विमतं मिथ्या, दृश्यत्वात्..

अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

प्रपञ्चमिथ्यात्वानुमानखण्डनम्

ग्रन्थारम्भः

श्रीमज्जयतीर्थभिक्षुविरचिता

टीका

मङ्गलाचरणम्

नत्वा विश्वोदयस्थेमलयहेतुं पतिं श्रियः ।

कुर्मः प्रपञ्चमिथ्यात्वमानखण्डनपञ्चिकाम् ।।

अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थयतिविरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनटीकाटिप्पणी

मन्दारमञ्जरी

कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् ।

व्याकुर्वे विश्वमिथ्यात्वमानखण्डनपञ्चिकाम् ।। १ ।।

स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया ।

ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ।। २ ।।

प्रपञ्चमिथ्यात्वानुमानखण्डनं व्याचिख्यासुर्जयतीर्थाचार्यवर्यः ग्रन्थादौ मङ्गलमाचरंश्चिकीर्षितं निर्दिशति ।। नत्वेति ।। यद्यपि सृष्टिसंहार-प्रवाहस्यानादित्वेन दर्शपौर्णमासीतिथ्योरिव नैकस्यादित्वं सम्भवति तथापि उत्पन्नस्य नाशवन्नष्टस्य नोत्पत्तिरित्येकव्यक्त्यपेक्षयोदयादेः प्राथम्यादीति सृष्टिस्थितिलयानां क्रमनिर्देश उपपन्नः ।

श्रीनिवासतीर्थीयटिप्पणी

श्री वेणुपल्ली श्रीनिवासतीर्थविरचिता

प्रपञ्चमिथ्यात्वानुमानखण्डनटीकायाः टिप्पणी

श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।

श्रीव्यासं श्रीमदानन्दतीर्थसंसेवितं भजे ।। १ ।।

प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।

व्याख्यास्ये विश्वमिथ्यात्वमानखण्डनपञ्चिकाम् ।। २ ।।

सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणाः प्रपञ्चमिथ्यात्वानुमान-खण्डनाख्यं प्रकरणं व्याख्यातुकामा ग्रन्थादौ मङ्गलाचरणपूर्वकं चिकीर्षितं प्रतिजानते ।। नत्वेति । यद्यप्यत्राल्पाच्तरं पूर्वमिति स्थेमशब्दस्य प्रथम-प्रयोग उचितः । तथापि लब्धजन्मनो हि स्थित्यादीत्यत उदयस्याभ्यर्हि-तत्वादादौ निर्देशः कृतः । अभ्यर्हितं पूर्वमिति वचनात् । अल्पाच्तरं पूर्वमितिन्यायस्तु ‘समुद्राभ्राद्धः’ ‘आन्महतःसमानाधिकरणजातीययोः’ इत्यादौ व्यभिचरितत्वादयुक्त इति ज्ञातव्यम् । यद्यपि स्थिरशब्दप्रकृतिक-स्थेमशब्दो दार्ढ्ये रूढः । तथापि स्थाधातुनिष्पन्नत्वाद्योगेन स्थिति-वाच्यपि भवतीत्यभिप्रेत्य स्थेमेत्युक्तम् । अत एव निखिलभुवनजन्म-स्थेमभङ्गादिलील इति प्राचां प्रयोगः । व्याख्यातं च तट्टीकायां स्थेम स्थितिरिति ।

पाण्डुरङ्गी केशवाचार्यविरचितम् प्रपञ्चमिथ्यात्वानुमानखण्डन

विषमपदवाक्यार्थविवरणम्

श्रीगुरुराजीयटिप्पणी

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते यस्मात् ।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ।।

आद्यश्लोके स्थेमशब्दः स्थितिपरः । नन्वजिरशिशिरशिथिलेत्याद्युणादि-सूत्रेण स्थाधातोः किरच्प्रत्यये ‘आतो लोप इटि च’ इति धात्वाकरलोपे च निष्पन्नस्य दृढार्थस्य स्थिरशब्दस्य दृढार्थत्वेन वर्णदृढादिभ्य इति तस्मादिमनिच्प्रत्यये स्थिरेत्यादिना स्थादेशे निष्पन्नस्य स्थेमशब्दस्य दार्ढ्यार्थतया प्रसिद्धत्वात् कथं स्थित्यर्थत्वमिति चेत्

अत्र स्वामिनः  स्थेमशब्दस्य दार्ढ्ये प्रसिद्धावपि स्थितावपि अखिल-भुवनजन्मस्थेमभङ्गादिलीला इति रामानुजीयभाष्यनान्दीश्लोके स्थित्यर्थत्वेन तद्व्याख्यानरूपश्रुततत्त्वप्रकाशिकायामन्यत्रापि चाभियुक्तप्रयोगाणां बहुल-मुपलम्भात् तिष्ठतीति स्थिरमिति व्युत्पत्तेः स्थितिमत्परत्वेऽप्युपपत्तेश्च स्थेमशब्दस्य स्थितावत्र प्रयोग इति ।

श्रीसत्यनाथतीर्थविरचितः प्रपञ्च

मिथ्यात्वानुमानखण्डनपरशुः

रामचन्द्रमहं वन्दे श्रीमध्वकरपूजितम् ।

दोषापेतं गुणैः पूर्णं टीकाविज्ञानसिद्धये ।। १ ।।

भार्गवं शरणं यामि शरणागतवत्सलम् ।

मिथ्यात्वखण्डनं कर्तुं रामं परशुलब्धये ।। २ ।।

जयतीर्थमुनिं नत्वा गुरुं सत्यनिधिं तथा ।

व्यक्तीकरिष्ये मिथ्यात्वमानखण्डनपञ्चिकाम् ।। ३ ।।

स्वयं मङ्गलमनुष्ठाय शिष्यशिक्षार्थं ग्रन्थादौ निबध्नन् चिकीर्षितं प्रतिजानीते ।। नत्वेति ।।

शास्त्रैकदेशसम्बन्धेनास्य ग्रन्थस्य प्रकरणत्वोपपादनम्

टीका

जन्माद्यस्य यतः’ इति भगवता सूत्रकारेण जगदुदयादि-निमित्तकारणत्वं परस्य ब्रह्मणो लक्षणमभिहितम् । न च जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवति । सापि न परोदीरित-प्रपञ्चमिथ्यात्वप्रमाणस्य आभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभते भगवानाचार्यः ।

ननु कथं स्वपक्षसाधनेन विना निर्णयः? सत्यं, तथापि शास्त्रैक देशसम्बन्धित्वात्प्रकरणस्य न दोषः । विज्ञास्यते च कालातीतता व्युत्पादनेन स्वपक्षसाधनप्रकारोऽपीति ।

मन्दारमञ्जरी

व्याख्येयस्यास्य ग्रन्थस्य प्रकरणतासिद्धये शास्त्रैकदेशसम्बन्धित्वं दर्शयति । जन्माद्यस्य यत इत्यादिना ।। निमित्तकारणत्वमिति ।। उपादानकारणत्वे च ब्रह्मणो निर्विकारत्वानुपपत्तिः । विवर्ताधिष्ठानत्वे तु श्रुतौ ‘यतो वा इमानि भूतानि जायन्ते’ इति निर्देशः, सूत्रे जन्मादीति निर्देशश्चासङ्गतः स्यात् । न हि शुक्तिकातो रजतं जायत इति व्यपदेशोऽ-स्तीति भावः । न च तद्वास्तवं सम्भवतीति ।। जगत्कारणत्वस्यावास्तवत्वे तत्प्रतिपादकश्रुतिसूत्राप्रामाण्यप्रसङ्ग इति भावः ।

तथापीति ।। तथापि शास्त्र इवात्र स्वपक्षसाधनाभावेन निर्णयासम्भवेऽपि परपक्षदूषणेन जगत्सत्यत्वस्याश्रद्धेयतानिरासमात्रं भविष्यतीत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

नन्विदं प्रकरणं नारम्भणीयं विषयाद्यनुबन्धचतुष्टयशून्यत्वादित्या-शङ्क्यास्य प्रकरणत्वात्प्रकरणस्य शास्त्रैकदेशसम्बन्धित्वाच्छास्त्रे यद्विषयादिकं तदेवात्र विषयादिकं भविष्यतीत्यभिप्रेत्यास्य प्रकरणस्य शास्त्रसम्बन्धं दर्शयति ।। जन्माद्यस्य यत इत्यादिना । सूत्रोक्तजगज्जन्मादिकारणत्वं नाम जगदुपादानत्वम् । तच्च परिणामित्वेनेति भास्करः । आरोपाधिष्ठानत्वेनेति मायावादिनः । तन्निरासार्थमुक्तं निमित्तकारणत्वमिति । मायावच्छिन्नं शबलं व्यावर्तयितुमुक्तं परस्येति । एतत् लक्षणम् ।। तद्वास्तवमिति । तस्य ब्रह्मणो वास्तवं न च सम्भवतीत्यर्थः । न च जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवतीति पाठे तल्लक्षणमित्यर्थः । जगत्कारणत्वलक्षण-स्यावास्तवत्वे तत्प्रतिपादकश्रुतिसूत्रयोरप्रामाण्यप्रसङ्ग इति भावः ।। सापीति ।। जगत्सत्यतापीत्यर्थः । ननु स्वपक्षसाधनपरपक्षोपालम्भाभ्यामेव निर्णयो नान्यतरमात्रेण । अत्र च परोदीरितप्रपञ्चमिथ्यात्वप्रमाणस्या-भासताव्युत्पादनेन परपक्षोपालम्भ एव क्रियते । न तु सत्यत्वरूपस्वपक्ष-साधनम् । तत्प्रमाणस्यानुपन्यस्तत्वात् । अतो न्यूनतेत्याशङ्कते ।। नन्विति ।। शास्त्रैकदेशेति । ‘‘शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चित’’ इति वचनादित्यर्थः । तथा च स्वपक्षसाधनप्रकारः शास्त्र एव कृतो द्रष्टव्य इति भावः ।। कालातीतता-व्युत्पादनेनेति । प्रत्यक्षादिविरुद्धत्वाद्विश्वं सत्यमित्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्ट इति वाक्येन मिथ्यात्वानुमानस्य सत्यत्वग्राहिप्रत्यक्षादि-प्रमाणबाधव्युत्पादनं क्रियते । तेन सत्यत्वरूपस्वपक्षसाधनप्रकारो विज्ञास्यते । अतो न न्यूनतेति भावः ।

श्रीगुरुराजीयटिप्पणी

ननु विषयादिशून्यत्वेन प्रेक्षावद्भिरनुपादेयतया अस्य ग्रन्थस्य अव्याख्येयत्वात् नैतद्ग्रन्थव्याख्यानप्रतिज्ञा युक्तेत्याशङ्क्य प्रकरणत्वादस्य शास्त्रीयविषयादिनैव विषयादिमत्त्वसम्भवेन प्रेक्षावदुपादेयत्वात् व्याख्येय-त्वोपपत्तेः युक्तैव तद्व्याख्यानप्रतिज्ञेत्यभिप्रेत्य भवेदेतदेवं यद्यस्य प्रकरणता सिद्धा स्यात् सैव कुतः इत्यतः शास्त्रैकदेशसम्बन्धित्वात्तत्सिद्धिरित्या-शयवान् अस्य शास्त्रैकदेशसम्बन्धितां दर्शयितुं शास्त्रार्थं तावत् दर्शयति ।। जन्माद्यस्य यतः इत्यादिनेति ।। उपलक्षणं चैतत् । यतो वेत्यादिश्रुत्या चेत्यपि द्रष्टव्यम् । अस्त्वयं शास्त्रार्थस्तथापि कथमस्य तत्सम्बन्धित्व-मित्यतस्तद्दर्शयति ।। न चेत्यादिना ।। नन्विति ।। तथा च स्वपक्ष-साधनाभावो दोष इति भावः ।। न दोष इति ।। स्वपक्षसाधनाभाव इति शेषः । अन्यथाऽस्यापि शास्त्रत्वप्रसक्त्या प्रकरणत्वभङ्गापत्तेरिति भावः । अङ्गीकृत्य चेदमुक्तम् । वस्तुतस्तु स्वपक्षसाधनाभाव एवासिद्ध इत्याह ।। विज्ञास्यते चेति ।।

मिथ्यात्वानुमानखण्डनपरशुः

प्रकरणारम्भप्रयोजनमाह ।। जन्माद्यस्येति ।। न च जगत्सत्यता-मन्तरेणेति ।। जगतः पारमार्थिकसत्यतामन्तरेण जगत्कारणत्वं पारमार्थिकसत्यं न भवतीत्यर्थः । ननु जगतः व्यावहारिकसत्यत्वेऽपि जगत्कारणत्वं पारमार्थिकसत्यमिति वक्तुं शक्यते । अन्यथा स्वाप्नगज-तुरगादेः वासनामयत्वेन तत्कारणत्वस्य वासनामयत्वं स्यात् । न हि कार्यस्य वासनामयत्वं कारणस्य वासनामयत्वं न प्रयोजयति । प्रयोजयति च कार्यस्य व्यावहारिकत्वं कारणत्वस्य व्यावहारिकत्वमिति राज्ञा-माज्ञाऽस्तीति चेदुच्यते । न ब्रूमो वयं कार्यस्य व्यावहारिकत्वात्कारणत्वस्य व्यावहारिकत्वं स्यादिति । येनोक्तदोषः स्यात् ।। किं नाम येनानुमानेन जगतो व्यावहारिकत्वसिद्धिः । तेनैवानुमानेन जगदन्तःपातितया पराभि-मतस्य जगत्कारणत्वस्य व्यावहारिकत्वं सेत्स्यतीति । तदिदमुक्तम् ।। जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवतीति ।। एकानुमानविषययोर्वैजात्यं न सम्भवतीति भावः ।।

ननु जगत्सत्यत्वमेव प्रतिपाद्यतां किं मिथ्यात्वखण्डनेनेत्यत आह ।। सापीति ।। उपपद्यते । उपपत्तिसिद्धा युक्तिः भवतीत्यर्थः । स्वपक्षसाधना-भावेन न्यूनतामाशङ्कते । ननु कथमिति ।। शास्त्रैकदेशसम्बन्धत्वादिति ।। शास्त्रेण एकदेशवत्सम्बन्धवत्वादित्यर्थः ।। अस्मिन्प्रकरणे स्वपक्षसाधना-भावेऽपि स्वपक्षसाधनवता शास्त्रेण एकवाक्यत्वान्न न्यूनता । अन्यथा (परपक्षनिराकरणरूपशास्त्रैकदेशेऽपि स्वपक्ष) साधनाभावेन न्यूनता स्यादिति भावः ।। प्रकारान्तरेण न्यूनतां परिहरति ।। विज्ञास्यते चेति ।।

ग्रन्थारम्भे मङ्गलाचरणाभावप्रयुक्तन्यूनताशङ्कापरिहारः

टीका

ननु अविगीतशिष्टाचारपरम्परादिप्राप्तं प्रारिप्सितपरिसमाप्त्यादि प्रयोजनं किमपि मङ्गलाचरणं प्रकरणादौ कस्मादाचार्यो नानुष्ठित-वानिति चेत् कथमेतदवगतम् ? अनुपलम्भादिति चेन्न । तत्कालीनस्याधुनोपलब्धुमशक्यत्वात् । ग्रन्थे निवेशनाभावस्ताव-त्प्रत्यक्षसिद्ध इति चेत् । किमतः ? न हि ग्रन्थे निवेशनमेव तदनुष्ठानम् । नापि तद्व्याप्तम् । कायवाक्चित्तनिमित्तानामनेकेषां भावात् । ग्रन्थान्तरे निवेशनादिनैव शिष्या अवगमिष्यन्ति । अत एव न तदनुष्ठानसन्देहोऽपीति ।

मन्दारमञ्जरी

नापि तद्व्याप्तमिति ।। कर्मणि क्तः । ततश्च ‘व्याप्तेः कर्म व्याप्यम्’ इति टीकाकारैरन्यत्रोक्तत्वात् तत् अनुष्ठानं व्याप्तं व्याप्यं यस्य ग्रन्थनिवेशनस्य तत् तद्व्याप्तमिति बहुव्रीहिः । यद्वा तदिति व्यस्तं पदम् । तथा च तत् अनुष्ठानं ग्रन्थे निवेशनेन व्याप्तं न हीत्यर्थः । अथवा भावे क्तः । ‘तयोरेव कृत्यक्तखलर्थाः’ इति कर्मणीव भावेऽपि क्तविधानात् । ततो ‘भुक्ता ब्राह्मणाः’ ‘पीता गावः’ इत्यादाविव मत्वर्थीयोऽकारः । तथा च ग्रन्थे निवेशनं व्यापकत्वेन व्याप्तिनिरूपकतया अनुष्ठानेन व्याप्ति-मदित्यर्थः । यद्वा ‘चैत्रो ग्रामं प्राप्तः’ इत्युक्ते ‘ग्रामं गतः’ इत्यर्थप्रतीतेः आप्नोतेरपि गत्यर्थत्वात् ‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः’ इति सूत्रे कर्त्रर्थस्य प्राप्तशब्दस्य पाणिनिनापि प्रयुक्तत्वाच्च ‘गत्यर्थाकर्मकश्लिष-शीङ्स्थासवसजनरुहजीर्यतिभ्यश्च’ इत्यादिना सूत्रेण कर्तरि क्तः । तथा च ‘व्याप्तेः कर्तृ व्यापकमिति टीकाकारैरन्यत्रोक्तत्वाद्ग्रन्थे निवेशनं तस्या-नुष्ठानस्य व्यापकम्’ इत्यर्थः । एवं च पक्षचतुष्टयेऽप्ययं वाक्यार्थः । ग्रन्थे निवेशनमनुष्ठानव्यापकं चेत् अनिवेशनेनाननुष्ठानमनुमीयेत । तथात्वं तु नास्तीत्यर्थः ।

यद्वा ग्रन्थे निवेशनमेवानुष्ठानव्याप्यं चेदनुष्ठाने लिङ्गान्तराभावात् रूपोपलब्ध्येकलिङ्गस्य चक्षुषो रूपानुपलब्ध्या अभाव इव अनिवेशनेन अननुष्ठानमनुमीयेत तथात्वं तु नास्तीति । ग्रन्थकर्तुराचार्यस्य परमास्ति-कत्वादिलिङ्गान्तरस्यापि सत्त्वादिति वाक्यार्थः ।। अवगमिष्यन्तीति ।। ग्रन्थादौ मङ्गलाचरणस्य कर्तव्यतामिति शेषः । आचार्यकर्तृकारम्भस्य अन्यत्र मङ्गलाचरणेन भूयः साहचर्यदर्शनात् उपाधिव्यभिचारयोरदर्शना-दत्रापि तदनुष्ठानं निश्चीयत इत्याह ।। अत एवेति ।।

श्रीनिवासतीर्थीयटिप्पणी

मङ्गलाचरणस्यानुष्ठेयत्वे फलप्रमाणयोरभावात् आचार्यः प्रकरणादौ तन्नानुष्ठितवानित्यत उक्तम् । अविगीतेत्यादि । अविगीतः अविरुद्धः सर्व-संप्रतिपन्न इत्यर्थः । परिसमाप्त्यादीत्यादिपदेन प्रचयग्रहणम् । एतत् मङ्गलाननुष्ठानम् ।। अनुपलम्भादिति । मङ्गलमेतद्ग्रन्थारम्भसमय-निष्ठाभावप्रतियोगि तदाऽनुपलभ्यमानत्वात् । यद्यदा नोपलभ्यते तत्तदा नास्ति । यथा शशविषाणमिति प्रयोगमनेन सूचयति ।। तत्कालीनस्येति । अनुपलम्भमात्रस्याभावसाधकत्वे परमाण्वादौ व्यभिचारापत्त्या योग्यत्वे सत्यनुपलभ्यमानत्वस्य हेतूकर्तव्यत्वेन तत्कालीनस्य मङ्गलस्येदानी-मुपलब्धियोग्यत्वाभावेन विशेषणासिद्धिरिति भावः । अशक्यत्वात् अयोग्य-त्वात् । नन्वथाप्येवमनुमीयते । मङ्गलमेतद्ग्रन्थारम्भसमयनिष्ठाभावप्रतियोगि ग्रन्थेऽनिवेशितत्वात् इति । न च स्वरूपासिद्धिः तस्य प्रत्यक्षसिद्धत्वा-दित्याशङ्कते ।। ग्रन्थ इति । अप्रयोजकत्वाभिप्रायेणाह ।। किमत इति । तदुपपादयति ।। न हीत्यादिना । ग्रन्थे निवेशनस्यैव मङ्गलानुष्ठान-त्वेऽभेदेऽपि व्याप्यव्यापकभावमङ्गीकृत्य तदभावेन तदभावानुमानं युक्तं स्यान्न ह्येवमिति भावः । ननु नैवमनुमीयते अपि तु यद्यत्र मङ्गलं आचार्यैरनुष्ठितं स्यात् तर्हि ग्रन्थे निवेशनीयं स्यान्न चैवं तस्मा-न्नानुष्ठितमित्येवमापाद्यत इति चेत्तत्राह ।। नापीति । स्यादेवमापादनं यदि तन्मङ्गलानुष्ठानरूपमापादकं तेन ग्रन्थे निवेशनरूपापाद्येन व्याप्तं स्यान्न चैवमित्यर्थः । कुत एतदित्यतो व्यभिचारादित्याह ।। कायेति । करशिर-स्संयोगः नमश्शब्दः त्वत्तोऽहमपकृष्टो मत्तस्त्वमुत्कृष्ट इत्येवंरूपाणां कायवाक्चित्तकृतानामनेकेषां मङ्गलानामित्यर्थः । यद्वोक्तानुमाने व्यतिरेक-व्याप्तिर्न सम्भवति व्यभिचारादित्याह ।। नापीति ।। इति योज्यम् । एवमयोजने सर्वथैतद्वाक्यमसङ्गतमेव स्यात् । तथाहि । तद्ग्रन्थे निवेशनम् अनुष्ठानेन व्याप्तमित्यर्थकरणे वक्ष्यमाणव्यभिचारकथनस्यासङ्गतत्वात् । मङ्गलानुष्ठानं ग्रन्थनिवेशनेन व्याप्तमित्यङ्गीकारेऽपि मङ्गलानुष्ठानस्य हेतु-तयाऽनुक्तत्वेन तस्य व्यभिचारकथनस्याश्लिष्टत्वादित्यवगन्तव्यम् । ननु ग्रन्थादौ मङ्गलाचरणस्य कर्तव्यतां शिष्यान्प्रति ज्ञापयितुमपि ग्रन्थे निवेशनं कार्यं तत्कुतो न कृतमिति चेत्तत्राह ।। ग्रन्थान्तरेति । आदिपदेन प्रत्यक्षग्रहणम् ।। अवगमिष्यन्तीति । ग्रन्थादौ मङ्गलाचरणस्यानुष्ठेयतामिति शेषः । तथा चात्र निवेशने न किं कृत्यमिति च शेषः । तथाच शिष्या द्विविधाः । असन्निहिताः सन्निहिताश्चेति । तत्राद्या ग्रन्थान्तरनिवेशनेन ग्रन्थादौ मङ्गलाचरणस्यानुष्ठेयतामवगमिष्यन्ति । द्वितीयास्तु प्रत्यक्षत एवेति भावः । नन्वत्र ग्रन्थे निवेशनाभावेन मङ्गलानुष्ठानसन्देह एव स्यान्न निश्चय इत्यत आह ।। अत एवेति । ग्रन्थान्तरे निवेशनादेवेत्यर्थः । यद्वा कायवाक् चित्तनिमित्तानामनेकेषां भावेन ग्रन्थे निवेशनस्याप्रयोजकत्वादेवेत्यर्थः ।।

श्रीगुरुराजीयटिप्पणी

ननु तथापीदं न व्याकर्तव्यं, अनुपादेयत्वात् । न हि विषयादि-सत्तामात्रेण उपादेयत्वम् । किं नाम स्वरूपलाभेनापि । न चास्य स्वरूपलाभोऽस्ति मङ्गलाचरणरहितत्वेन तत्साध्यनिरन्तरायपरिसमाप्त्य-सम्भवेन असमाप्तत्वादित्यभिप्रेत्य तदकर्तव्यत्वसाधकतया पराभिमतहेत्वोर-सिद्धिव्युत्पादनेन तत्कर्तव्यतामुपपादयन्नेव ग्रन्थादौ तदनुष्ठाने निमित्त-माक्षिपति ।। नन्विति ।। अत्र प्रकरणादौ मङ्गलं कस्मान्नानुष्ठितवानिति सम्बन्धः । प्रकरणादौ मङ्गलाननुष्ठाने न किमपि निमित्तमस्तीत्यर्थः । तद्धि भवत् अप्रामाणिकत्वं वा अफलत्वं वेति मनसि निधाय आद्यं दूषयति ।। अविगीतेति ।। अविगीतशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकमित्यर्थः । द्वितीयं दूषयति ।। प्रारिप्सितेति ।। आदिपदेन प्रचयपरिग्रहः । किम-पीति ।। नतिस्तुत्यादिरूपे नानाविधे मङ्गले यत्किञ्चिदपीत्यर्थः । कर्तव्यमेव प्रकरणादौ मङ्गलाचरणम् । कृतं च भगवता आचार्येण । ततश्च तत्साध्य-समाप्त्यादेरुपपत्तेः समाप्तस्यास्य ग्रन्थस्य लब्धस्वरूपतया उपादेयत्वात् व्याख्येयत्वोपपत्तिरित्यभिप्रेत्य ग्रन्थादौ मङ्गलाननुष्ठानं साधकप्रमाणाभावेन दूषयति ।। कथमेतदवगतमिति ।। एतद्ग्रन्थादौ आचार्येण मङ्गलं नानुष्ठित-मित्येतत् कथं केन प्रमाणेन अवगतं भवतीत्यर्थः । अनुष्ठानाभावावगमकं न किमपि प्रमाणमस्तीत्याशयः । अनुपलब्धेरेव तन्निश्चायकत्वात् कथं तदभाव इत्याशङ्कते ।। अनुपलब्धत्वादिति चेदिति ।। नानुपलम्भमात्रमभाव-निश्चायकम्, अतीन्द्रियोच्छेदापत्तेः । किन्तु योग्यानुपलम्भ एव । न चासाविहास्ति । तत्कथं तेनानुष्ठानाभावनिश्चय इत्यभिप्रेत्य तदनुष्ठानेऽप्य-योग्यतामुपपादयति ।। तत्कालीनस्येति ।। ग्रन्थे निवेशनाभावस्ताव-दिति ।। अत एव तदननुष्ठानसिद्धिसम्भवान्न तदसिद्धिरिति भावः । किमत्र निवेशनव्यतिरेकेणाननुष्ठानस्यैवाभावात् निवेशनाभावस्य प्रत्यक्षेणैव सिद्धत्वादनुष्ठानाभावस्य प्रत्यक्षेणैव सिद्धिरित्यभिमतम् । किं वा निवेशना- भावस्य तद्व्यापकत्वात् व्यापकाभावे च व्याप्याभावस्य नियमात् प्रत्यक्षसिद्धेन

निवेशनाभावेन तदनुमानसम्भवादनुमानतः तत्सिद्धिरित्यभिमतम् । किं वा निवेशनस्यानुष्ठानव्याप्तत्वात् तदेकप्रमाणकस्यानुष्ठानस्य तदभावनिश्चयेन व्यतिरेकसिद्धिरिति विकल्पान् मनसि निधायाद्यं पक्षं प्रतिक्षिपति ।। न हीति ।। द्वितीयं दूषयति ।। नापीति ।। प्रतिज्ञाद्वयेऽपि हेतुमाह ।। कायेत्यादिना ।। ततश्च निवेशनमेव तदनुष्ठानमित्यस्यासिद्धेर्नानुष्ठानाभावस्य प्रत्यक्षेण सिद्धिः । अनिवेशितस्यापि मानसादेर्मङ्गलत्वेन निवेशन-स्यानुष्ठानव्यापकत्वासिद्धेर्न निवेशनाभावेनानुष्ठानाभावानुमानमपीत्याशयः । नन्वेवमपि निवेशनस्यापि नमस्कारादेर्मङ्गलत्वान्निवेशनमनुष्ठानव्याप्यं स्यादेव । ततश्च ग्रन्थे निवेशनस्यानुष्ठानव्याप्यत्वात्तत्कालीने आचार्यीय-मङ्गलानुष्ठानेऽपि तदेव प्रमाणं वाच्यम् । व्याप्यान्तरादर्शनेनानुष्ठानस्य निवेशनैकप्रमाणकत्वात् । तथा च रूपाद्युपलब्ध्येकप्रमाणकस्य चक्षुरादे रूपादेरुपलब्ध्यभावे व्यतिरेकनिश्चयो यथा एवं निवेशनैकप्रमाणकस्य व्यतिरेकनिर्णयः स्यादिति तृतीयपक्षमपि निषेधति ।। नापीति ।। अयं भावः  स्यादेव रूपाद्यनुलब्ध्या चक्षुरादेरभावनिश्चयः । मानान्तरविरहेण तस्य रूपाद्युपलब्ध्यैकप्रमाणकत्वात् । न चैवमनुष्ठानस्य निवेशनैक-प्रमाणकत्वमस्ति । ग्रन्थकर्तुराचार्यस्य परमास्तिकत्वादिरूपलिङ्गान्तरेणापि तन्निश्चयसम्भवात् । ततश्चानुष्ठानस्य निवेशनैकप्रमाणकत्वाभावान्न तद्व्यतिरेकनिर्णय इति ।

नापि तद्व्याप्तमित्येतद्वाक्यं चिरन्तनटीकायां स्पष्टम् । तत एवावगन्तव्यम् ।

ननु शिष्यशिक्षणार्थत्वात् निवेशनमपि मङ्गलस्यावश्यकम् । अन्यथा शिष्यकर्तृकग्रन्थारम्भे तेषां मङ्गलकर्तव्यताबुद्धिर्न सिध्येदित्यतो ग्रन्थान्तर-निवेशनादिनैव शिष्याणां स्वयं मङ्गलकर्तव्यताबुद्धेः सम्भवेन प्रयोजन-स्यान्यथासिद्धत्वान्न निवेशनस्यावश्यकतेत्याशयेनाह ।। ग्रन्थान्तर-निवेशनादिनैवेति ।। आदिपदेनाचार्यीयमङ्गलानुष्ठानदर्शनपरिग्रहः । अयं भावः सन्निहितासन्निहितभेदेन शिष्या द्विविधाः । तत्र सन्निहितानां ग्रन्थारम्भकालीनाचार्यकर्तृकमङ्गलानुष्ठानदर्शनात् असन्निहितानां च ग्रन्थान्तरनिवेशनेन तदनुमानात् स्वकर्तृकग्रन्थारम्भकालीनमङ्गलकर्तव्यता-बुद्धेरुपपन्नत्वान्नानिवेशनं दोषः इति । ननु तथापि ग्रन्थारम्भे स्वयं मङ्गलं कर्तव्यमेवेत्यवधारणमसन्निहितशिष्याणां न सिद्ध्येत् । तद्धि सार्वत्रिक-निवेशने सत्येव सम्भवति । तथा सत्याचार्यकर्तृकग्रन्थारम्भेषु तेन मङ्गला-स्यानुष्ठितत्वनिश्चयेन क्वाचित्कस्यापि तदनुष्ठानस्यालाभेन शिष्याणां स्वयम-कर्तव्यत्वकोटिप्रापकाभावात् । क्वाचित्के तदनिवेशने सति तु तत्रैव ग्रन्थे तन्निश्चायकप्रमाणाभावेनाचार्यीयमङ्गलानुष्ठाननिश्चयासम्भवेन तस्याननु-ष्ठितत्वप्राप्त्या तत एव शिष्यान्प्रति स्वयमकर्तव्यत्वकोटिप्राप्तिसम्भवात् तेषां स्वकर्तृकग्रन्थारम्भे स्वयं मङ्गलं कर्तव्यं न वेति सन्देहस्यैव प्रसङ्गादित्यतो भवेदेतदेवं यद्यनुष्ठानस्य निवेशनैकप्रमाणकत्वं स्यात् । न चैतदस्ति परमास्तिकत्वादिरूपलिङ्गान्तरस्यापि निश्चायकत्वात् । ततश्च निवेशनस्थले तेनैव अनिवेशनस्थले लिङ्गान्तरेणाचार्यीयमङ्गलानुष्ठाननिश्चयेनाचार्य-कर्तृकग्रन्थारम्भकालीनस्य मङ्गलस्य कृतत्वप्राप्त्या कोटिद्वयप्रापकाभावेन शिष्याणां स्वयं मङ्गलमनुष्ठेयं न वेत्येवंरूपानुष्ठानसन्देहासम्भवात् युज्यत एव मङ्गलं कर्तव्यमेवेत्यवधारणमिति न तदनिवेशनं दोष इत्याशयवानाह ।। अत एवेति ।। अनुष्ठानस्य निवेशनैकप्रमाणकत्वाभावं बुद्धिनिष्ठमत एवेति परामृशति । तच्च परमास्तिकत्वादनुमीयत इत्यन्यत्रोक्त्या च तस्य बुद्धि-स्थितत्वसिद्धिरित्यवधेयम् । इतिशब्दः प्रकरणस्यारम्भणीयत्वव्याख्येयत्व-योरुपपादनसमाप्त्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

कथमेतदवगतमिति ।। अनुष्ठेयतया शिष्टाचारपरम्पराप्राप्तस्य सप्रयोजनस्य अननुष्ठानं कथं निश्चितमिति भावः ।। परिहारमाशङ्कते ।। अनुपलम्भादिति ।। प्रतियोग्यनुपलम्भस्याभावनिश्चायकत्वात् ।। अनुष्ठाना-भावो निश्चीयते इति भावः ।। तत्कालीनस्येति ।। नानुपलम्भमात्रं भवति निश्चायकं किन्तु योग्यस्य प्रतियोगिनोऽनुपलम्भः अभावनिश्चायकः । न चेदानीं तत्कालावच्छिन्नप्रतियोगिनः योग्यताऽस्ति । येन तदनुपलम्भे-नानुष्ठानाभावनिश्चयः स्यादिति भावः ।। ग्रन्थे निवेशनाभाव इति ।। मङ्गलरूपप्रतियोगिनः योग्यत्वात् तदभावनिश्चयो न सम्भवतीत्युक्तम् ।। समयान्तरानुष्ठेयस्य मङ्गलान्तरस्यायोग्यत्वेऽपि शिष्टाचारपरंपराप्राप्तस्य ग्रन्थादाववश्यमनुष्ठेयस्य निवेशनरूपमङ्गलस्य योग्यत्वादनुपलब्ध्या तदभाव-निश्चयः सम्भवतीति भावः ।। न हि ग्रन्थे निवेशनमेवेति ।। न हि ग्रन्थे निवेशनमेकमेव ग्रन्थारम्भसमयेऽनुष्ठेयं मङ्गलं नान्यदित्यत्र किञ्चिन्नियामक-मस्ति । येन निवेशनानुपलब्ध्या आचार्येण मङ्गलं नानुष्ठितमिति निश्चयः स्यादिति भावः । तर्हि ग्रन्थे निवेशनस्य मङ्गलानुष्ठानव्यापकत्वात् व्यापकीभूतग्रन्थनिवेशनस्य निवृत्त्या व्याप्यस्य मङ्गलानुष्ठानस्यापि निवृत्ति-रस्त्वित्यत आह ।। नापि तद्व्याप्तमिति ।। तदिति भिन्नपदम् । तत् मङ्गलानुष्ठानं निवेशनेन व्याप्तमित्यर्थः । कुतो न निवेशनं व्यापकमित्यत आह ।। कायवागिति ।। निवेशनविधुराणां कायवाक्चित्तनिमित्ता-नामनेकेषां मङ्गलानां शिष्टैरनुष्ठीयमानानां भावेन व्यभिचारात् न व्यापकत्वमिति भावः ।

नन्वाचार्येणावश्यमनुष्ठितमङ्गलस्य निवेशनं कार्यं शिष्यशिक्षारूप-प्रयोजनसद्भावादित्याशङ्कानिरासाय प्रयोजनमन्यथासिद्धमित्याह ।। ग्रन्थान्तरेति ।। आदिपदेन शिष्टाचारः ग्रन्थान्ते निवेशश्च ग्राह्यः । ननु न मयाऽचार्यैर्मङ्गलं नानुष्ठितमिति निश्चीयते । अपि तु सन्दिह्यत इत्यत आह ।। अत एवेति ।। ग्रन्थान्तरे ग्रन्थान्ते च निवेशनेनैव मङ्गल-स्यावश्यकत्वबोधनादेवेत्यर्थः ।। न हि परस्य मङ्गलमावश्यकमिति बोधयन् परमास्तिकः स्वयं मङ्गलं नानुष्ठातीति सम्भवतीति भावः ।

मायावाद्युक्तप्रपञ्चमिथ्यात्वानुमानानुवादः

टीका

तत्र तावन्मायावादिनोदितं प्रपञ्चमिथ्यात्वानुमानमनुवदति ।

मिथ्यात्वानुमानखण्डनम्

विमतं मिथ्या दृश्यत्वात् यदित्थं तत्तथा यथा सम्प्रतिपन्नम् ।

टीका

सर्वं मिथ्या’ इत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यादिति विमतमित्युक्तम् । विमतेरनेकविधत्वेऽपि साध्यविशेषोपादानात्तद्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां वादिप्रतिवादिविमतिविषयो वियदादीत्युक्तं भवति । तर्हि वियदा-दीत्येव वक्तव्यम् । न चैवं शङ्क्यम् अवच्छेदकानुक्तावुक्तदोषा-निस्तारात् ।

मिथ्यात्वानुमाने व्यतिरेकव्याप्तिप्रदर्शनाभावे कारणकथनम्

यद्यपि दृश्यत्वहेतुरन्वयव्यतिरेकी । तथाप्यकुटिलेऽन्वये सम्भवति न कुटिलो व्यतिरेक आदरणीय इति सूचयितुं यदित्थं तत्तथेत्यन्वय एव दर्शितः ।

मिथ्यात्वानुमाने यत्तत्पदयोरावृत्त्यभावेऽपि विवक्षितार्थसिद्धिः

यत्तदिति साधारणप्रयोगादेव सर्वोपसंहारसिद्धेर्द्विर्वचनाभावो न दोषाय । ‘गौर्न पदा स्प्रष्टव्या’ इतिवत् ।

मिथ्यात्वानुमाने सम्प्रतिपन्नपदकृत्यम्

सम्प्रतिपन्नं दृश्यत्वमिथ्यात्ववत्तयेति शेषः । सम्प्रतिपन्नग्रहणेन साध्यविकलत्वादिदृष्टान्तदोषनिरासोऽपि कृतः स्यादिति शुक्ति-रजतमित्येव नोक्तम् ।

प्रपञ्चमिथ्यात्वानुमाने पञ्चावयवाननुवादकारणम्

यद्यपि परेण स्वग्रन्थे पञ्चावयवप्रयोगोऽस्य विहित इति तथैवानु वादो युक्तः । तथाप्युपनयनिगमनयोरसाधनाङ्गत्वादनुवादार्हतापि नास्तीति सूचयितुं त्र्यवयवानुवादः । तच्चान्यत्रोपपादितम् । एवं चानुवदतैव अधिकं नाम निग्रहस्थानमपि सूचितं भवति ।

मन्दारमञ्जरी

अवच्छेदकानुक्ताविति ।। अयमर्थः, वियदादीत्यत्र आदिशब्दः किमसङ्कुचितवृत्तिः ? किं वा सङ्कुचितवृत्तिः? आद्ये ब्रह्मशुक्तिरूप्ययोरपि पक्षतया बाधसिद्धसाधनते । द्वितीये विवक्षितव्यक्तिविशेषाणामनन्तत्वेन तत्तन्नाम्ना जन्मसहस्रेणापि निर्देष्टुमशक्यत्वात् इयानेव आदिशब्दार्थ इति किञ्चिदवच्छेदकं वाच्यम् । तच्च विमतिविषयत्वातिरिक्तं नास्ति । यद्यपि असद्विलक्षणत्वे सति प्रातिभासिकातिरिक्तत्वे सति ब्रह्मव्यतिरिक्तत्वं पक्षता वच्छेदकमस्ति । तथापि प्रतीतिगौरवान्न तदवच्छेदकम् । लाघवाद्विमति-विषयत्वमेवावच्छेदकमिति ।। गौरिति ।। यथा ‘या या गौः सा सा न पदा स्प्रष्टव्या’ इति वीप्साया अभावेऽपि सर्वगवां पदा अस्प्रष्टव्यतासिद्धि-स्तद्वदित्यर्थः ।। तथापीति ।। यद्यपि दूष्यैकदेशानुवादे अननुभाषणप्रसङ्गात् सर्वानुवादः प्राप्तः । तथापि भट्टमतानुसारिणा परेणाप्युपनयनिगमनयोर-साधनाङ्गताङ्गीकारात्पञ्चावयवप्रयोगे परस्याधिकं नाम निग्रहस्थानं सूचयितुं त्र्यवयवानुवादः कृत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

