपे बहुवचनस्य एकवचनं छांदसम् । अमृतं देहतोऽपि नाशहीनं अस्य (अन्यत्) पादत्रयं नारायण वासुदेव वैकुंठाख्य(ख्यं) रूपत्रयं, दिवि चित्प्रकृत्यात्मकत्वेन द्योतमाने एकवचनं बहुवचनार्थे, लोकत्रयविवक्षायां, लक्षयोजनोच्छ्रितादतरिक्षादुपरितनलोकानां द्युशब्दार्थत्वेन अंतरिक्षादुपरित नत्वेन द्युशब्दवाच्येषु क्रमात् ? तत्वेपानंतासनवैकुंठाख्य लोकेषु, तिष्ठतीत्यर्थः ।भिन्नपादाः सर्वजीवाः तस्य सादृश्यमात्रतः । स्वरूपपादा विष्णोस्तु त्रयोपि (त्रयो हि) दिवि संस्थिताः नारायणो वासुदेव वैकुंठ इति ते त्रयः" इति छांदोग्यभाष्योक्तेः (३ अ १२ खं, ६ मंत्र) अत्र त्रिपाच्छब्दार्थ भाष्यात् "सुदर्शनास्त्रं भगवान् प्रायुंक्त दयितं त्रिपात्इति तृतीयस्कंधोक्त्या (अ. २० श्लोक २२) त्रिपाच्छब्दस्य विष्ण्वेकनिष्ठत्वान्नान्यस्य प्रतिपाद्यतेति ज्ञेयम् ||||

