नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः
श्री आनन्दतीर्थभगवत्पादाचार्यविरचितम्
उपाधिखण्डनम्(मूल)
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
अशेषदोषरहितः प्रीयतां कमलालयः ।। १ ।।
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।
उपाधिभेदाद् घटत इति चेत् स स्वभावतः ।
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् ।। २ ।।
अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ।
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः ।। ३ ।।
विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ।
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः ।
ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ।। ४ ।।
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।
एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ।। ५ ।।
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ।
दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ।। ६ ।।
नानादेहगभोगानुसन्धानं योगिनो यथा ।
न चेद् भोगानुसन्धानं तदिच्छा योगिनः कुतः ।। ७ ।।
अनुसन्धानरहितदेहबाहुल्यमन्यथा ।
सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ।। ८ ।।
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ।
तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ।। ९ ।।
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ।
प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ।। १० ।।
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ।
अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ।। ११ ।।
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ।
सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ।। १२ ।।
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ।
‘‘सत्यः सो अस्य महिमे’’त्यादिवाक्यान्मृषा न च ।। १३ ।।
न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न ।
अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ।। १४ ।।
अतो नाज्ञातमिति च विषयो विषयान्तरे ।
अज्ञाभावात् फलं कस्य योगः शशनृशृृङ्गयोः ।। १५ ।।
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः ।
अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ।। १६ ।।
अतः ‘‘परो मात्रये’’ति पूर्वश्रुतिनिदर्शितः ।
‘‘अन्यमीशमि’’ति श्रुत्या भिन्नजीवदृशं गतः ।
भिन्नत्वेनात्मसादृश्यदो ‘‘यदे’’ति श्रुतेः सदा ।। १७ ।।
मायावादतमोव्याप्तमिति तत्वदृशा जगत् ।
भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ।। १८ ।।
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।
इन्दिरापतये नित्यानन्दभोजनदायिने ।। १९ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं उपाधिखण्डनं संपूर्णम् ।।