तत्रेति । अस्य प्रकरणस्याऽरम्भणीयत्वे सिद्धे सतीत्यर्थः । यद्वा परोदीरितप्रपञ्चमिथ्यात्वानुमानस्याभासत्वे व्युत्पादनीये सतीत्यर्थः ।। तावदिति । आभासत्वं पश्चाद्वदिष्यतीति भावः ।। प्रमाणबाध इति । तस्य सत्यत्वेन तत्र मिथ्यात्वाभावस्यैव प्रमितत्वादिति भावः ।। सिद्धार्थता चेति । तत्र मिथ्यात्वस्य सिद्धत्वादिति भावः ।। अनेकविधत्वेऽपीति । नित्यत्वानित्यत्वादिनेत्यर्थः । साध्यविशेषो मिथ्यात्वम् । तद्विशेषो विमति-विशेषः । तमेव विवृणोति ।। तथा चेति ।। वियदादीति । आदिकार्यत्वा-द्वियद्ग्रहणम् । आत्मन आकाशस्संभूत इति श्रुतेः ।। तर्हीति । यदि सर्वं मिथ्येत्युक्ते प्रमाणबाधादिस्तर्हि तथाऽनुक्त्वा वियदादीत्येवोच्यताम् । तथात्वे प्रमाणबाधाद्यभावात् । अतो विमतमिति कस्मादुक्तमिति भावः । अवच्छेदकानुक्ताविति । आदिपदग्राह्यतावच्छेदकानुक्तावित्यर्थः ।। उक्त-दोषेति । तथा चादिपदग्राह्यतावच्छेदकानुक्तावसंकुचितेनादिपदेन शुक्ति-रजतादेरपि ग्रहणापत्त्या बाधसिद्धसाधनतारूपोक्तदोषानिस्तारादित्यर्थः । एवं चोक्तदोषपरिहारायादिपदग्राह्यतावच्छेदके वाच्ये विमतिविषयत्वाति-रिक्तस्य तस्याभावात् तदेवावच्छेदकत्वेन वाच्यम् । तथा च तस्यैव पक्षतावच्छेदकत्वोपपत्तौ किं तद्ग्रहाधीनग्रहणेन वियदादीति वचनेनेत्याशयेन विमतमित्येवोक्तमिति भावः ।। यद्यपीति । परमते व्यतिरेकव्याप्तौ ब्रह्मणो दृष्टान्तस्य सत्वेन यन्न मिथ्या न तद्दृश्यमिति व्यतिरेकोऽपि प्रदर्शयितव्य इत्यर्थः । सम्भवति सति ।। कुटिल इति । अन्वयव्याप्त्यनुमापकतया प्रकृतसाध्यसिद्ध्यङ्गत्वाभावेन कुटिलत्वमन्यत्रोपपादितं द्रष्टव्यम् ।

ननु सर्वोपसंहारेण व्याप्तिग्रहणसिध्यर्थं यद्यदित्थं तत्तत्तथेति यत्तच्छब्दयो- र्द्विर्वचनरूपवीप्सा वक्तव्येति चेत्तत्राह ।। यत्तदिति ।। साधारणेति । सर्वसङ्ग्राहकेत्यर्थः । द्विर्वचनरूपवीप्साया अभावेऽपि सर्वसङ्ग्रहसिद्धिरित्यत्रो दाहरणमाह ।। गौर्न पदेति । या गौः सा न पदा स्प्रष्टव्येति द्विर्वचनाभावेऽपि यथा सर्वगवां पदाऽस्प्रष्टव्यत्वसिद्धिः तद्वदित्यर्थः ।

ननु यथा शुक्तिरजतमित्यनुक्त्वा सम्प्रतिपन्नमिति कस्मादुक्तमित्यत आह ।। सम्प्रतिपन्नग्रहणेनेति । आदिपदेन साधनवैकल्याश्रयवैकल्ययो-र्ग्रहणम् । यदि शुक्तिरजते साध्यसाधनधर्मौ न स्यातां तदा किंधर्मवत्तया तत्र सम्प्रतिपत्तिः स्यात् । यदि वा शुक्तिरजतमेव न स्यात् । तदा साध्यसाधनधर्मयोः कुत्र सम्प्रतिपत्तिः स्यात् इत्येवं साध्यवैकल्यादि-दृष्टान्तदोषनिरासाय सम्प्रतिपन्नग्रहणं कृतमित्यर्थः ।। तथैवेति । तथा चेदं दृश्यं, तस्मान्मिथ्येत्युपनयनिगमनरूपावयवद्वयानुवादोऽपि कर्तव्य इत्यर्थः ।। असाधनाङ्गत्वादिति । उपनयवाक्यस्य हेतुवाक्येन गतार्थत्वात् निगमनस्य च प्रतिज्ञावाक्येन चरितार्थत्वान्न साधनाङ्गत्वमित्यर्थः ।। त्र्यवयवेति । प्रतिज्ञाहेतूदाहरणरूपावयवत्रयेत्यर्थः । मीमांसकैरवयवत्रयनियमाङ्गीकारात् मायिना च व्यवहारे भट्टनय इत्यङ्गीकारादिति भावः । यथोक्तं कारि-कायाम् । त्रीनुदाहरणान्तान्वा यद्वोदाहरणादिकान् । मीमांसका इति ।। तच्चेति । उपनयनिगमनयोरसाधनाङ्गत्वं तत्वनिर्णयादावुपपादितमित्यर्थः ।। एवं चानुवदतेति । मायिना स्वग्रन्थे पञ्चावयवप्रयोगे विहितेऽप्य-वयवत्रयानुवादं कुर्वता आचार्येणेत्यर्थः । अपिशब्दोऽपसिद्धान्तसमुच्चायकः । तथा च व्यवहारे भट्टनय इत्यङ्गीकुर्वतापि मायिना पुनः पञ्चावयव-प्रयोगविधाने आधिक्येन निग्रहोऽपसिद्धान्तश्चेति सूचितमनेनेति द्रष्टव्य-मित्यर्थः ।

श्रीगुरुराजीयटिप्पणी

प्रथमवाक्यस्यानुमानाभासत्वव्युत्पादकत्वादानर्थक्यमाशङ्क्य परिहरति ।। तत्रेति ।। परोदीरितप्रपञ्चमिथ्यात्वप्रमाणस्याभासव्युत्पादकेऽस्मिन् प्रकरणे इत्यर्थः । नन्वनुवादो व्यर्थ इत्याशङ्क्य तस्य दूष्यस्वरूपावगमकतया तदवगतिद्वाराऽऽभासत्वव्युत्पादनायोगात् । अन्यथाऽनवधारितस्वरूपस्य दूषणैराभासताया एव ज्ञापनायोगादिति भावेन दूषणस्यानुवादपूर्वकत्वं वक्तुं तावदित्युक्तम् ।। ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता चेति ।। ननु शुक्तिरजतादौ साध्यसिद्धावपि न सिद्धसाधनम् । पक्षतावच्छेदका-वच्छेदेन साध्यसिद्धेरिहोद्देश्यतया तदवच्छिन्ने साध्यासिद्ध्या तदनवसरात् । न च तत्सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्सिद्धसाधनमिति वाच्यम् । तथा सति तत्सामानाधिकरण्येन साध्यसिद्धिरूपोद्देश्यसिद्धेरविकलत्वेनोद्देश्य-सिद्ध्यविरोधात् ब्रह्मण्यंशे प्रमाणबाधस्यादोषत्वापातात् । ततश्च यद्यत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरुद्देश्या तदा शुक्तिरजतादौ सिद्धसाधनत्वप्रसक्तावपि न ब्रह्मणि प्रमाणबाधप्रसङ्गः । यदि च तदव-च्छेदेन तत्सिद्धिरुद्देश्या तदा ब्रह्मण्यंशे प्रमाणबाधप्रसक्तावपि न शुक्ति-रजतादौ सिद्धसाधनतेति कथमुक्तदोषद्वयसमावेशोऽत्रेति चेत् अत्र स्वामिनः  किमत्र पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्यतयाऽभिमता । किं वा पक्षतावच्छेदकधर्मसामानाधिकरण्येन । आद्ये ब्रह्मणि प्रमाणबाधः । द्वितीये शुक्तिरजतादौ सिद्धसाधनतेति पक्षभेदेन दूषणद्वयमत्राभिमतम् । यद्यपि समानप्रकारकविरहज्ञानस्यैव प्रतिबन्धकतया ब्रह्मत्वावच्छेदेन साध्याभाव-निश्चयेऽपि सर्वत्वावच्छेदेन तदसिद्ध्या नांशबाधस्य दूषणत्वम् । तथापि पक्षतावच्छेदकावच्छेदेन सर्वत्र जायमानाया अनुमितेस्तदंशे प्रमात्व-प्रतिबन्धकतया तस्य दोषत्वमित्यत्र तात्पर्याददोषः । मूले चशब्दस्तु व्यवस्थितविकल्पार्थकवाशब्दार्थ इति न तद्विरोधोऽपीति ।

इत्येव वक्तव्यमिति ।। आवश्यकत्वात् लाघवाच्च तत्रोक्तदोषाप्रसराच्चेति भावः ।। यद्यपीति ।। ततश्चान्वयव्यतिरेकस्याप्युपदर्शनीयत्वात्तदप्रदर्शनं दोषः । यदि चान्वयव्यतिरेकयोरन्यतरोपदर्शनेन चारितार्थ्यात् उभया-प्रदर्शनमिति मन्यसे तदा व्यतिरेकोपदर्शनेनापि तत्सिद्धेरन्वयदर्शनानुपपत्ति-रित्याशङ्काभिप्रायः । ननु सकलस्य साधनवतः साध्यवत्वरूपव्याप्त्यन्तर्गत-साकल्यार्थत्वात् यद्यदित्थं तत्तथेति यच्छब्दवीप्साया आवश्यकत्वात्तद-भावोऽत्र दोष इत्यतो वीप्सां विनापि यदित्थं तत्तथेति सामान्योक्त्यैव तत्सिद्धेर्वीप्साभावो न दोष इत्याह ।। यत्तदिति साधारणप्रयोगादेवेति ।। कथं वीप्सां विनापि व्याप्त्यन्तर्गतोक्तसाकल्यस्य साधारणप्रयोगात्सिद्धि-रित्यतस्तथा दृष्टत्वादित्यभिप्रायेणानुरूपं दृष्टान्तमाह ।। गौर्न पदा स्प्रष्टव्येतिवदिति ।। गौर्न पदा स्प्रष्टव्या । ब्राह्मणो न हन्तव्यः । यस्योभयं हविरार्तिमार्च्छति । योऽवगुरेत्तं शतेन शातयादित्यादौ वीप्सां विनापि सामान्योक्त्या व्याप्त्यन्तर्गतोक्तरूपसाकल्यस्य सिद्धिदर्शनादित्यर्थः । उपलक्षणं चैतत् इदमेतदभिन्नं एतदसाधारणधर्माधिकरणत्वात् एतद्वदित्य-भेदानुमाने सपक्षव्यक्तिभेदाभावेन वीप्सार्थाभावाच्चेत्यपि द्रष्टव्यम् ।

भवेदेतदेवं यदि उपनयनिगमनयोरसाधनाङ्गत्वमेव स्यात् तदेव कुत इत्यत आह ।। तच्चेति ।। अन्यत्रेति ।। प्रमाणलक्षणादावित्यर्थः । उपनयस्य हेतुवचनेन निगमनस्य च प्रतिज्ञावाक्येन गतार्थत्वान्न साधनाङ्ग-त्वम् । न चोपसंहारार्थत्वान्निगमनस्य नानर्थक्यमिति वाच्यं विजातीय-बहुप्रमेयाव्यवधानेन तदनपेक्षणात् । अन्यथा प्रत्येकं कण्टकोद्धारानन्तरं तस्मात् सर्वदोषराहित्यादिदं साधकमित्याद्यपि निगमनं नियतं स्यात् । न च बाधादि शङ्कानिरासार्थं तदिति वाच्यम्, उदाहरणोपनयोक्तव्याप्तिपक्ष-धर्मताभ्यामेव विरोधिसर्वदोषप्रतिक्षेपादित्युपपादनप्रकारोऽवधेयः । शिष्टं चिरन्तनटीकायामेव स्पष्टं तत एव प्रति पत्तव्यम् ।

मिथ्यात्वानुमानखण्डनपरशुः

अनुमानमनुवदतीति । मायावादिनोक्तं मिथ्यात्वानुमानरूपं वाक्य-मुच्चरतीत्यर्थः । सर्वं मिथ्येत्युक्त इति ।। ननु कस्य व्याख्यानम् । किमाचार्यवाक्यस्य उत मायावादिवाक्यस्य । नाद्यः । अनुवादके नान्यथानुवादपरिजिहीर्षया विमतं मिथ्येत्येव वक्तव्यत्वेन न बाधसिद्ध-साधनतापरिहारार्थं विमतं मिथ्येत्युक्तमित्युक्त्ययोगात् । नह्याचार्यवर्यः स्वयमेव बाधसिद्धसाधनतापरिहाराय प्रयत्नं कृत्वा स्वयमेवानुमानं दूषय-तीति सम्भवति ।। अन्यथाऽनुवादप्रसङ्गेन सर्वं मिथ्येत्युक्तिसम्भावना-भावाच्च ।। नापि द्वितीयः । मायावादिवाक्यस्यैतद्ग्रन्थे निवेशाभावे-नाव्याख्येयत्वादिति चेत् । उक्तं किमुक्तम् ।। मायावादिवाक्यमेवा-चार्येणानुवादव्याजेन स्वग्रन्थे निवेशितमिति ।।  ततश्चैवं योजना । सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यादिति । विमतमिति ।। मायावादिनोक्तं तच्चाचार्येणानूदितमिति ।

ननु विमतमित्युक्तावपि ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्ध-साधनता च स्यात् । तयोरपि विमतिविषयत्वात् इत्यत आह ।। विमते-रनेकविधत्वेऽपीति ।। ननु ब्रह्मणोऽपि सत्यत्वमिथ्यात्वाभ्यां तटस्थ-विमतिविषयत्वेन पक्षत्वापत्त्या बाध इत्यत आह ।। वादिप्रतिवादीति ।। वादिप्रतिवादिविमतेरेव पक्षत्वप्रयोजकत्वेन तटस्थविमतेरप्रयोजकत्वमिति भावः । तर्हीति ।। यदि बाधसिद्धसाधनतापरिहाराय प्रयत्नस्तर्हि वियदा-दीत्येव वक्तव्यम् । एवं सति बाधसिद्धसाधनता प्रसक्त्यभावात् । स्फुटं वियदादिकं मिथ्येत्युद्दिश्य प्रतीतिसिद्धिसंभवाच्च ।। अवच्छेदकानुक्ता-विति ।। अवच्छेदकानुक्तौ ब्रह्मादीनां पक्षप्रवेशभ्रमापत्या पुनर्बाधादिदोष-शङ्काप्रसङ्ग इति भावः ।। सामान्यप्रयोगेण वीप्सार्थलाभे उदाहरणमाह ।। गौर्न पदेति ।। दृश्यत्वमिथ्यात्ववत्तयेति शेष इति । यद्यपि पराभिप्रेत-मिथ्यात्ववत्तया शुक्तिरजतादिकं नास्माकं सम्प्रतिपन्नं तथापि अस्माकं सम्प्रतिपन्नमिति भ्रान्त्या परेण तथोक्तम् ।। शुक्तिरजतमित्येव नोक्त-मिति ।। परेणेति शेषः । एतेन साध्यवैकल्यादिदोषपरिहाराय स्वयमेव सम्प्रतिपन्नमित्युक्त्वा पुनरुत्तरत्र साध्यवैकल्यादिदोषाभिधानमनुपपन्नमिति परास्तम् ।। यद्यपि परेणेति ।। इतःपरं टीकायां श्रूयमाणमुपनय-निगमनयोरसाधनाङ्गत्वादनुवादार्हतापि नास्तीति सूचयितुं त्र्यवयवानुवादः । तच्चान्यत्रोपपादितम् । एवं चानुवदतैवाधिकं नाम निग्रहस्थानमपि सूचितं भवतीति वाक्यत्रयं प्रक्षिप्तं न टीकावाक्यम् ।। तथापीत्यतः परमुपनय-निगमनयोरिहादूषणाददूष्यांशानुवादे आधिक्यं स्यादिति तत्परिहारायेत्ये-तावदुत्सन्नम् । अवश्यं चैतदेवं विज्ञेयम् ।। उपनयनिगमनयोः स्वमते साधनांगत्वात् । व्यवहारे भट्टनय इति वदता परेणापि प्रतिज्ञाहेतूदाहरणा-नामिव उदाहरणोपनयनिगमनानामपि साधनांगत्वाङ्गीकारेण उपनयनिगम-नयोरसाधनाङ्गत्वादित्युक्तेरयुक्तत्वात् । साधनानङ्गत्वेऽपि दूषणार्थं तस्यानुवाद्यत्वेनानुवादार्हताऽपि नास्तीत्युक्त्ययोगात् । अन्यथा व्यभिचार-त्वेनासाधकस्य दृश्यत्वस्याप्यनुवादार्हता न स्यात् । उपनयनिगमनयोः साधनाङ्गत्वस्य क्वाप्यनुपपादितत्वेन तच्चान्यत्रोपपादितमित्युक्त्ययोगाच्च । कथायां समयबन्धानुसारेणावयवप्रयोगं कुर्वतो मायावादिनः आधिक्यसूचना-योगाच्च । अस्य प्रसङ्गस्य कथाबहिर्भावेन निग्रहस्थानस्यावक्तव्यत्वात् ।। कथाबाह्यस्यानिग्रहस्थानत्वात् ।। ततश्चैवं टीकापाठः ।

‘‘यद्यपि परेण स्वग्रन्थे पञ्चावयवप्रयोगोऽस्य विहित इति तथैवानुवादो युक्तः । तथापि उपनयनिगमनयोरिहादूषणात् अदूष्यांशानुवादे आधिक्यं स्यादिति तत्परिहाराय त्र्यवयवानुवादः कृतः’’ इति ।।

प्रपञ्चमिथ्यात्वानुमाने असत्वस्य मिथ्यात्वरूपत्वे अप्रसिद्धविशेष्यतादोषः

टीका

एवमनूदितमनुमानं दूषयिष्यन् प्रथमप्राप्तत्वात्प्रतिज्ञाश्रयं दोषमाह ।

मिथ्यात्वानुमानखण्डनम्

इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः

इति मायावादिनोक्ते वक्तव्यमिति शेषः । अग्न्याहितादिवदसिद्ध आश्रयो यस्यासावाश्रयासिद्धः । पक्ष इति तदेकदेशस्साध्यधर्मो लक्ष्यते । अथ वा सप्तम्यर्थे बहुव्रीहिरिति मुख्यार्थ एव पक्षशब्दः ।

उक्ते’ इत्यनेनोक्तिनिमित्तमिदं दूषणमिति सूचयता ‘अनुक्तोपा लम्भोऽयं परेण प्रपञ्चासत्वस्यासाधनात्’ इति निरस्तं भवति ।

ननु ‘जगतोऽभावात्’ इति हेतुः सिद्धश्चेत्सिद्धं परस्याभिमतम् । किमप्रसिद्धविशेष्यता करिष्यति ? असिद्धश्चेत्तथापि । असिद्धाश्रयत्वसाधकाभावात् । मैवं, यदि जगदभावोऽत्र साध्यते तदा जगतोऽभावात्साध्यधर्मस्य आश्रयासिद्धिः स्यात् । ततश्च विशेष्याभावाद्विशिष्टाभावः इति प्रतिज्ञार्थो बाधितः स्यात् इत्येवं पराङ्गीकृतेन परस्य दोषोद्भावनात् ।

मिथ्यात्वमसत्वमिति पक्षाश्रयणेन दूषणे छलशङ्का तत्परिहारश्च

मिथ्याशब्देन किमसदुच्यते ? उतान्यत्किमपि ? इति विकल्पे-नोपक्रमान्न छलप्रसङ्गः । शिष्याणां कथाक्रमशिक्षणार्थं विकल्पः ।

मन्दारमञ्जरी

ननु स्वार्थानुमानेऽप्याश्रयासिद्धिरस्त्येव । तत आचार्येण इत्युक्ते आश्रया सिद्धिः इति कथमुक्तम् ? इत्याशङ्क्य सत्यमेवं, तथाप्याश्रयासिद्ध्युक्तिस्तु परार्थानुमान एव । तथा च श्रुतस्य इत्युक्ते इत्यस्योपपत्तये अश्रुत-मप्यध्याह्रियत इत्याह ।। वक्तव्यमिति शेष इति ।। ननु ‘इति वक्तव्यमिति शेषः’ इति वाच्यम् । इतिशब्दाभावे ‘आश्रयासिद्धः पक्षो वक्तव्यम्’ इत्युक्तेऽनन्वयादिति चेन्न । इत्युक्ते, इत्यत्र विद्यमानस्य इतिशब्दस्यानु-षङ्गेणैव सम्बन्धसम्भवेन तस्याध्याहार्यताऽभावात् ।

नन्वसिद्धशब्दस्य निष्ठान्तत्वात् ‘निष्ठा’ इत्यनेन पूर्वनिपातप्रकरणगतेन सूत्रेण ‘कृतकट’ इत्यत्र कृतशब्दस्येव पूर्वनिपातेन भवितव्यमित्यत आह ।। अग्न्याहितादिवदिति ।। ‘वाऽऽहिताग्न्यादिषु’ इत्यनेन सूत्रेण आहिता-दीनामग्न्यादिसम्बन्धे परनिपातस्याप्युक्तत्वात् तस्य च आकृतिगणत्वात् असिद्धशब्दस्य विकल्पेन परनिपातोपपत्तिरित्यर्थः ।

ननु विशेषणं साध्यधर्मं प्रति य आश्रयो धर्मी विशेष्यः तदसिद्धिरेव दोषः । विशेष्याभावे विशिष्टाभावेन धर्मविशिष्टधर्मिविषयकस्यानुमानस्या-प्रामाण्यापातात् । न तु साध्यधर्मविशिष्टस्य पक्षस्य य आश्रयस्तदसिद्धिः । तत्सिद्धेः प्रकृतानुपयोगात् । तस्मात् आश्रयासिद्धः पक्षः इति कथ-माचार्येणोक्तम् ? इत्याशङ्क्याह । पक्ष इति तदेकदेश इति ।। अथ वा आश्रयोऽसिद्धो यस्मिन् पक्ष इति सप्तम्यर्थे बहुव्रीहिरित्याह ।। अथवेति ।। पक्षस्य साध्यतदाश्रयरूपोभयसमुदायात्मकत्वात्समुदायस्याश्रयं प्रति अधिकरणत्वोपपत्तिः । ‘वने चूतः’ इत्यादौ तद्दर्शनात् । तेन सप्तम्यर्थो-पपत्तिरिति द्रष्टव्यम् । नन्वचार्येण ‘इत्यत्राश्रयासिद्धः पक्षः’ इत्येव वक्तव्यम् । किमर्थमुक्तग्रहणं कृतम् ? यदुपपत्त्यर्थं वक्तव्यपदमध्याह्रियत इत्यत आह ।। उक्त इतीति ।। मिथ्याशब्दस्यानिर्वचनीयवाचिताया अन्यत्र निरस्तत्वात् ‘विमतमसत्’ इत्यनुक्तावपि मिथ्याशब्देनैवासत्त्वस्योक्तत्वात् ‘मिथ्या’ इत्युक्तिनिमित्तमिदं दूषणम् । न तु पराभिप्रेतानिर्वचनीयत्वादि-रूपार्थनिमित्तमिति ‘उक्ते’ इति निमित्तसप्तमीप्रयोगात् सूचयता आचार्येण ‘अनुक्तोपालम्भोऽयं परेणासत्वस्यासाधनात् । अनिर्वचनीयत्वरूप-मिथ्यात्वस्यैव तेन साधनात्’ इति निरस्तं भवति । तेनानुक्तोपालम्भ-निराससूचनार्थं ‘उक्ते’ इति वक्तव्यमित्यर्थः ।

अन्ये तु ‘खपुष्पं सुरभि’ इत्यादाविव न वस्तुत आश्रयासिद्धिः । प्रपञ्चस्य सत्त्वात् । किं तु ? मिथ्येति परोक्तिनिमित्ता इत्यनेन प्रकारेणोक्तिनिमित्तमिति ग्रन्थं व्याचक्षते । असिद्धत्वपक्षं दूषयति । असिद्धश्चेत्तथापीति ।। ‘सिद्धं परस्याभिमतम्’ इत्यनेनानुषक्तेनास्य सम्बन्धः । तत्र हेतुरसिद्धाश्रयत्वेति । आचार्येण पक्षग्रहणेन सूचित-माश्रयासिद्धेः प्रतिज्ञादोषं दर्शयति ।। ततश्चेति ।।

मिथ्यात्वानुमाने विशेष्याभावाद्विशिष्टाभावस्य पररीत्या समर्थनम्

ननु यत्र विशेष्यसद्भावो विशेषणाविरोधी तत्र विशेष्याभावे विशिष्टा-भावः । यथा पुरुषाभावे दण्ड्यभावः । प्रकृते तु प्रपञ्चरूपविशेष्यसद्भावो मिथ्यात्वलक्षणविशेषणविरोधी । ततश्च विशेष्यसद्भावाङ्गीकारे विशेषणा-योगाद्विशेषणाभावप्रयुक्तो विशिष्टाभावः । यथा ‘प्रध्वस्तो घटः’ इत्यत्र घटसद्भावाङ्गीकारे प्रध्वंसविशिष्टघटाभावः । तस्मात्कथमुक्तं विशेष्याभावा-द्विशिष्टाभाव इति । मैवं ‘प्रतिपन्नस्वभावानुपमर्देन सत्यविवेकापरपर्याय-धर्मसाधनम्’ इति वदता परेण प्रपञ्चरूपविशेष्ये सद्विलक्षणस्वरूप-सद्भावस्य मिथ्यात्वलक्षणविशेषणानुकूलता अङ्गीक्रियते । ततश्च विशेषणस्यात्यन्तासत्त्वे विशेष्याभावेन विशिष्टाभावापरिहारादिति । ननु मिथ्याशब्दस्यानिर्वचनीयावाचित्वेऽपि तार्किकैस्समवायशब्देन नित्यसम्बन्ध-वत् परैरपि परिभाषामात्रेणापि मिथ्याशब्देनानिर्वचनीयत्वस्य विवक्षितुं शक्यत्वाद्विवक्षितं पक्षं परित्यज्य अविवक्षितासत्वपक्षाश्रयणेन आश्रया-सिद्ध्यभिधाने छलप्रसङ्ग इत्याशङ्क्याह ।। विकल्पेनोपक्रमादिति ।। आचार्यो मिथ्यात्वं किमसत्त्वम् ? किं वा अनिर्वचनीयत्वादि ? इति विकल्पं हृदि निधाय आद्ये आश्रयासिद्धिमाह । अन्यत्र दोषं वक्ष्यति । तेन छलप्रसङ्गो नास्तीत्यर्थः ।

एतच्च असत्त्वपक्ष एवाश्रयासिद्धिर्नान्यत्रेत्यभ्युमगमवादेनोक्तम् । वस्तु-तस्तु अनिर्वचनीयत्वादिपक्षेऽप्याश्रयत्वप्रयोजकसत्त्वाभावेन आश्रयासिद्धि-र्दुर्वारेति विकल्पेनोपक्रमाभावेऽपि न छलप्रसङ्ग इति द्रष्टव्यम् । ननु पराभिप्रेत एव पक्षो दूष्यः । किमनभिप्रेतासत्त्वपक्षदूषणार्थं विकल्पेन ? इति । तत्राह ।। शिष्याणामिति ।। शुक्तिरूप्यादेर्मिथ्यात्वमस्मद्रीत्या असत्त्वं परस्य त्वनिर्वचनीयत्वादिकमिति । तथा च प्रकृते का रीतिः ? इति विकल्पयता आचार्येण अन्यत्रापि सामान्यशब्दे प्रयुक्ते रीतिद्वयसम्भवे च विकल्पपूर्वकमेव दोषो वाच्यः । पराभिप्रेतपक्ष एव दोषाभिधाने परः ‘त्वद्रीत्या मयोक्तम् । तस्मादनुक्तोपालम्भः’ इति प्रतारयेदिति सूचित-मित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

दूषयिष्यन्निति । सर्वैर्दूषणैरिति शेषः । इत्युक्ते आश्रयासिद्धः क्ष इत्यनन्वितम् अत आह ।। वक्तव्यमिति शेष इति । तथा च इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्ष इति वक्तव्यमित्येवमितिशब्दस्यानुवृत्त्या योजनीयम् । अन्यथा पुनरनन्वितत्वमेव स्यादिति द्रष्टव्यम् । नन्वसिद्ध-शब्दस्य निष्ठान्तत्वान्निष्ठान्तस्य च निष्ठेतिसूत्रेण पूर्वनिपाते कृतकटः पुमा-नित्यत्र कृतशब्दस्येव असिद्धशब्दस्यापि पूर्वनिपातेन भाव्यम् । तथा चासिद्धाश्रय इति वक्तव्यम् । आश्रयासिद्ध इति कथमुक्तमित्यत आह ।। अग्न्याहितादिवदिति । आहितोऽग्निर्येनासावाहिताग्निरिति भाव्ये वाहिताग्न्यादिष्विति सूत्रेणाहितादीनां शब्दानां अग्न्यादिसम्बन्धे परनिपात-स्याप्युक्तत्वात्तस्य चाकृतिगणत्वात् असिद्धशब्दस्यापि परनिपातो युक्त इत्यर्थः । ननु विशेषणभूतं साध्यधर्मं प्रति य आश्रयो विशेष्यरूपो धर्मी तदसिद्धिरेव दोषो न तु साध्यधर्मविशिष्टधर्मिरूपपक्षस्य य आश्रयस्तद-सिद्धिः अत आश्रयासिद्धः पक्ष इति कथमुक्तमाचार्यैरित्यत आह ।। पक्ष इतीति । साध्यधर्मविशिष्टो धर्मी हि पक्षशब्दमुख्यार्थः । तत्र साध्यधर्मरूप एकदेशो लक्ष्यत इत्यर्थः । लक्षणाबीजसम्बन्धं दर्शयितुं तदेकदेश इत्युक्तम् । तथा च पक्षः साध्यधर्मः स आश्रयासिद्धः असिद्धाश्रयः साध्यधर्मं प्रति आश्रयोऽसिद्ध इति यावदिति मूलार्थो द्रष्टव्यः ।। यद्वेति । तथा च असिद्ध आश्रयो यस्येति न विग्रहः । किन्तु आश्रयोऽसिद्धो यस्मिन्पक्ष इति सप्तम्यर्थे बहुव्रीहिरित्यर्थः ।। मुख्यार्थ एवेति । तथा च साध्यधर्मविशिष्टो धर्मी पक्षः स असिद्धाश्रयः । पक्षशब्दार्थे आश्रय-भागोऽसिद्ध इति यावदित्यर्थः ।

ननु आश्रयासिद्धिकथनमयुक्तम् । अनुक्तोपालम्भरूपत्वात् । न हि परेण मिथ्येत्यसत्वं साधितम् । किं त्वनिर्वचनीयत्वमिति चेन्न । एतदा-शङ्कापरिहारार्थमेवाचार्यैराश्रयासिद्धः पक्ष इत्येव वक्तव्ये इत्युक्त इत्युक्त-मित्याह ।। (उक्त) इत्युक्त इत्यनेनेति ।। उक्तिनिमित्तमिति । यदि मिथ्येत्यनेनासत्वं परेणोक्तं स्यात्तदैवाश्रयासिद्धः पक्ष इति दूषणमस्माभि-रुच्यत इति सूचितमित्यर्थः । अनिर्वचनीयार्थत्वे त्वन्यदेव दूषणं भविष्यतीत्याशयः ।। असाधनादिति । मिथ्यापदेनेति शेषः । पक्षः आश्रयासिद्धो भवितुमर्हति । जगतोऽभावादिति साधनानुमानमनेनोक्तमिति भ्रान्तः शङ्कते ।। नन्विति ।। सिद्धश्चेदिति । सिद्धान्तिनामित्यर्थः ।। अप्रसिद्धविशेष्यतेति । आश्रयासिद्धतेत्यर्थः । तथापीत्यनन्तरं सिद्धं परस्याभिमतम् इति वर्तते । तत्कथमित्यत आह ।। असिद्धाश्रयत्वेति । आश्रयासिद्धीत्यर्थः । दूषणानुमानमेवात्र विवक्षितं न साधनानुमान-मित्याह ।। यदीति । विशिष्टाभाव इतीति । साध्यधर्मविशिष्टधर्म्यभाव इत्यर्थः ।। पराङ्गीकृतेनेति । मिथ्याशब्दोक्तप्रपञ्चासत्वेनेत्यर्थः ।

ननु मिथ्याशब्दस्यानिर्वचनीयवाचिताः परेण विवक्षितत्वात् विवक्षितपक्षं परित्यज्याविवक्षितासत्वपक्षाश्रयणेनाश्रयासिध्यभिधाने छलप्रसङ्ग इत्या-शङ्क्याह ।। मिथ्याशब्देनेति । अन्यत्किञ्चित् अनिर्वचनीयम् ।। विकल्पे-नेति । तथा चैवं विकल्पं हृदि निधायासत्वपक्षे आश्रयासिद्धिरुक्तेति छलप्रसङ्गो नास्तीत्यर्थः । ननु पराभिप्रेत एव पक्षो दूष्यः किं अनभिप्रेता-सत्वपक्षदूषणार्थं विकल्पेनेत्यत आह ।। शिष्याणामिति । शुक्तिरजतादे-र्मिथ्यात्वं मद्रीत्याऽसत्वं पररीत्याऽनिर्वचनीयत्वमिति । तथा च प्रकृते का रीतिरिति विकल्पयता आचार्येणान्यत्रापि केनचित्सामान्यशब्दे प्रयुक्ते रीतिद्वयसम्भवे च विकल्पपूर्वकमेव दोषो वाच्यः । अन्यथा पराभिप्रेत-पक्षस्यैव दोषाभिधाने परस्त्वद्रीत्या मयोक्तं तस्मादनुक्तोपालम्भ इति प्रतारयेदिति सूचितमित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु इत्युक्ते आश्रयासिद्धः पक्षः इत्ययुक्तम् । आश्रयासिद्धेरुक्ति-निमित्तत्वाभावात् । अन्यथा पर्वतोऽसन्निति केनचिदुक्ते धूमस्याप्या-श्रयासिद्धिः स्यात् । न च जगतोऽभावादिति वदता जगतोऽभाव-निमित्तैवाश्रयासिद्धिः । नोक्तिनिमित्तेत्यभिप्रेयत इति वाच्यम् । इत्युक्त इत्यस्यानन्वितत्वप्रसङ्गात् ।। श्रूयमाणानां जगतोऽभावादित्यादीनामन्वय-प्रतियोगित्वाभावादित्यत आह ।। इति मायावादिनोक्त इति ।। अनेन मायावादिना विमतं मिथ्या इत्युक्ते तन्मते जगतोऽभावात्सत्ववैधुर्या-दाश्रयासिद्धः पक्ष इति वक्तव्यमिति मूले योजनोक्ता भवति । नन्वा-श्रयासिद्धः पक्षः इत्युक्तम् । निष्ठेति सूत्रेण बहुव्रीहौ निष्ठाप्रत्ययान्तस्य पदस्य पूर्वं प्रयोज्यतायाः नियमितत्वादित्यत आह ।। अग्न्याहितादि-वदिति ।। आश्रयासिद्ध इति रूपमग्न्याहित इत्यादिशब्दवत्साध्विति ज्ञातव्य मित्यर्थः । निष्ठेत्यनेन निष्ठान्तस्य बहुव्रीहौ पूर्वनिपातनियमविधानेऽपि वाहिताग्न्यादिष्विति सूत्रे आहिताग्न्यादिशब्देषु पूर्वनिपातविकल्पाभिधानात् । आहिताग्न्यादेराकृतिगणत्वात् । आश्रयासिद्ध इत्यत्रासिद्धशब्दस्य पूर्वनिपाताभावो (परनिपातस्याप्युपपत्तेः ।) न दोषायेति भावः ।

ननु पक्षशब्दस्य साध्यधर्मविशिष्टधर्मिवाचित्वात्तदाश्रयासिद्धेरनुमान-दोषत्वाभावेन तदुद्भावनमयुक्तमित्यत आह ।। पक्ष इतीति ।। साध्य-धर्माश्रया सिद्धेरनुमानदोषत्वात् तद्भावनं युक्तमेवेति भावः ।। अथवा सप्तम्यर्थ इति ।। अत्र टीकायामितःपरं श्रूयमाणं इत्युक्ते इत्यनेनोक्ति-निमित्तमिदं दूषणमिति सूचयताऽनुक्तोपालम्भोऽयं परेण प्रपञ्चासत्वस्या-साधनादिति निरस्तं भवतीति वाक्यत्रयं प्रक्षिप्तं न टीकावाक्यम् ।। अवश्यं चैतदैवं विज्ञेयम् । परेणासत्वासाधनेऽपि आश्रयत्वप्रयोजकसत्ववैधुर्य-स्याभिधानेनानुक्तोपालम्भाभावेन तन्निरासायोगात् । इतिशब्दस्य पूर्वप्रकृत-परामर्शकत्वेन पूर्वमसत्वोक्त्यभावात् इत्युक्त इत्यस्यासदित्युक्त इत्यर्थ-कथनायोगात् ।। नन्विति ।। जगतोऽभावादित्यनेनोक्तं सत्ववैधुर्यं सिद्धं वा न वा सिद्धं चेत् सिद्धं परस्याभिमतम् । जगतः सद्वैलक्षण्यस्यैव पराभि-लषितत्वात् । ततश्चाप्रसिद्धविशेष्यताऽनुमानविघटनद्वाराऽभिलषित-विघटना न भवतीति सा न वक्तव्या । असिद्धं चेत्सिद्धं परस्याभिमतम् । अनुमानदोषसाधकाभावेन निर्दोषेणानुमानेन अभिलषितार्थसिद्धिसम्भवा-दित्यर्थः । यदि जगदभावोऽत्रेति । यदि जगदभावः सद्वैलक्षण्यम् अत्र विप्रतिपन्ने जगति साध्यते तर्हि जगतः अभावात् सत्ववैधुर्यात् साध्यधर्मस्य सद्विलक्षणस्वरूप स्याश्रयासिद्धिर्दोषः स्यादिति भावः । अस्तु तर्हि साध्य-धर्मस्याश्रयासिद्धिः तथापि प्रतिज्ञायाः को दोष इत्यत आह ।। ततश्चेति ।। विशेष्याभावाद्विशेष्यभूतजगतोऽभावात्सत्ववैधुर्याज्जगतः साध्यधर्मवैशिष्ट्य-रूपप्रतिज्ञार्थो बाधितः स्यात् । विशेष्याभावे विशिष्टायोगात् इति भावः ।। पराङ्गीकृतेनेति । अस्माभिः परोक्तार्थानङ्गीकारात् प्रतिवादिनः स्वाभि-लषितसिद्धमिति न सन्तोष्टव्यमित्यर्थः । एतेन पराङ्गीकारेण (कृतेन) परस्य दोषोद्भावनमित्ययुक्तम् । असत्वस्य धर्मिसत्ताविरोधित्वेन तत्सत्तानपेक्ष-त्वात् । अन्यथा शशविषाणं नास्तीति वदतो भवतोऽपि अप्रसिद्धविशेष्यत्वं स्यात् । जगदसत्वस्यैव प्रतिज्ञार्थत्वेन प्रतिज्ञार्थस्य बाधितत्वाभिधाना-योगाच्चेति निरस्तम् । मिथ्येत्यनेन मायावादिना जगतोऽसत्वमुच्यत इति पक्षे अनेन मूलवाक्येन दोष उच्यत इत्यनङ्गीकारात् । तर्हि कस्मिन्पक्षे दोषोऽयमुच्यत इति चेत् । मिथ्येत्यनेन सदसद्वैलक्षण्यविशिष्टस्वरूपमुच्यत इति ब्रूमः । असच्छब्दाभिधेयस्य निःस्वरूपस्य धर्मिसत्ताविरोधित्वेन धर्मिसत्तानपेक्षत्वात् । शशविषाणमसदिति उक्तिसम्भवेऽपि सदसद्वैलक्षण्य-विशिष्टस्वरूपस्य धर्मिसत्तासापेक्षत्वेन मिथ्याशब्दार्थभूतसदसद्वैलक्षण्य-विशिष्टस्वरूपस्य धर्मिसत्तासापेक्षत्वेन मिथ्याशब्दार्थभूतसदसद्वैलक्षण्य-विशिष्टस्वरूपलक्षणसाध्यस्याश्रयासिद्धिर्दूषणमेव । अत एव शशविषाण-मसदित्याद्युक्तौ अविद्यमानविशेष्यत्वस्यादोषत्वेऽपि जगन्मिथ्येत्युक्तौ सत्वाशून्यविशेष्यकत्वं दोषः । सत्वविधुरस्य सदसद्वैलक्षण्यविशिष्ट-स्वरूपस्यायोगेन प्रतिज्ञार्थोऽपि बाधित एव । इतःपरं श्रूयमाणं ‘‘मिथ्या-पदेन किमसदुच्यते उतान्यत्किमपीति विकल्पेनोपक्रमान्न छलत्वप्रसङ्गः । शिष्याणां कथाक्रमशिक्षायै विकल्प’ इति वाक्यद्वयं प्रक्षिप्तम् । न टीकावाक्यम् ।। अवश्यं चैतदेवं विज्ञेयम् । परोक्तसद्वैलक्षण्यपक्ष एव मूलोक्तदूषणसम्भावनाद्विकल्पेनोत्थानस्य प्रयोजनाभावात् । परोक्तस्यैव दूषितत्वेन छलप्रसङ्गाभावाच्च ।। ‘उक्त इत्यनेनोक्तिनिमित्तमिदं दूषणमिति सूचयताऽनुक्तोपालम्भोऽयं परेण प्रपञ्चासत्वस्यासाधनादिति निरस्तं भवति’ इत्यस्य टीकावाक्यत्वपक्षे अनेन गतार्थत्वाच्च असत्त्वरूपधर्मस्याश्रया-सिद्धेर्भूषणत्वेन दूषणत्वाभिधानायोगाच्च अत एव शिष्याणां कथाक्रमशिक्षार्थं विकल्प इत्यस्यायोगाच्च ।।

मिथ्यात्वानुमाने असत्वस्य मिथ्यात्वरूपत्वे अपसिद्धान्तः

टीका

अथ वा जगतोऽसत्वे प्रतिज्ञाते अपसिद्धान्तमनेनाचष्टे । तथा हि, पक्षः प्रतिज्ञार्थः प्रपञ्चस्यासत्वलक्षणः । स ‘आश्रयासिद्धः’ आश्रयः सिद्धान्तः तदाश्रयेण कथाप्रवृत्तेः । तस्मिन्नसिद्धः तद्विरुद्ध इति यावत् । कुतः ? जगतो भावात् भावत्वेन असद्विलक्षणत्वेन परेणाङ्गीकृतत्वादिति ।