त्रिपादूर्ध्व उदैत्पूरुषः पादोऽस्येहाभवत्पुनः 

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥

पूर्वं 'विश्वा भूतानि' इति भिन्नजीवराशेरौपचारिकपादत्वमुक्तम् । अत्र पुनर्मुख्य एव चतुर्थ: (मुख्यश्चतुर्थ:) पादः, तस्य प्रागुक्त चतुर्थपादस्थितत्वादिमहिमांतरं चोच्यते त्रयः पादा अस्येति 'त्रिपात् ' प्रागुक्तरूपत्रयवान् (प्रागुक्तचतुर्थपादवान्) पुरुष: दिवि इति पदं पंचम्यंतत्वेन, विपरिणम्यानुवर्तते, पृथिव्यंतरिक्ष रूपलोकद्वयोपलक्षणमेतत्, (लक्षणं च तत्) दिवः । द्युलो कोपलक्षित । लोकत्रयात्, ऊर्ध्वे । (ऊर्ध्व:) बहिः । बहिष्ठ: श्वेतद्वीपादिलोकत्रये, उदैत् । नित्योदितोवर्तत इत्यर्थः सार्वकालिकोऽयं लङ् अस्य पुरुषस्य स्वरूपभूतं ( पाद: स्वरूपभूतं) पुनः । अपरं रूपं, इह । प्रागुक्तभिन्नपादरूपेषु भूतेषु, तन्नियामकत्वेन, अभवत् । तदुक्तं द्वितीयस्कंधतात्पर्ये (६।१९) 'अनंतासन वैकुंठ नारायणपुराणि तु । त्रीणि धामानि वै विष्णोस्त्रिलोकात् बहिरेव तु (च) ' इति यद्वा दिवः इत्यनुवर्तते, द्युस्थः इत्यर्थः ऊर्ध्वः इत्यस्य उन्नत इत्यर्थःपृथिव्यां द्यौर्महामेरु राकाशे सूर्यमंडलम् । दिवींद्रसदनं चैव तत्परे तु दिवः परे" इति छांदोग्यभाष्योक्तस्मृत्या द्युशब्द (दिवशब्द) वाच्येभ्यः मेरु सूर्यमंडलेंद्रसदनेभ्यः क्रमात् श्वेतद्वीपानंतासन वैकुंठानामुन्नतत्वात्, तत्स्थ नारायण वासुदेव वैकुंठाख्य रूपत्रयात्मतया त्रिपात् पुरुषः, ऊर्ध्वः मुख्यः उन्नतः, उदैत् सदोदितोऽभिव्यक्तो वर्तत इत्यर्थः एवं च लोकत्रयविवक्षया अंतरिक्षादुपरितन । लोकेषु श्वेताद्वीपादिषु स्थितत्वेन पूर्वं द्युस्थत्वोक्तावपि, इह स्मृत्युक्तद्युशब्दार्थेभ्यः ऊर्ध्वत्वोक्तिरविरुद्धा तदाह सूत्रकार? 'उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य विरोधात्' इति (ब्र. सू. १।१।२६) श्वेतद्वीपादौ (अत्र श्वेतद्वीपादौ ) नित्याभिव्यक्ततयाऽवस्थानं देवनां सेवाद्यर्थं तत्प्राप्तय इति ज्ञेयम् 'नारायणपरा देवा एवं तान्याप्नुवंति च' इति तात्पर्योक्तेः (भाग. ता. २।८।१९) पादोस्य इत्यस्य तु 'स एवान्यस्वरूपेण शक्रलोक समीपगः । इज्यो यज्ञपुमान् नाम ज्ञानिनां गृहिणां पदम् । यतीनां ध्रुवलोकस्थो वनिनां मेरुमध्यगः आदित्यमंडलस्थस्तु ज्ञानिनां ब्रह्मचारिणम्' इति ब्रह्मांड स्मृत्युक्तरीत्या अस्य पुरुषस्य, पुनः पाद: अन्यद्रूपम्, इह दिवि त्रिलोक्यंतः मेरुसूर्यमंडलेंद्र लोकसमीपस्थवैश्वानरलोकध्रुवलोकेषु चतुर्षु क्रमाद् वानप्रस्थ, ब्रह्मचारि, गृहस्थ, यतिभिः ज्ञानिभूतैः पूज्यः सन् तेषामाश्रयतया, अभवत् अवर्तत, सदा वर्तत इत्यर्थः महा महिमांतरमाह । ततो विष्वङिव्यक्रामदिति (व्यक्रामत्साशनासशने अभीति) ततः इत्यनंतरं ज्यायान् इत्यनुकर्षो वा पादोस्य इत्यादिनोक्तस्य ततः इत्यनुवादो वा पूर्वोक्तमाहात्म्यादपि ज्यायानिति त्रिपात् पुरुष इति वा ततो हेतोरिति प्रागुक्तस्योपसंहारो वा (विश्वव्यक्रामदिति विविधं सुष्ठु अंचतीति वा; विविधस्थानेषु श्वेतद्विपादिषु, सुष्ठु अंचति स्वप्रभया (व्याप्ततया ) तिष्ठतीति वा, सूर्यमंडलादिविविधस्थानेषु ज्ञानि वानप्रस्थप्रभृतिभिः सुष्ठु पूज्यतया रूपांतरेण स्थिततया वा विष्वक् शब्दितः त्रिपात् पुरुषः विविधप्रजासु सुरनरतिर्यगादि (सर्व) प्राणिषु, व्यक्रामत् । आक्रांतवान् (व्यक्रामत् तत्र) सर्वत्र व्याप्तो वर्तत इत्यर्थः । किंच साशनानशने अभि साशनं च अनशनं च साशनानशने, अनशना देवाः साशनास्तदितरविद्वज्जनाः ऋष्यादयः । एकवचनं समुदायाभिप्रायम् । तदुभय समुदाय, अभि प्रति, अभिव्याप्येति वा । व्यक्रामत् विशेषेण आक्रम्य स्थितवानिति (स्थितवान् इत्यर्थः) तदुक्तं द्वितीयस्कंधतात्पर्ये (६।२१) 'त्रिपात् स एव भगवान् सर्व प्राणीषु च स्थित: निरन्नेषु च विद्वत्सु त्रिदशेष्वितरेषु चेति यद्वा, विष्वक् त्रिपात् पुरुषः, साशनानशने चेतना चेतने, अभि व्याप्य, तन्नियंतृतयेति यावत्, व्यक्रामदित्येकान्वयतया योज्यम् ।। ४ । ॥ 

तस्माद्विराळजायत विराजो अधि पूरुषः 

 जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥

पंचमी तस्माद् विराडित्यादि (महिमांतर मुच्यते । तस्मात् ) प्रागुक्तमहिमवतः पुरुषात्, स्वर्णमयतया विशेषेण राजत इति (विराट्छब्दितं ब्रह्मांडं, अजायत (१०१) तथा विराजः अंडं, अधि अभिव्याप्य, विराण्नामा पुरुषः चतुर्मुखः, अजायत तथा विराणनामा ब्रह्मा, तस्मात् पुरुषाद्धरे: नाभिदेशात् रूपांतरेण, अजायत, भौतिकदेहेंद्रियादियुक्तः सन् उद्भूत इत्यर्थः तस्मात्कारणात्, विराजः चतुर्मुखात्, पुरुषः । पूर्वप्रकृतपुरुषशब्दमुख्यार्थो (पुरुषशब्दितो) हरि:, अधि-अधिकः इत्यावृत्या योज्यम्। स जातः चतुर्मुखः, पश्चात्, जातां इति योज्यम्, भूमिं भूम्युप लक्षितसर्वलोकस्थितशंकरपुत्रकाशेषजीवजातं, अथो (अत:), पुरः पूर्वं जातं ब्रह्मांडं तदभिमानिदेवांश्च, अत्यरिच्यत । अतिक्रम्य वर्तते, तेषामधिपतिरभूदित्यर्थः तदुक्तं तात्पर्ये (भाग. ता. २ स्कं. ६ अध्या. २१ श्लो)तस्माद्धरेरंडमभूदंडादपि चतुर्मुखः स विराण्नामकस्तस्मादधिको हरिरेव तु” (२।६।२२)अंडाज्जातस्यान्यरूपं नाभिपद्मादभूद्धरेः यदोभयात्मको जज्ञे ब्रह्मा लोक पितामहः तदैव सोऽतिरिक्तोऽभूच्छर्वपूर्वं परं जगत्॥ ५ ॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत 

वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥

द्वितीयवर्गे आद्या ऋक् । यत्पुरुषेणेति तदानीं ( तदा) यज्ञसाधनानामभावात् तत्सिद्ध्यर्थं (तत् सृष्ट्यर्थं ) मानसयज्ञेन भगवंतं आराधितवंतो देवा इत्युच्यते यत् । यदा, येन पुरुषेणेति वा, तथात्वे तं इत्यग्रेतन तच्छब्देनान्वयः पुरुषेण हविषा मनसा संकल्पितचतुर्मुखाख्यपशु ( संकल्पितेन चतुर्मुखाख्येन पशु) रूपहविषा, यज्ञं विष्णुमुद्दिश्य, 'यज्ञो विष्णुर्देवते 'ति श्रुतेः यज्ञं यागकर्मेत्यर्थः देवाः अयजंत अकुर्वंत । तदा अस्य । यज्ञ कर्मणः, वसंत: वसंतर्तुः, आज्यं आसीत् । आज्यत्वेन संकल्पितो वसंत: (संकल्पितवंत ?) एव मग्रेऽपि ग्रीष्म: (ग्रीष्मर्तुः) इध्मः आसीत् शरत् ऋतु:, हविः । पुरोडाशरूपहविरासीदित्यर्थः ।।६।।

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः 

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥

अथ द्वितीय । सप्तस्यासन्निति । अस्य मानस यज्ञस्य, सप्त गायत्र्यादि (सप्त) छंदांसि, परिधयः आसन् अभवन्। आहवनीयाग्नेस्त्रयः परिधयः, उत्तर वेदिगतास्त्रयः, आदित्यश्च सप्तमः परिधिः, परिधिप्रतिनिधय (निधिरूपा) इति भाव: । 'न पुरस्तात् परिदधात्मादित्यो ह्येवोद्यन् पुरस्ताद् रक्षागंस्युपहंति' इति श्रुतेः (तै । सं. २।६।३) । एते आदित्यसहिताः सप्तपरिधयः सप्त छंदोरूपाः तथा समिध: त्रिः सप्त त्रिगुणित्रसप्तसंख्याकाः एक विंशति कृता: । 'द्वादशमासा: पंचर्तवस्त्रय इमे लोका असावादित्य एकविंश" इति श्रुतेः (तै. ब्रा. ३।८।३८) एक विंशतिपदार्थाः ।त्रिस्सप्तसमिधः इध्मत्वेन कृताः यत् यदा, देवा: यज्ञं विष्णुं प्रति, तमुद्दिश्य मनसा यज्ञं तन्वानाः कुर्वाणाः, पशुं पशुत्वेन भावितं पुरुषं चतुर्मुखं, अबध्नन् । यूपे नियोजितवंतः, तदा सप्तस्यासन्नित्यादियोजना । अस्य मंत्रस्य एतत्सूक्तस्यो उपांतत्वेन बहुचानां पाठेऽपि पाठक्रमादर्थक्रमस्य बलवत्त्वेन तदर्थस्यात्र संगतत्वात्, याजुषाणा मत्रैव पाठाच्चायं मंत्रोऽत्र व्याख्यातः । । ७ ।।