मन्दारमञ्जरी

एवं ‘जगतो विश्वस्य अभावात्’ इति पदविभागमाश्रित्य व्याख्यातम् । इदानीं ‘भावात्’ इतिपदविभागमाश्रित्य व्याचष्टे ।। अथवेति ।। अप-सिद्धान्तं वक्तुं पक्षाश्रयासिद्धशब्दान् व्याचष्टे ।। पक्ष इत्यादिना याव-दित्यन्तेन ।। भावादित्येतद्व्याचष्टे ।। भावत्वेनाङ्गीकृतत्वादिति ।। भावत्वेनेति स्वपदं विवृणोति ।। असद्विलक्षणत्वेनेति ।।

श्रीनिवासतीर्थीयटिप्पणी

एवं जगतो विश्वस्याभावादिति पदविभागमाश्रित्य व्याख्यातम् । इदानीं भावादिति पदविभागमाश्रित्य व्याचष्टे ।। अथ वेति । अपसिद्धान्तं वक्तुं पक्षाश्रयासिद्धशब्दान् व्याचष्टे ।। पक्ष इत्यादिना यावदित्यन्तेन । भावा-दित्येतद्व्याचष्टे ।। भावत्वेनेति । भवतीति भावः सन् सत्वेनेत्यर्थः । तदभिप्रायमाह ।। असद्विलक्षणत्वेनेति । तथा चासत्वसाधनेऽपसिद्धान्त इति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

अथवेति ।। जगतः असत्वप्रतिज्ञाने सत्वाभावप्रतिज्ञाने सद्वैलक्षण्य-प्रतिज्ञान इति यावत् ।। अपसिद्धान्तमनेन मूलेनाचष्ट इत्यर्थः । कथमित्यत आह । तथाहीति । प्रपञ्चस्यासत्वलक्षण इति ।। प्रपञ्चस्य सद्वैलक्षण्य-लक्षण इत्यर्थः । असद्विलक्षणत्वेनेति ।। सत्वेन परेण परमेश्वरेण सूत्रकारेणाङ्गीकृतत्वादित्यर्थः ।

सर्वथा निर्वचनानर्हत्वस्य मिथ्यात्वरूपत्वे अप्रसिद्धविशेषणता

टीका

स्यादेतत्, न वयं मिथ्येत्यत्यन्तासन्तं गगनकुसुमसमं प्रपञ्च-माचक्ष्महे । येन साध्यधर्मस्याश्रयासिद्धिरपसिद्धान्तो वा स्यात् । किन्तु ? अनिर्वचनीयमेवेति । अत आह–

मिथ्यात्वानुमानखण्डनम्

अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः

टीका

पक्ष इत्यनुवर्तते । अत्र पक्ष इति तदेकदेशो धर्मी प्रपञ्चो लक्ष्यते । अप्रसिद्धं विशेषणं यस्मिन्निति मुख्यार्थो वा । अनिर्वचनीयं खलु निर्वचनानर्हमुच्यते । न च तत् प्रागेतदनुमानात्सिद्धम् । सर्वस्यापि निर्वचनार्हत्वात् । अन्यथा स्वव्याघातो मूकता वा स्यात् । अतो मिथ्यापदेन विमतस्यानिर्वचनीयताभिधाने पक्षोऽप्रसिद्धविशेषणो भवति । अयमपि वचननिमित्तो दोष इति ज्ञातव्यम् ।

मन्दारमञ्जरी

ननु साध्यधर्मविशिष्टः पक्षः । तस्य कथम् अप्रसिद्धं विशेषणं यस्येति बहुव्रीहिणा आचार्येण साध्यधर्मवैशिष्ट्यमुक्तम् । न हि दण्डिनः पुनर्दण्ड-वैशिष्ट्यं किं तु ? देवदत्तस्यैवेति । अत आह ।। पक्ष इति तदेकदेश इति ।। अन्यथेति ।। निर्वचनानर्हं किम् ? इति प्रश्ने यदि इदम् इति वदेत्तदा स्वव्याघातः । न चेन्मूकतेत्यर्थः । अयमपि वचननिमित्त इति ।। यथा आश्रयासिद्धिर्मिथ्यापदोक्तिनिमित्ता एवमप्रसिद्धविशेषणत्वमप्य-निर्वचनीयपदप्रयोगनिमित्तम् । तस्य निर्वचनानर्हवाचित्वात् तस्य चा-प्रसिद्धत्वात् । न तु परपरिभाषितसदसद्विलक्षणत्वरूपार्थनिमित्तम् । तत्र सिद्धसाधनत्वादेर्वक्ष्यमाणत्वादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

शङ्कते ।। न वयमिति । ननु साध्यधर्मविशिष्टः पक्षः तस्य यद्विशेषणं तदप्रसिद्धमित्युच्यते तदसङ्गतम् । अतो व्याचष्टे ।। पक्ष इतीति । अनुवर्तते पक्षशब्देनेत्यर्थः । तथा च पक्षो धर्मी स अप्रसिद्धं साध्यरूपं यद्विशेषणं तद्वानिति मूलार्थो द्रष्टव्यः ।। इति मुख्यार्थो वेति । सप्तम्यर्थे बहुव्रीहिरिति मुख्यार्थ एव पक्षशब्द इत्यर्थः । तथा च साध्यधर्मविशिष्टो धर्मी पक्षः सोऽप्रसिद्धविशेषणः । सर्वस्यापीति । प्रपञ्चस्येत्यर्थः ।। अन्यथेति । सर्वस्यापि निर्वचनार्हत्वमनङ्गीकृत्य निर्वचनानर्हत्वरूपानिर्वचनीयत्वाङ्गीकार इत्यर्थः । अनिर्वचनीयत्वं नाम किमिति प्रश्ने उत्तरमुच्यते न वा । आद्ये आह । स्वव्याघात इति । निर्वचनानर्हपदेनैव निर्वचनीयत्वप्राप्त्या स्ववचनव्याघात इत्यर्थः । यद्वा विमतपदेनैव सर्वस्यापि निर्वचनात् तदनर्हत्वोक्तौ स्वव्याघात इत्यर्थः ।। मूकता वेति । अनिर्वचनीयत्वं नाम किमिति प्रश्ने निर्वचनमकृत्वा यदि तूष्णीं स्थीयते तदा मूकता स्यात् । तथा चाननुभाषणं नाम निग्रहस्थानमिति भावः ।। अयमपीति । आश्रया-सिद्धिवदप्रसिद्धविशेषणत्वरूपोऽपि दोष इत्यर्थः ।। वचनेति । यथा मिथ्यात्वं नामासत्वमिति परेणोक्ते आश्रयासिद्धिरुक्ता एवं मिथ्यात्वं नामानिर्वचनीयत्वं तच्च निर्वचनानर्हत्वमिति परेणोक्ते सतीदं दूषणमुक्तम् । सदसद्विलक्षणत्वे तु सिद्धसाधनत्वादिरूपं दोषान्तरं भविष्यतीति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

स्यादेतदिति ।। मिथ्येति पदेनात्यन्तासन्तं सद्(सन्मात्र)विलक्षणस्वरूपं नाचक्ष्महे । येनाश्रयासिद्धिरपसिद्धान्तो वा स्यात् । किं नामानिर्वचनीय-माचक्ष्मह इत्यर्थः । एतेनासतोऽसत्वाभिधाने आश्रयासिद्धेरदूषणत्वेन तत्परिहाराय पूर्वपरित्यागेन पक्षान्तरस्वीकारोऽनुपपन्न इत्यपि परास्तम् ।। आहेति । विप्रतिपन्नस्यैव साधनीयत्वात् निर्वचनानर्हत्वसाधने क्लिष्टं दूषणम् । शिष्यैरेवोह्यतामिति भावेन दूषणान्तरमाहेत्यर्थः ।। एवमुत्तरत्रापि द्रष्टव्यम् । अप्रसिद्धविशेषणत्वमुपपादयति ।। अनिर्वचनीयं खल्विति । अन्यथेति । कस्यचिन्निर्वचनानर्हत्वोक्तौ सत्यां स्वव्याघातः । निर्वचना-नर्हत्वोक्त्यैव निर्वचनार्हत्वलाभात् । वादिना सर्वं निर्वचनानर्हमित्युक्तेऽपि प्रत्युत्तरादाने मूकवदनादरणीयत्वं स्यादित्यर्थः ।। अतो मिथ्यापदेनेति ।। उपलक्षणमेतत् । अपसिद्धान्तश्च भवतीति द्रष्टव्यम् सूत्रकारेण निर्वच-नाङ्गीकारात् ।।

इतःपरं श्रूयमाणम् ‘‘अयमपि वचननिमित्तो दोष’’ इति वाक्यं प्रक्षिप्तं न टीकावाक्यम् । अनिर्वचनीयासिद्धेरिति मूलावतारिकायां गतार्थत्वात् ।।

सदसद्वैलक्षण्यस्य मिथ्यात्वरूपत्वे सिद्धसाधनत्वदोषः

टीका

ननु सदसद्वैलक्षण्यमेव मिथ्यात्वं ब्रूमो नासत्वम् । एतदेवा-निर्वचनीयत्वं नाम । न तु सर्वथा निर्वचनानर्हत्वमेव । अतो नोक्तदोष इति । तत्राह–

मिथ्यात्वानुमानखण्डनम्

सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता

टीका

प्रतिज्ञादूषणप्रस्तावात्साधनशब्दोऽत्र भावसाधनः । करणसाधनत्वे हि हेतुदूषणं स्यात् । सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गीक्रियमाणे हि विमतं सद्विलक्षणमसद्विलक्षणं चेति प्रतिज्ञार्थः स्यात् । तत्र अस-द्विलक्षणत्वं प्रपञ्चस्यास्माभिरङ्गीकृतमेवेति सिद्धसाधनता भविष्यति ।

ननु सद्वैलक्षण्येन सहासद्वैलक्षण्यमत्र साध्यते । तत्कथमेष दोषः? इति । मैवं, न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवति । सद्वै-लक्षण्यविशिष्टासद्वैलक्षण्यसाधनाददोष इति चेत् तथापि सिद्धसाधन तैव । सतोऽपि सदन्तरवैलक्षण्याङ्गीकारात् । सदसद्वैलक्षण्यं नाम सदसत्त्वानाश्रयत्वमिति चेत् तथापि न सिद्धसाधनतानिस्तारः । सत्वैकस्वभावस्य प्रपञ्चस्य सदसत्त्वानङ्गीकारात् । प्रत्येकमुभया-नाश्रयत्वमिति चेत् । तथाप्यसत्त्वानाश्रयत्वेन सिद्धसाधनता-तादवस्थ्यम् । विशिष्टसाधनाददोष इति चेत् तथापि देशकाल-परिच्छिन्नेषु घटादिषु व्यवस्थाश्रयणेन सिद्धसाधनतैवेति ।

मन्दारमञ्जरी

करणसाधनत्वे हीति ।। तथात्वे साधनं लिङ्गं स्यात् । तथा च सिद्धसाधनतापि तन्निष्ठैवेति हेतुदोषः स्यादित्यर्थः । सदसद्विलक्षणमिति कोऽर्थः ? सदसद्रूपं यदेकं ततो विलक्षणमिति वा ? सद्विलक्षण-मसद्विलक्षणं चेति वा ? सद्विलक्षणत्वे सत्यसद्विलक्षणमिति वा ? आद्ये सदसद्रूपतायाः प्रपञ्चे मयाप्यनङ्गीकारात्सिद्धसाधनताप्रसङ्गेन द्वितीय एवाङ्गीकार्य इत्याह ।। सदसद्वैलक्षण्य इति ।। तर्हि द्वितीय एवास्त्वित्यत आह ।। तत्रेति ।। न हि सिद्धमसिद्धेनेति ।। ‘पर्वतः शिलात्मकोऽग्नि-मांश्च’ इत्यादाविव अंशे सिद्धसाधनता दुर्वारेत्यर्थः । तृतीयं शङ्कते ।। सद्वैलक्षण्येति ।। विशिष्टस्याखण्डैकपदार्थान्तरत्वान्नांशस्तत्रापि । येनांशे सिद्धसाधनता स्यात् । अन्यथा ‘प्रामाण्यं स्वतो ज्ञायते’ इति प्रतिज्ञायां ज्ञानमात्रस्य परतस्त्ववादिनाप्यङ्गीकारादंशे सिद्धसाधनता स्यादित्यर्थः । परिहरति ।। तथापीति ।। तर्हि सदसत्त्वानाश्रयत्वं साध्यमिति चेत् किमत्र सदसद्रूपं यत् विशिष्टं तत्त्वानाश्रयत्वं साध्यते ? किं वा सत्त्वानाश्रयत्वं असत्त्वानाश्रयत्वं चेति द्वयम् ? यद्वा सत्त्वानाश्रयत्वे सत्यसत्त्वानाश्रयत्वं नाम विशिष्टम्? इति विकल्प्याद्यं दूषयति ।। तथापीति ।। द्वितीयं शङ्कते ।। प्रत्येकमिति ।। दूषयति । तथाप्यसत्त्वेति ।। तृतीयं शङ्कते ।। विशिष्टेति ।।

ननु तथापि देशकालेति घटादेः सत्त्वानाश्रयत्वमङ्गीकृत्य परिहारोऽ-भिहितः । स न युक्तः घटादेः सत्त्वाश्रयत्वाङ्गीकारात् । स्वदेशकाला-द्यवच्छेदेन सत्त्वाश्रयस्यापि घटादेः देशान्तराद्यवच्छेदेन सत्त्वानाश्रयत्वं चास्तीति चेत् तर्हि देशान्तराद्यवच्छेदेनासत्त्वाश्रयत्वं चास्तीति ‘सत्त्वैक-स्वभावस्य’ इत्येतदसङ्गतं स्यादिति चेत् मैवं सत्त्वैकस्वभावस्येत्यत्र सर्वदेशकालसम्बन्धाभावरूपात्यन्ताभावाप्रतियोगित्वं सत्त्वं विवक्षित्वा सत्त्वैकस्वभावत्वमुक्तम् । तथापि देशकालेत्यत्र तु ‘अस्तीति प्रमिति-विषयत्वं सत्त्वं’ ‘तदविषयत्वं चासत्त्वं’ विवक्षित्वा अन्यदेशादौ सत्त्वानाश्रयत्वं स्वदेशादावसत्त्वानाश्रयत्वं चोक्तमिति ।

श्रीनिवासतीर्थीयटिप्पणी

भावसाधन इति । भावो धात्वर्थस्तं साधयति प्रतिपादयतीति भाव-साधन इत्यर्थः । तथाच सिद्धस्य ज्ञातस्यैव साधनता अनुमितिरूप-सिद्धिज्ञानविषयता प्राप्तेत्यर्थो द्रष्टव्यः । एवं करणसाधनशब्दार्थोऽपि ज्ञातव्यः । ननु करणसाधनत्वे को दोष इत्यत आह ।। करणसाधनत्वे हीति । सिद्धं साध्यते अनेनेति सिद्धसाधनशब्दार्थत्वे सिद्धसाधकत्वस्य हेतुधर्मत्वेन हेतुदूषणत्वं स्यादित्यर्थः । अस्तु हेतुदूषणत्वमित्यत उक्तम् ।। प्रतिज्ञादूषणप्रस्तावादिति ।

नन्वसद्वैलक्षण्यमात्रस्य सिद्धत्वेऽपि सद्वैलक्षण्यस्यासिद्धत्वेन तेन सहा-सद्वैलक्षण्यं साध्यतेऽतो न दोष इत्याशङ्कते ।। नन्विति ।। न हीति । तथात्वे पर्वतोऽग्निमान् पाषाणवांश्चेत्यत्राप्यंशे सिद्धसाधनता न स्यादिति भावः ।। सद्वैलक्षण्यविशिष्टेति । तथाच विशिष्टस्याखण्डपदार्थान्तरत्वेन तत्रांशा-भावान्नांशे सिद्धसाधनतेति भावः ।। सदसत्त्वानाश्रयत्वमिति । सतः सदन्तरवैलक्षण्येऽपि सत्त्वाश्रयत्वेन तदनाश्रयत्वाभावान्नोक्तदोष इति भावः ।

ननु सदसत्त्वानाश्रयत्वमित्यत्र सच्च तदसच्च सदसत् । तत्त्वानाश्रयत्वं साध्यमिति विवक्षितम् । अथवा सच्चासच्च सदसती तयोर्भावः । सदसत्त्वं द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययः प्रत्येकं सम्बध्यते । तथा च सत्त्वानाश्रयत्वम् असत्वानाश्रयत्वं चेति धर्मद्वयं साध्यत इति । यद्वा सत्वानाश्रयत्वे सति असत्वानाश्रयत्वरूपं विशिष्टं साध्यत इति । आद्यं दूषयति ।। तथापीति । तदुपपादयति ।। सत्वैकस्वभावस्येति । द्वितीयं शङ्कते ।। प्रत्येकमिति । तृतीयं शङ्कते ।। विशिष्टेति ।। व्यवस्थेति । अस्मिन्देशे सन् देशान्तरेऽसन् अस्मिन्काले सन् कालान्तरेऽसन् इत्येवं घटादीनां देशकालव्यवस्थया सदसत्वाश्रयणेन देशान्तरीयकालान्तरीयसत्वानाश्रयत्वस्यैतद्देशकालीना-सत्वानाश्रयत्वस्य च सिद्धत्वात्सिद्धसाधनतेत्यर्थः ।।

श्रीगुरुराजीयटिप्पणी

ननु यदि सदसद्विलक्षणत्वमेव मिथ्यात्वमुच्यते तर्ह्यनिर्वचनीयत्वं मिथ्यात्वमिति गतः पक्ष इत्यत आह ।। एतदेव चेति ।। उक्तो दोष इति ।। मिथ्यात्वप्रत्युक्तासत्त्वप्रयुक्ताश्रयासिद्धिः अपसिद्धान्तरूपः । अनिर्वचनीयत्वस्यानिर्वचनार्हताप्रयुक्ताप्रसिद्धविशेषणतालक्षणो वेत्यर्थः ।। भावसाधन इति ।। भावो धात्वर्थः । स साधनमभिधेयं यस्य स तथोक्तः । भाववाचक इत्यर्थः । साधनविकलोऽयं दृष्टान्त इत्यादावपि उक्तार्थता-निरासायोक्तम् ।। अत्रेति ।। भावसाधनत्वे नियामकमाह ।। प्रतिज्ञेति ।। करणसाधनत्वमेव साधनशब्दस्य किं न स्यादित्यत आह ।। करणेति ।। करणं साधनमभिधेयं यस्येति करणसाधनः । करणवाचक इत्यर्थः । ततश्च प्रतिज्ञानिरासोपक्रमविरोध इति भावः । सदसद्विलक्षणत्वं किं सद-सद्भिन्नत्वमभिमतं सदसत्त्वानधिकरणत्वं वा । आद्येऽपि सदसद्रूपं यदेकं ततो भिन्नत्वं वा सद्भिन्नत्वमसद्भिन्नत्वं चेति धर्मद्वयं वा । नाद्यः सदेक-स्वभावे प्रपञ्चे सदसद्रूपतायाः मयाऽनङ्गीकारेण तद्भिन्नतायाः सिद्धत्वेन तत्साधने सिद्धसाधनमिति मनसि निधाय द्वितीयं पक्षं परिशिनष्टि ।। सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गीक्रियमाण इत्यादिना ।। अस्तु तर्ह्ययमेव प्रतिज्ञार्थः को दोष इत्यतः किमत्र समप्राधान्येनोभयसाधनमभिमतं किं वा विशेषणविशेष्यभावेनेति मनसि निधायाद्यं निराचष्टे ।। तत्रेति ।। सिद्ध-साधनतेति ।। अंशे सिद्धसाधनतेत्यर्थः । ननु पक्षैकदेशे सम्पूर्णसाध्य-सिद्धावंशतः सिद्धसाधनत्वस्य दोषत्वेऽपि सर्वस्मिन् पक्षे साध्यैकदेशसिद्ध्या तस्यादोषत्वात् । प्रकृते चोभयोर्मिलितयोः साधनान्न सिद्धसाधनतेति शङ्कते ।। नन्विति ।। उभयोर्मिलितयोः पक्षत्वेऽपि पक्षतावच्छेदक-नानात्वात् क्वचिदधिकरणे पक्षतावच्छेदकावच्छेदेन साध्यसिद्धावंशतः सिद्धसाधनतावत् उभयोर्मिलितयोः साध्यत्वेऽपि साध्यतावच्छेदकनानात्वात् साध्यतावच्छेदकावच्छिन्नस्य पक्षतावच्छेदकावच्छेदेन सिद्धिरूपस्य सिद्ध-साधनताबीजस्य सत्त्वादंशतः सिद्धसाधनत्वमेवेत्याशयेनाह ।। न हीति ।। द्वितीयमाशङ्कते ।। सद्वैलक्षण्यविशिष्टेति ।। सिद्धसाधनतेति ।। सद्भिन्नत्व विशिष्टासद्भिन्नत्वस्य प्रपञ्चे मयाप्यङ्गीकारादित्यर्थः । तत्कथमित्यतोऽ-सद्विलक्षणत्वस्य प्रपञ्चे उभयवादिसम्मतत्वेन तदंशस्योपपादननिरपेक्षत्वात् तदनुपपाद्यैव सद्भिन्नत्व मात्रस्यैव तत्सापेक्षत्वात् सदेव सद्भेदवादिनेत्यनु-व्याख्यानं मनसि निधायोपपादयति ।। सतोऽपीति ।। आद्ये द्वितीयं शङ्कते ।। सदसद्वैलक्षण्यं नामेति ।। विध्यर्थाभावेत्यत्र विशब्दस्याभावार्थ-तयाभियुक्तव्याख्यानात् सदसद्विलक्षणशब्दस्य सदसल्लक्षणाभावपरत्वे लक्षणस्य च सन्निधानात् सदसच्छब्दोपस्थितस्यैव ग्रहणेन सदसत्त्वानधि-करणत्वस्यैव तच्छब्दात्प्रसक्तेरिति भावः । किमत्र सत्वे सत्यसत्त्वरूपं यद्विशिष्टं तदनधिकरणत्वमित्यभिमतं किं वा सत्त्वानधिकरणत्वमसत्त्वा-नधिकरणत्वमिति धर्मद्वयमिति विकल्पं मनसि निधायाद्यं निराचष्टे ।। सत्त्वैकस्वभावस्येति ।। सदसत्त्वानङ्गीकारादिति ।। सत्त्वविशिष्टस्या-सत्त्वानङ्गीकारात् तत्साधने सिद्धसाधनतेति भावः । द्वितीयमाशङ्कते ।। प्रत्येकमिति ।। किमत्र समप्रधानतयोभयसाधनमभिमतं किं वा विशेषण-विशेष्यभावेनेति विकल्पद्वयं मनसि निधायाद्यं प्रत्याचष्टे ।। तथापीति ।। सिद्धसाधनतेति ।। अंशे सिद्धसाधनतेत्यर्थः । उपपादनप्रकारस्तु पूर्ववदेव द्रष्टव्यः । द्वितीयमाशङ्कते ।। विशिष्टेति ।। घटादेर्देशकालपरिच्छिन्नतया स्वदेशकालावच्छेदेनासत्त्वानाश्रयत्वस्यान्यदेशकालावच्छेदेन सत्त्वानाश्रय-त्वस्य च सत्त्वेन विशिष्टसाध्यस्यापि सिद्धेः सिद्धसाधनत्वमेवेति परिहरति ।। तथापीति ।। अत्र पूर्वोत्तरग्रन्थविरोधश्चिरन्तनटीकायामेव स्पष्टः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु सदसद्वैलक्षण्यमेव मिथ्यात्वं ब्रूमो न तु सर्वथा निर्वचनानर्हत्वम् । न च जगतोऽनिर्वचनीयत्वाङ्गीकारादपसिद्धान्तः । अनिर्वचनीयपदेन सद-सद्वैलक्षण्यस्यैवाभिधानात् । न चाप्रसिद्धविशेषणाख्यो दोषः । अनिर्वचनीय पदेन सर्वथा निर्वचनानर्हत्वानभिधानात् ।। नाप्याश्रयासिद्धिः । अस-द्विलक्षणत्वस्यैवाश्रयत्वप्रयोजकत्वात् । सदसद्विलक्षणत्वस्य सूत्रकाराभि-मतत्वेनापसिद्धान्ताभावाच्चेति भावेन शङ्कते ।। ननु सदसद्वैलक्षण्यमेवेति ।। इतः परं टीकायां श्रूयमाणं ‘‘नासत्वमिति’’ वाक्यं प्रक्षिप्तम् । न टीका-वाक्यम् । अवश्यं चैतदैवं विज्ञेयम् । मिथ्याशब्दार्थत्वेन सत्वस्याप्रसक्त-त्वात् । साधनशब्दोऽत्र इति ।। सिद्धसाधनेत्यत्र साधनशब्दः भावसाधनः सिद्धिरूपधात्वर्थवाचकः । न तु करणवाचकः । एवं च सिद्धस्य साधनं सिद्धिर्यस्येति विग्रहस्याश्रयणे दोषस्य प्रतिज्ञानिष्ठत्वलाभः । प्रतिज्ञायाः सिद्धिकरणत्वाभावेऽपि सिद्धिकारणत्वसद्भावात् । करणसाधनत्वे तु सिद्धं साध्यतेऽनेनेति विग्रहप्रसङ्गेन सिद्धिकरणस्यैव लाभः स्यात् । नतु कारणमात्रस्य प्रतिज्ञादेरिति भावः ।

यद्वैलक्षण्येन सहेति स्यादयं दोषः । यद्यसद्वैलक्षण्यमात्रं साधयामः । न चैवं सति दोषो भवति । एकाकिनः सार्थस्य गमने चोरादिबाधेऽपि बल-वद्भिः सहगमने तदभावदर्शनादिति भावः ।। न हि सिद्धमिति । हि यस्मात् सिद्धमसिद्धेन सहोक्तमसिद्धं न भवति । तस्मान्मैवमित्यन्वयः । चोरादिबाधस्य पुरुषान्तरनिष्ठबलनिवर्त्यत्ववत् सिद्धसाधनत्वस्य साध्यान्तर-निष्ठसिद्धिनिवर्त्यत्वाभावात् वैषम्यमिति भावः । व्यवस्थाश्रयणेनेति ।। घटादीनां स्वदेशकालयोः असत्वं न देशान्तरकालयोः सत्वं नेत्यङ्गीकारेण सत्त्वानधिकरणत्वविशिष्टासत्वानधिकरणत्वस्य सिध्या सिद्धसाधनतैवेति भावः । एतेन घटादीनां स्वदेशकालयोः सत्वं देशान्तरे कालान्तरे वाऽसत्वमिति व्यवस्थाश्रयणेन घटादीनां सदसत्वलाभेऽपि सत्वानाश्रयत्व-विशिष्टासत्वानाश्रयत्वालाभान्न सिद्धसाधनतेति निरस्तम् । उपलक्षणमेतत् । धर्माणां प्रातिस्विकत्वेन देशाद्यपरिछिन्नेष्वपि गगनादिषु परकीयसत्वा-नधिकरणत्वस्य विद्यमानत्वेन सत्वानधिकरणत्वविशिष्टासत्वानधिकरण-त्वस्य सत्वेन सिद्धसाधनतेति द्रष्टव्यम् ।

सिद्धान्तिनामनिष्टस्य सदसद्वैलक्षण्यस्य मिथ्यात्वरूपत्वे अप्रसिद्धविशेषणतादोषः

टीका

अथैवं ब्रूयात् यादृशं सदसद्वैलक्षण्यं सद्वादिनामनिष्टं तन्मिथ्यात्व- मिति । तत्राप्येतदेवोत्तरम् । तथा हि, सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गी-क्रियमाणे सति असिद्धसाधनता अप्रसिद्धविशेषणता भवतीति । एतच्च दृष्टान्तव्युदासप्रस्तावे वक्ष्यामः । सर्वत्र असद्वैलक्षण्य-साधनवैयर्थ्यं च ।

सत्यविवेकस्य मिथ्यात्वरूपत्वे सिद्धसाधनता

सत्यविवेकस्य मिथ्याभावस्य साध्यत्वान्नोक्तदोष इति चेत् न । सत्यान्तरविवेकाङ्गीकारेण सिद्धसाधनत्वात् ।

सत्यतानाश्रयत्वस्य मिथ्यात्वरूपत्वे अपसिद्धान्तादिदोषाः

सत्यतानाश्रयत्वं सत्यविवेक इति चेत् । केयं सत्यता ? अर्थ-क्रियासामर्थ्यादिलक्षणा चेत्तदनाश्रयत्वसाधने परस्यापसिद्धान्त-प्रसक्तिः । तदन्या चेत्सिद्धसाधनतैव ।

सत्यमबाध्यं बाध्यं मिथ्येति तद्विवेक इति चेत् । तर्हि बाधो वक्तव्यः । अन्यथाविज्ञातस्य सम्यग्विज्ञानं चेत्सिद्धसाधनतैव । क्षणिकत्वादिना विज्ञातस्य प्रपञ्चस्य अक्षणिकत्वादिबाधकज्ञान-विषयत्वस्यास्माभिरङ्गीकृतत्वात् ।

प्रतिपन्नोपाधौ त्रैकालिकसत्यतानिषेध इति चेत् न । सत्यताया एवाद्याप्यनिरूपणात् ।

मन्दारमञ्जरी

यादृशमिति ।। सर्वथा सत्त्वानधिकरणत्वे सति असत्त्वानधिकरणत्वं सदसत्त्वानधिकरणत्वमित्यर्थः । असिद्धसाधनता इति पदविभागमाश्रित्य तत्परिहारतया तदेव वाक्यं व्याचष्टे ।। तत्राप्येतदेवोत्तरमिति ।। सर्वत्रेति ।। विशिष्टसाधनपक्षेऽपि ‘पर्वतः प्रमेयत्वे सत्यग्निमान्’ इत्यादाविव अंशे सिद्धसाधनता दुर्वारा । ‘प्रामाण्यं स्वतो ज्ञायते’ इत्यादौ ‘ज्ञायते’ इत्यनुक्त्वा विप्रतिपन्नस्वतस्त्वमात्रस्य साधयितुमशक्यत्वान्न सिद्धसाधनता । न चैवं प्रकृते । ‘असद्विलक्षणत्वम्, इत्यनुक्त्वापि विप्रतिपन्नसद्विलक्षणत्वमात्रस्य साधयितुं शक्यत्वादिति भावः ।

सत्यतानाश्रयत्वमित्यत्र सत्यताशब्देन किमुच्यते ? किमर्थं क्रिया-सामर्थ्यादिकम् ? किं वा व्यवहारातीतत्वलक्षणपारमार्थिकत्वम् ? अथवा अबाध्यत्वम् ? इति विकल्पयति ।। केयमिति ।। आद्यमाशङ्कते ।। अर्थ-क्रियेति ।। आदिशब्देन सत्ताजात्याश्रयत्वासद्विविक्तत्वादिकं विवक्षति । अर्थक्रियासामर्थ्यादेः पक्षे परेणाप्यङ्गीकारात् तदनाश्रयत्वसाधने अपसिद्धान्त इति परिहरति ।। तदनाश्रयत्वेति ।। द्वितीयमाशङ्कते ।। तदन्या चेदिति ।। तादृशपारमार्थिकत्वानधिकरणत्वस्य पक्षे मयाप्यङ्गीकारात्सिद्धसाधनतेति परिहरति ।। सिद्धसाधनतैवेति ।। तृतीयमाशङ्कते ।। सत्यमबाध्यमिति ।। प्रतिपन्नोपाधाविति ।। सत्यताग्रहणाभावे बाधलक्षणमसम्भवि स्यात् । मायिकस्य आविद्यकस्य वियदादेः शुक्तिरूप्यादेश्च मायावादिना प्रतिभास-काले अवस्थित्यङ्गीकारेण स्वरूपतस्त्रैकालिकनिषेधप्रतियोगित्वानङ्गीकारात् । तदर्थं सत्यताग्रहणम् । त्रैकालिकपदाभावे तु सिद्धसाधनत्वं सत्यत्व-वादिनाऽपि घटादेः कालान्तरावच्छिन्नप्रतिषेधाङ्गीकारात् । तदर्थं त्रैकालिकत्वेन प्रतिषेधो विशेषितः । प्रतिपन्नोपाधिपदाभावे पुनस्तदेव सिद्धसाधनत्वं सत्यत्ववादिनाऽपि गोत्वादेरश्वादावुक्तप्रतिषेधाङ्गीकारात् । तदर्थं प्रतिपन्नोपाधिपदम् ।

सत्यतानिरुक्तौ बाधनिरुक्तिः तन्निरुक्तौ बाध्यत्वाभावलक्षणसत्यता-निरुक्तिः इत्यन्योन्याश्रय इति परिहरति ।। सत्यताया इति ।।

श्रीनिवासतीर्थीयटिप्पणी

यादृशमिति । देशान्तरे कालान्तरे चासत्वमुभयवादिसिद्धम् । स्वदेश-कालयोः सत्वं सद्वादिनामिष्टम् । तदपि नास्तीत्युच्यते । तथा च सर्वथा सत्वानधिकरणत्वे सति असत्वानधिकरणत्वरूपं सदसत्त्वानधिकरणत्वं सद्वादिनामनिष्टमिति तदेव मया साध्यत इत्यर्थः ।। एतदेवेति । सदसद्वै-लक्षण्य इति मूलवाक्यमेवेत्यर्थः । एतदप्रसिद्धविशेषणत्वम् ।। वक्ष्याम इति । शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात्साध्यविकलो दृष्टान्त इत्यत्रे-त्यर्थः । तत्र शुक्तिरजतादेरसत्वेन तदनधिकरणत्वाभावस्योपपादितत्वादिति भावः । प्रत्येकं उभयवैलक्षण्यसाधनपक्षे प्रत्येकं उभयानाश्रयत्वसाधनपक्षे विशिष्टसाधनपक्षे चासद्वैलक्षण्यसाधने सिद्धसाधनतामुक्त्वा व्यर्थविशेष्यत्व-रूपदोषान्तरं चाह ।। सर्वत्रेति ।। सत्यविवेकस्येति । सत्यभिन्नस्येत्यर्थः । सत्यविविक्तस्येति यावत् ।। मिथ्याभावस्येति । मिथ्याया भावो धर्मो मिथ्यात्वं तस्येत्यर्थः ।

सत्यविविक्तत्वरूपमिथ्यात्वसाधनपक्षेऽपि पूर्ववत्सिद्धसाधनतेत्याह ।। सत्यान्तरेति ।। सत्यतानाश्रयत्वमिति । सत्यान्तरविवेकेऽपि सत्यताश्रय-त्वस्यैव सत्वेन तदनाश्रयत्वाभावान्नोक्तदोष इति भावः ।। केयं सत्यतेति । यदनाश्रयत्वं साध्यत इत्यर्थः । अर्थक्रियासामर्थ्यं अर्थक्रियाकारित्वम् । आदिपदेन व्यवहारविषयत्वं ग्राह्यम् ।। अपसिद्धान्तेति ।। अर्थक्रिया-सामर्थ्यस्य व्यवहारविषयत्वस्य च प्रपञ्चे परेणाप्यङ्गीकारात्तदनाश्रयत्व-साधनेऽपसिद्धान्त इत्यर्थः ।। तदन्या चेदिति । अर्थक्रियासामर्थ्यादिभिन्ना सत्ताजात्यधिकरणत्वरूपा सत्यता चेदित्यर्थः ।। सिद्धसाधनतैवेति । अनुगतजातेरस्माभिरनङ्गीकारेण तदनधिकरणत्वस्य सिद्धत्वादित्यर्थः ।। तद्विवेक इति । सत्यविवेकशब्दार्थ इत्यर्थः ।।

विज्ञानं चेदिति । बाधः तद्विषयत्वं बाध्यत्वमिति शेषः ।। प्रतिपन्नो-पाधाविति । संयोगेन समवायेन वा प्रतियोग्याधारत्वेन प्रतिपन्ने उपाधा-वित्यर्थः । तत्र त्रैकालिकप्रतिषेधो बाध इत्युक्तेऽसम्भवः । मायिकस्य वियदादेराविद्यकस्य शुक्तिरजतादेश्च प्रतीतिकालेऽसद्विलक्षणस्वरूपाङ्गीकारेण स्वरूपस्य त्रैकालिकनिषेधाभावात् । अतः सत्यताप्रतिषेध इत्युक्तम् । एवं च नासम्भवः । सत्त्वप्रतिषेधो बाध इत्येवोक्ते सिद्धसाधनता । घटे काशीस्थसत्वप्रतिषेधसद्भावात् । अतः कालिकेत्युक्तम् । तथापि घटादौ कालान्तरीयसत्वप्रतिषेधसद्भावेन पुनःसिद्धसाधनतावारणाय त्रैकालिके-त्युक्तम् । वर्तमानकाले सत्वसद्भावेन त्रैकालिकसत्वप्रतिषेधाभावान्न सिद्ध-साधनता । त्रैकालिकसत्वप्रतिषेधो बाध इत्युक्तेऽसति शशविषाणा-दावतिव्याप्तिः तस्य कालत्रयेऽप्यभावात् । अतः प्रतिपन्नोपाधावित्युक्तम् । संयोगेन समवायेन वा प्रतियोगिभूतशशविषाणाद्याधारत्वेन प्रतिपन्न-स्योपाधेरेवाभावान्न तत्रातिव्याप्तिरिति पदानां कृत्यं द्रष्टव्यम् । अद्यापीति । सत्यतानिरुक्तौ बाधनिरुक्तिः बाधलक्षणान्तःपातित्वात्सत्यतायाः । बाध-निरुक्तौ चाबाध्यत्वलक्षणसत्यत्वनिरुक्तिः । अभावनिरूपणस्य प्रतियोगि-निरूपणाधीनत्वादित्यन्योन्याश्रय इति भावः ।

श्रीगुरुराजीयटिप्पणी

ननु च ख्यातिबाधान्यथानुपपत्त्या उक्तरूपसदसद्विलक्षणत्वस्य शुक्ति-रूप्ये सिद्धत्वात् कथमप्रसिद्धविशेषणत्वमित्यत आह ।। एतच्चेति ।। सर्वत्रेति ।। असद्विलक्षणत्वमनुपादाय विप्रतिपन्नसद्विलक्षणत्वमात्रस्यैव साधयितुं शक्यत्वादिति भावः । अत्र वदन्ति ‘गुणादिकं गुण्यादिना भिन्नाभिन्नं समानाधिकरणत्वात्’ इत्यत्र तार्किकाङ्गीकृतभिन्नत्वस्येव व्यापकविशेषणानां उद्देश्यप्रतीत्यर्थत्वात् इह च सद्विलक्षणत्वे सत्य-सद्विलक्षणत्वमिति प्रतीतेरुद्देश्यत्वात् नासद्विलक्षणत्वसाधनवैयर्थ्यम् । न चाभेदे सत्यपि घटः कलश इति सामानाधिकरण्यदर्शनात् अप्रयोजकत्व-निरासाय विशिष्टधियस्तत्रोद्देश्यत्वेऽपि प्रकृते तादृशप्रयोजनादर्शनेन विशिष्टधिय उद्देश्यत्वानुपपत्तेर्वैयर्थ्यमिति वाच्यम् । तुच्छे सद्विलक्षणत्वे सत्यपि दृश्यत्वादर्शनेन प्राप्ताप्रयोजकत्वशङ्कानिरासायेव प्रकृतेऽपि तथाधिय उद्देश्यत्वेन वैयर्थ्यायोगात् । अत एव न्यायामृतेऽपि व्यर्थविशेषणत्वं नेत्युक्तम् ।। आनन्दबोधोक्तमिथ्यात्वनिर्वचनमाशङ्कते ।। सत्यविवेक-स्येति ।। तथा च नासद्वैलक्षण्यसाधनवैयर्थ्यमिति भावः । सत्यविविक्तत्व-मिति कोऽर्थः ? किं सद्भिन्नत्वम् । किं वा सत्यतानाश्रयत्वम् । किं वा बाध्यत्वमिति विकल्पान् मनसि निधायाद्यं निराचष्टे ।। न सत्यान्तरेति ।। द्वितीयमाशङ्कते ।। सत्यतेति ।। सत्यताशब्देन किमुच्यते ? किमर्थ-क्रियासामर्थ्यादिकम् ? किं वा व्यवहारातीतत्वलक्षणपारमार्थिकत्वमिति विकल्पयति ।। केयमिति ।। आद्यमाशङ्क्य परिहरति ।। अर्थक्रियेति ।। द्वितीयमाशङ्क्य परिहरति ।। तदन्या चेदिति ।। विकल्पितसत्य-विवेकशब्दार्थेषु तृतीयमाशङ्कते ।। सत्यमिति ।।