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् 

पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥८॥

बह्वृचानां पाठक्रमे तु (पाठक्रमेइयं द्वितीया ऋक्)तं यज्ञमितिऋक् द्वितीया ज्ञेया । 'यज्ञं' यज्ञसाधनभूतं तं यूपे मनसा बद्धं वा, पशुत्वेन कल्पितं वा, “स जातइत्यादिना प्रकृतं पुरुषं मनसा बर्हिषि दर्भसंस्तरे यद्वा बर्हिरिति यज्ञनाम, यज्ञे, प्रौक्षन् । अद्भिस्सेचितवंतः, उक्षसेचने सेचन । पर्यग्निकरणादिसंस्कारं कृतवंतः, परमपुरुषव्यावत्त्यर्थ मुक्तं अग्रतो जातं पुरुषमिति, हरेः प्रथमतो जात मित्यर्थः । तेन पुरुषरूपेण पशुना, ये देवाः साध्या ऋषयश्च ते सर्वे, यज्ञं इत्यनुषंगः । यज्ञं इज्यत्वहेतुना यज्ञनामकं, प्राक् पुरुषपदेन प्रकृतं विष्णुं, अयजंत । अराधितवंतः । यद्वा 'विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना अयजन्मानसे यज्ञे पितरं प्रपितामहः इति चतुर्थे गीताभाष्योक्त (श्लो. २५) रीत्या मंत्रेषु पशुपुरुषो रुद्रो ध्येयः ब्रह्मा यजमानः, देवादयः ऋत्विजः, ततश्चायमर्थः । विराजो अधि पुरुष: इत्यस्य विराजः- चतुर्मुखात् अधि । 'रुद्रं समाश्रिता देवा' इत्युक्तेः देवादिभ्योधिकः सन् पुरुषो रुद्रः अजायतेत्यर्थो ध्येयः । अधीत्युक्तिः जेष्ठसूनुत्वसूचनाय । स जात: इत्यादेः पूर्वं यथासंभवं पूर्ववदर्थः । यत् पुरुषेण रुद्र रूपेण, हविषा, देवा: ब्रह्मादय इति वा, ब्रह्मेत्युपलक्ष्य ब्रह्मा देवाश्चेति वा, पुरुषं जातमग्रतः इत्यस्य अग्रतो जातं पुरुषं रुद्रं चतुर्मुखाद् देवेभ्यः प्रथमतो जातं ज्येष्ठपुत्रमित्यर्थः शिष्टं प्राग्वत् ॥ ८ ॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे 

छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥

तस्माद्यज्ञादिति । मानसयज्ञेनाराधिताद्यज्ञनामकात् पुरुषात् बाह्ययज्ञ साधनादिपदार्था जाता इत्युच्यते । सर्वैर्हयते हविरादिदानेन आराध्यते, सर्वैरुपजीव्यते इति वा सर्वहुत् । 'हु दानादनयो' रित्यत: क्विप्ह्रस्वस्य पिति कृति तुक्” (पा. ६ । १ । ७१) इति तुक् सर्वयज्ञादिकर्मण्याहूयत इति वा 'ह्वेङ् शब्दे' क्विप् 'वचिस्वपि' (पा. ६।१।१५) इत्यादिना संप्रसारणम्, तुक् तस्मात् सर्वहुत: यज्ञात् । यज्ञनामक हरेः सकाशात् तथा सर्वै: हूयते वा भगवान् पुरुषो यस्मिन्यज्ञे स यज्ञः सर्वहुत्, तादृशात् (प्राक् ) प्राकृतात् तस्माद् मानसयज्ञान्निमित्तात् पृषदाज्यं दधिमिश्रितं यज्ञसाधनं आज्जाख्यं (आज्यद्रव्यं), संभृतं संपादितं, उत्पन्नमित्यर्थः तथा वायव्यान् । वायुदेवताकान् श्वेत पश्वादीन्, आरण्यान् अरण्यभवान् हरिणप्रभृतीन्, ये च ग्राम्या: । ( गवाश्वाः) ग्रामभवाः गवाश्वादयः, तांश्च पशून् चक्रे । कृतवान् स यज्ञनामा सर्वहुत् पुरुषः इति विपरिणामेनान्वयः ।। ९॥

तस्मादश्वा अजायन्त ये के चोभयादतः 

गावोः  जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥

तस्माद्यज्ञात् सर्वहुत ऋच इति । यज्ञसाधनद्रव्योत्पत्तिमुक्त्वा मंत्रोत्पत्तिरत्रोच्यते तस्माद् यज्ञात् सर्वहुत इति प्राग्वत् ऋच: जज्ञिरे (जनी प्रादुर्भावे) तद्भुद्धिस्था: सृष्टिकाले ब्रह्मादीन् प्रत्युच्चारिता इत्यर्थः सामानि जज्ञिरे छंदांसि गायत्र्यादीनि जज्ञिरे । भगवदुच्चारणेन व्यक्तिमगमन्नित्यर्थः यजुरजायत इत्यस्याप्येवं ध्येयम् । तुदुत्पत्ति वचश्चैव भवेद् व्यक्तिव्यपेक्षया (व्यपेक्ष्य तु) अवांतराभिमानानां इत्युक्तदिशा (विष्णुतत्वनि. १ प्रकरणे) अवांतऋगाद्यभिमानिनीनां (देवतानां) जन्माद्यपेक्षया जन्माद्युक्तिरिति ध्येयम् (जन्माद्यपेक्षया वा जज्ञिरे इत्याद्युक्तिरिति ज्ञेयम्) 'सर्ववेदाभिमानित्वात् श्रीर्ब्रह्माणी च भारती' । (ऋ. भा. १ अ. ४१ श्लो) इत्युक्तत्वाद्देव्या नित्यत्वात् अवांतर इत्युक्तम् । छंदोभिमानिन्यस्तु, "गायत्री बृहती चैव तास्सर्वा गरुडस्तथा । ब्रह्माण्यनुष्टबिंद्राणी त्रिष्टुप् स्वाहेति चोच्यते" इत्यादिना ऋग्भाष्योक्तदिशा ध्येयाः ।। १० ।।

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् 

मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥

तस्मादश्वा अजायंत इति । पुनरत्र अश्वमेधादियागसाधनादिद्रव्याणि प्राक् सामान्यत उक्तान्यपि विशेषत उच्यंते, उक्तान्यप्यत्र विशिष्योच्यंते तस्मात् प्रागुक्ताद्यज्ञनामकात् पुरुषात् अश्वा अजायंत ये के च उभयादतः । ऊर्ध्वाधोभागयोरुभयत्र दंतवंतो अश्वतरीगर्दभप्रभृतयः तेऽप्यजायंत 'वयसि दंतस्य दतृ' (पा ५।४।१४१) 'छंदसि च' (५।४।१४२) इति दंतपदस्य ददा देश: गावोऽपि तस्माज्जज्ञिरे अजावयश्च अजा अवयश्चतस्माज्जाताः तस्मादित्यनेकवारोक्तः अन्यस्य स्वातंत्र्येण हेतुतानिरासतात्पर्यद्योतनार्थः । हेत्वाश्चर्ये प्रसिद्धौ वा ।। ११ ।।