मिथ्यात्वानुमानखण्डनपरशुः

नन्वप्रसिद्धविशेषणतेत्ययुक्तम् ।। दृष्टान्तसद्भावेन तत्रैव साध्यस्य प्रसिद्धत्वात् ।। अन्यथा दृष्टान्तत्वं न स्यादित्यत आह ।। एतच्चेति ।। दृष्टान्तस्य साध्यवैकल्येऽभिहिते विशेषणस्यासिद्धिः सिद्धा भवतीति भावः ।। सर्वत्रेति ।। सदसद्वैलक्षण्यं साध्यमिति पक्षे तथा सद्वैलक्षण्येन सहासद्वैलक्षण्यं साध्यमिति पक्षे सद्वैलक्षण्यविशिष्टासद्वैलक्षण्यं साध्यमिति पक्षे यादृशं सद-सद्वैलक्षण्यं सद्वादिनामनिष्टं तादृशं साध्यमिति पक्षे च असद्वैलक्षण्यं व्यर्थम् । सदसत्वानाश्रयत्वमित्यादिपक्षेषु असत्वानाश्रयत्वसाधनं व्यर्थमिति भावः । एतेन सदसत्वानाश्रयत्वमित्यादिपक्षेषु असद्वैलक्षण्यसाधनाभाववैय्यर्थ्याभि-धानमयुक्तमिति परास्तं सत्यताश्रयत्वमिति । तत्तद्धर्मतयाऽङ्गीकृतसत्वा-नाश्रयत्वं सद्विविक्तमिति शब्दार्थतया विवक्षितम् । अतो न परकीयसत्वा-नधिकरणत्वादिकमादाय सिद्धसाधनतेति भावः ।। तदन्या चेदिति ।। अर्थक्रियासामर्थ्यादिलक्षणायाः सत्यता सदन्या चेदित्यर्थः । सत्यमिथ्या-शब्दार्थयोः विवेककथनव्याजेन बाध्यत्वं मिथ्येति विवक्षितसाध्यमुपादत्ते । सत्यमबाध्यमिति । सत्यताया एवेति । अबाध्यत्व व्यतिरेकेण सत्यताया अनिरूपणादित्यर्थः ।। बाधज्ञाने अबाध्यत्वरूपसत्यताज्ञाने च त्रैकालिक-सत्यताप्रतिषेधरूपबाधज्ञानमित्यत्यन्योन्याश्रय इति भावः ।।

सत्त्वाभावस्य आश्रयासिद्धिप्रयोजकत्वसमर्थनम्

टीका

किं चैवं सति अत्यन्तासत्वमेव प्राप्तमिति आश्रयासिद्ध्यादि प्रत्यावृत्तिः । सत्त्वनिषेध एव क्रियते । न त्वसत्त्वविधिरिति चेन्न । सत्त्वनिषेधातिरिक्तस्यासत्वस्याभावात् । भावेऽपि सत्त्वनिषेधे-नैवाश्रयासिद्धिः स्यात् । असत्त्वमनाश्रयत्वे प्रयोजकं न सत्त्वाभाव इति चेन्न । नियामकाभावात् । समं प्रतिवादिनोऽपीति चेत् अस्तु तावत्, आश्रयासिद्धिसन्देहेऽप्यनुमानमसाधकम् ।

व्यावहारिकसत्वस्याश्रयत्वप्रयोजकत्वशङ्का तन्निरासश्च

व्यावहारिकसत्तास्वीकारादाश्रयतोपपत्तिरिति चेत् केयं व्यावहारिकी सत्ता ? यदा व्यवहारनिर्वाहहेतुस्तदा सिद्धं नः समीहितम् । व्यर्थं च व्यावहारिकीति विशेषणम् । सत्तामङ्गीकृत्य पुनस्तन्निषेधे परस्यापसिद्धान्तश्च ।

पारमार्थिकत्वमेव निषिध्यते न तु व्यावहारिकी सत्तेति चेत् किमिदं पारमार्थिकत्वम् ? अव्यावहारिकत्वं चेत् निषिध्यताम् । न नो हानिः । अबाध्यत्वमिति चेत् अबाध्यत्वनिषेधो बाध्यत्वमेव । तच्च सत्तानिषेध इति कुतो व्यावहारिकी सत्तापि ? इतरेतराश्रय-दोषो वा स्यात् ।

भ्रान्तिसिद्धा सत्ता व्यावहारिकी सत्तेति चेत् तथा सति नास्ति सत्तेत्यनाश्रयतैव ।

मन्दारमञ्जरी

एवं तावत्सत्यतानाश्रयत्वं सत्यविवेक इति पक्षः सत्यत्वनिरुक्त्या दूषितः । इदानीमस्तु यत्किञ्चित्सत्यत्वम् । अथापि तदनाश्रयत्वसाधने अत्यन्तासत्वमेवापन्नमिति आश्रयासिद्ध्यपसिद्धान्तौ स्यातामिति तस्मिन्नेव पक्षे दोषान्तरमाह ।। किञ्चैवमिति ।। सत्वनिषेधातिरिक्तेति ।। शश-शृृङ्गादौ सत्त्वाभावेनैव क्लृप्तेन असद्व्यवहारोपपत्तौ तद्व्यतिरिक्तासत्व-कल्पनं नित्यत्वाभावातिरिक्तानित्यत्वकल्पनमिव निष्प्रमाणकमित्यर्थः ।। अस्तु तावदिति ।। यद्यसत्त्वाभाव आश्रयत्वे प्रयोजकः स्यात्तदा आश्रयत्वाभावरूपे अनाश्रयत्वे असत्त्वाभावाभावरूपमसत्त्वमेव प्रयोजकं स्यात् । न त्वेतदस्ति गौरवात् । किं तु? लाघवेन आश्रयत्वे सत्त्वमेव प्रयोजकम् । तथा च अनाश्रयत्वेऽपि सत्वाभाव एव प्रयोजक इति निश्चेतुं शक्यत्वेन निश्चिताश्रयासिद्धिरेव वक्तुं शक्या । तथापि सत्त्वा-भावस्य अनाश्रयत्वप्रयोजकत्वनिश्चयाभावमुपेत्य सन्दिग्धासिद्धिरुच्यत इति तावच्छब्दाभिप्रायः ।

व्यर्थं चेति ।। सत्त्वेन व्यवहारमात्रं व्यावहारिकं सत्त्वमित्यङ्गीकारे मिथ्यात्ववादिनः सत्त्वनिषेधलक्षणप्रयोजनसहितं व्यावहारिकपदं स्यात् । तत्तु नाङ्गीकर्तुं शक्यम् । अर्थगतसत्वाभावेन आश्रयासिद्धितादवस्थ्यात् । व्यवहारनिर्वाहहेतुभूतं सत्वं व्यावहारिकं सत्वमित्यङ्गीकारे तु अर्थसत्व-सम्भवेन आश्रयासिद्धिपरिहारेऽपि सत्ताया अभ्युपगतत्वेन सत्तानिषेध-लक्षण प्रयोजनरहितं व्यावहारिकत्वविशेषणं व्यर्थमित्यर्थः । यद्वा व्यवहार-निर्वाहाहेतुसत्ताया अभावेन व्यावर्त्याभावात् निष्प्रयोजनं विशेषणमित्यर्थः । किं च सत्यतानाश्रयत्वमित्यत्र किं सत्तामात्रनिषेधोऽभिप्रेतः? किं वा व्यावहारिकसत्ताभ्युपगमेन पारमार्थिकसत्तानिषेधः ? इति विकल्पं हृदि निधायाद्यं दूषयति ।। सत्तामङ्गीकृत्येति ।। द्वितीयमाशङ्कते ।। पारमार्थिकत्वमेवेति ।। दूषयति ।। किमिदमित्यादिना । सत्यता-नाश्रयत्वमित्यत्र पारमार्थिकत्वमेव निषिध्यते । तच्च पारमार्थिकत्व-मबाध्यत्वमिति वदता परेण अबाध्यत्वनिषेधः सत्यतानाश्रयत्वमित्युक्तं स्यात् । अबाध्यत्वनिषेधो बाध्यत्वमेव । बाधश्च पूर्वोक्तसत्यतानिषेधरूपः । तत्र च बाधलक्षणे किं सत्तामात्रनिषेधोऽभिप्रेतः ? पारमार्थिकसत्तानिषेधो वा । तत्राद्ये व्यावहारिकसत्तापि न स्यादित्याह ।। कुतो व्यावहारि-कीति ।। द्वितीये ‘पारमार्थिकत्वज्ञाने तन्निषेधलक्षणबाध्यत्वज्ञानं बाध्यत्व-ज्ञाने च अबाध्यत्वरूपपारमार्थिकत्व ज्ञानम्’ इत्यन्योन्याश्रय इत्याह ।। इतरेतराश्रयदोषो वेति ।।

यद्यपि सत्यताया एवाद्याप्यनिरूपणादित्यत्रापि ग्रन्थे अन्योन्याश्रयः प्रागुक्तः । अत्रापि स एवोच्यते । तथापि प्राक् सत्यतानाश्रयत्वमिति लक्षणे ‘‘सत्यतापदेन अबाध्यत्वविवक्षायामन्योन्याश्रयप्रसङ्गात्तदर्थमर्थ-क्रियासामर्थ्यादिकं व्यवहारातीतत्वं वा विवक्षणीयम् । तत्राद्ये मूलग्रन्थोक्त एवापसिद्धान्तः । द्वितीये तु तदुक्तैव सिद्धसाधनता । तथा च सत्यता-नाश्रयत्वं सत्यविवेकः इति पक्षोऽपि मूलग्रन्थोक्तदोषं नातिवर्तते’’ इति वक्तुं तदुपयोगित्वेनार्थक्रियासामर्थ्यादिपक्षं परिशेषयितुं पक्षान्तरे अन्योन्याश्रय उक्तः । इदानीं तु सत्यतानाश्रयत्वमिति लक्षणे मूलग्रन्थोक्ताश्रयासिद्धिरपि वक्तुं शक्येति किञ्चैवमित्यादिना प्रक्रम्य मध्ये व्यावहारिकसत्यत्वेन परेण आश्रयत्वे शङ्किते तदभावोपपादनार्थं ‘‘सत्यता-नाश्रयत्वमित्यत्र लक्षणे पारमार्थिकत्वनिषेधे अन्योन्याश्रयप्रसङ्गात् सत्ता-मात्रनिषेधोऽपि विवक्षणीयः ।। तथा च व्यावहारिकसत्ताया अप्यभावा-दाश्रयासिद्धिः’’ इत्येवमाश्रयासिद्धिं वक्तुं तदुपयोगित्वेन सत्तामात्रनिषेधपक्षं परिशेषयितुं पक्षान्तरे अन्योन्याश्रय उच्यत इति फलभेदान्न पौनरुक्त्यम् । ननु न व्यवहारनिर्वाहहेतुसत्ता व्यावहारिकी सत्ता येन तव समीहित-सिद्ध्यादिकं स्यात् । किं तु ? अन्यैवेति शङ्कते ।। भ्रान्तिसिद्धेति ।। तथा सति नास्तीति ।। भ्रान्तिसिद्धस्यास्तित्वे भ्रान्तित्वस्यायोगादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

सत्यतानाश्रयत्वं सत्यविवेक इति पक्षे दूषणान्तरमाह ।। किं चैवं सतीति । त्रैकालिकसत्वनिषेधे सतीत्यर्थः । आश्रयासिध्यादीत्यादि-पदेनापसिद्धान्तग्रहणम् । क्रियते मिथ्यापदेन ।। न त्विति । तथा च नाश्रयासिध्यादीति भावः ।। न सत्वाभाव इति । तथा च तावन्मात्रेण नाश्रयासिद्धिरिति भावः ।। नियामकाभावादिति । तथा चानाश्रयत्वे सत्वाभावस्यैव प्रयोजकत्वं नासत्वस्येत्यपि वक्तुं शक्यत्वेनाश्रयासिद्धिः स्यादेवेत्याशयः ।। सममिति ।। सत्वाभाव एवानाश्रयत्वे प्रयोजको न त्वसत्वं प्रयोजकमिति भवत्पक्षेऽपि नियामकं नास्तीति दूषणं सममित्यर्थः ।। तथा च सत्त्वनिषेधेनाश्रयासिध्युद्भावनं भवतामयुक्तमिति हृदयम् ।। सन्देहेऽपीति । यदि त्वत्पक्षे नियामकं स्यात् तदानाश्रयासिद्धिः यदि चास्मत्पक्षे नियामकं स्यात् तदा स्यादेवाश्रयासिद्धिरित्याश्रयासिद्धि-सन्देहेऽपि सन्दिग्धाश्रयासिध्यैवानुमानं दुष्टमित्यसाधकमित्यर्थः । किं व्यवहारनिर्वाहहेतुभूता सत्ता व्यावहारिकी सत्ता उत भ्रान्तिसिद्धा सत्तेति विकल्प्य आद्यमनूद्य दूषयति ।। व्यवहारनिर्वाहेति । घटोऽस्तीत्यादि-व्यवहारनिर्वाहहेतुभूता सत्ता व्यावहारिक सत्तेत्यर्थः ।। सिद्धं न इति । व्यवहारहेतुभूतसत्तायाः प्रपञ्चेऽङ्गीकारेणाश्रयासिद्धिपरिहारेऽपि सत्ताप्रतिषेध रूपमिथ्यात्वसाधने बाधापत्त्याऽनुमानस्य दुष्टत्वेनास्माकं समीहितं सिद्ध-मित्यर्थः ।। व्यर्थं चेति । व्यवहारनिर्वाहाहेतुसत्ताया अभावेन व्यावर्त्या-भावात् व्यावहारिक(त्व)विशेषणं व्यर्थमित्यर्थः । आश्रयासिद्धिपरिहाराय व्यावहारिकसत्तामङ्गीकृत्य पुनस्तत्प्रतिषेधरूपमिथ्यात्वसाधने न केवलं बाधेनास्मदभिमतसिद्धिः किं त्वपसिद्धान्तेनापीत्याह ।। सत्तामिति । यद्वा सत्वानाश्रयत्वमित्यत्र किं सत्तामात्रप्रतिषेधोऽभ्युपगतः किं व्यावहारिक-सत्ताभ्युपगमेन पारमार्थिकसत्ताप्रतिषेध इति विकल्पं मनसि निधायाद्य-मपसिद्धान्तेन दूषयति ।। सत्तामङ्गीकृत्येति । व्याहतेश्चेति क्वचित्पाठे स्फुटोऽर्थः । द्वितीयं शङ्कते । पारमार्थिकसत्त्वमेवेति ।। न त्विति । तथा च नाश्रयासिद्धिरिति भावः ।। न नो हानिरिति । व्यवहारनिर्वाह-हेतुत्वस्यैव प्राप्त्या नास्माकं काचित्क्षतिरित्यर्थः । प्रतिपन्नोपाधौ सत्ताप्रतिषेधो हि बाधः । तत्र किं सत्ताप्रतिषेधमात्रं विवक्षितं पारमार्थिक-सत्ताप्रतिषेधो वा । आद्ये आह ।। तच्चेति । तथाच न तु व्यावहारिकी सत्ता निषिध्यत इत्युक्तमसदिति भावः । द्वितीयेत्वाह ।। इतरेतरेति । पारमार्थिकत्वनिरुक्तौ बाध्यत्वनिरुक्तिः तल्लक्षणान्तःपातित्वात् । बाध्यत्व-निरुक्तौ अबाध्यत्वलक्षणपारमार्थिकत्वनिरुक्तिः । अभावनिरूपणस्य प्रातियोगिकनिरूपणाधीनत्वादित्यन्योन्याश्रय इत्यर्थः । ननु केयं व्यावहारिकी सत्तेति प्रश्ने व्यवहारनिर्वाहहेतुभूता सत्ता व्यावहारिकी सत्तेति नोच्यते । येन भवत्समीहितसिध्यादिकं स्यात् । किं त्वन्यैवेत्याशङ्कते ।। भ्रान्तिसिद्धेति ।। नास्ति सत्तेति । भ्रान्तिसिद्धस्यास्तित्वे भ्रान्ति-त्वस्यैवायोगादिति भावः ।। अनाश्रयतैवेति । आश्रयासिद्धिरेवेत्यर्थः ।।

श्रीगुरुराजीयटिप्पणी

न केवलमस्मिन् पक्षे इतरेतराश्रय इत्येव किन्तु अन्यत्रासत्त्वेन सम्प्रतिपन्नस्य पटादेः प्रतिपन्नोपाधौ त्रैकालिकसत्यतानिषेधप्रतियोगित्वे सार्वदैशिकसार्वकालिकनिषेधप्रतियोगित्वेनात्यन्तासत्त्वादाश्रयासिद्ध्यपसिद्धान्तौ स्यातामित्याह ।। किञ्चेति ।। अबाध्यत्वं पारमार्थिकत्वमिति पक्षेऽपि बाधलक्षणे किं सत्तामात्रनिषेधोऽभिप्रेतः पारमार्थिकत्वनिषेधो वेति विकल्पं मनसि निधायाद्यं निराचष्टे ।। कुत इति ।। ततश्च न तदाश्रयणे-नाश्रयत्वसमर्थनं युज्यत इति भावः । द्वितीयं दूषयति ।। इतरेतरेति ।।

मिथ्यात्वानुमानखंडनपरशुः

किं चैवं सतीति । अन्यत्र सत्ताप्रतिषेधः सिद्धोऽस्ति प्रतिपन्नो-पाधावपि सत्वनिषेधे क्रियमाणे प्रपञ्चस्यात्यन्तासत्वमेव प्राप्तमिति आश्रयासिद्ध्यादि प्रत्यावृत्तिः अतद्गुणसंज्ञानबहुव्रीहिणाऽपसिद्धान्तप्रत्या-वृत्तिरिति भावः । एतेनासत्वसाध्यत्वपक्षे आश्रयासिद्धेर्दूषणात्वाभावेन तत्प्रत्यावृत्यभिधानं नानिष्टमिति परास्तम् । अतस्तर्हि प्रागुक्त एव पक्षे सत्वनिषेध एवेति ।। उत्तरं शङ्कते । असत्वमिति । अस्तु तावदिति । सत्वविरहस्यानाश्रयत्वे प्रयोजकत्वसन्देहोऽ स्त्वित्यर्थः । व्यर्थं चेति ।। सत्वे वाऽन्तरवैजात्याभावेन विशेषणं व्यर्थमित्यर्थः । सत्तामङ्गीकृत्येति सूत्रकारोक्तमिति शेषः । एतेन सत्तामङ्गीकृत्य तन्निषेधे व्याघातस्यैव वक्तव्यत्वेन अपसिद्धान्ताभिधानमनुपपन्नमिति परास्तम् अपसिद्धान्त-परिहारमाशङ्कते ।। पारमार्थिकत्वमेवेति ।। सूत्रकाराभिमतं व्यावहारिक-सत्वमङ्गीकृत्य तदनभिमतं पारमार्थिकसत्वं निषिध्यते । अतो नापसिद्धान्त इति भावः । बाधलक्षणे प्रतिपन्नोपाधौ त्रैकालिकसत्ताप्रतिषेधरूपे सत्ताशब्देन सर्वसत्ता विवक्षितेति पक्षे दोषमाह ।। कुत इति ।। सत्ताशब्देन पारमार्थिकी सत्ता विवक्षितेति पक्षे दोषमाह ।। इतरेतराश्रयेति ।। बाधज्ञाने बाध्यस्वरूपपारमार्थिकतत्त्वज्ञानतद्भावने च तन्निषेधरूपबाधज्ञानमिति इतरेतराश्रय इत्यर्थः ।

सत्तां विना प्रतीतिगोचरत्वस्यैव आश्रयत्वप्रयोजकत्वशङ्का तन्निरासश्च

टीका

ननु प्रतीतिगोचरतामात्रेण आश्रयतोपपत्तौ किं सत्तया ? सुरभितासाधने तु गगनारविन्दस्य नाश्रयता सत्ताविरहात् । अपि तु निरुपाख्यत्वादिति चेन्न । तथा सति शब्दाद्गगनारविन्दादिसत्ता-प्रतीतौ तत्र सुरभितासाधने नाश्रयासिद्धिरुद्भाव्येत । अस्त्वेवम्, अङ्गान्तरवैकल्यं तत्र भविष्यतीति चेन्न । काल्पनिकाङ्गसाकल्यस्य सर्वत्र सौलभ्यात् । तथा च न साधनतदाभासनियमः स्यात् । वाद्याद्यभ्युपगमेन नियम इति चेन्न । कथाभासप्रसङ्गेन असत्साधन-दूषणयोरपि सत्वप्रसङ्गात् । किं चैवं सति प्रकृतानुमानस्यापि न तत्वावेदकत्वं स्यात् ।

सत्तां विना अपरोक्षप्रतीतिगोचरत्वस्यैव

आश्रयत्वप्रयोजकत्वशङ्का तन्निरासश्च ।

गगनारविन्दस्यापरोक्षप्रतीतिर्नास्तीति चेत् तथा सत्यतीन्द्रिय प्रपञ्चभागस्य अनाश्रयत्वं स्यादिति ।

मन्दारमञ्जरी

अरविन्दत्वहेतावाश्रयासिद्ध्यनुद्भावनमस्त्वित्याह ।। अस्त्विति ।। कथं तर्हि तस्य दुष्टत्वम् ? इत्यत आह ।। अङ्गान्तरेति ।। काल्पनिकाङ्गेति ।। अकाल्पनिकाङ्गसाकल्यं तु तव कुत्रापि नास्तीति शेषः । एवं च सर्वमपि दुष्टं स्यात् अदुष्टं वा । न तु किञ्चिद्दुष्टं किञ्चिद-दुष्टमिति विभागः स्यादित्याह ।। तथा चेति ।। कथाभासेति ।। यद्यङ्गसाकल्यस्य काल्पनिकत्वेऽपि यत्राङ्गसाकल्यं वादिप्रतिवादिप्राश्निकाभ्युपगतं तत्साधनं सत्साधनमन्यदसदिति नियमः तदा भ्रान्तवाद्यारब्धकथाभासे अङ्गसाकल्य-वत्तया तदभ्युपगतस्य वस्तुतो दुष्टस्य साधनस्यादुष्टत्वं स्यात् । अविद्य-मानाभ्युपगन्तुर्वादित्वमेव नास्तीति चेत्तर्हि अङ्गसाकल्यस्य काल्पनिकत्वेऽपि वाद्याद्यभ्युपगमेन नियम इत्यसङ्गतं स्यादिति भावः । एतच्चान्यत्रास्माभिः प्रपञ्चितम् ।। किं चैवं सतीति ।। दृश्यत्वानुमानाङ्गसाकल्ये उभय-वादिसंमतिश्चेत् तत्प्रामाण्येऽपि उभयवादिसम्मतिरस्तु । वस्तुतस्तु प्रामाण्यं न स्यात् । वस्तुतोऽङ्गसाकल्याभावात् । अङ्गसाकल्यं च व्यावहारिकमस्तीति चेत्तर्हि प्रामाण्यमपि व्यावहारिकमेवास्तु । न तत्वावेदकत्वलक्षणं पारमार्थिकम् । प्रयोजकानुरोधित्वात्प्रयोजनस्य । अन्यथा प्रातिभासिकाङ्ग-साकल्येन व्यावहारिकावेदकत्वलक्षणं व्यावहारिकं प्रामाण्यं स्यादिति भावः।

श्रीनिवासतीर्थीयटिप्पणी

नन्वित्यनन्तरं प्रपञ्चस्येति शेषः । नन्वनुमानाश्रयत्वे प्रतीतिविषयत्व-मात्रस्यैव प्रयोजकत्वमङ्गीकृत्य सत्ताया अप्रयोजकत्वाङ्गीकारे गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवदित्यनुमाने गगनारविन्दस्यापि प्रतीति-विषयत्वोपपत्त्या आश्रयस्य सत्वाभावेनाश्रयासिद्धिरुद्भाव्यते सा नोद्भाव्येतेति चेन्न । तत्र प्रतीतिविषयत्वस्याभावेनैवाश्रयासिध्युद्भावनासम्भवेन सत्ता-विरहस्याप्रयोजकत्वादित्याह ।। सुरभितासाधन इति । निरुपाख्यत्वा-दिति । उपाख्या प्रतीतिस्तद्विषयत्वाभावादित्यर्थः ।। अस्त्वेवमिति । अरविन्दत्वहेतावाश्रयासिध्यनुद्भावनमस्त्वित्यर्थः । तथा चेष्टापत्तिरिति भावः । ननु तर्ह्याश्रयासिद्ध्या दुष्टत्वाभावे अनुमितिरुत्पद्येतेति तत्राह ।। अङ्गान्तरेति । अनुमानस्य द्वे ओ व्याप्तिः पक्षधर्मता चेति । तथा चारविन्दत्वहेतोः सुरभित्वं विना म्लानारविन्देऽपि सद्भावेनानैकान्तिकतया व्याप्तिरूपाङ्गवैकल्यादित्यर्थः ।। काल्पनिकाङ्गेति । अकाल्पनिकाङ्गसाकल्यं तु तव कुत्रापि नास्तीति वाक्यशेषः । एवं च सर्वमपि साधनं समीचीनं वा स्यादाभासो वा न तु किञ्चित्साधनं समीचीनं किंचिदाभासरूपमिति विभागः स्यादित्याह ।। तथा चेति । यत्राङ्गसाकल्यं वाद्यादिनाभ्युपगतं तत्साधनमदुष्टम् । अन्यदाभासरूपमिति नियमो भविष्यतीत्याशङ्कते ।। वाद्यादीति ।। कथाभासेति । भ्रान्तवाद्याद्यारब्धकथाभासे अङ्गसाकल्य-वत्तया तदभ्युपगतस्य वस्तुतो दुष्टस्यापि साधनस्यादुष्टत्वं स्यात् । अङ्गसाकल्यवत्तया तदनभ्युपगतस्य वस्तुतोऽदुष्टस्यापि साधनस्याभासत्वं स्यादित्यर्थः ।। किं चैवं सतीति । वाद्याद्यभ्युपगमेन साधनतदाभास-नियमाङ्गीकारे प्रकृतस्य प्रपञ्चमिथ्यात्वसाधकस्य दृश्यत्वानुमानस्याप्य-तत्वावेदकत्वं स्यात् । आभासत्वं स्यादिति यावत् । वादिना त्वया तत्राङ्गान्तरसाकल्याङ्गीकारेऽपि प्रतिवादिना मयाऽङ्गान्तरवैकल्याङ्गीकारादिति भावः । शङ्कते ।। गगनारविन्दस्येति । अपरोक्षप्रतीतिविषयत्वमेवानुमाने आश्रयत्वप्रयोजकम् । तच्चास्ति प्रकृते प्रपञ्चस्यापरोक्षप्रतीतिविषयत्वात् । गगनारविन्दस्य च तदभावात् युक्ता तत्राश्रयासिद्धिरित्यर्थः ।। अनाश्रयत्वं स्यादिति । आश्रयत्वप्रयोजकीभूतापरोक्षप्रतीतिविषयत्वस्य तत्राभावादिति भावः ।

श्रीगुरुराजीयटिप्पणी

किञ्चाङ्गसाकल्यस्य काल्पनिकत्वेऽपि वादिप्रतिवादिभ्यामभ्युपगतत्व-मात्रेण साधनस्यादुष्टताव्यवस्थापने यत्र वादिप्रतिवादिनोरङ्गसाकल्य-ताऽभ्युपगमः तत्रैव साधनस्यादुष्टता स्यात् । न तु दृश्यत्वानुमानस्य तदङ्गसाकल्यस्य त्वयाऽभ्युपगमेऽपि मयाऽनभ्युपगमेन तस्य वादि-प्रतिवादिसम्मतत्त्वाभावादित्याशयवानाह ।। किञ्चैवं सतीति ।। अस्माक-मदोष इति ।। अस्माकं मते न दोष इत्यर्थः । आश्रयसाध्य-व्यधिकरणासिद्धयो न दूषणमित्युक्तेरिति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

अङ्गान्तरवैकल्यमिति ।। अबाधितविषयत्वरूपाङ्गान्तरवैकल्यं तत्र दूषणं भविष्यतीति भावः ।। काल्पनिकाङ्गेति ।। यदि सत्ताविधुरस्यापि जगतः सदितिप्रतीतिमात्रेण सत्वापत्त्याऽश्रयत्वलाभः । तर्हि व्याप्त्यादि-विधुराणामपि अनुमानानामत्र व्याप्त्यादिकमस्तीति केनचिदुक्तौ तच्छाब्ध-बोधमात्रेण व्याप्त्यादिलाभः स्यात् । ततश्च साध्वसाधुविभागो न स्यदिति भावः ।। किं चैवं सतीति ।। प्रतिवादिना व्याप्त्याद्यनङ्गीकारात् इति भावः । प्रतीतिविषयमात्रेणाश्रयत्वोपपत्तिरिति पक्षोक्तदूषणं परिहरति ।। गगनारविन्दस्येति ।। अपरोक्षप्रतीतिविषयत्वमेवाश्रयत्वे प्रयोजकमित्यभि-मतमिति भावः ।

असतोऽपि निषेधाश्रयत्वे व्यावहारिकसत्ताङ्गीकारवैयर्थ्यसाधनम्

टीका

यदप्युक्तं ‘‘निषेधं प्रति असतोऽप्याश्रयत्वं सम्भवति । यथा ‘वन्ध्यासुतो न वक्ता’ इति । अन्यथा स्ववचनव्याघातादिदोष-प्रसङ्गः । किमु व्यवहारसतः प्रपञ्चस्य’’ इति । तदनुपपन्नम् । तथा सति प्रपञ्चस्य व्यावहारिकसत्तास्वीकारवैयर्थ्यप्रसङ्गात् । निषेधं प्रत्याश्रयत्वे विधिं प्रति तत्कस्मान्न स्यात् । न हि विधि-निषेधयोर्वस्तुत्वे कश्चिद्विशेषः ।

मन्दारमञ्जरी

अन्यथा स्ववचनेति ।। ‘निषेधं प्रति असन् नाश्रयः’ इति निषेधाश्रयत्वनिषेधं प्रति असत आश्रयत्वमङ्गीकृतं चेत्पुनस्तन्निषेधे स्ववचनव्याघातः । नाङ्गीकृतं चेन्निषेधाश्रयत्वनिषेधं प्रति अनाश्रयत्वे निषेधाश्रयत्वापात इत्यर्थः ।। तथा सतीति ।। अनुमानाश्रयत्व-वदर्थक्रियान्तरस्यापि व्यावहारिकसत्तां विनैवोपपत्तेर्व्यावहारिकसत्ता व्यर्था स्यात् । न च वाच्यं प्रयोजनवशान्न तदङ्गीकारः । किं तु ? ‘सन् घटः’ इत्यादिप्रमाणबलादिति । ‘सद्गन्धर्वनगरम्’ इत्यादिवत्तस्य प्रातिभासिक-सत्ताविषयत्वेनाप्युपपत्तेः । न च वाच्यं सत्त्वेन व्यवहारातिरिक्तं व्यावहारिकं सत्त्वमेव मया न स्वीकृतम् । कस्य वैयर्थ्यमापाद्यते ? इति । असञ्जातबाधभ्रमविषयरूप्येऽपि चिरकालमबाधितसद्व्यवहारसम्भवेन तस्य, गगनारोपितनैल्यादेश्च व्यावहारिकतापातादिति भावः । नन्वसतोऽवस्तुरूप-त्वादवस्तुभूतनिषेधं प्रत्याश्रयत्वं युक्तम् । न तु विधिं प्रति । तस्य वस्तुत्वेन तदाश्रयस्यासतोऽपि वस्तुत्वप्रसङ्गादित्याशङ्क्य विधिनिषेधयोः स्वरूपसत्त्वरूपवस्तुत्वे न कश्चिद्विशेषः । अभावोऽस्तीति प्रतीतेस्तस्यापि स्वरूपसत्त्वादित्याह ।। न हि विधीति ।। वस्तुत्व इति विषयसप्तमी । न च निषेधाश्रयत्वे ‘वन्ध्यासुतो न वक्ता’ इत्यनुभव एव विशेषः । ‘वन्ध्यासुतोऽभिधेयः’ इति विध्याश्रयत्वेऽपि तद्भावात् । तथा च निषेधग्रहणं व्यर्थमित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

यथेति । वक्तृत्वनिषेधं प्रति असतोऽपि वन्ध्यासुतस्याश्रयत्वादिति भावः ।। अन्यथेति । निषेधरूपधर्मं प्रति असतः आश्रयत्वानङ्गीकार इत्यर्थः ।। स्ववचनव्याघातादीति । असतो निषेधं प्रत्याश्रयत्वं नास्तीत्युक्ते निषेधाश्रयत्वनिषेधं प्रत्येवासत आश्रयत्वप्राप्त्या पुनस्तन्निषेधे स्ववचनव्याघातः । निषेधाश्रयत्वनिषेधं प्रति असत आश्रयत्वानङ्गीकारे च निषेधाश्रयत्वमेवापतितमिति पुनर्व्याघात एवेत्यर्थः । निषेधाश्रयत्वावगाह्यनु-भवविरोध आदिशब्दार्थः ।। किम्विति । यदि निषेधं प्रत्यसतोऽप्याश्रयत्व-मस्ति तदा सत्ताप्रतिषेधरूपमिथ्यात्वं प्रति व्यावहारिकसत्वोपेतप्रपञ्च-स्याश्रयत्वं भविष्यतीति किमु वक्तव्यमित्यर्थः ।। तथा सतीति । निषेधं प्रत्यसतोऽप्याश्रयत्वांगीकारे प्रपञ्चस्याप्यसत्वमेवाङ्गीक्रियताम् । असतोऽपि प्रपञ्चस्य सत्तानिषेधरूपमिथ्यात्वं प्रति आश्रयत्वसम्भवात् । अत आश्रयत्वोपपत्त्यर्थं प्रपञ्चस्य व्यावहारिकसत्तास्वीकारो व्यर्थ एवापद्यत इत्यर्थः । निषेधं प्रति असतोऽप्याश्रयत्वं सम्भवतीति परोक्तं प्रसङ्गा-द्दूषयति ।। निषेधं प्रतीति । न च वाच्यम् असतो निषेधाश्रयत्वे वन्ध्या-सुतो न वक्तेत्यनुभव एव प्रमाणमिति । घटः वन्ध्यासुतो नेति प्रतियोगित्व रूपविध्याश्रयत्वेऽपि तद्भावात् । अतो निषेधग्रहणमिति द्रष्टव्यम् ।

ननु निषेधस्यावस्तुत्वात् अवस्तुभूतं निषेधं प्रति असतोऽप्याश्रयत्वं युक्तं न तु विधिं प्रति । तस्य वस्तुत्वेन तदाश्रयस्याप्यसतो वस्तुत्वप्रसङ्गा-दित्याशङ्क्य विधिनिषेधयोः स्वरूपसत्वरूपवस्तुत्वविषये न कश्चिद्विशेषः । अभावोऽस्तीति प्रतीतेः तस्यापि स्वरूपसत्वात् । एवं च निषेधस्यापि वस्तुत्वेन तदाश्रयस्याप्यसतो वस्तुत्वं प्रसज्ज्यत एवेत्येवं त्वदुक्तदूषण-पिशाची त्वामेवास्कन्दयतीत्याशयेनाह ।। न हि विधिनिषेधयोरिति । वस्तुत्व इति विषयसप्तमी ।

मिथ्यात्वानुमानखण्डनपरशुः

यद्यप्युक्तमिति ।। स्वग्रन्थ इति शेषः ।। अन्यथेति ।। अन्यथा असतो निषेधं प्रत्याश्रयत्वं नास्तीत्युक्तौ स्ववचनविरोधः स्यादित्यर्थः ।

तत्वप्रदीपिकाकारोक्तमिथ्यात्वनिरासः

टीका

एतेन स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं मिथ्यात्व-मिति निरस्तम् । तदेतदपाकृतासत्त्वानिर्वचनीयत्त्वाभ्यां न बहिर्भूत-मिति न पृथगाशङ्क्य दूषितम् ।

आश्रयासिद्धेरदोषत्वशङ्का तन्निरासश्च

नन्वाश्रयासिद्धिरस्माकं न दोषः । परोऽपि तथा अङ्गीकुरुते । ‘निरुपाख्यमप्याश्रय एव’ इत्युक्तत्वात् । तत्कथं तदुद्भावनम् ? इत्थम् । यद्यपि परो वैयात्यमात्रेण तथागतमतमनुसृत्य तथाऽह । तथापि नासौ तत्सिद्धान्तः । तथात्वे निरुपाख्यस्यापि प्रतीत्यङ्गीकार प्रसङ्गात् । प्रपञ्चस्य व्यावहारिकसत्तास्वीकारवैयर्थ्यापत्तेश्चेति ।

मन्दारमञ्जरी

आश्रयासिद्धिप्रसङ्गेनैव तत्वप्रदीपिकाकारोक्तमिथ्यात्वनिर्वचनं निरस्त-मित्याह ।। एतेनेति ।। स्वात्यन्ताभावसमानाधिकरणत्वमित्येवोक्ते व्याघातः स्यात् । भावतदत्यन्ताभावयोरेकाधिकरणत्वायोगात् । अतस्तथा प्रतीय-मानत्वमित्युक्तम् । एवं च न व्याघातः । भावाधिकरणतया भ्रान्तिसिद्धस्य वस्तुतोऽभावाधिकरणत्वस्योपपत्तेः । एवं च स्वाधिकरणतया प्रतीयमान-निष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति बोद्धव्यम् ।। तदेतदिति ।। अभावप्रतियोगित्वं स्वरूपेण यदि तदा असत्त्वापत्तिः । शशविषाणादेरपि स्वरूपेणात्यन्ताभावप्रतियोगित्वातिरिक्तासत्त्वाभावात् । यदि त्वसद्विलक्षण-स्वरूपानुपमर्देन सत्त्वाकारेण तदा अनिर्वचनीयत्वापत्तिरित्यर्थः ।

तथागतमतमनुसृत्येति ।। परेण निरुपाख्यस्याश्रयत्वमुपपाद्य स्वोक्तार्थे ।

तदुक्तं,

विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापरः ।

व्यवहारः स चासत्सु नेति प्राप्ताऽत्र मूकता ।।

इति धर्मकीर्तिसम्मतिकथनादित्यर्थः ।। तथात्व इति ।। अप्रतीते धर्मिणि कस्यापि निषेद्धुमशक्यत्वात् निरुपाख्ये धर्मिणि किञ्चिन्निषेधता तत्प्रतीतिर्वाच्या । न च वक्तुं शक्या । निरुपाख्यस्य ख्यात्ययोगादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

तत्वप्रदीपिकाकारोक्तमिथ्यात्वनिर्वचनमाशङ्क्य निराकरोति ।। एतेनेति । स्वात्यन्ताभावसमानाधिकरणत्वमित्येवोक्ते व्याघातः स्यात् । भावतदत्यन्ता भावयोरेकाधिकरणत्वायोगात् । अतः प्रतीयमानत्वमित्युक्तम् । एवं च न व्याघातः भावाधिकरणतया भ्रान्तिसिद्धस्य वस्तुनोऽभावाधिकरणत्वो-पपत्तेः । एवं च स्वाश्रयतया प्रतीयमानाधिकरणनिष्ठात्यन्ताभाव-प्रतियोगिकत्वं मिथ्यात्वमिति विवक्षितमिति भावः । एतेनेत्युक्तं विश-दयति । तदेतदिति । यद्यत्यन्ताभावप्रतियोगित्वं स्वरूपेण विवक्षितं तदाऽसत्वापत्तिः । शशविषाणादेरपि स्वरूपेणात्यन्ताभावप्रतियोगित्वा-न्यस्यासत्वस्याभावात् । यदि चासद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वा-कारेणात्यन्ताभावप्रतियोगित्वं विवक्षितं तदा सदसद्वैलक्षण्यप्राप्त्या अनिर्वचनीयतापत्तिरित्यर्थः ।

शिष्यः शङ्कते ।। नन्विति ।। न दोष इति । आश्रयसाध्य-व्यधिकरणासिद्धयो न दूषणमिति भगवत्पादवचनादिति भावः । परो मायावादी । तथा अदोषतया । तत्र तदीयवचनं ज्ञापकमाह ।। निरुपाख्यमपीति । असदपीत्यर्थः । वन्ध्यासुतो न वक्तेत्यादौ दर्शनादिति भावः । वैयात्यम् औद्धत्यम् । तथागतमतं बौद्धमतं तन्मते आश्रया-सिद्धेरदोषत्वादिति भावः ।। तथाऽहेति । आश्रयासिद्धेरदोषतामाहेत्यर्थः । असौ अदोषता ।। तथात्व इति । निरुपाख्यरूपासतोऽप्याश्रयत्व-मङ्गीकृत्याश्रयासिद्धेरदूषणत्वाङ्गीकारे इत्यर्थः ।। प्रतीतीति । सद्भ्यामधिकरण-प्रतियोगिभ्यामभावो निरूप्यत इति वचनात् । अप्रतीते धर्मिणि कस्यापि धर्मस्य निषेद्धुमशक्यत्वेन निरुपाख्यरूपासद्रूपे धर्मिणि किञ्चिन्निषेधायावश्यं तत्प्रतीतिर्वाच्या । न च सा वक्तुं शक्या । निरुपाख्यस्य ख्यात्ययोगा-दित्यर्थः ।। वैयर्थ्यापत्तेश्चेति । आश्रयासिद्धेरदोषत्वेन प्रपञ्चस्यासत्वेऽप्याश्रय-त्वोपपत्तेस्तदुपपत्त्यर्थं प्रपञ्चस्य व्यावहारिकसत्तास्वीकारो व्यर्थ एवापन्न इत्यर्थः ।।

मिथ्यात्वानुमानखण्डनपरशुः

एतेनेति ।। एतेन सिद्धसाधनत्वेन स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं मिथ्यात्वमिति निरस्तम् । वस्तुतस्तु स्वात्यन्ताभाव-समानाधिकरणस्यापि जगतः स्वात्यन्ताभावसमानाधिकरणं जगदिति मायावादिप्रतीतिविषयत्वस्यास्माभिरङ्गीकारात् । न च स्वात्यन्ताभाव-समानाधिकरणतया प्रतीयमानत्वं मिथ्यात्वमिति विवक्षितमिति वाच्यम् । त्वन्मते जगत्स्वरूपस्य प्रतिपन्नोपाधौ सत्वेन तत्र तदत्यन्ताभावा-सम्भवात् भावाभावयोः सामानाधिकरण्यप्रतीतेः प्रमा(तृ) त्वायोगात् । योगे च संयोगादिवत् अव्याप्यवृत्तित्वप्रसङ्गेनार्थान्तरत्वात् । ननु मूलकारेण सद्वैलक्षण्यसदसद्वैलक्षण्यपक्षावेवाशङ्क्य दूषितौ सद्वैलक्षण्येन सहासद्वैलक्षण्यमित्यादयः पक्षा अनाशङ्क्यैव दूषिताः । तत्कुतो वैषम्य-मित्यत आह ।। तदेतदिति ।। ननु निरुपाधिकमप्याश्रय एवेति परो मनुते किमु सद्वैलक्षण्यस्याश्रयत्वं मनुत इति वक्तव्यमिति भावेनाह ।। परोऽ-पीति ।। यथात्वस्याश्रयासिद्धिदोषः न प्राप्नोति तथाऽङ्गीकुरुत इत्यर्थः । सद्विलक्षणस्याश्रयत्वाङ्गीकारात् आश्रयासिद्धिर्न प्राप्नोतीति भावः । वैयात्य-मात्रेणेति ।। वैयात्यमात्रेण धैर्यमात्रेण तथागतमतं बौद्धमतमनुसृत्य तथाऽहेत्यर्थः ।। तथात्व इति ।। असतोऽप्याश्रयत्वेनेन्द्रियसंनिकर्ष-सम्भवेनापरोक्षप्रतीतिप्रसङ्गादित्यर्थः ।।