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः 

ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥

आद्या ऋक्। यत्पुरुषं व्यदधुरिति पूर्वं सामान्यतो मानसयज्ञाराधितात् पुरुषाद् बाह्ययज्ञ साधनादिपदार्थजनिमुक्त्वा अंगेभ्यः सृष्टाः प्रश्नपूर्वकमाह । यत्पुरुषमिति (यदित्यादिना) यत् यं, यदेति वा, देवाः पुरुषं व्यदधुः । देवा यज्ञमतन्वत (ऋक् ६ ) इति प्रागुक्तमानसयज्ञे विशेषेणोद्देश्यतया अदधुः धृतवंतः, मनसा ध्यातवंतः 'डुधाञ् धारणे' लङ्; तदा कतिधा केन केन प्रकारेण व्यकल्पयन् विकल्पितवंतः मनसा विविधतया कल्पितवंतः किंकिं जनकाङ्गत्वेन ध्यातवंत इत्यर्थः । तदेव किंचिद् व्यनक्ति मुखमिति । अस्य पुरुषस्य मुखं किमासीत् किं जनकमुच्यते । बाहू च कौ किंजनकौ उच्येते ऊरूच कौ किंजनकावुक्तौ (किंजनकावुच्येते) । पादामिति कावित्यनुषज्यते, किंजनको उच्येते इत्यर्थः ।। १२ ।।

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत 

मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥

ब्राह्मणोऽस्येति । पृष्टस्योत्तरमत्र उच्यते । अस्य पुरुषस्य मुखं ब्राह्मणः आसीत् मुखाद् ब्राह्मणजात्याक्रान्तः आसीत्, उत्पद्यत इत्यर्थः । ब्राह्मण्याभिमानवान् ब्रह्मेति क्षत्रजात्यभिमानी तु वायुः वैश्यजात्यभिमानी तु नासिक्यो वायुः, शूद्रजात्यभिमानी च निर्ऋतिरिति प्रथमे अव्याकृतब्राह्मणे बृहद्भाष्योक्तदिशा (३ अ ६ ब्रा) तत्तजात्यभिमानवान् ब्राह्मणादिशब्देन ग्राह्यः बाहुब्यां, राजन्य: क्षत्रियः कृतः उत्पन्नः वैश्यः इति यत् तत् ऊरू ऊरुभ्यां जातम् यद् वैश्यः यो वैश्यः तत् । सः ऊरुभ्यां जात इति वा पद्भ्यां पादाभ्यां शूद्रः अजायतेत्यर्थः । 'पद्भ्या' मित्युक्तिबलात् सर्वत्र उक्तदिशा पंचमी ध्येया यस्माद् यज्जायते चांगाल्लोकवेदादिकं हरे: तन्नामवाच्यमंगं तद् यथा ब्रह्मादिकं मुखम् इति नारदीयोक्त (वचनरीत्या) दिशा (ब्र. सू. १।२।२६) अभेदोक्तिस्समाधिर्थ्येयः ।। १३ ।।

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत 

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥

चंद्रमा इति प्राग् जातिसृष्टि रुक्ता, त्र तु देवसृस्टिरुच्यते मनसः इति पंचमी अस्येति पुरुषवाचिपदमाकृष्यते तदा ( तच्च) अस्य मनसोऽस्य (चक्षोः) चक्षुषो अस्य मुखात् इत्यादिरूपेणान्वेति । प्राक्, ब्राह्मणो मुखादित्युक्तम्, नैतावदेव; किंतु इंद्रश्चाग्निश्च इति प्रत्येकमन्वयः । वायुः मुख्यवायुः प्रवहो वा ।। १४ ।।

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः 

देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥

नाभ्या आसीदिति देवसृष्टिरुक्ता पूर्वत्र, अत्र तु लोकसृष्टिरुच्यते । नाभ्या इति पंचमी । अत्र अंतरिक्षादिपदैः साभिमानिलोकसंग्रहः समवर्तत । अजायतेत्यर्थः पद्भ्यां भूमिः समवर्तत, श्रोत्रात् दिशः समवर्तत इत्यर्थः तथा इति समुच्चये भूम्यंतरिक्षद्युलोकेभ्योऽन्यानपि लोकान् अकल्पयत् कृतवान् । अस्य इत्यनु (वृत्तं) षक्तं पदं प्रथमांततया विपरिम्यात्र कर्तृत्वेनान्वेति अयं पुरुषो लोकानकल्पयदिति यद्वा यथा स्वाव देवानसृजत्, तथा लोकानपि कथमित्यतस्तद्विवरणं नाभ्या इत्यादि । अत्र शब्देन स्वर्गाद्युपरितना महदादयोपि ग्राह्याः भूमिपदेन तदधस्तना अपि लोका ग्राह्याः ।। १५ ।।

('सप्तास्यासन्नि' ति पंचमी ऋक् "ग्रीष्मइध्म ? शरद्धवि ?” । इत्यनंतरमेव संगतत्वात् तत्रैव व्याख्याता अत्रैव व्याख्येयत्वपक्षे तु सिंहावलोकनन्यायेन प्रागुक्तयज्ञ साधनावशिष्टसाधनान्याहेति गमनिका ज्ञेया)

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् 

ते  नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥

अत्र सूक्ते यजुश्शाख्यायांतथा लोकानकल्पय (दि) न्निति मंत्रानंतरं मंत्रद्वयं पठ्यते वेदाहमेतं । धाता पुरस्तादिति भाष्यकारैस्तत्रतत्रोदाहृतत्वात् तदर्थ उच्यते यः धीरः धीमान् बुद्धिपूर्वमितियावत् सर्वाणि रूपाणि । वाच्यार्थ भूतानि वस्तूनि विचित्य निर्माय, नामानि कृत्वा अभिवदन् । तानि व्यवहरन्, आस्ते, नामरूपात्मकप्रपंचं कृत्वाय आस्ते, एतं महांतं । देश कालगुणापरिच्छिन्नं, तमसः । प्रकृतेः, पारे दूरे स्थितं प्रकृति बंधहीनं, आदित्यवर्णं । प्रकाशमानं, पुरुषमहं वेद जानामीति मंत्रदृष्टृ वचनम् ।। १६ ।।

धाता । चतुर्मुखः, पुरस्तात् । पूर्वं, यं पुरुषं प्रागुक्तमहिमवंतं, उदाजहार सर्वदिक्षु प्रख्यापितवानित्यर्थ: तं पुरुषं, एवं सहस्रशीर्षत्वादिमहिमावत्प्रकारेण, इह लोके, विद्वान् । जानन्, अमृतो मुक्तो भवति अन्यः पंथाः । ज्ञानदन्यो मार्गः, उपाय:, अयनाय मोक्षाय, न विद्यते नास्ति तदाह सूत्रकारः । ओं विद्यैव तु निर्धारणात् ओं इति (ब्र. सू. ३।३।४८ ) ।। १७ ।।

यज्ञनेति । यज्ञ करणेन देवा: पुरुषार्थभाजो जाता इत्युच्यते । (देवाः) देवत्व योग्यमनुष्या ज्ञानकर्मात्मकेन यज्ञेन, यज्ञं भगवंतं पुरुषं, अयजंत ततः तेन ज्ञानपूर्वककर्मणा, तानि । दैवतानि स्वस्वपदं प्राप्य प्रथमानि ( मुख्यानि ) उत्तमानि धर्माणि । धारकाणि (धृधारण) 'डुधायि धारण' इत्यत औणादिको मनिन्प्रत्ययः ते देवत्वयोग्या मनुष्याः ज्ञानपूर्वकभगवदाराधनरूपयज्ञेन देवत्वं प्राप्य स्वस्वपदस्था: संतः तपन वर्षणादिन मुख्यतो (लोकनियामका) धारकत्वाद्धर्मनामका आसन्नित्यर्थः ते पुनर्महिमानो । महात्मानो देवा: स्वस्व (पदाधिकारावसाने) पदावसाने नाकं अकं सुख विरोधि दुःखं, तन्नेति नाकं; नञोन लोपाभाव:, न समा सो वा; पूर्णसुखात्मकं मोक्षं, सचंते 'षच समवाये' व्यत्ययेन लङर्थे लट्, प्राप्नुवन्, हेति हर्षे प्रसिद्धौ वा यत्र (मोक्षे) पूर्वे पूर्वस्मिन् कल्पे (मुक्ता:) यद्वा पूर्वे इति प्रथमा, पुरातना (पूर्वतनाः) पूर्वकल्पमुक्ता इतियावत् साध्याः साध्यादिदेवा: संति, तन्नाकमित्यन्वयः ।। १८ ।।

अन्तिम मंगळश्लोकः

श्रीमत्पुरुषसूक्तस्य व्याख्यानं शिष्यचोदनात् ।

राघवेंद्रेणयतिना निर्मितं हरितुष्टये ॥