प्रतिज्ञानिराकरणसमाप्तिः हेतुनिराकरणारम्भः

टीका

प्रतिज्ञानिराकरणानन्तरं हेतुनिरासावसरः । तत्रादौ लिङ्ग-दर्शनं ततो व्याप्तिस्मृतिः अथावसरविचारस्ततोऽनुमितिरिति तेनैव क्रमेण हेतुमाभासीकरिष्यन्नसिद्धिं तावदाह–

मिथ्यात्वानुमानखण्डनम्

दृश्यत्वाभावादसिद्धो हेतुः

टीका

हेतुरिति तदर्थो लिङ्गमुच्यते । परेण हेतुतया अभिधीयमानत्व-मेवास्य हेतुत्वं न तु वास्तवमिति न व्याघातः ।

दृश्यत्वस्य सत्वाभावे असत्वप्रसङ्गेनासिद्धत्वोपपादनम्

दृश्यत्वं हि परेण वियदादिप्रपञ्चस्य न तावत्सत्यमङ्गीकर्तुं शक्यम् । तत्र दृश्यत्वस्य वृत्तावनैकान्तिकत्वप्रसङ्गात् । अवृत्ताव-ज्ञानासिद्धिप्रसक्तेः । अतस्तदसदेवेति वाच्यम् । तथा च दृश्यत्वा-भावादसिद्धो हेतुः स्यात् ।

दृश्यत्वस्यानिर्वचनीयत्वे अन्यतरासिद्धिः

मा भूत्सत्यं दृश्यत्वम् । अनिर्वचनीयं तु विद्यत एव । अतो नासिद्धिरित्यत आह ।

मिथ्यात्वानुमानखण्डनम्

अनिर्वचनीयासिद्धेरेव

टीका

अनिर्वचनीयदृश्यत्वस्य प्रपञ्चे अस्माकमसिद्धेरसिद्धिरेव ।

दृश्यत्वसामान्यस्य हेतुत्वे अन्यतरासिद्धिः

न ब्रूमो वयं सत्यमनिर्वचनीयं वा दृश्यत्वं हेतुरिति । येनान्यतरा सिद्धिः स्यात् । किं नाम ? दृश्यत्वसामान्यम् । तच्चास्त्येव वियदादौ वादिप्रतिवादिसंमतमिति कथमसिद्धिः स्यात् । साधारण- प्रयुक्तहेतोश्च विशेषविकल्पेन निरासे सर्वानुमानभङ्गः । तथा च धूमाद्धूमध्वजसाधनेऽप्यनेतद्देशकालसंलग्नो धूमो हेतुः ? किं वैत-द्देशकालसंलग्नः ? इति विकल्प्य असिद्धिराद्ये, द्वितीये साधन-शून्यं निदर्शनमिति शक्यते वक्तुम् । तत्र च अविवक्षितविशेषं धूममात्रं हेतुरित्येव परिहारः । स तु समः प्रकृतेऽपीति । तत्राप्ये-तदेवोत्तरम् । तथा हि, स्यादयं धूमानुमाने परिहारः धूमद्वयेऽपि धूमत्वसामान्यस्य वादिप्रतिवादिसंमतत्वात् । न च सत्या-निर्वचनीयदृश्यत्वयोर्द्दश्यत्वसामान्यं वादिप्रतिवादिसंमतम् । येनात्र तथा परिहारः स्यात् । अनिर्वचनीयस्य स्वरूपत एवास्माकम-सिद्धेः । न चासिद्धाश्रयं सामान्यं सिद्धं भवति ।

मन्दारमञ्जरी

अथावसरविचार इति ।। सति प्रतिप्रमाणे अनुमानानुदयात्तदभाव लक्षणावसरोऽप्यनुमित्सता विचार्यत इत्यर्थः । लिङ्गवचनं हेतुः । तच्च सिद्धमेवेति कथं असिद्धो हेतुरित्याचार्येणोक्तम् ? इति । अत आह ।। हेतुरिति तदर्थ इति ।। अस्यार्थसम्बन्धरूपलक्षणाबीजमुच्यत इति वचन-वृत्तिं च कथयतोऽयमभिप्रायः । ‘धूमो हेतुः’ इत्यादिप्रयोगदर्शनाल्लिङ्गं हेतुशब्दवाच्यमिति कृत्वा अत्रापि वचनवृत्त्या लिङ्गं हेतुशब्देनोच्यते । यदि तु कश्चिद्ब्रूयात् ‘प्रतिज्ञाहेतूदाहरणानि’ इत्यादौ हेतुशब्दस्य लिङ्गवचने प्रयोगात् तदेव हेतुशब्दार्थः ‘धूमो हेतुः’ इत्याद्यपि लक्षणयोपपन्नमिति तदा प्रकृतेऽपि लक्षणया तद्वल्लिङ्गं प्रतिपाद्यतामिति । यद्वा उच्यत इति प्रतिपादनमात्रं विवक्षितं नाभिधावृत्तिः । अथ वा तदर्थ इति न लक्षणाबीजं कथ्यते । किं तर्हि ? वचनस्य सिद्धत्वेऽपि तदर्थो हेतुरसिद्ध इत्यसिद्धिरिति । असिद्धस्य हेत्वाभासत्वेन हेतुत्वाभावात् असिद्धो हेतुरिति कथमुक्तम् ? इत्यत आह ।। परेणेति ।। तत्र दृश्यत्वस्येति ।। हेतोरेव साध्यशून्यतया विपक्षत्वेन तत्र हेतुवृत्तावनैकान्तिकतेत्यर्थः ।। अवृत्ताविति ।। दृश्यत्वे दृश्यत्वस्यावृत्तौ दृश्यत्वहेतोरज्ञानविषयतया अज्ञानासिद्धिस्स्यादित्यर्थः ।। तत्राप्येतदेवोत्तरमिति ।। अनिर्वचनीय-दृश्यत्वरूपविशेषस्यात्यन्ताभावं प्रतिपादयता अनिर्वचनीयासिद्धेरेव इत्यनेन ग्रन्थेनार्थादनुगतसामान्यभावस्यापि प्रतिपादितत्वादित्यर्थः । न चासिद्धाश्रयं सामान्यं सिद्धं भवतीति ।। यद्यसिद्धाश्रयं सामान्यं सिद्ध्येत् तदा वन्ध्यासुतेऽपि सुतत्वं बाष्पारोपितधूमेऽपि धूमत्वं च स्यात् । न च तद्युक्तं मातृजन्यत्वविशेषस्य अग्निव्याप्यत्वविशेषस्य च तत्रायोगात् । अथ वह्निव्याप्यताविशेषः सत्यधूमत्वम् । धूमत्वमात्रं तु धूमतया प्रतीयमानत्वं तथा व्यवह्रियमाणत्वं वा । तच्च तत्राप्यस्तीति चेत् धूमतयेत्यत्र धूमशब्देन किं वह्निव्याप्यतोच्यते ? किं वा धूमतया प्रतीयमानत्वादिः ? आद्ये सैव धूमता स्यात् । द्वितीये धूमताशब्देन किं वह्निव्याप्यतेत्यादिपूर्वोक्त-विकल्पापर्यवसानादनवस्था स्यात् । किं च प्रकृतेऽपि तर्हि दृश्यत्वमात्रं तथा व्यवह्रियमाणत्वं वाच्यम् । न च वक्तुं शक्यम् । आत्मनोऽपि दृश्यतया मया व्यवह्रियमाणत्वादिति तात्पर्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

अथावसरविचार इति । प्रतिबन्धकजिज्ञासाविच्छेदो ह्यवसरः । तथा च व्याप्तिस्मृत्यनन्तरं अनुमितिप्रतिबन्धकीभूतबाधसत्प्रतिपक्षाभावरूपा-वसरोऽप्यनुमित्सता विचार्यत इत्यर्थः । यथोक्तं मणिकृता लिङ्गपरामर्शा-नन्तरमपि बाधसत्प्रतिपक्षावतारशङ्कया मुहूर्तं विलम्ब्यानुमानावतार इति । ननु लिङ्गप्रतिपादकं वचनं हेतुः तच्च सिद्धमेवेति कथमसिद्धो हेतुरित्युच्यते इत्यत आह ।। हेतुरितीति । लक्षणाबीजभूतमुख्यार्थसम्बन्धोपपादनाय तदर्थ इत्युक्तम् । वचनप्रतिपाद्यमित्यर्थः । तथा च प्रतिपाद्यप्रतिपादक-भावसम्बन्धो लक्षणाबीजमित्युक्तं भवति ।

ननु व्याप्तिबलेनार्थगमकस्य लिङ्गस्य हेतुत्वेन तस्यादुष्टतया असिद्ध-त्वोक्तिर्व्याहतेत्यत आह ।। परेणेति ।। अभिधीयमानत्वमेवेति । आभिमानिकमेवेति यावदित्यर्थः । दृश्यत्वे दृश्यत्वमस्ति न वा । आद्ये आह ।। तत्रेति । दृश्यत्वरूपहेतावित्यर्थः ।। अनैकान्तिकत्वेति । सत्यत्वाङ्गीकारेण मिथ्यात्वरूपसाध्याभावादित्यर्थः । द्वितीयेऽप्याह ।। अवृत्ताविति । दृश्यत्वे दृश्यत्वस्यावृत्तौ दृश्यत्वहेतोर्ज्ञानाविषयत्व-प्राप्त्याऽज्ञानासिद्धिप्रसङ्गादित्यर्थः । शङ्कते ।। मा भूदिति ।। विद्यत एवेति । पक्ष इति शेषः । पुनः शङ्कते ।। न ब्रूम इति ।। अन्यतरा-सिद्धिरिति । सत्यभूतं दृश्यत्वं ममासिद्धम् । अनिर्वचनीयदृश्यत्वं भवतामसिद्धमित्यन्यतरासिद्धिरित्यर्थः ।। असिद्धिरिति । एतद्देशकाल-संलग्नधूमस्यैव पर्वते सत्वेनानेतद्देशकालसंलग्नधूमस्य पक्षेऽभावादसिद्धि-रित्यर्थः ।। साधनवैकल्यमिति । पर्वतदेशादिसम्बन्धस्य महानसेऽ-भावादित्यर्थः ।। धूमद्वयेऽपीति । एतद्देशकालानेतद्देशकालसंलग्नधूमद्वयेऽ-पीत्यर्थः । अनिर्वचनीयस्य दृश्यत्वस्य । असिद्ध आश्रयो यस्य तदसिद्धाश्रयमिति बहुव्रीहिः ।

मिथ्यात्वानुमानखण्डनपरशुः

अवसरविचार इति ।। आभासोद्धारप्रकारचिन्तेत्यर्थः । जगति परमते सत्यदृश्यत्वस्याभावादसिद्धो हेतुः । सत्यदृश्यत्वाङ्गीकारपक्षेऽपि दृश्यत्वे दृश्यत्वाङ्गीकारेऽनैकान्तिकत्वप्रसङ्गेन दृश्यत्वाङ्गीकारायोगात् । अज्ञानसिद्धौ हेतुरिति द्वेधा मूलयोजनामभिप्रेत्य वाद्यसिद्विमुपपादयितुमुपक्रमते ।। दृश्यत्वं हीति ।। सत्यं दृश्यत्वं न मया हेतुत्वेन विवक्षितम् । किंत्व-निर्वचनीयम् । तच्च विद्यत एवेति नासिद्धिरिति शङ्कते ।। मा भूत्सत्य-मिति । तत्राप्येतदेवेति । दृश्यत्वसामान्यमेव हेतुः अतो नासिद्धिरिति शङ्कायामपि एतदेवानिर्वचनीयासिद्धेरेवेति मूलमेवोत्तरमित्यर्थः ।

दृग्जन्यफलाश्रयत्वस्य दृश्यत्वे असिद्ध्यादिदोषाः

टीका

अथ वा दृग्जन्यफलाश्रयत्वं दृश्यत्वं परेण वक्तव्यम् । वृत्ति-व्याप्यत्वस्य साधारणस्य च दृश्यत्वस्य आत्मनि विपक्षेऽप्यङ्गी-कृतत्वेन अनैकान्तिकत्वापातात् । ज्ञाततालक्षणफलस्यान्यत्र निराकृतत्वेन अस्मन्मते दृश्यत्वाभावादसिद्धो हेतुः स्यात् ।

ज्ञातताङ्गीकारेऽपि अतीतादावतीन्द्रियेषु च दृश्यत्वाभावाद्भागा- सिद्धिः । असिद्धो हेतुरिति च योगविभागः कर्तव्यः । तेन आश्रया-सिद्धिसङ्ग्रहोऽपि भवति । उपपत्तिस्तु पूर्वोक्तैवानुसन्धेयेति ।

ननु दृश्यत्वाभावातिरिक्तं न तस्यासिद्धत्वं नाम । अतः कथं हेतुहेतुमद्भावः ? मैवं, सामान्यविशेषभावेन वृक्षत्वशिंशुपात्व-योरिवोपपत्तेः । व्यवहारो वा अत्र साध्य इत्यदोषः । एवमुत्तर-त्रापि वेदितव्यम् ।

मन्दारमञ्जरी

दृग्जन्यफलाश्रयत्वमिति ।। अन्तःकरणवृत्तिरूपदृग्जन्यज्ञातता-शब्दवाच्यमभिव्यक्तस्फुरणसम्बन्धरूपं यत्फलं तदाश्रयत्वमित्यर्थः ।। वृत्तिव्याप्यत्वस्येति ।। अन्तकरणवृत्तिविषयत्वस्येत्यर्थः । साधारण-स्येति ।। फलव्याप्यवृत्तिव्याप्यानुगतस्य व्यवहारविषयतालक्षणसामान्य-स्येत्यर्थः ।। अङ्गीकृतत्वेनेति ।। प्रमाणजनितान्तःकरणवृत्तिव्याप्यत्वेन विषयताङ्गीकार इति परेण वृत्तिव्याप्यतारूपविशेषस्य अङ्गीकृतत्वा-द्विशेषस्य सामान्यं विना अयोगादर्थान्तरस्याप्यङ्गीकृतत्वादित्यर्थः । ज्ञाततामङ्गीकुर्वतोऽपि वादिनो भागासिद्धो हेतुरित्येतदर्थपरतया दृश्यत्वा-भावादित्येतद्व्याचष्टे ।। ज्ञातताङ्गीकारेऽपीति ।। तेनाश्रयासिद्धीति ।। आश्रयासिद्धः पक्षः इत्यत्र बाधरूपः प्रतिज्ञादोष उक्तः । अत्र त्वाश्रय-शून्यतालक्षणं हेतुदूषणमुच्यत इति न पौनरुक्त्यम् ।। सामान्यविशेष-भावेनेति ।। यथा शिंशुपात्वं वृक्षत्वसामान्ये हेतुः तेन तदनुमानदर्शनात् तथा दृश्यत्वाभावरूपो विशेषोऽसिद्धत्वसामान्ये हेतुः । सामान्यविशेष-भावश्च असिद्धत्वस्य शब्दपक्षीकारेण प्रयुक्तचाक्षुषत्वादावपि भावात् । दृश्यत्वाभावस्य तु दृश्यत्वमात्रसम्बन्धित्वादिति भावः । अन्ये तु दृश्यत्वस्य स्वरूपेणाभावो हेतुः । तस्य हेतुत्वाकारेणाभावो हेतुमानिति व्याचक्षते । पक्षान्तरमाह ।। व्यवहारो वेति ।। असिद्धत्वं हेतुः, असिद्ध इति व्यवहारः साध्य इति तयोर्भेद इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

कुत इत्यत आह ।। वृत्तिव्याप्यत्वस्येति । वृत्त्या विशेषेण आप्यत्वं प्राप्यत्वं विषयत्वमिति यावत् । तथा च वृत्तिविषयत्वस्येत्यर्थः ।। साधारणस्येति । दृग्जन्यफलाश्रयत्ववृत्तिव्याप्यत्वसाधारणस्य दृश्यत्व-मात्रस्येत्यर्थः ।। अङ्गीकृतत्वेनेति । अन्यथा वेदान्तानां वैयर्थ्यापत्तिरिति भावः । दृग्जन्यफलाश्रयत्वमेव दृश्यत्वं परेण वक्तव्यमित्युपपाद्य तत्र दूषणमाह ।। ज्ञाततेति ।। अन्यत्रेति । ज्ञानव्यतिरिक्तज्ञाततायां प्रमाणा-भावादित्यादिना प्रमाणलक्षणादावित्यर्थः ।। दृश्यत्वाभावादिति । दृग्जन्यज्ञाततालक्षणफलाश्रयत्वाभावादित्यर्थः । एवमनिर्वचनीयदृश्यत्वपक्षे दृग्जन्यज्ञाततारूपफलाश्रयत्वरूपदृश्यत्वपक्षे चास्मन्मतानुसारेण संपूर्णा-सिद्धिपरत्वेन मूलं व्याख्यायाधुना ज्ञाततामङ्गीकुर्वन्तं वादिनं प्रति भागा-सिद्धो हेतुरित्येवंपरत्वेनापि व्याख्याति ।। ज्ञातताङ्गीकारेऽपीति । अतीतादावित्यादिपदेनानागतग्रहणम् । असति धर्मिणि धर्मजननायोगा-दिति भावः ।। अतीन्द्रियेष्विति । ऐन्द्रियकेष्वेव पदार्थेषु ज्ञानेन तज्जननाङ्गीकारादिति भावः ।।

योगविभाग इति । योगो वाक्यं दृश्यत्वाभावादित्येकं वाक्यम् । असिद्धो हेतुरित्यपरं वाक्यमित्यर्थः ।। तेनेति । विभक्तेनासिद्धो हेतुरिति वाक्येनेत्यर्थः ।। आश्रयासिद्धिसङ्ग्रहोऽपीति । एकवाक्यतापक्षे प्रागसिद्धि-सङ्ग्रहार्थतया व्याख्यातत्वादपिशब्दः । पूर्वं साध्यधर्मं प्रति आश्रयाभावे-नाश्रयासिद्धिः प्रतिज्ञादूषणत्वेनोक्ता । इदानीमसिद्धाश्रयकत्वम् असदाश्रय-कत्वमिति यावत् । हेतुदूषणत्वेनोच्यत इत्यर्थः । कथमसदाश्रयकत्वं हेतोरित्यत आह ।। उपपत्तिस्त्विति । जगतो भावादित्युक्तेत्यर्थः । जगतो भावात् सद्वैलक्षण्येनाङ्गीकृतत्वेनासत्वप्राप्तेर्हेतोरसदाश्रयकत्वमितिभावः ।। कथमिति । साध्याविशिष्टत्वादिति भावः । हेतुमत् साध्यम् ।। सामान्येति । यथाऽयं वृक्षः शिंशुपात्वादित्यत्र शिंशुपात्वं वृक्षत्वसामान्य-हेतुस्तथा दृश्यत्वाभावरूपो विशेषोऽसिद्धत्वसामान्ये हेतुरिति न साध्या-विशिष्टतेत्यर्थः । शब्दो नित्यश्चाक्षुषत्वात् इत्यादौ चाक्षुषत्वादावपि असिद्धत्वस्य विद्यमानत्वादसिद्धत्वं सामान्यं दृश्यत्वाभावस्तु तद्विशेष इति भावः ।। व्यवहारो वेति । दृश्यत्वाभावाद्धेतुरसिद्ध इति व्यवहर्तव्य इति व्यवहारस्य साध्यत्वात्तयोर्भेद इत्यर्थः ।। एवमुत्तरत्रापीति । सपक्षाभावा-द्विरुद्ध इत्यादावपि सामान्यविशेषभावेन वा व्यवहारस्य साध्यत्वमङ्गीकृत्य वा हेतुहेतुमद्भावस्समर्थनीय इत्यर्थः ।।

श्रीगुरुराजीयटिप्पणी

दृग्जन्यफलाश्रयत्वमिति ।। अन्तःकरणवृत्तिरूपदृग्जन्यफलाश्रयत्व-मित्यर्थः । दृश्यत्वस्य वृत्तिव्याप्यत्वमात्ररूपतायाः दृग्विषयत्वमात्ररूप-ताया अपि सम्भवात् किमिति तत्परित्यागेनात्र दृग्जन्यफलाश्रयत्व-पर्यन्तधावनमित्यतः तन्मात्रस्य हेतुत्वानुपपत्तेरिति तामुपपादयति ।। वृत्तीति ।। प्रमाणजनितान्तःकरणपरिणामरूपवृत्तिविषयत्वस्येत्यर्थः ।। साधारणत्वस्येति ।। अविवक्षितविशेषस्य दृग्विषयत्वस्येत्यर्थः ।। अङ्गीकृतत्वेनेति ।। अनुभूतेः प्रमाणजन्यस्फुरणाश्रयतया स्फुरणकर्मतया वा घटादिवत् विषयभावाभावेऽपि प्रमाणजनितान्तःकरणवृत्तिव्याप्यत्वे विषयत्वाङ्गीकारेण स्वप्रकाशत्वाविरोधादिति चित्सुखोक्तेरिति भावः । यद्यप्यनेन वृत्तिविषयत्वाङ्गीकारस्यैव सिद्धिः न तु दृग्विषयत्वाङ्गीकार-स्यापि । तथापि वृत्तिविषयत्वाङ्गीकारसिद्धौ ब्रह्मण्यविवक्षितविशेषस्य दृग्विषयत्वस्यापि वृत्तिविषयत्वरूपविशेषमादाय पर्यवसन्नतया तदङ्गी-कारस्यापि सिद्धिरिति द्रष्टव्यम् । अस्तु तर्हि वृत्तिजन्यफलाश्रयत्व-मित्यतोऽत्र फलं किं मद्रीत्या व्यवहारोऽभिमतः भट्टरीत्या ज्ञातता त्वद्रीत्या वृत्तिप्रतिफलितचैतन्यं वा तदभिव्यक्तं विषयाधिष्ठानचैतन्यं वेति विकल्पात् । नाद्यः । आदानादेर्गगनादावभावेन भागासिद्ध्यापातात् । अभिलापस्य चात्मान्यपि सद्भावादनैकान्त्यापातादिति । आद्यपक्षदूषणं च मनसि निधाय द्वितीयं पक्षं दूषयति ।। ज्ञाततेति ।। अन्यत्रेति ।। न च प्रमाणतोऽन्या स्यात् प्रमितिर्नाम कुत्रचिदित्यादिनाऽनुव्याख्यानादावित्यर्थः ।। दृश्यत्वा-भावात् ।। दृग्जन्यज्ञाततारूपफलाश्रयत्वाभावात् ।। अतीतादाविति ।। असति धर्मिणि धर्मजननायोगात् अतीतानागतयोर्दृग्जन्यज्ञातताश्रयत्वा-भावात् भागासिद्धिरित्यर्थः । नन्वतीतादेरपि स्वसत्ताकाले दृग्जन्यज्ञात-ताश्रयत्वात् न भागासिद्धिरित्यत आह ।। अतीन्द्रियेषु चेति ।। नित्यातीन्द्रियेष्वित्यर्थः ।

तृतीयचतुर्थयोरपि निराकरणार्थमेतदेव वाक्यम् ।। ज्ञाततालक्षण-स्येति ।। तत्र ज्ञाततापदं चैतन्यपरम् । ततश्च चैतन्यरूपफलस्यान्यत्र निराकृतत्वेनास्मिन् मते वृत्तिप्रतिफलितचैतन्यं प्रति तदभिव्यक्तविषया-धिष्ठानचैतन्यं प्रति वा विषयत्वस्य प्रपञ्चेऽभावादसिद्धिः स्यादित्यर्थः ।

अस्तु तर्हि त्वद्रीत्यैवायं हेतुरित्यतस्तथा सत्यतीतादौ तदभावा-द्भागासिद्धिः स्यादित्याह ।। ज्ञातताङ्गीकारेऽप्यतीतादाविति ।। तदपि स्वसत्ताकाले फलव्याप्यमिति नासिद्धिरित्यतस्तथापि नित्यातीन्द्रिये तदभावादसिद्धिरेवेत्याह ।। अतीन्द्रियेषु चेति ।। न च तस्यापि योगिनं प्रति फलव्याप्यत्वान्नासिद्धिरिति वाच्यम् । चित्सुखेन ‘न च योगि-प्रत्यक्षगम्यतयाऽपरोक्षत्वं धर्मादीनां चोदनैकप्रमाणगम्यत्वात्’’ इत्युक्तत्वेन तद्विरोधापातादित्याशयात् ।। अतः कथं हेतुहेतुमद्भाव इति ।। अभेदे उभयोरपि ज्ञातत्वस्यैवाज्ञातत्वस्यैव वा प्रसङ्गेन हेतुहेतुमद्भावप्रयोजक-ज्ञाताज्ञातविभागासम्भवादिति भावः ।

तत्रैवेति ।। तद्ग्रन्थव्याख्यानावसर एवेत्यर्थः ।। वक्ष्याम इति ।। रजतज्ञानस्य शुक्तिसन्निकृष्टेनेन्द्रियेण जातत्वाच्छुक्तिविषयत्वेऽप्यसता रजतेनेन्द्रियस्य सन्निकर्षासम्भवेन रजतसन्निकृष्टेनेन्द्रियेणाजातत्वात् यत्स-न्निकृष्टकरणेन यज्ज्ञानं जन्यते स तस्य विषय इत्येवंरूपदृग्विषयत्वा-भावाच्छुक्तिरजतादेर्दृश्यत्वाभावः उत्तरग्रन्थार्थः । दृग्विषयत्वाभावेऽपि दृग्व्यावर्तकतामात्रस्यासत्यपि रजते सत्त्वात् तदभ्युपगमेन शुक्तिरजतादे-र्दृश्यत्वसद्भाव एतद्ग्रन्थार्थ इति न विरोध इति वक्ष्याम इत्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

दृश्यात्वाभावादसिद्धो हेतुरिति मूलं प्रकारान्तरेण योजयति । अथ वेति । वृत्तिव्याप्यत्वस्येति । वृत्तिव्याप्यत्वरूपविशेषधर्मावच्छिन्नस्य दृश्यत्वरूपसाधारणधर्मावच्छिन्नस्य चात्मनि व्यभिचारेण हेतुं कर्त्तुम-शक्यत्वात् इत्यर्थः । एतेनात्मनि वृत्तिव्याप्तत्वस्य साधारणस्य सत्वाभि-धानमयुक्तम् । वृत्ति व्याप्यत्वातिरिक्तस्य साधारणस्यादर्शनादिति निरस्तम् । वृत्तिव्याप्यत्वमेव वृत्तिव्याप्यत्वरूपविशेषधर्मावच्छिन्नं दृश्यत्व-रूपसामान्यं धर्मावच्छिन्नं भवति । तच्च विपक्षगामीति द्वयोरपि हेत्वो-र्व्यभिचार इत्याशयात् । दृग्जन्यफलं ज्ञाततैवेति पक्षे बाधकमाह ।। ज्ञाततालक्षणफलस्येति ।। भागासिद्धिपरतया मूलं योजयति ।। ज्ञात-ताङ्गीकारोऽपीति ।। उपपत्तिस्त्विति ।। जगतोभावादिति पूर्वोक्तैवो-पपत्तिरनुसन्धेयेत्यर्थः । जगतः सत्वविरहाङ्गीकारादाश्रयताप्रयोजकसत्ता-शून्यस्याश्रयत्वायोगात् आश्रयासिद्धो हेतुरिति भावः । इतःपरं टीकायां श्रूयमाणानां ‘ननु दृश्यत्वाभावातिरिक्तं न तस्यासिद्धत्वं नाम । अतः कथं हेतुहेतुमद्भावः । मैवम् । सामान्यविशेषाभावेन वृक्षत्वशिंशुपात्वयोरिवो-पपत्तेः । व्यवहारो वा साध्य इत्यदोषः । एवमुत्तरत्रापि वेदितव्यमिति’ व्यवहितवाक्यानामर्थो मया न बुद्धः ।।

व्यप्तिभङ्गभेदवतां असिद्धादीनां दुष्टत्वक्रमनिरूपणम्

टीका

व्याप्तिभङ्गभेदाः विरुद्धानैकान्तिकानध्यवसिताः । तत्र विरुद्धो विपरीतनिश्चयं करोति । अनैकान्तिकः सन्देहमुत्पादयति । अनध्यवसितस्तु ज्ञानमेव न जनयति । तदेवं दुष्टत्वक्रमानुरोधेन व्याप्त्यभावमुद्भावयिष्यन् विरुद्धं तावदाह–

दृश्यत्वहेतोर्विरुद्धत्वसमर्थनम्

मिथ्यात्वानुमानखण्डनम्

अनिर्वचनीयासिद्धैरेव सपक्षाभावाद्विरुद्धः

टीका

हेतुरिति सर्वत्रानुवर्तते । ननु साध्यविपरीतव्याप्तो हेतुर्विरुद्ध उच्यते । न तु सपक्षशून्यः । तथा सति केवलव्यतिरेकिणो हेतो-रनध्यवसितविशेषस्यापि विरुद्धत्वप्राप्तेः । तत्कथमुक्तं ‘सपक्षाभावा-द्विरुद्धः’ इति ? कथं च अनिर्वचनीयासिद्धेः सपक्षाभावः ? न ह्यनिर्वचनीयता मिथ्यात्वं इति परेणोक्तमिति । मैवम्, एवं हीदं विज्ञायते । यावन्तो हि मिथ्यात्वविकल्पास्ते सर्वे नासत्त्वा-निर्वचनीयत्वाभ्यां बहिर्भूता इत्युपपादितम् । तत्रासत्यत्वमप-सिद्धान्तादिभयान्न परेणाङ्गीकृतमिति वाचनिकविन्यासभेदेनाप्य-निर्वचनीयत्वमेव परस्याभिप्रायव्याप्तम् । ततोऽनिर्वचनीयेनैव सपक्षेण भाव्यम् । तथा च यथा अनिर्वचनीयासिद्धेरप्रसिद्ध-विशेषणत्वाद्युक्तम् एवं तत एव सपक्षाभावाद्वियदादिव्यतिरिक्तं सर्वं विपक्ष इति शुक्तिरजतादौ विपक्षे वर्तमानत्वात्साध्यविपरीतव्याप्त्या विरुद्धो हेतुरिति ।

मूले पूर्वापरविरोधशङ्का तत्परिहारश्च

ननु ‘रजतं दृष्टमिति भ्रममात्रत्वात्’ इति शुक्तिरजतादे-र्दृश्यत्वाभावं वक्ष्यति । अतः कथं न विरोधः ? सत्यं, यथा न विरोधस्तथा तत्रैव वक्ष्यामः ।

दृश्यत्वहेतोः साध्याभावेन व्याप्तिसमर्थनम्

अथ वा ‘आत्मनोऽपि दृश्यत्वात्’ इति वक्ष्यमाणमत्रापि सिंहावलोकनन्यायेन सम्बद्ध्यते । तत्र ‘सपक्षाभावात्’ इत्यनेन साध्यसम्बन्धाभाव उपपादितः । ‘आत्मनोऽपि दृश्यत्वात्’ इत्यनेन तदभावसम्बन्धः समर्थितः । तथा च विपरीतव्याप्तिरेव सिद्धा भवतीति ।

मन्दारमञ्जरी

व्याप्तिभङ्गभेदा इति ।। साध्याभावमात्रसम्बन्धसाध्यतदभाव-सम्बन्धानुभयसम्बन्धरूपाणां व्याप्तिभङ्गानां क्रमेण विरुद्धादिनिष्ठत्वात् विरुद्धादयो व्याप्तिभङ्गविशेषवन्त इत्यर्थः । यद्वा विरुद्धादिशब्दानां भाव-प्रधानत्वाद्विरुद्धत्वादयो व्याप्तिभङ्गविशेषा इत्यर्थः ।। तत्र विरुद्ध इत्यादि ।। विरुद्धस्य स्वव्यापको यः साध्याभावः तन्निश्चायकत्वाद्विपरीतनिश्चय-जनकत्वम् । अनैकान्तिकस्य स्वसहचरितसाध्यतदभावलक्षणकोटि-द्वयस्मरणद्वारा संशयहेतुत्वम् । अनध्यवसितस्य तु साध्यासहचरितस्य तदबोधकत्वमित्यर्थः ।। दुष्टत्वक्रमेति ।। लोके हि कर्तव्याकरणम-कर्तव्यकरणं चेति दोषः । प्रकृते च कर्तव्या साध्यप्रमा । अकर्तव्या च तदभावप्रमा । तत्रानध्यवसितस्य कर्तव्याकरणमात्रम् । इतरयोश्चाकर्त-व्यकरणविशिष्टम् । तत्राप्यनैकान्तिकजन्या संशयरूपा च या अप्रमा सा साध्यमप्यवलम्बते । विरुद्धजन्या साध्याभावनिश्चयरूपा प्रमा न साध्यगन्धं सहत इति विरुद्धस्यातितरां दुष्टत्वमनैकान्तिकस्यातिदुष्टत्वं अनध्यवसितस्य दुष्टत्वमात्रमिति क्रम इत्यवगन्तव्यम् ।

अन्ये तु विरुद्धो विपरीतनिश्चयमित्यस्य ग्रन्थस्य विरुद्धः साध्या-भावव्याप्तत्वात् साध्याभाववति साध्यविषयकविपर्ययं जनयतीत्यर्थः । अनैकान्तिकस्तु सन्देहमित्यादेः पूर्वोक्त एवार्थ इति वदन्तस्तदनुसारेण दुष्टत्वक्रमेत्येतमपि ग्रन्थं विरुद्धस्य विपर्ययजनकत्वादतितरां दुष्टत्वं अनैकान्तिकस्य सन्देहजनकत्वादतिदुष्टत्वं अनध्यवसितस्तु ज्ञानमेव न जनयतीति तस्य दुष्टतामात्रमिति व्याचक्षते ।

अनध्यवसितविशेषस्येति ।। अविद्यमानसपक्षविपक्षस्य ‘सर्वमनित्यं सत्त्वात्’ इत्यादेः, विद्यमानविपक्षस्य अविद्यमानसपक्षस्य ‘सर्वं कार्यं प्रधानान्वितं कार्यत्वात्’ इत्यादेरनध्यवसितस्येत्यर्थः । ‘भूर्नित्या गन्ध-वत्त्वात्’ इति विद्यमानसपक्षानध्यवसितव्युदासाय विशेषग्रहणम् ।

परेण विरुद्धतापरिहारानुपयोगितया पश्चादाशङ्कितमपि सपक्षसद्भावं सपक्षाभावादिति मूलग्नन्थोक्तसपक्षाभावरूपहेतोरसिद्धिकथनार्थत्वेन अत्यन्त मूलग्रन्थविरोधितया प्रथमं निषेधति ।। यावन्तो हीति ।। विपरीतव्याप्त्या विरुद्ध इति ।। आचार्येण विपरीतव्याप्त्युपपादनाय सपक्षाभाव उक्तो न तु विरुद्धलक्षणतयेति भावः ।। वक्ष्यतीति ।। तथा च तेन अस्य शुक्तिरूप्या-देर्दृश्यत्वमङ्गीकृत्य प्रवृत्तस्य विरोध इति शेषः ।। तथा चेति ।। तद-सम्बन्धित्वे सति तदभावसम्बन्धिनस्तदभावव्याप्तिरिति नियमाद्विपरीत-व्याप्तिसिद्धिरिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

विरुद्धेत्यादि । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धसाध्य-तदभावोभयसम्बन्धोभयसम्बन्धाभावसंज्ञाः विरुद्धानैकान्तिकानध्यवसिता इत्यर्थः । दुष्टत्वक्रममुपपादयति ।। तत्र विरुद्ध इत्यादिना ।। दुष्टत्व-क्रमेति । विपरीतनिश्चयो दुष्टतमः संशयो दुष्टतरः ज्ञानाजननं दुष्टमात्रमिति क्रमो द्रष्टव्यः ।। सर्वत्रेति । विरुद्धोऽनैकान्तिक इत्यादौ उत्तरत्र सर्वत्रेत्यर्थः। ननु सपक्षशून्यत्वमेव विरुद्धत्वं किन्न स्यादित्यत आह ।। तथा सतीति ।। केवलव्यतिरेकीति । जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यत्र प्राणादि-मत्त्वहेतोरपीत्यर्थः ।। अनध्यवसितविशेषस्येति । अविद्यमानसपक्षविपक्षस्य सर्वमनित्यं सत्वादित्यस्येत्यर्थः । भूर्नित्या गन्धवत्त्वादिति विद्यमान-सपक्षानध्यवसितव्युदासाय विशेषस्येत्युक्तमिति ज्ञातव्यम् ।

सपक्षशून्यत्वं न विरुद्धलक्षणत्वेनाभिप्रेतं येनोक्तदोषः स्यात् । किं नामाभिप्रायान्तरमस्तीत्याशयेन परिहरति ।। मैवमित्यादिना । इदं मूल-वाक्यम् ।। वाचनिकेति । मिथ्यात्वमिति वाचनिकव्यवहारविशेषेणेत्यर्थः ।। वर्तमानत्वादिति । दृश्यत्वहेतोरिति शेषः । ननु दृश्यत्वहेतोः शुक्ति-रजतादौ विपक्षे वर्तमानत्वमङ्गीकृत्य विरुद्धत्वोक्तौ उत्तरग्रन्थविरोधमाशङ्क्य परिहरति ।। नन्वित्यादिना ।। तत्रैव वक्ष्याम इति । दृग्विषयत्वाभावेऽपि दृग्व्यावर्तकत्वमात्रं असतोऽपि रजतस्यास्तीति तदभ्युपगमेन न विरुद्धादि-वादविरोध इति वक्ष्याम इत्यर्थः । तत्रेत्यनन्तरं अनिर्वचनीयासिद्धेरेवेति पूरणीयम् ।। तथा चेति । तदसम्बन्धित्वे सति तदभावसम्बन्धिनः तदभावव्याप्तिनियमाद्विपरीतव्याप्तिसिद्धिरिति भावः ।।

मिथ्यात्वानुमानखण्डनपरशुः

व्याप्तिभङ्गादिति । भङ्गशब्दोऽत्र भावसाधनः । व्याप्तेर्भङ्गः अभावो यस्मिन्निति विग्रहवता बहुव्रीहिणा व्याप्तिभङ्गशब्देन व्याप्तिशून्यमुच्यते । व्याप्तिशून्यश्च विरुद्धोऽनैकान्तिकोऽनध्यवसितश्चेति त्रिविधो भवतीत्यर्थः ।। विरुद्ध इति ।। विरुद्धत्वज्ञानाभावे विपक्षे साध्यमस्तीति भ्रमे विरुद्धस्य साध्येन व्याप्तिग्रहे विरुद्धभ्रमरूपानुमितिं जनयति । विरुद्धत्वज्ञाने साध्या-भावनिश्चयं जनयतीत्यर्थः । सन्देहमुत्पादयतीति ।। अनैकान्तिकत्व-ज्ञानाभावे सन्देहहेतुकानुमितिमुत्पादयतीत्यर्थः ।। अयं भावः । वस्तुतः अनैकान्तिकस्य साध्येन व्याप्तिग्रहे साध्यवति प्रमाऽनुमितिः साध्याभाववति भ्रमानुमितिर्भवति । इदमेव अनुमित्योः संशयरूपत्वं यत् सम्भूय प्रमा प्रमारूपत्वं अनैकान्तिकत्वज्ञाने तत्साध्यसन्देहमुत्पादयतीति द्रष्टव्यम् । अनध्यवसित इति सर्वस्यापि पक्षत्वेन व्याप्तिग्रहणस्थलाभावात् । व्याप्ति-प्रमाभ्रमयोः प्रायशोऽभावेन सहकारिविरहात् ज्ञानमेव न जनयतीत्यर्थः । एतेन परोपदेशेन व्याप्तिग्रहे भ्रमप्रमान्यतरानुमितिजनकत्वसद्भावाज्ज्ञानमेव न जनयतीत्ययुक्तमिति परास्तम् । प्रायशो नानुमितिजनकत्वमित्यत्र तात्पर्यात् । विरुद्धं तावदाहेति ।। धर्मविचारमपहाय हेतुकृद्धृश्यत्वमात्रस्य सत्वाद्विरुद्धतां तावदाहेत्यर्थः । एतेन विरुद्धत्वं किमनिर्वचनीयं दृश्यत्वस्योच्यते । उत सत्यं दृश्यत्वस्य । नाद्यः । तस्य त्वया सत्वाङ्गी-कारेण विरुद्धत्वाभिधानायोगात् । न ह्यसन्साध्याभावव्याप्यश्चेति सम्भवति । न द्वितीयः । तस्य परेण हेतुत्वानभिधानादिति परास्तम् । अनध्यवसितविशेषस्यापीति । सर्वमभिधेयं प्रमेयत्वादित्यादेरपि विरुद्धत्व-प्राप्तेरित्यर्थः ।। वाचनिकविन्यासभेदेनेति ।। क्वचित्सदसद्विलक्षण-शब्देनानिर्वचनीयमुच्यते । क्वचित्तु सदसत्वानधिकरण शब्देन क्वचिद-निर्वचनीयशब्देन क्वचिच्छब्दान्तरेणानिर्वचनीयमुच्यत इत्यर्थः ।।

सपक्षाभावादिति । ननु सपक्षाभावात् पक्षातिरिक्तं सर्वं विपक्ष एवेत्ययुक्तम् ।। शुक्तिरजतादौ साध्यविप्रतिपत्तिसद्भावेन पक्षत्व-स्यौचित्यात् । अत एव परेण विमतिविषयत्वमात्रस्य पक्षत्वलाभाय विमतमित्येव पक्षनिर्देशः कृतः । यस्य तु शुक्तिरजतादौ साध्यं सिद्धं तं प्रति तस्य सपक्षत्वमित्यभिप्रेत्य यथा सम्प्रतिपन्नमित्युक्तम् । यथा वादिप्रतिवादिनोः साध्यवत्तया संमतः सपक्षः एवं साध्याभाववत्तया द्वयोः संमत एव पक्षविपक्षः । एवं च शुक्तिरजतादावनिर्वचनीयत्वाभाव-स्योभयसम्प्रतिपन्नत्वाभावान्न तस्य विपक्षत्वमिति चेदुच्यते । सत्यत्व-मिथ्यात्वाभ्यां वादिप्रतिवादिविमतिविषयस्यैव पक्षत्वेन शुक्तिरजतादौ चास्माभिः सत्यत्वानङ्गीकारेण विप्रतिपत्यभावात् न पक्षेऽन्तर्भाव उचितः । यद्यपि शुक्तिरजतादिकमनिर्वचनीयं नेत्यस्माभिरङ्गीकारात् परेण चा-निर्वचनीयत्वाभ्यां अङ्गीकारादनिर्वचनीयाभ्यां विप्रतिपत्तिरस्ति तथापि न सा पक्षत्वप्रयोजिका । किन्तु सत्यत्वानिर्वचनीयत्वाभ्यां विप्रतिपत्तिरेव पक्षता-प्रयोजिका इति न पक्षान्तर्भावसम्भवः । यद्यपि चोक्तं साध्याभाववत्तयो-भयवादिसंमतस्यैव विपक्षत्वेन शुक्तिरजतादौ तदभावान्न विपक्षत्वमिति । तदपि न । शुक्तिरजतगतं साध्यं मिथ्येति वदता विप्रतिपन्नोपाधौ तदत्यन्ताभावस्याङ्गीकृतत्वेन साध्याभाववत्तया उभयसंमत्यपरिहारात् । असदेवेदं रजतं प्रत्यभादित्यनुभवबलेन परेणापि शुक्तिरजतादौ अनिर्वच-नीया(त्वा)भावमङ्गीकारयिष्यामीति भावेन विपक्षत्वाभिधानमित्येके ।

दृश्यत्वहेतोरनैकान्तिकतासमर्थनम्

मिथ्यात्वानुमानखण्डनम्

आत्मनोऽपि दृश्यत्वादनैकान्तिकः

टीका

न केवलं सपक्षस्य शुक्तिरजतादेः । किं तु ? विपक्ष-स्यात्मनोऽपीति योजना । नन्वेतद्विरुद्धम् । प्रागनिर्वचनीयाभावा-त्सपक्षाभाव उक्तः । इदानीं तु तद्भावः । न हि तदभावे तत्र दृश्यत्वस्य वृत्तिः सम्भवतीति । सत्यम्, अभ्युपगमवादोऽय-मित्यदोषः । वाद्यनैकान्तिको वा । आत्मनि दृश्यत्वस्य तं प्रति समर्थनात् ।

अथ वा मिथ्यात्वं नाम असत्वं वा अनिर्वचनीयत्वं वा सद्वि-विक्तत्वं वा वक्तव्यम् । तत्र अनिर्वचनीयत्वे साध्ये विरुद्धत्व-मुक्त्वा असत्वसद्विविक्तत्वयोरनैकान्तिकत्वमनेनोच्यते । एतेन लक्षणविरोधोऽपि परिहृतः ।

मन्दारमञ्जरी

वाद्यनैकान्तिको वेति । वस्तुतः सपक्षाभावेऽपि परेण सपक्षस्य तस्मिंश्च हेतुवर्तनस्य चाङ्गीकृतत्वादित्यर्थः । तर्हि परेण विपक्षवृत्तित्वस्यानङ्गीकारात् न तद्रीत्या अनैकान्तिकत्वमित्याशङ्क्य युक्तिबलात्परेण तदङ्गीकार्यमित्याह ।। आत्मनीति ।। एतेनेति ।। विरुद्धानैकान्तिकत्वयोः पक्षभेदेन व्यवस्थितत्वेन लक्षणविरोधः साध्यतदभावसम्बन्धतदभावमात्रसम्बन्धगर्भयोरनैकान्तिक-विरुद्धलक्षणयोर्विरोधः परिहृत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

शुक्तिरजतादेरिति । दृश्यत्वमिति शेषः ।। तद्भाव इति । सपक्ष-सद्भाव अपिपदेनोपपादित इत्यर्थः । कथमित्यतस्तदुपपादयति ।। न हीति । तदभावे सपक्षाभावे ।। अभ्युपगमवादोऽयमिति । सपक्षसद्भाव-मङ्गीकृत्यात्मनोपीत्युक्तमित्यर्थः ।। वाद्यनैकान्तिको वेति । वस्तुतः सपक्षाभावेऽपि परेण सपक्षस्याङ्गीकृतत्वात् । न केवलं शुक्तिरजतादेः सपक्षस्य दृश्यत्वं किं तु विपक्षभूतस्यात्मनोऽपि दृश्यत्वाद्वाद्यनैकान्तिक इत्यर्थः । ननु परेण विपक्षभूतस्यात्मनो दृश्यत्वानङ्गीकारेण हेतोरेवाभावात् न व्यभिचार इत्यत आह ।। आत्मनीति ।। समर्थनादिति । ब्रह्मज्ञानाय प्रवृत्तानां वेदान्तानां वैयर्थ्यापत्त्यादिरूपयुक्तिभिरित्यर्थः ।। उक्त्वेति । सपक्षाभावेनेति शेषः ।। असत्वसद्विविक्तत्वयोरिति । साध्यत्वपक्ष इत्यर्थः ।

नन्वेकस्यैव दृश्यत्वहेतोर्विरुद्धत्वानैकान्तिकत्वे विरुद्धे । तथाहि । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धवान् विरुद्धः साध्यतदभावोभय सम्बन्धवान् अनैकान्तिक इति विरुद्धानैकान्तिकलक्षणयोः परस्परं विरुद्धत्वादित्यत आह ।। एतेनेति । यदाऽनिर्वचनीयत्वं साध्यं तदा सपक्षाभावेन विरुद्धत्वं यदा चासत्वं सद्विविक्तत्वं वा साध्यं तदाऽ-नैकान्तिकत्वं इत्येवं विरुद्धत्वानैकान्तिकत्वयोः पक्षभेदेन व्यवस्थितत्वात् लक्षणविरोधोऽपि परिहृत इत्यर्थः ।।

मिथ्यात्वानुमानखण्डनपरशुः

इदानीमिति ।। आत्मनोऽपीत्यपिशब्देन न केवलं सपक्षस्य शुक्ति-रजतादेः । किं त्वात्मनोऽपीति समुच्चयपरेणोक्तं तद्भाव उक्तप्राय इत्यर्थः ।। वाद्यनैकान्तिको वेति ।। न वस्तुगत्या हेतुरनैकान्तिकः । किं तु वादिना सपक्षाङ्गीकारात् तद्रीत्यैवायं हेतुरनैकान्तिक इत्यर्थः ।। वादिनाऽत्मनि दृश्यत्वानङ्गीकारात् कथं वाद्यनैकान्तिक इत्यत आह ।। आत्मनीति । एतेनेति ।। साध्यभेदेन विरुद्धत्वमनैकान्तिकत्त्वं च भवतीति प्रतिपादनेन विरुद्धस्यैवानैकान्तिकत्वाभिधाने पक्षत्रयवृत्तिरनैकान्तिक इति लक्षणविरोधः ।

आत्मनः स्वप्रकाशत्वेन दृश्यत्वाभावशङ्का

टीका

आह, नात्मनो दृश्यत्वं युक्तम् । तस्यापराधीनप्रकाशत्वात् । तथाहि, ममेदमनुकूलं प्रतिकूलमिति वा विज्ञानस्य अवच्छिन्न-प्रकाशत्वेन अवच्छेदकात्मप्रकाशनान्तरीयकत्वात् अवश्यमात्मा प्रकाशत इत्यङ्गीकार्यम् । तस्य च मानसवेदनीयतायां वृत्तिविरोधात्, संवित्कर्मतामन्तरेणापरोक्षस्य संविदधीनप्रकाशताविरोधात् परिशेषतः स्वप्रकाशतासिद्धिरिति ।

आत्मनो दृश्यत्वसमर्थनम्

तत्रेदं वक्तव्यं, किमात्मनो निरुपाधिकरूपमपराधीनप्रकाशम् ? उत सोपाधिकमपि ? आद्ये किमनेनानुकूलप्रतिकूलसम्बन्धिनः सोपाधिकस्यापराधीनप्रकाशताप्रतिपादनेन । द्वितीये तु ज्ञानमात्र-स्यात्मन्यवृत्तिप्रसङ्गात् ।

सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते

इत्यादिस्ववचनविरोधश्च स्यात् । किं च ‘आत्मा न पराधीन-प्रकाशः’ इति वृत्तिविषयो न वा ? आद्ये दृश्यत्वापत्तिः । मूकोऽह- मितिवत्स्वक्रियाविरोधश्च । द्वितीये व्यतिरेकासिद्ध्या सन्दिग्धा-नैकान्तिकः ।

सोपाधिकस्य दृश्यत्वव्यतिरेकावच्छिन्नस्य दृश्यत्वं स्यादेवेति आनन्दबोधोक्तिनिरासः ।

नन्वात्मनो निरुपाधिकं रूपमेवापराधीनप्रकाशम् । सोपाधिकं तु पराधीनप्रकाशमपि । तेन स्वप्रकाशत्वेऽपि व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति चेत् न । व्यतिरेकावच्छिन्नस्य सत्यत्वे अनैकान्त्य-तादवस्थ्यात् । मिथ्यात्वे किमनेन सिद्धेनापि व्यतिरेकेण । प्रत्युत तस्य पक्षतया भागासिद्धिश्च स्यात् ।

दृश्यत्वव्यतिरेकावच्छिन्नं दृश्यमिति विप्रतिषिद्धं च । अत एव ‘यतो वाचः’ इत्यादिश्रुतयोऽप्यन्यथा योजनीयाः । निरुपाधिकरूपे पुनस्तदवस्थो व्यतिरेकानिश्चयः ।

मन्दारमञ्जरी

आत्मनः स्वप्रकाशतामुपपादयितुं प्रकाशमात्रं तावदुपपादयति ।। ममेदमिति । ‘ममेदमनुकूलम्’ इत्यादिज्ञानस्य अहमर्थविशिष्टानुकूलादि-वस्तुप्रकाशत्वेन अवच्छेदकात्मप्रकाशोऽङ्गीकार्यः । दण्ड्यादिलक्षणा-वच्छिन्नप्रकाशस्य दण्डादिलक्षणावच्छेदकप्रकाशसाहित्यनियमदर्शनादित्यर्थः। एवमात्मनः प्रकाशमात्रमुपपाद्य तस्यापराधीनप्रकाशत्वसिद्धये नैयायि-काङ्गीकृतां मानसवेद्यतां तावन्निषेधति ।। तस्येति ।। आत्मनो मनोजन्य-स्वनिष्ठज्ञानवेद्यत्वे स्वनिष्ठक्रियायाः स्वस्मिन्विषये वृत्तिरापद्येत । सा चायुक्ता । देवदत्तगताया गतेस्तद्विषयत्वादर्शनादित्यर्थः । नन्वस्त्वात्मनो मानसवेदनीयत्वाभावः । तथाप्यपराधीनता आत्मप्रकाशस्य कुतः ? ज्ञानाश्रयत्वेनाप्यात्मनः प्रकाशोपपत्तेरिति भास्करस्य शङ्कां निरस्यति ।। संवित्कर्मतामिति ।। अयमर्थः, आत्मा न संविदधीनप्रकाशः संवित्कर्मता-मन्तरेणापरोक्षत्वात् संवेदनवत् । घटादौ धर्माधर्मादौ च व्यभिचार-परिहारार्थं हेतुगतं विशेषणद्वयम् । न च नैयायिकादीन्प्रति

विशेषणासिद्धिः । संवित्कर्मत्वे वृत्तिविरोधस्योक्तत्वात् । न च निदर्शनस्य साध्यवैकल्यम् । संविदः संविदन्तराधीनप्रकाशत्वे अनवस्थानादिति ।

परिहरति ।। तत्रेदमिति ।। आद्यं दूषयति ।। आद्य इति ।। निरुपाधिकस्यैवापराधीनप्रकाशत्वे ममेदमित्यादिना अनुकूलादिविशिष्टस्य अन्तःकरणसम्बन्धिचैतन्यरूपस्य अहमर्थस्य स्वयंप्रकाशत्वसाधनमसङ्गत-मित्यर्थः । द्वितीयं दूषयति ।। द्वितीय इति ।। निरुपाधिकरूपवत्सोपाधिक रूपस्याप्यपराधीनप्रकाशत्वाङ्गीकारे आत्मनि ज्ञानमात्रं निषिद्धं स्यात् । तथा चापसिद्धान्तः स्यात् ।

सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ।

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ।।

इति मण्डनमिश्रादिभिस्तस्य वेद्यताभिधानादित्यर्थः । दोषान्तरमाह ।। किं चेति ।। ‘आत्मा न पराधीनप्रकाशः’ इत्येवंप्रकारवृत्तिविषयो न वेति विकल्पार्थः ।। स्वक्रियाविरोध इति ।। यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवचननिषेधो विरुद्ध्यते तथा ‘आत्मा पराधीनप्रकाशो न’ इति आत्मसम्बन्धित्वेन पराधीनप्रकाशनिषेधकात्मविषयकज्ञानक्रियया नेति-पदोक्तस्तन्निषेधो विरुद्ध्यत इत्यर्थः ।। द्वितीय इति ।। यत्र मिथ्यात्वा-भावस्तत्र दृश्यत्वाभाव इति व्यतिरेकोऽस्ति न वा ? आद्ये आत्मन्येव स दर्शयितव्यः । अत्यन्तासति सद्विविक्तत्वरूपमिथ्यात्वस्य पराधीनप्रकाशत्व-रूपदृश्यत्वस्य च सद्भावेन तत्र व्यतिरेकासम्भवात् । न चात्मनि स शक्यो दर्शयितुम् । ‘आत्मा न पराधीनप्रकाशः’ इति पराधीनप्रकाशत्वरूप-दृश्यत्वाख्यसाधनाभावविषयकज्ञानं प्रत्यात्मनो विषयत्वाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वात् । द्वितीये सन्दिग्धानैकान्तिकता । निश्चित साध्याभाववति साधनाभावनियमानिश्चयेन तत्र साधनसन्देहादित्यर्थः ।

ननु ‘आत्मा न पराधीनप्रकाशः’ इति वृत्तिविषय इत्याद्यः पक्षोऽङ्गीक्रियते । तर्हि दृश्यत्वं स्यादिति चेत् किं निरुपाधिकस्य ? किं वा सोपाधिकस्य ? नाद्यः अपराधीनप्रकाशत्वविशिष्टस्यैव तत्र स्फुरणा-न्निरुपाधिकस्य तत्रास्फुरणात् । न द्वितीयः सोपाधिकस्य दृश्यत्वाङ्गी-कारादिति चोदयति ।। नन्विति ।। निरुपाधिकं रूपमेवापराधीनप्रकाशं सोपाधिकं तु तदेव रूपं पराधीनप्रकाशमपीत्यपिशब्दो योज्यः । एवं च निरुपाधिकस्यापराधीनप्रकाशत्वेऽपि दृश्यत्वाभावावच्छिन्नस्य दृश्यत्वसिद्धौ सिद्धो व्यतिरेक इत्याह ।। तेनेति ।। तत्रेदं वक्तव्यं, किं सोपाधिके व्यतिरेकः प्रदर्श्यते ? किं वा निरुपाधिके ? आद्ये सोपाधिकं सत्यं मिथ्या वा । आद्यं दूषयति ।। न व्यतिरेकावच्छिन्नस्येति ।। व्यतिरेका-वच्छिन्नस्यादृश्यत्वे तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वात् सत्यस्य दृश्यत्वावश्यम्भावाद्व्यभिचार इत्यर्थः । द्वितीयं दूषयति ।। मिथ्यात्व इति ।। अनेन दृश्यत्वरूपसाधनस्य व्यतिरेकेण किमपि । मिथ्यात्वरूप-साध्यव्यतिरेकाभावेन व्यतिरेकव्याप्तेरदर्शितत्वादित्यर्थः ।। भागासिद्धि-रिति ।। सोपाधिकस्य मिथ्यात्वे तस्यापि पक्षीकर्तव्यतया दृश्यत्वस्य तत्रावृत्तौ भागासिद्धिरित्यर्थः ।

एवं विशिष्टस्य मिथ्यात्वात् विशिष्टे साध्यव्यतिरेको नास्तीत्युक्तम् । इदानीं साधनव्यतिरेको वा तज्ज्ञानं वा त्याज्यम् । साधनव्यतिरेको हि सोपाधिकस्य दृश्यत्वव्यतिरेकावच्छिन्नत्वमपेक्षते । सोपाधिकावच्छिन्नतया साधनव्यतिरेकज्ञानं तु सोपाधिकस्य दृश्यत्वमपेक्षते । न च दृश्यत्व-व्यतिरेकावच्छिन्नत्वयोरेकत्रावस्थानं युक्तं विरोधात् । एवं च ‘व्यतिरेका-वच्छिन्नस्य स्यादेव दृश्यता’ इति आनन्दबोधोक्तिश्च व्याहतेत्याह ।। दृश्यत्वव्यतिरेकेति ।।

दृश्यत्वदृश्यत्वाभावयोः सामानाधिकरण्यशङ्का तन्निरासश्च

ननु भावाभावयोः सामानाधिकरण्ये हि विप्रतिषेधः स्यात् । न त्वेतदस्ति । स्वरूपमात्रे दृश्यत्वाभावः, स्वरूपमात्राद्भिन्ने दृश्यत्व-व्यतिरेकावच्छिन्ने दृश्यत्वमित्यधिकरणभेदाङ्गीकारादिति चेत् । मैवम् । दृश्यत्वव्यतिरेकाश्रयस्य दृश्यत्वव्यतिरेकावच्छिन्नतया दृश्यतासिद्ध्यर्थं दृश्यत्वव्यतिरेकदृश्यत्वयोः सामानाधिकरण्यस्यावश्यकत्वात् । अन्यथा एकत्र व्यतिरेकः अपरत्र दृश्यत्वव्यतिरेकाभाव इत्युक्तौ यत्र व्यतिरेकमात्रं तत्र स्वरूपमात्रसिद्धावपि तदवच्छिन्नतया व्यतिरेकज्ञानासम्भवः । न हि तस्याज्ञाने तदवच्छिन्नतया किञ्चिज्ज्ञातुं शक्यम् । यत्र दृश्यत्वमात्रं तत्र तद्व्यतिरेकस्यैव असम्भव इति दूरे तदवधारणमिति ।

श्रुतिभिरपि सर्वथा दृश्यत्वं निषिद्ध्यते चेत् ब्रह्मसम्बन्धित्वेनैव तन्निषेद्धव्यम् । न च ब्रह्मणोऽज्ञाने तत्र दृश्यत्वं निषेद्धुं शक्यम् । अज्ञाते धर्मिणि धर्मनिषेधायोगात् । एवं च सर्वथा दृश्यत्वनिषेधे व्याघातादेव अन्यपरत्वं तासामित्याह ।। अत एवेति ।। एवं ताव-दवच्छिन्नस्य दृश्यत्वेन तन्निष्ठतया व्यतिरेकस्य शक्यज्ञानत्वेऽपि अवच्छिन्नस्य मिथ्यात्वाद्दृश्यत्वाच्च साध्यसाधनयोर्व्यतिरेकस्वरूपमेव तत्र न सम्भवतीति सोपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षो दूषितः । इदानीं

निरुपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षं दूषयति ।। निरुपाधिक इति ।। निरुपाधिकस्यात्मनः सत्यत्वेन तत्र साध्यव्यतिरेकस्य अदृश्यत्वेन साधनव्यतिरेकस्य च स्वरूपतः सद्भावेऽपि निरुपाधिकस्य अदृश्यतया तन्निष्ठत्वेन व्यतिरेकनिश्चयो न सम्भवतीति तत्र तन्निश्चयं वदता तस्य दृश्यत्वं वक्तव्यमित्यनैकान्तिकत्वमित्यर्थः ।

आत्मस्वरूपस्यादृश्यत्वेऽपि दृश्यत्वाभाववैशिष्ट्यस्य दृश्यत्वशङ्का तन्निरासश्च

अत्र केनचित्प्रलपितं, स्वयंप्रकाशत्वेन प्रकाशमाने आत्मनि ‘यतो वाचो निवर्तन्ते’ इत्यादिवाक्याददृश्यत्वाकारा बुद्धिरुत्पद्यते । तस्यां चाभिव्यक्तो दृगात्मा स्वाध्यस्तं दृश्यत्वाभाववैशिष्ट्यं साधयति । एवं चात्मस्वरूपेऽदृश्येऽपि दृश्यत्वाभाववैशिष्ट्यं दृश्यं भविष्यति । न च वाच्यं दृश्यत्वाभाववैशिष्ट्यस्य मिथ्यात्वे दृश्यत्वं वास्तवं स्यादिति । स्वप्ने भावतद्विपर्यययोरध्यस्तता दर्शनादिति । तत्तुच्छम् । तथा हि, अदृश्यत्वाकारबुद्धिः किमात्मावच्छिन्नमदृश्यत्वं बोधयति ? उता-नवच्छिन्नम् ? आद्ये अवच्छेदकात्मनोऽपि ज्ञानं स्यात् । द्वितीये कथं दृश्यत्वाभावविशिष्टस्यात्मीयतासिद्धिः ? वाक्यादुत्पन्नायाश्च वृत्तेरध्यस्त-दृश्यत्वविषयकत्वेन कथं वाक्याप्रामाण्यापातः । किं चैवमारोपितो दृश्यत्वव्यतिरेकः आत्मनीव प्रपञ्चेऽप्यस्तीत्यसिद्धिः । प्रपञ्चे दृश्यत्व-मारोपितमस्तीति नासिद्धिरिति चेत् तर्ह्यात्मन्यप्यध्यस्तं तदस्तीति व्यभिचारः । किं च दृश्यत्वाभावस्याध्यस्तत्वे तदभावरूपेण दृश्यत्वेन बाधगोचरेण भवितव्यम् । बाधविषयस्य चाध्यस्तत्वे बाधस्याप्रामाण्य-प्रसङ्गात्सत्यतासिद्धिः । अत एव स्वप्नदृष्टान्तोऽप्यसम्प्रतिपन्न इत्यलं दुर्बलहिंसया ।

श्रीनिवासतीर्थीयटिप्पणी

दृश्यत्वमिति । वृत्त्यधीनप्रकाशत्वरूपवृत्तिविषयत्वाख्यं दृश्यत्व-मित्यर्थः । कुत इत्यत आह ।। तस्येति । अपराधीनप्रकाशत्वात् । पराधीनप्रकाशत्वाभावात् । स्वप्रकाशत्वादित्यर्थः । आत्मनः स्व-प्रकाशत्वमुपपादयितुं प्रकाशमात्रं तावदुपपादयति ।। ममेदमित्यादिना अङ्गीकार्यमित्यन्तेन ।। अवच्छिन्नप्रकाशत्वेनेति । अहमर्थविशेषण-कानुकूलादिवस्तुविशेष्यकविशिष्टज्ञानत्वेनेत्यर्थः ।। अवच्छेदकेति । विशेषणीभूतेत्यर्थः । नान्तरीयकत्वात् । नियतत्वात् । दण्डीत्यादि-विशिष्टज्ञानस्य दण्डादिरूपविशेषणज्ञानसापेक्षत्वदर्शनादित्यर्थः । एव-मात्मनः प्रकाशमात्रमुपपाद्य तस्य अपराधीनप्रकाशत्वरूपस्वप्रकाशत्व-सिद्धयेऽपराधीनप्रकाशत्वपक्षे किं नैयायिकरीत्या मानसवेद्यत्वं अङ्गीक्रियते उत प्राभाकररीत्या स्वप्रकाशज्ञानाश्रयतया आत्मप्रकाश इति विकल्प्याद्यं निषेधति ।। तस्येति । अहमिति मानसवेद्यत्वाङ्गीकार इत्यर्थः ।। वृत्ति-विरोधादिति । स्वनिष्ठायाः क्रियायाः स्वविषयत्वे विरोधात् । क्रियाश्रयः कर्ता क्रियाविषयः कर्म, तथा च कर्तृत्वकर्मत्वयोरेकत्र वृत्तिविरोधा-दित्यर्थः । तथाहि । मनोजन्यं ज्ञानं आत्मनिष्ठम् । तथा चात्मनो मनोजन्यस्वनिष्ठज्ञानवेद्यत्वे स्वनिष्ठायाः ज्ञानरूपक्रियायाः स्वस्मिन् विषये वृत्तिरापद्येत । न च सा युक्ता । ग्रामादिरूपगम्यविषयकदेवदत्तगते-र्देवदत्तविषयकत्वादर्शनादिति भावः ।

द्वितीयं प्रतिषेधति ।। संवित्कर्मतामिति ।। संविदधीनेति । संविदाश्रयतयेत्यर्थः । तथाहि । आत्मांशस्वात्मांशवेद्यांशरूपत्रिपुटी-प्रत्यक्षवादी हि प्राभाकरः । तन्मते घटमहं जानामीति ज्ञानाकारः । तत्र घटमिति वेद्यांशो भासते अहमित्यात्मांशः जानामीति स्वात्मांशः । तत्र चात्मा स्वप्रकाशज्ञानाश्रयतया प्रकाशत इत्युच्यते तदयुक्तम् । आत्मा, संविदाश्रयतया न संविदधीनप्रकाशः । संवित्कर्मतामन्तरेण अपरोक्षत्वा-त्संवेदनवदित्यनुमानविरोधादित्यर्थः । संवित्कर्म(तामन्तरेणाय)त्वेना-परोक्षस्यैव घटादेः संविदधीनप्रकाशत्वं दृष्टम् । आत्मनश्च संवित्कर्मत्वा-भावेऽप्यपरोक्षत्वात्संविदधीनप्रकाशत्वं नास्तीत्यर्थः । अत्र घटादौ व्यभिचार वारणाय संवित्कर्मतामन्तरेणेत्युक्तम् । संवित्कर्मत्वशून्यत्वादित्येवोक्तौ धर्मादौ व्यभिचारः स्यादतोऽ परोक्षत्वादित्युक्तम् ।

न च नैयायिकादीन्प्रति विशेषणासिद्धिरिति वाच्यम् । मनोजन्याया आत्मनिष्ठायाः संविद आत्मकर्मकत्वे वृत्तिविरोधस्यैवोक्तत्वात् । न च दृष्टान्तस्य साध्यवैकल्यं शङ्क्यम् । संविदः संविदन्तराधीनत्वाङ्गीकारे अनवस्थापत्तेरिति । इत्याहेति सम्बन्धः । परिहरति ।। तत्रेदमिति । निरुपाधिकं देहेन्द्रियान्तःकरणरूपोपाध्यविशिष्टं शुद्धम् ।। सोपाधिकम-पीति । निरुपाधिकं सोपाधिकं चेत्युभयमप्यपराधीनप्रकाशमित्यर्थः ।। आद्य इति । निरुपाधिकस्यैवापराधीनप्रकाशत्वे अनुकूलादिसम्बन्धिनः चिदचित्संवलनात्मकाहमर्थविशिष्टस्य ममेदमित्यादिनाऽपराधीनप्रकाशत्व-रूपस्वप्रकाशत्वसाधनमसङ्गतमित्यर्थः ।। आत्मनीति । विषयसप्तमीयम् । तथा च निरुपाधिकरूपवत्सोपाधिकरूपस्याप्यपराधीनप्रकाशत्वाङ्गीकारे आत्मनि ज्ञानमात्रं निषिद्धं स्यात् । आत्मनो ज्ञानविषयत्वमेव निषिद्धं स्यादिति यावत् । अस्तु को दोष इति चेत्तत्राह ।। सर्वेति । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यत इति वाक्यशेषो द्रष्टव्यः । तथा च मण्डन-मिश्रेण तस्य वेद्यत्वाभिधानात्तदनङ्गीकारे अपसिद्धान्तः स्यादिति भावः । दोषान्तरमाह ।। किञ्चेति । वृत्तिविषयो न वेति । आत्मा न पराधीन-प्रकाश इति वाक्यजन्यज्ञानविषयो न वेत्यर्थः ।। दृश्यत्वापत्तिरिति । तथा च व्यभिचार इति भावः ।।

स्वक्रियाविरोधश्चेति । मूक इति वचनक्रियाभावं विधत्ते मूकोऽह-मिति वचनक्रियां च करोति । तथा च यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवचननिषेधो विरुध्यते तथा आत्मा पराधीनप्रकाशो नेत्यात्म-सम्बन्धित्वेन पराधीनप्रकाशत्वनिषेधकात्मविषयकज्ञानक्रियया नेति पदोक्त- स्तन्निषेधो विरुध्यत इत्यर्थः ।। व्यतिरेकासिद्ध्येति । दृश्यत्वहेतौ यत्र मिथ्यात्वाभावः तत्र दृश्यत्वाभाव इति व्यतिरेकव्याप्तिस्तावदस्ति न वा । आद्ये सा नात्यन्तासति प्रदर्शयितुं शक्या । तत्र सद्विविक्तत्वरूप-मिथ्यात्वस्य पराधीनप्रकाशत्वरूपदृश्यत्वस्य च सद्भावेन (तत्र) व्यतिरेका सम्भवात् । तस्मादात्मन्येव सा दर्शयितव्या । न तत्र सा दर्शयितुं शक्या । तथा हि । पराधीनप्रकाशत्वरूपं यद्दृश्यत्वं तद्रूपं यत्साधनं तदभावविषयकं यज्ज्ञानं आत्मा न पराधीनप्रकाश इति वृत्तिरूपं ज्ञानं तत्प्रत्यात्मनो विषयत्वानङ्गीकारेण अधिकरणज्ञानाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातु-मशक्यत्वात् । द्वितीये सन्दिग्धानैकान्तिकता । निश्चितसाध्याभाववति आत्मनि हेतोः सन्दिग्धत्वादित्यर्थः ।

ननु आत्मा न पराधीनप्रकाश इति वाक्यजन्यवृत्तिविषय इत्याद्यपक्ष एवाङ्गीक्रियते तर्हि दृश्यत्वं स्यादिति चेत् । किं निरुपाधिकस्य स्यादि-त्युच्यते किं वा सोपाधिकस्य । नाद्यः । अपराधीनप्रकाशविशिष्टस्यैव तस्यां वृत्तौ स्फुरणेन निरुपाधिकस्य तत्र अस्फुरणात् । न द्वितीयः । इष्टापत्तेः । सोपाधिकस्य दृश्यत्वाङ्गीकारादिति शङ्कते ।। नन्विति । निरुपाधिकस्वरूपमेवापराधीनप्रकाशं सोपाधिकं तु तदेव स्वरूपं पराधीन प्रकाशमपीति योज्यम् । एवञ्च निरुपाधिकस्य अपराधीनप्रकाशत्वेऽपि दृश्यत्वाभावावच्छिन्नस्य दृश्यत्वनिषेधो व्यतिरेक इत्याह ।। तेनेति ।। व्यतिरेकावच्छिन्नस्येति । दृश्यत्वव्यतिरेकावच्छेदेनेत्यर्थः । अयमभि-सन्धिः । यथा हि स्वरूपेणापरिच्छिन्नं यद्गगनं तदेव घटाद्यवच्छेदेन परिच्छिन्नमुच्यते । एवं स्वरूपेणापराधीनप्रकाशं यन्निरुपाधिकं रूपं तस्यैव दृश्यत्वव्यतिरेकावच्छेदेन दृश्यत्वादधिकरणज्ञानसम्भवेन युक्तस्तत्र व्यतिरेकव्याप्तिग्रह इति ।

तत्रेदं वक्तव्यम् । किं सोपाधिके व्यतिरेकः प्रदर्श्यते किं वा निरुपाधिके । आद्ये तत्सोपाधिकं सत्यं मिथ्या वा । आद्यं दूषयति ।। व्यतिरेकावच्छिन्नस्य सत्यत्व इति । व्यतिरेकावच्छिन्नस्यादृश्यत्वे अधिकरणज्ञानाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वेन तदर्थं सत्यस्य तस्य दृश्यत्वावश्यंभावाद्व्यभिचार इत्यर्थः । द्वितीयं दूषयति ।। मिथ्यात्व इति । अनेन दृश्यत्वरूपसाधनव्यतिरेकेण सिद्धेनापि किं प्रयोजनं न किमपि । तत्र मिथ्यात्वरूपसाध्यव्यतिरेकाभावेन व्यतिरेक-व्याप्तेः प्रदर्शयितुमशक्यत्वादित्यर्थः ।। भागासिद्धिरिति । सोपाधिकस्य मिथ्यात्वे तस्यापि पक्षीकर्तव्यतया दृश्यत्वस्य तत्रावृत्तौ भागा-सिद्धिरित्यर्थः ।।

विप्रतिषिद्धं चेति । ननु भावाभावयोः सामानाधिकरण्ये हि विरोधः-स्यात् न चैतदस्ति । स्वरूपमात्रे दृश्यत्वाभावः । स्वरूपमात्राद्भिन्ने दृश्यत्वव्यतिरेकावच्छिन्ने सोपाधिके दृश्यत्वमित्यधिकरणभेदांगीकारादिति चेन्मैवम् । स्वरूपस्यैव दृश्यत्वव्यतिरेकावच्छिन्नत्वेन दृश्यत्वोक्तौ तदवच्छेदेन तस्यैव दृश्यत्वव्यतिरेकदृश्यत्वयोरैकाधिकरण्यप्राप्त्या विरोधः स्यादेवेत्याशयात् । नन्वात्मनो दृश्यत्वाङ्गीकारे यतो वाचो निवर्तन्ते । यत्तदद्रेश्यमित्यादिवेदाद्यज्ञेयत्वप्रतिपादकश्रुतिविरोधः स्यादिति चेत्तत्राह ।। अत एवेति । श्रुतिभिरपि ब्रह्मसम्बन्धित्वेनैव दृश्यत्वं निषेद्धव्यम् । न चाधिकरणभूतस्य ब्रह्मणोऽज्ञाने तत्र दृश्यत्वं निषेद्धुं शक्यम् । अज्ञाते धर्मिणि धर्मनिषेधायोगात् । सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इत्युक्तत्वात् । एवञ्च सर्वथा दृश्यत्वनिषेधे व्याघातप्रसङ्गादेव साकल्येना-ज्ञेयत्वपरतया श्रुतयो योज्या इत्यर्थः ।

एवं साध्यसाधनयोर्व्यतिरेकस्य सोपाधिकेऽसम्भवात् सोपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षो दूषितः । इदानीं निरुपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षं दूषयति ।। निरुपाधिकरूप इति । निरुपाधिकस्यात्मनः सत्यत्वेन तत्र साध्यव्यतिरेकस्य (अदृश्यत्वे) सद्भावेन साधनव्यतिरेकस्य च स्वरूपतः सद्भावेऽपि तज्ज्ञानार्थं तदधिकरणीभूतस्य ज्ञातव्यत्वेन दृश्यत्व प्राप्त्या अनैकान्तिकत्वमित्यर्थः ।।

श्रीगुरुराजीयटिप्पणी

इति वा विज्ञानस्येति ।। अनेन विप्रतिपन्नं विज्ञानमवच्छेदकी-भूतात्मप्रकाशपूर्वकं तदवच्छिन्नविषयकज्ञानत्वात् । यद्यदवच्छिन्नविषयकं विज्ञानं तत्तदवच्छेदकप्रकाशपूर्वकम् । यथा दण्डी देवदत्त इति दण्डा-वच्छिन्नदेवदत्तविषयकं विज्ञानमवच्छेदकदण्डप्रकाशपूर्वकमित्यनुमानमुक्तं भवति । न चोक्तरूपज्ञानसद्भावे मानाभावादाश्रयासिद्धिरनुकूलविषयक-प्रवृत्तेः प्रतिकूलविषयकनिवृत्तेश्चोक्तरूपज्ञानसाध्यतया तदभावेऽसम्भवेन तदन्यथानुपपत्त्यैव तत्सिद्धेरिति भावः ।। परिशेषत इति ।। प्रसक्त-प्रतिषेधेऽन्यत्राप्रसङ्गात् परिशिष्यमाणे सम्प्रत्ययः परिशेषः । एतदुक्तं भवति । विद्यते तावदात्मप्रकाशः । अन्यथा ममेदमनुकूलमित्यादिविशिष्ट-ज्ञानासम्भवात् । स च न मानसप्रत्यक्षः । नापि विषयसंविन्निबन्धनः । न चानुमानिकः अपरोक्षावभासत्त्वात् । न च भ्रान्त्या बाधकाभावात् । न चान्यद्गत्यन्तरमस्तीति स्वत एव वाच्य इति ।। किमात्मन इति ।। आत्मनोऽपि निरूपाधिकरूपमेवापराधीनप्रकाशमित्येतत्कल्पार्थः । अत एवोत सोपाधिक मपीत्युभयोरपि स्वप्रकाशत्वद्योतकोऽपिशब्दः सङ्गच्छते । अन्यथा उत सोपाधिकमित्येवावक्ष्यदिति द्रष्टव्यम् । आद्य इत्यादिको ग्रन्थः चिरन्तनटीकायां स्पष्टः ।

मिथ्यात्वानुमानखण्डनपरशुः

सपक्षशून्यस्य पक्षाश्रयवृत्तित्वाभावादिति परास्तमित्यर्थः । अनैकान्त्य-परिहारं शङ्कते ।। आहेति । नात्मन इति ।। नन्वात्मन दृश्यत्वा-भावव्युत्पादनायानुमानप्रयोगोऽनुपपन्नः । अस्यानुमानस्य तदसाधकत्वात् । तत्साधकत्वाङ्गीकारे आत्मन एतज्जन्यज्ञानविषयत्वेन दृश्यत्वापातात् । न ह्यनुमानं स्वजन्यज्ञानविषयकस्य चिदर्थस्य साधकं वा भवति । अन्यथाऽति प्रसङ्गात् । अपराधीनप्रकाशत्वेऽपि बाधकाभावेन दृश्यत्वसम्भवादप्रयोजकं चानुमानमिति चेदुच्यते । एवं परो मन्यते । नात्मा एतदनुमानजन्य-ज्ञानविषयः । येनोक्तदोषः स्यात् । किं नाम एतदनुमानाभिव्यक्तात्मरूप-प्रकाशविषयः वृत्तिविषये प्रयुज्यमानमनुमानं वृत्तिजनकम् । तदविषये प्रयुज्यमानं स्वरूपज्ञानाभिव्यञ्जकम् । एवं च दृश्यत्वव्यतिरेक-साधकत्वादनुमानप्रयोग उपपन्नः । न चाप्रयोजकता । यत्स्वप्रकाशं तन्न दृश्यमिति व्याप्तेः ।। स्वरूपप्रकाशेनैव सिध्या हेतुमङ्गीकृत्य साध्यानङ्गीकारे हेतुछेदस्यैव बाधकत्वात् न हि व्यापकाभावे व्याप्तं सम्भवतीति ।। ममेदमिति ।। ननु परिशेषेण स्वप्रकाशत्वसाधनाय ममेदमनुकुलं प्रतिकूल-मिति अवच्छिन्नप्रकाशोपन्यासो न युक्तः परिशेषाभावप्रसङ्गात् । न हि ममेदमनुकूलं प्रतिकूलमिति मानसज्ञानविषयत्वमभ्युपगम्य तस्य मानस-वेदनीयताया वृत्तिविरोधादिति तन्निषेधो युज्यते । किं च ममेदमनुकुलं प्रतिकूलमिति वृत्तिविषयत्वरूपदृश्यत्वस्यावर्जनीयत्वात् स्वप्रकाशसाधन-वैयर्थ्यम् । न हि वृत्तिविषयत्वमुपजीव्यसिद्धं स्वप्रकाशकत्वं वृत्तिविषयत्व-प्रतिक्षेपायालं यतः स्वप्रकाशसाधनं सार्थकं स्यात् इति चेदुच्यते । एवं हि पूर्वपक्षी मन्यते । विषयविशिष्टज्ञानं विशिष्टस्यैव दृश्यत्वापादकम् । न विशेषणस्य विशिष्टज्ञानत्वात् । अन्यथा पटज्ञानप्रयुक्तं दृश्यत्वं घटस्यापि स्यात् । न च विशिष्टज्ञानं विशेषणस्यापि ज्ञानं विशिष्टज्ञातमिति प्रसिद्धि-वत् विशेषणज्ञानमित्यपि प्रसिद्धिप्रसङ्गात् । कथं तर्हि विशिष्टज्ञाने विशेषणस्य प्रकाशप्रवाद इति चेत् उच्यते । विशिष्टज्ञानं विशेषणज्ञानं नान्तरीयकमिति ज्ञानयोर्विवेकाग्रहात् । विशिष्टज्ञाने विशेषणं भासत इति प्रवादः । न चैवं सति मानसवेद्यत्वप्रतिषेधानुपपत्तिर्भवति । मानसविशिष्ट-ज्ञानविषयत्वानङ्गीकारात् । तदिदमुक्तम् । अवच्छेदकात्मप्रकाश-नान्तरीयकत्वादिति । अत एव न स्वप्रकाशत्वसाधनवैयर्थ्यम् । तस्य दृश्यत्वमुपजीव्याप्रवृत्तत्वेन तत्प्रतिक्षेपकत्वसम्भवात् ।। तस्य च मानस-वेदनीयतायामिति ।। मानसवेदनीयतायां मानसज्ञानस्यात्मनिष्टत्वं न स्यात् । न हि स्वविषयकक्रियायाः स्वनिष्ठत्वं (स्ववृत्तित्वं) सम्भवति । देवदत्तनिष्ठायाः गमनादिक्रियायाः अन्यविषयत्वस्य नियमेन दर्शनादित्यर्थः । घटमहं जानामीत्यादिज्ञानमात्मांशवेद्यांशस्वात्मांशानां प्रकाशरूपम् । एवं च घटादिसर्वज्ञानेषु आत्मा प्रकाशते । न तु स्वप्रकाश इति मतं दूषयति ।। संविदिति ।। कस्यापि संवित्कर्मतामन्तरेण सुषुप्तिकाल इति शेषः । सुषुप्तिकाले कस्यापि संवित्कर्मतामन्तरेण घटादिविषयकवृत्तिज्ञाना-भावेऽपीति यावत् । स्वप्रकाशमानस्यात्मनः वृत्तिज्ञानाश्रयतया प्रकाशाभि-धानं न युज्यते । वैय्यर्थ्याख्यविरोधापातादित्यर्थः ।। किमनेनेति ।। निरुपाधिकस्य स्वप्रकाशतासिद्ध्यर्थं प्रयतमानस्य तदसाधकेन सोपाधिकस्य तत्साधकेन किं प्रयोजनमित्यर्थः ।। द्वितीये त्विति ।। उभयोरपि स्वप्रकाशत्वेन ज्ञानानां मध्ये कस्यापि ज्ञानत्वं न स्यात् । ततश्च वचनविरोधः स्यादिति भावः । उपलक्षणमेतत् । दृश्यत्वस्य निरुपाधिके ब्रह्मणि व्यभिचारे चोदिते दृश्यत्वनिरासाय तस्यैव स्वप्रकाशत्वस्य समर्थनीयत्वेन तद्विहाय विशिष्टस्य स्वप्रकाशत्वसमर्थनमसङ्गतमित्यपि द्रष्टव्यम् ।। मूकोऽहमितिवदिति ।। यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवचनाभावो विरुध्यते । एवमात्मवृत्तिविषयो नेति वृत्तेरात्म-विषयीकरणं व्यापारेण नञर्थो बाध्यते इत्यर्थः ।।

द्वितीये व्यतिरेकासिद्ध्या ।। ननु व्यतिरेकासिद्ध्या सन्दिग्धा-नैकान्तिक इत्युक्तम् । व्यतिरेकसंदेहस्यैव सन्दिग्धानैकान्त्यप्रयोजन-वत्वेनासिद्धिमात्रस्य तदप्रयोजकत्वात् ।। न च व्यतिरेकसन्देहोऽस्त्विति वाच्यम् । सन्देहप्रयुक्तदृश्यत्वस्यावर्जनीयत्वेनानैकान्त्यस्यैव दृश्यत्वा (वक्तव्यत्वा) पातात् ।। किञ्च न पराधीनप्रकाश इति ।। वृत्ति-विषयत्वाभावे घटादिवत् पराधीनप्रकाशं स्यात् । पराधीनप्रकाशविषयत्व-मन्तराधीनप्रकाशविषयो नेति वृत्तिविषयत्वनिषेधायोगात् । अपि च आत्मा न पराधीनप्रकाश इति वृत्तिविषयो नेति वृत्तिविषयत्वेनैव दृश्यत्वम-वर्णनीयम् । अपि च साध्याभाववत्तया निश्चयेनैव दृश्यत्वं प्राप्तमिति सन्दिग्धानैकान्त्यचोदनमयुक्तमिति चेदुच्यते । न ब्रूमो वयं सन्दिग्धा-नैकान्त्यमेवेति । येनोक्तदोषः स्यात् । किन्तु सन्दिग्धानैकान्त्यमपीति । तथाहि । पूर्वमात्मनि दृश्यत्वं नास्तीत्युक्तम् । पश्चादात्मा वृत्तिविषयो नेति वृत्तिविषयत्वं निषिद्धम् । तद्वाक्यश्राविणामज्ञानिनां निर्णायकाभावात् संशयो भवति । किमात्मनि दृश्यत्वमस्ति न वेति । ततश्च सन्दिग्धा-नैकान्त्यम् । प्राज्ञानां तु त्वदुक्तरीत्या दृश्यत्वनिश्चयसम्भवेन निश्चिता-नैकांत्यमेवेति ।

निश्चितानैकान्त्ये वक्तव्ये यत्सन्दिग्धानैकान्त्यवचनं तदज्ञानमपि परानुमाने दोषस्फूर्तिर्भवति । किमु ज्ञानमिति सूचनायेति बोध्यम् । निरुपाधिकस्यात्मनः न पराधीनप्रकाश इत्येवमाकारकवृत्तिविषयत्वा-भावेऽपि न निरुपाधिकनिष्ठदृश्यत्वव्यतिरेकासिद्धिः । व्यतिरेकावच्छिन्नस्य पूर्वोक्तवृत्तिविषयत्वेन तयैव शुद्धनिष्ठदृश्यत्वव्यतिरेकविषयीकरणात्तद्यथा प्रथमक्षणावच्छिन्नस्य नीरूपस्याचाक्षुषत्वेऽपि रूपावच्छिन्नस्य चाक्षुष-त्वात् । तेनैव नीरूपगतघटत्वासिद्धिरिति भावेन शङ्कते ।। नन्विति ।। व्यतिरेकावच्छिन्नस्येति ।। यन्निष्ठतया व्यतिरेकस्य सिद्धिर्भवति । तस्य सत्यत्वदृश्यत्वव्यतिरेकनिश्चयार्थं दृश्यत्वस्याङ्गीकर्तव्यत्वेनानैकान्त्य-तादवस्थ्यमित्यर्थः ।। किमनेनेति ।। सत्ये व्यभिचारपरिहारार्थदृश्यत्व-व्यतिरेकस्य व्युत्पादनीयत्वेन मिथ्याभूते तद्व्युत्पादने न किमपि प्रयोजनमित्यर्थः । उपसंहरति ।। निरुपाधिकरूप इति ।।

प्रकारान्तरेण आत्मनो दृश्यत्वसमर्थनम्

टीका

एवमात्मैकत्वज्ञानमपि सोपाधिकविषयं चेत् न मोक्षसाधनं स्यात् । निरुपाधिकविषयत्वे दृश्यत्वापत्तिः ।

व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति

परवाक्येनैवाऽत्मनो दृश्यत्वसमर्थनम्

किं च यथा दण्डिनो दर्शने देवदत्तोऽपि दृष्ट एव एव-मवच्छिन्नात्मनो दृश्यत्वेऽप्यात्मा दृष्ट एवेति किमनेन ? तथापि शुद्धेन रूपेण न दृश्यत इति चेत् मा दर्शि । सत्येऽप्यात्मनि गतं दृश्यत्वम् । अनैकान्तिकं स्थितमेव । सोऽपि मिथ्येति चेत् तर्हि किमत्र व्यतिरेकग्रहणेन ? इत्युक्तम् । अपि चैवं घटोऽप्य-पराधीनप्रकाश इति भागासिद्धत्वं स्यात् ।

मन्दारमञ्जरी

प्रकारान्तरेणाप्यात्मनो दृश्यत्वमुपपादयति ।। एवमिति ।। सोपाधि-केति ।। मिथ्याभूतसोपाधिकविषयभ्रान्तिज्ञानस्याविद्यानिवर्तकत्वायोगा-दित्यर्थः । ‘व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यता’ इति परोक्त्यैव अवच्छेद्यस्यात्मनोऽपि दृश्यतामुपपादयति ।। किञ्चेति ।। शुद्धेन रूपे-णेति ।। विशेषणानवच्छिन्नस्वरूपेणेत्यर्थः । अत्र प्रष्टव्यं, किं ज्ञान-विषयत्वमात्रं दृश्यत्वम् ? किं वा शुद्धेन रूपेण ज्ञानविषयत्वम् ? आद्यं दूषयति ।। मा दर्शीति ।। सोऽपीति ।। यद्यप्यवच्छेद्यस्यात्मस्वरूपस्य परेण सत्यत्वमङ्गीक्रियते । अन्यथा शून्यवादप्रसङ्गात् । तथाऽप्य-नैकान्तिकतापरिहाराभिनिविष्टचेतसो विस्मृतसिद्धान्तस्येदं चोद्यमिति बोद्धव्यम् । सोऽपि मिथ्या चेत्साध्यव्यतिरेकाभावेन तथापि शुद्धेन रूपेण न दृश्यते इति वाक्यप्रतिपादितं दृश्यत्वव्यतिरेकावधारणं निष्प्रयोजन-मित्याह ।। तर्हीति ।। द्वितीयं दूषयति ।। अपि चेति ।। एवमपि च बुद्धिस्थद्वितीयपक्षाङ्गीकारेऽपि च । घटादेरपि घटत्वाद्यवच्छेदेन दृश्यत्वा-द्यङ्गीकारात्स्वरूपेणैव दृश्यत्वं भागासिद्धमित्यर्थः ।

टीकागतं घटादौ दृश्यत्वस्य भागासिद्धिकथनमयुक्तमिति शङ्का तत्परिहारश्च

ननु घटादेः सर्वस्यापि यत्किञ्चिद्विशेषणावच्छेदेनैव प्रतीयमानतया सम्पूर्णासिद्धिसम्भवे किमिति भागासिद्धिरुक्ता ? न चैवं घटत्वादेर-वच्छेदकस्याप्यवच्छेदकान्तरावच्छेदेन प्रतीतावनवस्थाप्रसङ्गः । घटा-द्यवच्छेदकं घटत्वादिकं प्रति तदवच्छेद्यस्य घटादेरेवावच्छेदकतया अवच्छेदकान्तरानपेक्षणात् । विशिष्टज्ञाने हि विशेषणविशेष्ये परस्परा-वच्छिन्ने एव प्रतीयेते इति चेत्सत्यम् । तथापि निर्विकल्पकवादे गोत्वादेरेकदापि विशेषणान्तरावच्छेदेनाप्रतीतेः तदभ्युपगमेन भागा-सिद्धिरुक्तेत्यदोषः ।

श्रीनिवासतीर्थीयटिप्पणी

प्रकारान्तरेणाप्यात्मनो दृश्यत्वमुपपादयति ।। एवमिति ।। न मोक्षसाधनं स्यादिति ।। मिथ्याभूतसोपाधिकविषयकज्ञानस्य भ्रमत्वे(न तेना)नाविद्यानिवृत्त्ययोगादिति भावः । निरुपाधिकविषयत्व इत्यत्र आत्मैकत्वज्ञानस्येति विभक्तिविपरिणामेनानुवर्तते । व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति परोक्त्यैव विशेष्यभूतात्मनो दृश्यत्वं प्राप्तमिति सदृष्टान्त-मुपपादयति ।। किञ्चेति ।। किमनेनेति । व्यतिरेकावच्छिन्नस्य दृश्यत्व-वचनेन किमित्यर्थः ।। शुद्धेन रूपेणेति । विशेषणानवच्छिन्न-स्वरूपेणेत्यर्थः । तथा च स्वरूपेण दृश्यत्वमेव हेतुत्वेन विवक्षितमिति भावः । अत्र प्रष्टव्यम् । किं ज्ञानविषयत्वमात्रं दृश्यत्वं शुद्धेन रूपेण ज्ञानविषयत्वं वा । आद्यं दूषयति ।। मा दर्शीति । शुद्धेन रूपेण ज्ञानविषयत्वं माऽस्त्वित्यर्थः ।। आत्मनीति । विशेषणानवच्छिन्नात्म-नीत्यर्थः । विशेषणावच्छिन्नस्वरूपेण तावद्दृश्यत्वं प्राप्तमेवेत्यर्थः ।। सोऽपीति । विशेषणावच्छिन्नस्वरूपात्मेत्यर्थः । तथा च सत्येऽप्यात्म-नीत्युक्तमसदिति नानैकान्तिकमिति भावः ।। तर्हीति । सोऽपि मिथ्या चेत् । तर्हि तत्र साध्यव्यतिरेकाभावेन शुद्धेन रूपेण न दृश्यत इति दृश्यत्वरूपहेतुव्यतिरेकावधारणं व्यर्थम् । साध्यव्यतिरेकाभावे हेतु-व्यतिरेकमात्रेण व्यतिरेकव्याप्त्यसिद्धेरित्यर्थः । द्वितीयं दूषयति ।। अपि चेति । एवमपि च बुद्धिस्थद्वितीयाङ्गीकारेऽपीत्यर्थः ।। घटोऽपीति । घटस्यापि घटत्वावच्छेदेन विशिष्टरूपेणैव दृश्यत्वाङ्गीकारात् । शुद्धेन रूपेण ज्ञानविषयत्वरूपं दृश्यत्वं भागासिद्धमित्यर्थः । यद्यपि निर्विकल्पकाङ्गीकारेण घटादौ भागासिद्धिः परिहर्तुं शक्या । तथापि निर्विकल्पकानङ्गीकाराभि-प्रायेणेदमित्यवगन्तव्यम् । तदङ्गीकारे तु धर्माद्यतीन्द्रियपदार्थेषु भागा-सिद्धिर्द्रष्टव्या । तत्र निर्विकल्पकस्याप्रवृत्त्या विशिष्ट रूपेणैव तेषां दृश्यत्वेन शुद्धेन रूपेण दृश्यत्वाभावादिति ।।

मिथ्यात्वानुमानखण्डनपरशुः

निरुपाधिकस्य दृश्यत्वमुपपादयति ।। किञ्चेति । सोऽपीति ।। यत्र दृश्यत्वं गतं सोऽपि मिथ्येति न व्यभिचार इत्यर्थः । तर्हीति ।। यदि सोऽपि मिथ्येति न व्यभिचारः । तर्हि दृश्यत्वस्य व्यभिचारपरिहाराय दृश्यत्वातिरेक ग्रहणार्थकत्वदीयप्रयत्नस्य वैयर्थ्यं स्यादित्यर्थः ।। अपि चैवमिति ।। निर्विकल्पकाभावात् । पराधीनप्रकाशे च विशिष्टस्यैवाभावेन विशिष्ट एव दृश्यत्वम् । न शुद्धघट इत्यापातेन भागासिद्धो हेतुः स्यादित्यर्थः ।

आत्मनो वृत्तिविषयत्वेऽपि दृश्यत्वाभावशङ्का तत्परिहारश्च

टीका

अपर आह, आत्मनो वृत्तिविषयत्वेऽपि न दृश्यत्वमनैकान्तिकम् । न हि दर्शनप्रतियोगितामात्रं दृश्यत्वं हेतुः । अपि तु स्वव्यवहारे स्वातिरेकिदर्शनापेक्षानियतिः । न चात्मनि स्वप्रकाशे साऽस्तीति । तदप्यसत् । स्वप्रकाशत्वाद्वितीयत्वादि रूपेण आत्मव्यवहारस्य स्वातिरेकिसंवित्सापेक्षतानियमात् । औपाधिकात्मविकल्पे तदुप-नायकप्रमाणापेक्षानियमेऽपि न स्वरूपमात्रव्यवहृतौ तदपेक्षेति चेत्तर्हि सममेतद्धटादाविति भागासिद्धिः स्यादित्युक्तम् । अथ घटे विशिष्ट-व्यवहारातिरिक्तो व्यवहार एव नास्तीति चेत् तुल्यमात्मनि । सुषुप्त्यादावस्तीति चेत् । कुतः सिद्धः ? ‘एतावन्तं कालं सुखमहं सुप्तोऽस्मि’ इत्युत्तरकालपरामर्शादिति चेत् तर्हि तत एव विशिष्ट-व्यवहारसिद्धिरिति तूष्णीमास्व ।

मन्दारमञ्जरी

दर्शनप्रतियोगितामात्रमिति ।। वृत्तिज्ञानं प्रति विषयतया सम्बन्धित्व-मात्रमित्यर्थः । आत्मनोऽपि स्वव्यवहारे स्वरूपसंविदपेक्षा नियतेत्यत उक्तं स्वातिरेकीति । कदाचित्तस्यैव अद्वितीयत्वादिव्यवहारे ‘एकमेवाद्वितीयं’ इत्यादिवाक्यजन्यवृत्तिसापेक्षत्वान्नियतिग्रहणम् ।

किं व्यवहारशब्देन विशिष्टव्यवहारो विवक्षितः ? स्वरूपमात्रव्यवहारो वा ? इति विकल्पं हृदि निधाय आद्यं प्रत्याह ।। स्वप्रकाशत्वेति ।। स्वप्रकाशत्वादिव्यवहारे ‘अत्रायं पुरुषः स्वयं ज्योतिः’ इत्यादिवाक्य-जन्यवृत्तिसापेक्षत्वादनैकान्तिकतेत्यर्थः । सोपाधिकात्मविषयविशिष्ट-व्यवहारे उपाध्युपनायकप्रमाणापेक्षानियमेऽपि न स्वरूपमात्रव्यवहार इति द्वितीयमाशङ्कते ।। औपाधिकेति ।। सुषुप्त्यादाविति ।। सुषुप्तिमूर्छादौ स्वरूपमात्रस्फुरणापरपर्यायाभिज्ञारूपो व्यवहारोऽस्तीत्यर्थः ।। तर्हि तत एवेति ।। परामर्शस्य सुखकालादिविशिष्टविषयतया तन्मूलाभिज्ञाया अपि तद्विषयकत्वं वाच्यम् । तयोः समानविषयकत्वनियमादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

दर्शनप्रतियोगितामात्रमिति । वृत्तिज्ञानं प्रति विषयतया सम्बन्धित्व-मात्रमित्यर्थः । येनात्मनोऽपि वृत्तिरूपज्ञानविषयत्वरूपदृश्यत्वसद्भावेन हेतुरनैकान्तिकः स्यादिति भावः ।। स्वव्यवहार इति । घटादिप्रपञ्चे अस्तीदम् । घटादिव्यवहारे घटाद्यतिरिक्तसंवित्सापेक्षत्वनियमात् । नास्ति चात्मनि । आत्मनः स्वप्रकाशत्वेन तद्व्यवहारे स्वातिरिक्तसंवित्सापेक्षत्व-नियमाभावादिति ज्ञातव्यम् । अत्र स्वातिरिक्तपदाभावे आत्मन्यतिव्याप्तिः स्यात् । आत्मनोऽपि स्वस्वरूपव्यवहारे स्वाख्यसंवित्सापेक्षतानियमात् । अत उक्तं स्वातिरिक्तेति । नियतिपदाभावे पुनरात्मन्यतिव्याप्तिः स्यात् । कदाचित्तस्यैवाद्वितीयत्वादिविशिष्टव्यवहारे स्वातिरिक्तविशेषणोपनायक-मानापेक्षासद्भावेऽपि स्वरूपव्यवहारे तदभावान्नियतिग्रहणेन तद्व्या-वृत्तिरिति पदकृत्यं द्रष्टव्यम् ।। सेति । स्वातिरिक्तसंवित्सापेक्षेत्यर्थः । अत्र व्यवहारशब्देन विशिष्टव्यवहारो विवक्षितः स्वरूपमात्रव्यवहारो वेति विकल्पं हृदि निधायाद्यं निराकरोति । स्वप्रकाशत्वेति । स्व-प्रकाशत्वादिविशिष्टव्यवहारस्वस्वप्रकाशत्वादिविशेषणोपनायकात्रायं पुरुषः स्वयंज्योतिरित्यादिवेदान्तवाक्यजन्यवृत्तिसापेक्षत्वनियमादनैकान्तिकतेत्यर्थः । सोपाधिकात्मविषयकविशिष्टव्यवहारे उपाध्युन्नायकप्रमाणापेक्षानियमेऽपि न स्वरूपमात्रव्यवहारे तदपेक्षेति द्वितीयमाशङ्कते ।। औपाधिकेति ।। सममेतदिति । घटादिप्रपञ्चेऽपि घटत्वादिविशिष्टव्यवहार एव विशेषणोप-नायकमानापेक्षानियमेऽपि न घटस्वरूपमात्रे तदपेक्षेत्यपि वक्तुं शक्यत्वेन भागासिद्धिः स्यादित्यर्थः ।। उक्तमिति । अपि चैवमित्यादिनोक्त-मित्यर्थः ।। व्यवहारः । स्वरूपमात्रव्यवहारः । तथाच विशिष्टव्यवहारे स्वातिरिक्तसंवित्सापेक्षत्वनियतिसद्भावात् न भागासिद्धिरिति भावः ।। तुल्यमिति । तथा चात्मन्यपि विशिष्टव्यवहारातिरिक्तस्वरूपमात्र-व्यवहाराभावेनोक्तरूपदृश्यत्वसद्भावाद्व्यभिचार इति भावः ।। सुषुप्ता-विति । सुषुप्तौ स्वरूपमात्रस्फुरणापरपर्यायाभिज्ञारूपो व्यवहारोऽस्तीत्यर्थः । सुषुप्त्यादाविति पाठे आदिपदेन मूर्छाग्रहणम् ।। कुत इति । सुषुप्तौ स्वरूपमात्रव्यवहारोऽस्तीति कुतः प्रमाणात्सिद्धमित्यर्थः । परामर्शः स्मरणम् । तत एव परामर्शबलादेव ।। विशिष्टेति । तथा च परामर्शस्य सुखकालादिविशिष्टविषयकतया तन्मूलाभिज्ञाया अपि तद्विषयकत्वं वाच्यम् । तयोः समानविषयकत्वनियमादित्यर्थः ।। तूष्णीमास्वेति । हेतोर्व्यभिचारस्य दृढत्वादिति भावः ।।

श्रीगुरुराजीयटिप्पणी

औपाधिकात्मेति ।। स्वप्रकाशत्वं नाम प्रकाशाभावोपाधिकं रूपम् । अद्वितीयत्वं नाम द्वैताभावोपाधिकं रूपम् । तत्प्रतिभासे तत्समर्पकस्य ‘अत्रायं पुरुषः स्वयं ज्योतिरिति एकमेवाद्वितीयम्’ इति प्रमाणस्यापेक्षाया-मपि तादृशप्रमाणव्यतिरेकेणापि स्वरूपमात्रस्य स्फुरणान्न स्फुरणमात्र-व्यवहृतावपेक्षत्वमित्यर्थः ।। उक्तमिति ।। उक्तप्रायमित्यर्थः । नन्वात्मनि विशिष्टव्यवहारेऽपि न विशेष्यांशे स्वातिरिक्तसंविदपेक्षा । स्वप्रकाशत्वात् । घटादौ तु घटांशेऽपीति नानैकान्त्यं नापि भागासिद्धिरित्यतस्तथा सति नियतपदवैयर्थ्यं स्यादित्याशयेनाह ।। तूष्णीमास्वेति ।।

मिथ्यात्वानुमानखण्डनपरशुः

न चात्मनीति ।। स्वरूपं संविदात्मव्यवहारदशायां स्वातिरेकि-संविदपेक्षाभावात् आत्मनि स्वातिरेकिसंज्ञापेक्षानियतिः नास्तीति भावः ।। स्वप्रकाशत्वाद्वितीयेति । अस्तु आत्मप्रकाशः तथापि न स्वरूपसंविदा आत्मव्यवहारो भवति आत्मव्यवहारमात्रस्य विशिष्टव्यवहारत्वेन विशेषणोपनायकप्रमाणेन विनाऽयोगात् । तथा च स्वव्यवहारस्वातिरेकि-संविदपेक्षारूपदृश्यत्वमवर्जनीयमिति भावः । स्वरूपमात्रव्यवहारोऽ-प्यात्मनो (प्यसिद्ध) इति भावेन शङ्कते ।। औपाधिकात्मविकल्प इति । तर्हीति ।। यदि विना प्रमाणं आत्मनि स्वरूपमात्रव्यवहारः स च स्वरूपज्ञानेनैव भवतीत्यङ्गीक्रियते तर्हि घटादावपि स्वरूपव्यवहारोऽस्ति । न च घटाद्यात्मक प्रकाशे नैतत् साध्य इत्यङ्गीक्रियताम् । अप्रामाणिक-कल्पनाया निरङ्कुशत्वादिति भावः ।। उत्तरकालपरामर्शादिति ।। उत्तरकालीनानुभवः सुषुप्तिकालीनार्थं विषयीकरणात् । तस्य चोपनाय-कान्तरायोगे तदुपनायकस्वरूपप्रत्ययसिद्धिः । प्रत्ययस्य व्यवहार-जनकत्वनियमात् । तज्जन्यस्वरूपमात्रव्यवहारसिद्धिरिति भावः ।। तर्हीति ।। उत्तरकालीनपरामर्शविशिष्टार्थोल्लेखात् सुषुप्तिकाले विशिष्टान-भुवो विशिष्टव्यवहारश्च सिद्ध्येत् न स्वरूपमात्रव्यवहार इति भावः ।।

फलव्याप्यत्वाभावेनात्मनो न दृश्यत्वमिति शङ्का तन्निरासश्च

टीका

अन्यस्त्वाह, वृत्तिविषयस्याप्यात्मनोऽनाधेयातिशयत्वात्प्रकाश रूपे प्रकारान्तरानुदयात्फलव्याप्यत्वाभावेन न दृश्यत्वमनैकान्तिक- मिति । तदेतदसिद्धिप्रसङ्गेन प्रागेव निरस्तमित्यलम् ।

मन्दारमञ्जरी

अन्यस्त्वाहेत्यादि ।। फलव्याप्यत्वाभावे हेतुः अनाधेयातिशय-त्वादिति । तत्र हेतुः प्रकाशरूप इति । यथा घटादौ तदाकारवृत्त्या स्फुरणरूपोऽतिशय आधीयते नैवमात्मनि । तस्यैव स्फुरणरूपत्वादित्यर्थः । परेणापि परोक्षवृत्तौ न तदाधेयं स्फुरणमङ्गीकृतम् । परोक्षवृत्तेरेव तत्र ज्ञानत्वाभ्युपगमात् । अन्यथा स्फुरणस्यापरोक्षैकरसत्वेनाभिव्यक्ता-परोक्षैकरसस्फुरणसम्बन्धेन परोक्षवृत्तिविषयस्याप्यतीतादेरपरोक्षत्व प्रसङ्गः । एवं च परोक्षवृत्तेरिवापरोक्षवृत्तेरेव ज्ञानत्वोपपत्तौ तदाधेय स्फुरणम-प्रामाणिकमिति असिद्धो हेतुरिति भावेनाह ।। तदेतदिति ।।

श्रीनिवासतीर्थीयटिप्पणी

वृत्तिविषयस्यापीत्यादि । अत्रेयं परप्रक्रिया । यथा तटाकोदकं कुल्यात्मना बहिर्निर्गत्य केदारान् प्रविश्य तदाकारं भवति । एवं सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयं व्याप्य तदाकारं भवति । सेयं वृत्तिः । अस्यां च वृत्तौ ज्ञातृचैतन्यं प्रतिफलति । चैतन्य-प्रतिफलनाभावे केवलया वृत्त्या विषयाधिष्ठानचैतन्यगताज्ञाननिवृत्त्ययोगात् । केवलाया वृत्तेः केवलस्य चैतन्यस्य वाऽज्ञानानिवर्तकत्वेन वृत्त्युपारूढ-चैतन्यस्यैव तथात्वात् । अयःपिण्डसमारूढाग्नेः रोगनिवर्तकत्ववत् । उक्तञ्च ‘‘तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् । सूर्यकान्तमुपारुह्य तन्न्यायं चिति योजयेत्’’ इति । तथा च वृत्तिप्रतिबिम्बितचैतन्येन घटाधिष्ठान-चैतन्यगताज्ञाने निरस्तेऽधिष्ठानचैतन्यमभिव्यक्तं सत् वृत्त्युपारूढचैतन्ये-नैकीभूतं भवति । अनन्तरं मया ज्ञातोऽयं घट इति ज्ञानमुत्पद्यते । तत्र वृत्तिर्ज्ञायतेऽनया चैतन्यमिति करणव्युत्पत्त्या ज्ञानमित्युच्यते । वृत्ति-प्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यमेव च ज्ञप्तिर्ज्ञानमिति भाव-व्युत्पत्त्या मुख्यतो ज्ञानशब्दवाच्यम् । तदेतत्सर्वं संगृह्योक्तं कारिकायां वेदान्तिभिः । ‘‘स्वच्छेऽन्तःकरणेऽशनिप्रसृमरे नेत्रादिमार्गोद्गते तत्तद्बाह्य-चयात्मना परिणते बिम्बीभवन्ती चितिः’’ । ‘‘एकाऽप्यर्थमनोविशेषक-वशाद्द्वैतं प्रपन्ना हरत्यज्ञानं प्रकटीकरोति विषयान् ज्ञातं मयेदं त्विति’’ इति ।। फलव्याप्यत्वेति । वृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यं फलम् । तद्व्याप्यत्वं नाम तद्विषयत्वं तदभावेनेत्यर्थः । फलव्याप्यत्वाभावे हेतुरनाधेयातिशयत्वादिति । यथा घटादौ तदाकारया वृत्त्या तदधिष्ठान-चैतन्येनाज्ञाने निरस्ते चैतन्यविषयत्वरूपोऽतिशय आधीयते । एवं वृत्त्या आत्मनि आधेयोऽतिशयो नास्तीत्यर्थः । तत्र हेतुः प्रकाशरूप इति । स्फुरणरूप इत्यर्थः ।। प्रकाशान्तरेति ।। स्फुरणरूपचैतन्यविषयत्व-रूपेत्यर्थः ।। तदेतदिति । अत्र फलं किं ज्ञातता चैतन्यं वा । नाद्यः । तस्या अन्यत्र निराकृतत्वात् । भावेऽप्यतीतादावतीन्द्रियेषु च तदभावेन भागासिद्धेः । न द्वितीयः । तथाहि । परेणापि परोक्षवृत्तौ न तदाधेयं स्फुरणरूपं चैतन्यमङ्गीकृतम् । परोक्षवृत्तेरेव तत्र ज्ञानत्वाभ्युपगमात् । अन्यथा स्फुरणरूपचैतन्यस्याऽपरोक्षैकरसत्वेनाभिव्यक्तापरोक्षचित्सम्बन्धेन परोक्षवृत्तिविषयस्याप्यतीतादेर्धर्मादेश्चापरोक्षत्वप्रसङ्गः । एवं च परोक्ष-वृत्तेरिवापरोक्षवृत्तेरेव ज्ञानत्वोपपत्तौ तदाधेयस्फुरणरूपचैतन्यस्या-प्रामाणिकत्वेन हेतोरसिद्धत्वादिति भावः ।

श्रीगुरुराजीयटिप्पणी

असिद्धिप्रसङ्गेनेति ।। घटादौ तदाकारवृत्त्या चैतन्यरूपातिशयाधानस्य ममासम्मतत्त्वेन वृत्तिजन्यचैतन्यरूपफलव्याप्यत्वस्य तत्राभावादित्यर्थः ।। नन्वेवं घटादेः प्रकाश एव न स्यात् । अपरोक्षवृत्त्युपरागादिमतश्चैतन्यस्यैव तत्प्रकाशत्वात् त्वया च तदनभ्युपगमात् विषयापरोक्ष्यं च न सिध्येत् । अभिव्यक्तापरोक्षैकरसचैतन्यसम्बन्धस्यैव तत्सम्पादकत्वादित्यत आह ।। अलमिति ।। अयं भावः । तत्तदाकारपरोक्षवृत्तेरेव घटादिप्रकाशत्वो-पपत्तावपरोक्षवृत्त्युपरागादिमतश्चैतन्यस्य तत्प्रकाशकत्वकल्पनायोगात् । न च परोक्षवृत्तेरेव न तद्विषयप्रकाशकत्वं किन्तु तदभिव्यक्तचैतन्यस्यैवेति नायं दृष्टान्त इति वाच्यम् । तथा सति चैतन्यस्यापरोक्षैकरसत्वेनाभिव्यक्ता परोक्षैकरसचिदुपरागेण परोक्षवृत्तिविषयस्याप्यपरोक्षप्रसङ्गेन तत्र वृत्ति-मात्रस्यैव प्रकाशताया वाच्यत्वात् । नाप्यपरोक्षत्वानुपपत्तिः । चैतन्याभि-व्यञ्जनार्थमावश्यकेनेन्द्रियजन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्वरूप-विशेषेणैव चैतन्याविषयस्यापि घटादेरापरोक्ष्यसम्भवादिति ।

मिथ्यात्वानुमानखण्डनपरशुः

नन्वस्ति सुषुप्तिकालीनो विशिष्टव्यवहारः तथापि तत्र वृत्तिरूप-ज्ञानाभावेन वृत्तिरूपज्ञानं विनैव स व्यवहारो भवतीति वाच्यम् । ततश्च स्वातिरेकिसंविदपेक्षानियतिरूपदृश्यत्वाभावः प्राप्त इति चेन्न । सुषुप्तिकाले स्वरूपानुभव एवास्ति न तु स्वरूपव्यवहार इत्यत्र तात्पर्यात् ।। अनाधे-यातिशयत्वादिति ।। ज्ञाततास्वरूपातिशयेन तद्विवक्षया न फलाव्यर्थत्वं सम्भवतीति भावः ।। ननु माभूज्ज्ञाततया फलव्याप्यत्वम् । वृत्तिप्रतिफलित चैतन्याभिव्यक्तविषयाधिष्ठानचैतन्यरूपफलेन फलव्याप्यत्वं भविष्यतीत्यत आह ।। प्रकाशरूप इति ।। भवेद्घटादीनामप्रकाशरूपाणि प्रकाशस्य वृत्तिमात्रेणायोगात् तदर्थं वृत्तिफलितचैतन्यं तदधिष्ठानं चैतन्यं चाभ्युपगन्त-व्यमिति । तल्लक्षणफलेन फलव्याप्यत्वम् । न त्वात्मनः तस्य प्रकाशरूप-त्वेन वृत्तिमात्रेण तत्प्रकाशसंभवे वृत्तिप्रतिफलितचैतन्यरूपप्रकाशान्तरस्य तदभिव्यक्तविषयाधिष्ठानं चैतन्यस्य चाकल्पत्वेन न तेनापि फलेन फल-व्याप्यत्वमिति भावः ।। असिद्धिप्रसङ्गेनेति ।। अस्मिन्मते घटादावपि फलव्याप्यत्वाभावेनेति भावः ।

मिथ्यात्वानुमाने अनध्यवसितत्वदोषप्रतिज्ञा

मिथ्यात्वानुमानखण्डनम्

जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः ।

जगतोऽभाव इति जगदसत्वानुवादानुपपत्तिशङ्का तत्परिहारश्च

टीका

नन्वत्र जगतोऽनिर्वचनीयत्वं सद्विविक्तत्वं वा साध्यम् । तत्कथं जगतोऽभाव इत्यनुवादः ? सत्यं, तथापि अनिर्वचनीयत्वस्या प्रसिद्धत्वात् सद्विविक्तस्य अनिर्वचनीयासदन्यतरत्वानिस्तारादसत्व-मेव सिद्धवत्कृत्यायमनुवाद इत्यदोषः । जगतः सत्वाभाव इति वा व्याख्यातव्यम् ।

जगतोऽभावेऽनुमानस्याप्यभावः इति तर्के व्याप्त्युपपादनम्

तथापि व्याप्त्यभावात्कथमिदमापादनम् ? इति चेन्न । ‘यदि जगन्मिथ्या स्यात्तदा तदन्तर्गतमनुमानमपि मिथ्या स्यात् । गन्धर्व-नगरान्तर्गतभवनवत्’ इति वा ‘यदि दृश्यत्वं जगति वर्तमानं तन्मिथ्यात्वं प्रतिपादयेत्तदा अनुमानस्यापि मिथ्यात्वं प्रतिपादयेद-विशेषात्’ अन्यथा व्यभिचारापत्तेरिति वा आपादनात् ।

जगतोऽभावे इति मूलस्य असिद्ध्यादिपरत्वेन वैयर्थ्यशङ्का तत्परिहारश्च

नन्वनेन असिद्धिरेवोक्ता स्यात् । सा च प्रागेवोक्तेति किमनेन ? न च वाच्यं लिङ्गाभावमात्रमसिद्धिः । साध्यलिङ्गव्याप्तीना-मनुमानाङ्गानामभावोऽत्रापाद्यत इति भेद इति । तथात्वेऽपि व्याप्यत्वासिद्ध्याद्यनिस्तारादिति । मैवम्, अनुमानाङ्गानामसत्त्वा-पादनमुखेन असाधकत्वस्यात्रापाद्यमानत्वात् । तदिदमुक्तम् ‘इति-तर्कबाधितत्वेनानध्यवसितः’ इति । न विद्यते अध्यवसितम् अध्यवसायः साध्यसिद्धिर्यस्मात्स तथोक्त इति । एतेन अनुमान- मिथ्यात्वं परस्येष्टमेव । तत्कथमापादनम् ? इत्यपि निरस्तम् ।

मन्दारमञ्जरी

अनिर्वचनीयासदन्यतरत्वानिस्तारादिति ।। सद्विविक्तस्यासद्वि-विक्तत्वेन विशेषितत्वविवक्षायां सद्विविक्तत्वमनिर्वचनीयत्वेऽन्तर्भवति । अन्यथा त्वसत्व इत्यर्थः ।। सत्त्वाभाव इति ।। सत्त्वस्य साधकताप्रयोज-कत्वेन असाधकत्वमत्यन्तासत्त्व इव सत्त्वाभावेऽप्यापततीति भावः ।। व्याप्त्यभावादिति ।। ‘यत्र जगतोऽभावस्तत्रानुमानाभावः’ इत्यत्र निदर्शनादर्शनादित्यर्थः । ‘यन्मिथ्या तत्समानयोगक्षेमं तदन्तर्गतमपि मिथ्या यथा सम्प्रतिपन्नम्’ इति व्याप्तिरस्तीति परिहरति ।। न यदि जगदिति ।। पक्षान्तरमाह ।। यदि दृश्यत्वमिति ।। ननु व्याप्त्यभावस्तदवस्थः । ‘यत्र जगन्मिथ्यात्वप्रतिपादकत्वं तत्रानुमानमिथ्यात्वप्रतिपादकत्वम्’ इत्यत्र निदर्शनाभावादित्यत आह ।। अविशेषादिति ।। ‘यत् यत्साधनप्रयोजक-विशिष्टं सद्यत्रास्ति तत्तत्र तत्साधयति यथा संमतम्’ इति सामान्य-व्याप्तिरस्ति । ततश्च जगति वर्तमानतामात्रेण तन्मिथ्यात्वप्रतिपादकं दृश्यत्वं स्वात्मनि वर्तमानं स्वमिथ्यात्वं साधयेदित्यर्थः ।। तदिदमुक्तमिति तर्कबाधितत्वेनेति ।। बाधितत्वेनेति तृतीयया व्याप्त्याद्यभावस्य साधकत्वे द्वारत्वं कथयता न व्याप्त्याद्यभावमात्रपर्यवसानमिति सूचितमित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

साध्यमित्यनन्तरं परस्याभिमतं नासत्त्वमिति शेषः । तथा च जगतोऽनिर्वचनीयत्वे सद्विविक्तत्वे वाऽनुमानस्याप्यभाव इत्यनुवादः कर्तव्य इति भावः । तथा चापादकासिद्धिरिति हृदयम् ।। तत्कथमिति । तथा चासदनुवादोऽयम् । अभावशब्दस्यासत्त्वार्थकत्वादिति भावः ।। सद्विविक्तत्वस्येत्यादि । असद्विलक्षणस्वरूपानुपमर्देन यदि सद्विविक्तत्वं साध्यते तदाऽनिर्वचनीयत्वम् । यदि च सद्विविक्तत्वमात्रं साध्यते तदाऽसत्त्वमित्यर्थः ।। व्याख्यातव्यमिति । जगतोऽभाव इत्यत्राभाव-पदमित्यर्थः । तथा च जगतो सत्त्वाभावस्यानिर्वचनीयत्ववादिना परेणा-प्यङ्गीकारात् नासदनुवादोऽयमिति भावः । तथा च नापादकासिद्धिरिति हृदयम् ।। व्याप्त्यभावादिति । यत्र जगतोऽभावः तत्रानुमानस्याभाव इत्यत्र दृष्टान्ताभावेन व्याप्त्ययोगादित्यर्थः ।। यदि जगदिति । तथा च यन्मिथ्या तत्समानयोगक्षेमं तदन्तर्गतमपि मिथ्या । यथा गन्धर्वनगरगतं भवनमिति सामान्यव्याप्तिसम्भवादिति भावः । सायंकाले मेघादिकं रक्तवर्णं सत् नगराकारेण भ्रान्त्या प्रतीयते तद्गन्धर्वनगरमित्युच्यते । प्रकारान्तरमप्याह ।। यदि दृश्यत्वमिति ।। अनुमानस्यापीति । स्वस्यापीत्यर्थः । नन्वथापि व्याप्त्यभावस्तदवस्थः । ‘यत्र जगन्मिथ्यात्वप्रतिपादकत्वं तत्रानुमानस्य मिथ्यात्वप्रतिपादकत्वम्’ इत्यत्रदृष्टान्ताभावादित्यत उक्तम् ।। अविशेषा-दिति । दृश्यत्वाधिकरणत्वाविशेषात् । स्वात्मनि वर्तमानं दृश्यत्वं स्वस्यापि मिथ्यात्वं प्रतिपादयेत् साधयेदित्यर्थः । ननु दृश्यत्वं स्वात्मनि विद्यमानमपि स्वमिथ्यात्वं न साधयतीति चेत्तत्राह ।। अन्यथेति । दृश्यत्वे दृश्यत्वं तावदस्ति । अन्यथा हेत्वज्ञानासिद्धेः । तत्र च मिथ्यात्वं नास्तीति दृश्यत्वहेतोः स्वस्मिन्नेव व्यभिचारः स्यादित्यर्थः । तथा च स्वस्मिन्नेव भग्नव्याप्तिकत्वात् न जगतो मिथ्यात्वं साधयेदिति भावः ।। नन्वनेनेति । जगतोऽभावेऽनुमानस्याप्यभाव इति दृश्यत्वरूपहेत्वभावापादनेनेत्यर्थः । असिद्धिः स्वरूपासिद्धिः ।। प्रागेवोक्तेति । दृश्यत्वाभावादसिद्धो हेतुरिति मूलवाक्येनेत्यर्थः ।। किमनेनेति । जगतोऽभावादिति मूलवाक्येन किमधिकमुच्यते न किमपि । तथा च पुनरुक्तिरिति भावः ।। असिद्धि-रिति । सा पूर्वं दृश्यत्वाभावादिति मूलवाक्येनोक्तेत्यर्थः । अत्र जगतोऽ-भावादिति मूलवाक्ये । तथा चानुमानस्याप्यभाव इत्यत्रानुमानपदमुप-लक्षकमिति ज्ञातव्यम् ।। भेद इति । तथा च जगदभावे तदन्तर्गत-साध्यलिङ्गव्याप्तीनामनुमानाङ्गानां अभावोऽत्रापाद्यत इति प्रमेयभेदान्न पुनरुक्तिरित्यर्थः ।। व्याप्यत्वासिध्यादीति । आदिपदेन स्वरूपासिद्धि-बाधग्रहणम् । लिङ्गाभावेन स्वरूपासिद्धिः प्रागुक्ता । व्याप्त्यभावेन व्याप्यत्वासिद्धिर्विरुद्धानैकान्तिकयोरुक्त्या प्रागुक्तैव । साध्याभावोक्त्या बाध उक्तः । स च वक्ष्यत इति पुनरुक्त एवेत्यर्थः ।। असाधकत्वस्येति । साध्यासाधकत्वस्येत्यर्थः । तथा च प्राक् व्याप्त्याद्यभावकथनमात्रे तात्पर्यम् । अत्र तु जगतोऽभावे अनुमानस्याप्यभावापत्त्या साध्यासाधकत्वं स्यादित्येव-मनुमानाङ्गानामसत्त्वापादनमुखेन साध्यासाधकत्वस्य अधिकस्यात्रा-पाद्यमानत्वादपुनरुक्तिरित्यर्थः ।

ननु साध्यासाधकत्वमत्राधिकमापाद्यत इत्येतत् जगतोऽभाव इति मूले न प्रतीयत इत्यतोऽत्र ज्ञापकमाह ।। तदिदमुक्तमिति तर्कबाधितत्वे-नेति । तृतीयया व्याप्त्याद्यभावस्यासाधकत्वे द्वारत्वं कथयता न व्याप्त्याद्य-भावमात्रपर्यवसानमिति सूचितमित्यर्थः । कथमनध्यवसितशब्देनायमर्थो लब्ध इत्यत आह ।। न विद्यत इति । भावे क्त इत्यभिप्रायेणाध्यवसाय इत्युक्तम् । यस्माद्धेतोः ।। तथोक्त इति । अनध्यवसित इत्युक्त इत्यर्थः । साध्यासाधक इति यावत् ।। परस्येष्टमिति । ब्रह्मातिरिक्तस्य सर्वस्यापि जगतो मिथ्यात्वेनानुमानस्यापि तदन्तर्गतत्वात् तदभावापादनं परस्येष्ट-मित्येतदपि एतेन निरस्तम् । असाधकत्वस्याधिकस्यात्रापाद्यमानत्वात् । तच्च परस्यानिष्टमित्यर्थः ।

श्रीगुरुराजीयटिप्पणी

एतेनेति ।। मिथ्यात्वेऽसाधनत्वापादनेनेत्यर्थः ।।

मिथ्यात्वानुमानखण्डनपरशुः

अत्र मूलं जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेना-नध्यवसित इति । अस्य यदि जगदभावः स्यात् जगतः सत्वं न स्यात् तर्हि अनुमानस्यापि अनुमानकल्पितब्रह्मणोऽप्यभावः स्यात् ।। दृश्यत्वा-विशेषादिति ।। तर्कबाधितत्वेन तर्कप्रतिरुद्धत्वेन । न विद्यते अध्यवसायो यस्मादित्यनध्यवसितः साध्यासाधक इत्यर्थः । अत्र ब्रह्मण इति वक्तव्येऽनुमानस्येति वचनं ब्रह्मणो दृश्यत्वसूचनायेति बोध्यम् । अयमर्थः शिष्यबुद्धिपरीक्षार्थं टीकाकारैर्नोक्तः । मूलकारेण जगतोऽभाव इत्यनेन जगतोऽसत्वमित्युक्तमिति मन्यमानः शङ्कते ।। नन्वत्र जगत इति ।। कस्यचिन्मते अनिर्वचनीयत्वं साध्यम् । कस्यचिन्मते सद्विविक्तत्वं साध्यमिति भावः । एतेन द्वयोरन्यतरत्साध्यं स्यात् । कथमनिर्वचनीयत्वं सद्विविक्तत्वं वा साध्यमिति अनिश्चयेन साध्याभिधानमिति परास्तम् ।। इतः परं टीकायां श्रूयमाणं ‘‘सत्यम् ।। तथापि अनिर्वचनीयस्याप्रसिद्ध-त्वात् । सद्विविक्तस्य अनिर्वचनीयासदन्यतरत्वानिस्तारादसत्वमेव सिद्ध-वत्कृत्यायमनुवाद इत्यदोषः । जगतः सत्वाभाव इति वा व्याख्यातव्यं’’ इति वाक्यद्वयं प्रक्षिप्तं न टीकावाक्यम् । मैवम् । अभावशब्देन सत्वा-भावाभिधानादिति । अवश्यं चैतदेवं विज्ञेयम् । मिथ्यापदेनासत्पदेना-सत्परेणोक्तमिति सिद्धवत्कृत्यजगतो भाव इति तदनुवादेऽपि अन्यथानु-वादापरिहारात् । अनूदितस्यासत्वस्य परेणानभिधानात् । अनिर्वचनीयत्व-पक्षवत्सद्विविक्तपक्षवच्च । असत्वपक्षे दूषणसद्भावेऽपि नासत्वं परेणोक्त-मिति सिद्धवत्कारायोगाच्च । केनचित् स्वग्रन्थपरेण मिथ्यात्वं नाम अनिर्वचनीयत्वमपरेण सद्विविक्तमिति व्याख्यातत्वेन अनिर्वचनीयत्व-मुक्तम् । सद्विविक्तत्वमुक्तमिति निश्चयस्यैवोचितत्वाच्च । जगतः सत्वाभाव इति व्याख्यातव्यमित्यस्यानन्वयाच्च ।। तथापीति ।। अन्यथानुवादाभावेऽपि आपादनमिदमयुक्तम् । व्याप्त्यभावात् । नहि सर्वैर्भावैरेकविधैर्भाव्यमिति नियमोऽस्ति । अन्यथा घटादीनामचेतनत्वादात्मापि तथा स्यादिति भावः ।।

मिथ्यात्वानुमाने अनध्यवसितत्वदोषोपपादनम्

टीका

नन्वेवं व्याख्याने हेतोः को दोष उक्तः स्यात् ? अनध्यवसित इति ब्रूमः । तदर्थम् ‘इत्यनध्यवसितः’ इत्यस्य आवृत्तिर्व्याख्यायते । तर्हि ‘तर्कबाधितत्वेन’ इति कथम् ? तथात्वे कालात्ययापदिष्टत्व-प्रसङ्गादिति चेन्न । बाधितशब्दस्य विरुद्धार्थत्वात् ।

अनध्यवसितलक्षणस्य मिथ्यात्वानुमानगतत्वसमर्थनम्

ननु साध्यासाधकः पक्ष एव वर्तमानोऽनध्यवसितः । न चायं तथेति कथं अनध्यवसितः ? इति चेन्न । तथा सति बाधिते सत्प्रतिपक्षे च केवलव्यतिरेकिण्यतिप्रसङ्गात् । साध्यासाधकत्वं नाम तत्प्रतीत्यजनकत्वम् । बाधितसत्प्रतिपक्षौ तु विपर्ययसन्देहजनका-विति चेत् तथा सति विरुद्धादिव्युदासस्य तत एव सिद्धेः ‘पक्ष एव वर्तमानः’ इत्यस्य वैयर्थ्यप्रसङ्गात् । असिद्धिपरिहारार्थं इति चेन्न । एवकारवैयर्थ्यात् । तथा चासिद्धातिरिक्तः साध्यासाधक इति लक्षणार्थः स्यात् । स च समः प्रकृतेऽपीति कथं नानध्यवसितः ?

मन्दारमञ्जरी

आवृत्तिर्व्याख्यायत इति ।। तर्कबाधितत्वेन अनध्यवसितः साध्यासाधक इति कृत्वा अनध्यवसितो नाम हेत्वाभास इति व्याख्यायत इत्यर्थः । केवलव्यतिरेकिणीत्यनेनैव पक्ष एव वर्तमानत्वे सिद्धे साध्या-साधकतासिद्ध्यर्थं केवलव्यतिरेकिणं विशेषणद्वयेन विशिनष्टि ।। बाधिते सत्प्रतिपक्षे चेति ।। तथा सतीति । विरुद्धादेः साध्याभावप्रतीत्यादि-जनकत्वेन प्रतीत्यजनकत्वरूपसाध्यासाधकत्वविशेषणेनैव तद्व्युदास-सिद्धेरित्यर्थः ।। एवकारेति ।। पक्षे वर्तमानग्रहणेनैवासिद्धावतिव्याप्ति-परिहारादित्यर्थः । तर्हि एवकारस्त्यज्यतामित्यत आह ।। तथा चेति ।। स च सम इति ।। ‘सर्वमनित्यं सत्त्वात्’ इत्यादेर्हेतोः साध्यासहचरितत्वा-त्प्रतीत्यजनकत्वम् । दृश्यत्वस्य तु असत्त्वात् । तथा चोपपादकभेदेऽपि प्रतीत्यजनकत्वं समम् । दृश्यत्वस्यासिद्धातिरिक्तत्वं तु त्वयैवाभ्युपेतमिति अनध्यवसितलक्षणं प्रकृतेऽपि विद्यत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

एवं व्याख्यान इति । अनध्यवसितपदस्य साध्यासाधकत्वपरतया व्याख्याने सतीत्यर्थः ।। को दोष इति । हेत्वाभासानां मध्ये को हेत्वाभासरूपो दोष उक्त इत्यर्थः । अनध्यवसितपदस्यान्यार्थत्वादिति भावः । उत्तरमाह ।। अनध्यवसित इतीति । अनध्यवसितरूपो हेत्वाभास इत्यर्थः । नन्वनध्यवसितशब्दस्योक्तरीत्या अन्यार्थत्वात् कथमनध्यवसित- रूपहेत्वाभासार्थकत्वं तस्येत्यत आह ।। तदर्थमिति । अनध्यवसित-रूपहेत्वाभासकथनार्थमित्यर्थः ।। आवृत्तिर्व्याख्यायत इति । तर्कबाधित-त्वेनानध्यवसितः साध्यासाधक इति कृत्वा अनध्यवसितोऽनध्यवसितनामा हेत्वाभास इत्येवं योगरूढिमाश्रित्य आवृत्तिरूपं व्याख्यानं क्रियत इत्यर्थः ।। तर्हीति । आवृत्त्या अनध्यवसितरूपहेत्वाभासकथनपरत्व इत्यर्थः । ननु तर्कबाधितत्वेनेत्युक्ते को दोष उक्तः स्यादित्यत आह ।। तथात्व इति । तथा च तर्करूपबलवत्प्रमाणबाधितत्वोक्त्या कालात्ययापदिष्टत्वाख्यबाधित-विषयत्वरूपहेत्वाभास उक्तः स्यान्नानध्यवसितरूपो हेत्वाभासः । ‘कालातीतो बलवता प्रमाणेन प्रबाधितः’ इति वचनादित्यर्थः । तथा च प्रत्यक्षादिविरुद्धत्वादित्यनेन कालात्ययापदिष्टत्वस्योत्तरत्र वक्ष्यमाणत्वात्पुन-रुक्तिरिति भावः ।। विरुद्धार्थत्वादिति । तथा च तर्कबाधितत्वेनेत्यस्य बलवत्प्रमाणबाधितत्वमर्थतया नाभिप्रेतम् । येन कालात्ययापदिष्टत्वप्रसङ्ग इति परिचोदना स्यात् । किं तु तर्कस्य बलवत्त्वमनङ्गीकृत्य बाधितशब्दस्य विरुद्धार्थत्वं चाङ्गीकृत्य तर्कविरुद्धत्वेनानध्यवसितरूपो हेत्वाभासः कथ्यत इत्यर्थः । वर्तमान इत्यनन्तरं हेतुरिति शेषः ।। न चायं तथेति । अयं दृश्यत्वहेतुः । तथा पक्ष एव वर्तमानो न भवति । मायिरीत्या सपक्षे शुक्तिरजतेऽपि सत्त्वात् । सिद्धान्तिरीत्या विपक्षेऽपि सत्त्वादित्यर्थः । अस्य लक्षणस्य निष्कृष्टमर्थमुक्त्वा स च समो दृश्यत्वहेतावपीत्यनध्यवसित एवेति वक्तुं त्वदुक्तं यथावस्थितमेवैतन्नानध्यवसितलक्षणमित्याह ।। नेति । कुतो नेदं लक्षणमिति चेन्न । तथात्वे केवलव्यतिरेक्यनुमानेऽतिव्याप्तिप्रसङ्गा-दित्याह ।। तथात्व इति । ‘असपक्षं विपक्षेभ्यो व्यावृतं पक्षभूमिषु । सर्वासु वर्तमानं यत्केवलव्यतिरेकि तत्’ इति वचनात्केवलव्यतिरेकिणी-त्यनेनैव पक्ष एव वर्तमानत्वे सिद्धे साध्यासाधकत्वरूपविशेषणोपपादनाय बाधिते सत्प्रतिपक्षिते वा केवलव्यतिरेकिणीति केवलव्यतिरेकिणो विशेषण-द्वयमुक्तमिति ज्ञातव्यम् ।

ननु साध्यासाधकत्वाभावात् न बाधिते सत्प्रतिपक्षिते वा केवल-व्यतिरेकिण्यतिव्याप्तिरित्यभिप्रेत्य साध्यासाधकत्वं निर्वक्ति ।। साध्या-साधकत्वं नामेति ।। तदिति । साध्येत्यर्थः ।। विपर्ययेति । बाधितं विपर्ययजनकं सत्प्रतिपक्षितं तु विरुद्धोभयपरामर्शरूपत्वात् सन्देहजनक-मित्यर्थः ।। विरुद्धादीति । आदिपदेनानैकान्तिकबाधसत्प्रतिपक्षग्रहणम् । अयमर्थः । साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसित इति अनध्यवसितलक्षणे साध्यासाधकोऽनध्यवसित इत्युक्ते विरुद्धादावतिव्याप्तिः स्यात् । तत्परिहारार्थं पक्ष एव वर्तमान इत्युक्तम् । विरुद्धादीनां पक्ष एव वर्तमानत्वाभावान्नातिव्याप्तिरिति पदकृत्यं वाच्यम् । तन्न सम्भवति । तथाहि । यदि साध्यासाधकत्वं नाम साध्यप्रतीत्यजनकत्वं विवक्षितं स्यात् । तदा विरुद्धादावतिव्याप्तिप्रसक्तिरेव नास्ति । विरुद्धबाधितयोर्विपरीत-प्रतीतिजनकत्वादनैकान्तिकसत्प्रतिपक्षयोः सन्देहरूपप्रतीतिजनकत्वेन साध्या साधकपदेनैव विरुद्धादावतिव्याप्तिव्युदासस्य सिद्धत्वात्पक्ष एव वर्तमान इति विशेषणस्य वैयर्थ्यमेव स्यादिति ।

ननु पक्ष एव वर्तमान इति विशेषणस्य न वैयर्थ्यम् । साध्यासाधक इत्युक्ते असिद्धे चाक्षुषत्वहेतावतिव्याप्तिः । तस्य शब्दे नित्यत्वरूप-साध्यप्रतीत्यजनकत्वेन साध्यासाधकत्वात् । अतः पक्ष एव वर्तमान इत्युक्तमित्याशङ्कते ।। असिद्धीति । तर्हि पक्षे वर्तमान इत्यनेनैवा-सिद्धेऽतिव्याप्तेः परिहृतत्वात् । एवकारो व्यर्थः स्यादित्याह ।। एव-कारेति । तर्ह्येवकारस्त्यज्यतामिति चेत्तत्राह ।। तथा चेति । पक्षे वर्तमान इत्यनेनासिद्धस्य व्यावर्तितत्वात्तदभिप्रायकथनमसिद्धातिरिक्त इति ।। स चेति । अनध्यवसितलक्षणार्थ इत्यर्थः । प्रकृते दृश्यत्वहेतौ । अयं भावः । सर्वमनित्यं सत्त्वादिति ह्यनध्यवसितस्योदाहरणम् । तत्र सर्वस्यापि पक्षत्वेन निदर्शनाभावेन साध्यासहचरितत्वात्सत्वहेतोः प्रतीत्यजनकत्वम् । दृश्यत्वस्य तु असत्वात् प्रतीत्यजनकत्वम् । तथा चैवमुपपादकभेदेऽपि प्रतीत्यजनकत्वं सत्वदृश्यत्वहेत्वोः समम् । दृश्यत्वहेतोरसिद्धातिरिक्तत्वं त्वयैवाभ्युपेत-मित्येवं असिद्धातिरिक्तत्वे सति प्रतीत्यजनकत्वरूपसाध्यासाधकत्वरूपा-नध्यवसितलक्षणं प्रकृते दृश्यत्वहेतावप्यस्तीत्यनध्यवसितो भवत्येवेति ।

मिथ्यात्वानुमानखण्डनपरशुः

नन्वेवं व्याख्यान इति ।। अनध्यवसितपदस्यासाधकत्वपरतया व्याख्याने दोषवाचकपदाभावेन को दोष उक्तः स्यान्न कोऽपीत्यर्थः । आवृत्तिर्व्याख्यायत इति । अनध्यवसितपदस्यावृत्तिः मूलाभिप्रेतेत्यस्माभिः साध्यत इत्यर्थः । अनध्यवसितलक्षणाभावात् नायमनध्यवसित इत्याशयेन शङ्कते ।। ननु साध्यासाधक इति ।। न चायमिति ।। पक्षमात्रवृत्ती नेत्यर्थः । विपक्षे दृश्यत्वस्य त्वयाऽनङ्गीकारात् । शुक्तिरजतादावस्माकं साध्यसंमत्यभावात् । तस्य पक्षे विपक्षे वाऽवश्यंभावेन हेतोः पक्षमात्र-वृत्तित्वादनध्यवसितलक्षणमस्त्येवेति समाधानं शिष्यैरेवोह्यतामिति भावेन समाधानान्तरमाह । तथात्वे बाधिते सत्प्रतिपक्षे वेत्यादिना इत्यास्ता-मित्यन्तेन । तदाऽनध्यवसित इति भेद इति । इतः परं टीकायां श्रूयमाणं ‘‘प्रकृते तर्कस्यासिद्धिपुरस्कारेण प्रवृत्तेर्दोषद्वयमपि । न चैवं सर्वत्रेत्य-सङ्कीर्णता च सिद्धेति’’ वाक्यद्वयं प्रक्षिप्तम् । न टीकावाक्यम् । प्रकृते तर्कस्यासिद्ध्यापादनपुरस्कारेण प्रवृत्तेन दृश्यत्वहेतोरसिद्धिः । किं त्वनध्यवसितत्वमेवेति वाक्यमुच्छिन्नम् । अवश्यं चैतदेवं विज्ञेयम् । असिद्धातिरिक्तः साध्यासाधकोऽनध्यवसित अनध्यवसितलक्षणस्योक्तत्वेन दृश्यत्वहेतुरसिद्धोऽनध्यवसितश्चेत्युक्तेर्व्याहतत्वात् ।

असिद्धानध्यवसितयोर्लक्षणोदाहरणभेदसमर्थनम्

टीका

असिद्धिबहिर्भावोऽस्य कथम् ? इति चेत् । इत्थं, यदा वादि-प्रतिवादिनोरन्यतररीत्या लिङ्गाभावस्तदाऽसिद्धिः । यदा सामर्थ्य-विघटनं तदा अनध्यवसित इति भेदः । प्रकृते तर्कस्यासिद्धि-पुरस्कारेण प्रवृत्तेर्दोषद्वयमपि । न चैवं सर्वत्रेत्यसङ्कीर्णता च सिद्धेति ।

मन्दारमञ्जरी

ननु यद्यपि मया असिद्धातिरिक्ततेष्यते । तथाप्यसाधकत्वं तु नेष्यते । त्वया त्वसाधकत्वाङ्गीकारेऽपि असिद्धिबहिर्भावो नेष्यते । तथा च कथमनध्यवसिततेति शङ्कते ।। असिद्धिबहिर्भावोऽस्य कथमिति ।। किं दृश्यत्वहेतोरसिद्धिबहिर्भावो नास्तीत्युच्यते ? किं वा सामान्यतोऽ-नध्यवसितमात्रस्य ? नाद्यः त्वया तस्य तत्राङ्गीकृतत्वेन त्वदङ्गीकारे कारणस्य पररीत्या दूषणमभिदधता त्वया वक्तव्यत्वेन मां प्रति तत्प्रश्ना-योगात् । असाधकत्वस्य च त्वां प्रति साधनात् । द्वितीयेऽपि किं लक्षणभेदो नास्तीत्युच्यते ? किं वा उदाहरणभेदो नास्तीति ? विकल्पं हृदि निधायाद्यं दूषयति ।। इत्थमिति ।। असति लिङ्गे ज्ञानजनकता-लक्षणसामर्थ्यवैधुर्यमसिद्धलक्षणमित्याह ।। यदेति ।। सत्यपि लिङ्गे ज्ञान-जनकतालक्षणसामर्थ्यवैधुर्यम् अनध्यवसितलक्षणमित्याह ।। यदा सामर्थ्येति ।। न द्वितीय इत्याह ।। प्रकृते तर्कस्येति ।। दृश्यत्वानुमाना साधकतासाधकतर्कस्यासिद्धिपुरस्कारेण प्रवृत्तेर्दोषद्वयम् । ‘सर्वमनित्यं सत्त्वात्’ इत्यादौ त्वसाधकत्वं नासिद्धिपुरस्कारेण प्रवर्तत इति तत्रा-नध्यवसितत्वमेवास्ति न त्वसिद्धिरित्युदाहरणभेदसिद्धिरित्यर्थः ।

प्रकारान्तरेण असिद्धानध्यवसितयोर्वैलक्षण्योपपादनम्

यद्वा नन्वसिद्धिबहिर्भावोऽस्य कथम् इत्यादेर्ग्रन्थस्यायमर्थः । ननु पक्ष एव वर्तमानः साध्यासाधकोऽनध्यवसितः इति लक्षणे अनध्यवसितस्यासिद्धि दूषकताबीजात्पक्षेऽवर्तमानत्वाद्भिन्नं पक्षादन्यत्रावर्तमानत्वं दूषकताबीजं सिद्ध्यति । एवकारत्यागे तु न सिद्ध्यति । तथा हि, अनध्यवसितस्य किं पक्षे वर्तमानत्वं दूषकताबीजम् ? किं वा प्रतीत्यजनकत्वरूपं साध्या-साधकत्वम् ? यद्वा पक्षे वर्तमानत्वविशिष्टं साध्यासाधकत्वम् ? नाद्यः तस्य सदनुमानसाधारणतया गुणत्वेन दूषकताबीजत्वाभावात् । न द्वितीयः तस्यासिद्धसाधारण्यात् । न तृतीयः ‘इदं साध्यप्रमितिजनकं न भवति पक्षे वर्तमानत्वे सति साध्यप्रतीत्यजनकत्वात्’ इत्यसाधकतानुमाने व्यर्थ-विशेषणत्वात् । तस्मात् एवकारत्यागे दूषकताबीजभेदासिद्धिः । न च दूषकताबीजभेदं विना हेत्वाभासभेदसिद्धिरित्यनध्यवसितस्यासिद्धिबहिर्भावो न युक्त इति एवकारः कर्तव्यः । तथा च दृश्यत्वस्य नानध्यवसितता । विपक्षेऽपि वर्तमानत्वस्य त्वयोक्तत्वादिति शङ्कते ।। असिद्धिबहिर्भावोऽ-स्येति ।। परिहरति ।। इत्थमिति ।। वादिप्रतिवादिनोरन्यतररीत्या हेतु-स्वरूपाभावोऽसिद्धस्य दूषकताबीजम् । साध्यप्रतीतिजननसामर्थ्याभावस्त्व-नध्यवसितस्य दूषकताबीजमिति भेदसिद्धिरित्यर्थः । अन्यतरासिद्ध्यादावपि दूषकताबीजानुगत्यर्थं वादिप्रतिवादिनोरन्यतररीत्येत्युक्तम् ।

नन्वनध्यवसितदूषकताबीजं हेतुस्वरूपासत्त्वं विनापि सिद्ध्यति न वा ? आद्ये प्रकृतेऽपि तथैव सिद्ध्युपपत्तेरनध्यवसित एव स्यात् । न त्वसिद्ध इति दोषद्वयानुपपत्तिः । द्वितीये असिद्धिरहितस्यानध्यवसितोदाहरण-स्याभावात्साङ्कर्यमित्यत आह ।। प्रकृत इति ।। प्रकृतानुमाने अनध्यवसित-दूषकताबीजं हेतुस्वरूपासत्त्वं विना न सिद्ध्यतीति दोषद्वयम् । ‘सर्व-मनित्यं सत्त्वात्’ इत्यादौ न तथेति न सङ्कीर्णतेति ।

श्रीनिवासतीर्थीयटिप्पणी

शङ्कते ।। असिद्धीति ।। अस्येति । अनध्यवसितत्वरूपदोषस्येत्यर्थः । असिद्धे चाक्षुषत्वहेतौ अनध्यवसिते सत्त्वहेतौ चेत्युभयत्रापि साध्य-प्रतीत्यजनकत्वरूपसाध्यासाधकत्वसाम्यान्नायमनध्यवसितत्वरूपो दोषोऽ-सिद्धेः पृथग्वाच्य इत्याशयः । अन्यतरासिद्धिसङ्ग्रहाय वादिप्रतिवादिनो-रन्यतररीत्येत्युक्तम् । तथा च वादिप्रतिवादिनोरुभयोरपि रीत्या लिङ्गाभाव-स्तयोरन्यतररीत्या च लिङ्गाभाव इति व्याख्येयम् ।। सामर्थ्यविघटनमिति । सामर्थ्यं व्याप्तिः । सत्यपि लिङ्गे व्याप्तिविघटनमित्यर्थः । सत्त्वहेतोः पक्षीभूते सर्वस्मिन् विद्यमानत्वेऽपि निदर्शनाभावेन व्याप्तिविघटनमस्तीति द्रष्टव्यम् । तथा च पक्षधर्मताया अभावेन प्रतीत्यजनकत्वमसिद्धिः । सत्यपि लिङ्गे व्याप्त्यभावेन प्रतीत्यजनकतायामनध्यवसितत्वमिति विवेक इति परिहाराभिप्रायः ।

नन्वेवमपि असिद्धे दृश्यत्वहेतौ असिद्धातिरिक्तत्वगर्भोक्तानध्यवसित-लक्षणाभावात्कथमनध्यवसितत्वं तस्येति चेन्न । असिद्धातिरिक्तः साध्या-साधक इति लक्षणस्य असिद्धिप्रयुक्तोक्तासाधकताभिन्नासाधकता यस्य हेतोः सोऽनवध्यवसित इत्यत्र तात्पर्यात् ।। भेद इति । अनध्यवसितत्व रूपदोषस्यासिद्धेर्भेदो बहिर्भाव इत्यर्थः । तथा चायं पृथग्वाच्य एवेति भाव इति सम्प्रदायः । प्रकृते दृश्यत्वहेतौ । दोषद्वयं असिद्धिरनध्यवसितश्चेति दोषद्वयम् । तत्कथमित्यतस्तदुपपादनायोक्तम् ।। तर्कस्येति । जगतोऽ-भावेऽनुमानस्य दृश्यत्वस्य तदङ्गभूताया व्याप्तेश्चाभाव इति तर्कस्यासिद्धि-पुरस्कारेण प्रवृत्तेर्लिङ्गाभावेनासिद्धिप्रयुक्ता साधकताऽस्ति । व्याप्त्यभाव-प्रयुक्ता चासाधकताऽस्तीति दोषद्वयमपीत्यर्थः । नन्वेवं असिद्धिरहितस्या-नध्यवसितोदाहरणस्यासङ्कीर्णस्याभावात् तयोः साङ्कर्यमित्यत आह ।। न चैवमिति । प्रकृतानुमाने अनध्यवसितत्वं लिङ्गस्वरूपासत्त्वं विना न सिध्यतीति दोषद्वयम् । सर्वमनित्यं सत्वादित्यादौ तु न तथेत्य-नध्यवसितस्यासिद्ध्यसङ्कीर्णोदाहरणवत्ता च सिद्धेत्यर्थः ।

श्रीगुरुराजीयटिप्पणी

उदाहरणभेदो नास्तीति प्रश्नाभिप्राय इत्यत आह ।। प्रकृत इति ।। यद्यपि प्रकृते तर्कपुरस्कारेण प्रवृत्तेर्दोषद्वयम् । तथापि सर्वत्र तर्क-पुरस्कारेणानध्यवसितस्याप्रवृत्या तत्रानध्यवसितमात्रप्राप्त्याऽसङ्कीर्णो-दाहरणता च सिद्धेति । यद्यपि तथापीत्यध्याहारेण योजनीयम् ।

असत्वस्यैवासाधकत्वोपयोगितासमर्थनम्

टीका

ननु कथमसत्यस्यासाधकत्वम् ? तथा सति धूमाभासस्यापि साधकत्वप्रसङ्गादिति ब्रूमः । अथ धूमाभासस्यासाधकता ना-सत्त्वात् । अपि तु अव्याप्तत्वात् । बहुलोर्ध्वतादिवत् आभास-विवेकस्यापि व्याप्त्युपयोगादिति मन्येत । तदा वक्तव्यं, किमेवं लोकानुभवात्कल्प्यते ? उतासतोऽपि साधकत्वाभिमानात् ? न प्रथमः तदभावात् । लौकिका हि ‘महाह्रदोऽग्निमान्धूमवत्त्वात्’ इति प्रयुक्ते असिद्धिमुद्भावयन्ति । न द्वितीयः निर्मूलत्वात् । असत्यस्यापि प्रतिबिम्बादेः बिम्बादिसिद्धावङ्गतोपलम्भान्नेति चेन्न । प्रतिबिम्बाद्यसत्यताऽसिद्धेरन्यत्रोपपादितत्वात् ।

मन्दारमञ्जरी

बहुलोर्ध्वतादिवदिति ।। यथा धूममात्रस्य शान्ताग्नावपि विद्यमानत्वेन बहुलतादिर्व्याप्त्युपयोगी तथा आभाससाधारणधूमस्य ह्रदे व्यभिचारात् ‘यत्र अनाभासो धूमस्तत्राग्निः’ इति व्याप्त्युपयोग्येव अभासविवेक इत्यर्थः ।

धूमाद्यनुमाने आभासविवेकस्य व्याप्त्युपयोगितानिरासः

आभासविवेकस्य व्याप्त्युपयोगित्वेऽप्यारोपिताभासविवेकधूमवति ह्रदे व्यभिचारो दुर्वारः । आभासविविक्त एव आभासविवेको व्याप्त्युपयोगीति चेन्न । आभासविवेकतोऽपि आभासविवेकस्यारोपितस्य तत्र वक्तुं शक्यत्वा-द्व्यभिचारापरिहारात् । आभासविवेकविशेषणीभूताभासविवेकेनाप्याभास-विविक्तेन भाव्यमिति चेत् एवं तर्ह्याभासविवेकविशेषणपरम्पराया अपर्यवसितत्वेन जन्मशतेनापि हेतुरनिरूपितः स्यात् ।

किं च ह्रदे न धूममात्रमप्यस्ति । किं तु ? तद्गतस्य बाष्पस्य तथा प्रतीतिरेव । न च भ्रान्त्यनुसारेणार्थाङ्गीकारो युक्तः । भ्रान्तेः प्रमाणत्वा-पातात् । न चास्माभिर्धूमवत्तया प्रतीयमानत्वं हेतूकृतम् । किं तु ? धूमवत्त्वम् । ततो नाभासविवेको व्याप्त्युपयोगीति । किं च आरोपित-दृश्यत्वस्य ब्रह्मण्यपि सम्भवाद्दृश्यत्वेऽपि व्याप्त्युपयोगितयैवाभासविवेकोऽङ्गी कार्य इति परिहारे स्थितेऽपि परिहारान्तरमाह ।। तदा वक्तव्यमिति ।। प्रतिबिम्बाद्यसत्यतासिद्धेरिति ।। छायावत् प्रतिध्वनिवत् प्रतिसूर्यवच्च प्रतिबिम्बादेः सत्यत्वादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

जगतो भाव इति वाक्येन दृश्यत्वहेतोरसत्वापादनमुखेनासाधकत्व-मापाद्यत इत्युक्तम् । तदुपर्याशङ्कते ।। ननु कथमसत्यस्येति । तथाच दृश्यत्वहेतोरसत्यस्यापि मिथ्यात्वसाधकत्वमस्त्विति भावः । सिद्धान्ती शङ्कते ।। तथासतीति । असत्यस्यापि साधकत्वे सतीत्यर्थः ।। धूमाभास-स्यापीति । बाष्पारोपितधूमस्यापीत्यर्थः ।। साधकत्वेति । हृदे वह्नि-साधकत्वप्रसङ्गादित्यर्थः । पूर्वपक्षी उत्तरमाह ।। अथेति ।। अव्याप्त-त्वादिति । व्याप्तिशून्यत्वादित्यर्थः । तदुपपादयति ।। बहुलेति ।। ऊर्ध्व-तेति । अविच्छिन्नमूलाभ्रंलिहेत्यर्थः । यथा धूममात्रस्य शान्ताग्नावपि सत्वेन वह्निसाधकत्वाभावात् बहुलोर्ध्वतादिविशिष्टो धूमो यत्र तत्राग्नि-रित्येवं बहुलोर्ध्वतादिर्व्याप्त्युपयोगी तथा धूमाभासस्य ह्रदेऽपि सत्वेन व्यभिचारात् वह्निसाधकत्वं नास्ति । अतो यत्रानाभासो धूमस्तत्राग्नि-रित्येवमाभासविविक्तत्वस्यापि व्याप्त्युपयोगित्वमस्त्येवेत्यर्थः ।। एवमिति । आभासविवेकस्यापि व्याप्त्युपयोगित्वमित्यर्थः ।। तदभावादिति । लोकानु-भवाभावादित्यर्थः । लोकानुभवमेवोपपादयति ।। लौकिका हीति ।। असिद्धिमिति । धूम एवासौ न भवतीति प्रतिवक्तारो भवन्ति नत्वाभास-विवेकस्यापि व्याप्त्युपयोगित्वेन तदभावादि(ती)त्यर्थः ।। निर्मूलत्वादिति । असतः साधकत्वाभिमानस्यैव निर्मूलत्वादित्यर्थः । तथाचासतः साधकत्वे सिद्धे तर्हि धूमाभासस्यापि साधकत्वप्रसङ्गे चोदिते आभासविविक्तत्व-विशेषणस्य व्याप्त्युपयोगित्वसिद्धिः । तत्सिद्धौ धूमाभासस्य साधकत्वा-पादनरूपातिप्रसङ्गाभावेनासतः साधकत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः । यथोक्तं न्यायामृते । अस्याः कल्पनायाः असतः साधकत्वसिद्धिसापेक्षत्वे नान्योन्याश्रयादिति । शङ्कते ।। असत्यस्यापीति । प्रतिबिम्बादेरित्यादि-पदेन स्वाप्नार्थग्रहणम् । बिम्बादीत्यादिपदेन शुभाशुभग्रहणम् । तथाचायं प्रदेशो बिम्बवान् प्रतिबिम्बवत्त्वात् इत्येवमसत्यमपि प्रतिबिम्बबिम्बसाधकम् असत्योऽपि स्वाप्नार्थः शुभाशुभसाधको दृष्ट इत्यर्थः ।। नेतीति । दृश्यत्व-हेतोरसत्यत्वादसाधकत्वमिति यदुक्तं तन्नेत्यर्थः ।। प्रतिबिम्बाद्यसत्यता-सिद्धेरिति । आदिपदेन स्वाप्नार्थग्रहणम् । छायावत्प्रतिध्वनिवत्सूर्यस्य पार्श्वे प्रतिसूर्यवच्च प्रतिबिम्बस्य सत्यतायाः स्वाप्नार्थस्य वासनोपादानकस्य सत्यतायाश्चान्यत्र तत्वनिर्णयादावुपपादितत्वादित्यर्थः ।

श्रीगुरुराजीयटिप्पणी

यदि चानुमानं मिथ्या स्यात्तदा साधकं न स्यादिति तर्के मिथ्यात्व-मस्त्वसाधकत्वं मास्त्वित्यप्रयोजकत्वमाशङ्कते ।। नन्विति ।। किमत्रा-सत्यस्यापि साधकत्वे बाधकाभावादप्रयोजकत्वमित्यत्र तात्पर्यम् ? किं वा सतः साधकत्वे साधकाभावादसत्यस्यापि साधकत्वमस्त्विति विकल्पद्वयं मनसि निधाय नाद्यः यदि मिथ्याभूतस्याप्यनुमानस्य साधकत्वं स्यात्तदा धूमाभासस्यापि तत्स्यादिति विपक्ष बाधकतर्कसद्भावान्ना-प्रयोजकत्वमित्या-शयेनाह ।। तथा सतीति ।। नन्वत्र दृष्टान्ताभावान्न विशेषव्याप्तिः सम्भवति । व्याप्तिभावाभावाभ्यां विशेषान्नाविशेषलक्षणापि सेति व्याप्ति-विकलत्वेन तर्काभासत्वान्नेदं विपक्षे बाधकमित्यभिप्रेत्य धूमाभासस्या-व्याप्ततयाऽसाधकत्वमाशङ्कते ।। अथेति ।। प्रतिबिम्बादौ व्यभिचारेण यन्मिथ्या तन्न साधकमिति तर्कमूलभूतव्याप्तेरेवाभावान्न तदुपजीवनेन दृश्यत्वानुमानस्यासाधकत्वापादनं सम्भवतीत्यभिप्रायेण शङ्कते ।। असत्य-स्यापि प्रतिबिम्बादेरिति ।। आदिपदेन स्वाप्नार्थपरिग्रहः । बिम्बादे-रित्यादिपदेन शुभाशुभपरिग्रहः । यद्यपि प्रतिबिम्बमिथ्यात्वस्य वादि-प्रतिवाद्यसम्मतत्वान्न तदुपन्यासोऽत्रोचितः । तथापि परमते स्वरूपेण सत्यत्वेऽपि तस्य बिम्बैक्येन साध्याविशिष्टतया बिम्बसाधकत्वानुपपत्या विच्छेदोपेतस्यैव साधकत्वे वक्तव्ये विच्छेदस्य मिथ्यात्वात्तदुदाहरणम् । यद्वात्र प्रतिबिम्बशब्दस्तद्विच्छेदपरः । बिम्बशब्दश्च तद्व्यवस्थाविशेषपरः । ततश्च नेक्षेतोद्यन्तमादित्यमित्युद्यदादित्यदर्शननिषेधेऽपि तत्प्रतिबिम्बदर्शना-निषेधः । वारिस्थसूर्यदर्शननिषेधेऽपि गगनस्थतद्दर्शनानिषेधः । प्रतिबिम्ब-दर्शनेऽपि दृष्ट्वा स्नायादिति शास्त्रार्थाननुष्ठानम् । बिम्बस्यावदातत्वेऽपि प्रतिबिम्बस्य श्यामत्वमित्यादिव्यवस्थाया विच्छेदकत्वात् । तस्य च मिथ्यात्वात्तदनुपन्यास इति गुरुचरणाः । बिम्बप्रतिबिम्बयोरैक्ये प्रमाण-निराकरणेन भेदे यथैषा पुरुषेच्छेत्याद्यागमोदाहरणेन विच्छेदस्य सत्यताया अत एवोपमेत्यधिकरणेऽर्थज्ञानात्मकस्वप्नसत्यतायाश्च स्वप्नाधिकरणे विशेष्यतया तत्त्वनिर्णयादौ च समर्थितत्वेन विच्छेदादेर्मिथ्यात्वस्यैवाभावान्न तत्र व्यभिचार इत्याशयेनाह ।। प्रतिबिम्बाद्यसत्यताऽसिद्धेरिति ।।

अर्थावच्छिन्नं ज्ञानमिति पक्षे अवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वमित्यादिव्याप्तिभङ्गः

टीका

सवितृसुषिरादिना अनिष्टानुमानं कथम् ? इति चेन्न । तत्रापि तज्ज्ञानस्यैव साधकत्वात् । ज्ञेयभेदानवच्छिन्नस्य ज्ञानमात्रस्याति-प्रसङ्गित्वात्तदवच्छिन्नस्य सिध्यङ्गतायां तस्याप्यङ्गत्वमिति चेत् न । दोषवशात्सत्यतद्विषयज्ञानसदृशस्य ज्ञानस्याङ्गताङ्गीकारात् । नन्वेवं सति प्रकृतेऽप्यनुमानाङ्गानां प्रतीतिसद्भावात्किं तत्सत्यतया ? इति चेन्न । प्रतीतेरपि परेण सत्तानभ्युपगमात् ।

किं च अस्त्ययं विभागः । किञ्चित्स्वरूपेण सत् ज्ञाततया अनुमानाङ्गम् । कस्यचित् ज्ञानमेवेति । अथ सतः साधकत्वं कुतः ? इति चेत् । असतोऽसाधकत्वादर्शनादित्यास्तां विस्तरः ।

मन्दारमञ्जरी

अर्थावच्छिन्नं ज्ञानमङ्गमिति पक्षोऽस्तु । तथात्वे अवच्छेदकार्थस्यापि सिद्ध्यङ्गत्वं स्यादिति चेत् । किं अवच्छिन्नस्य यद्भवति तत् अवच्छेद-कस्यापि भवतीति सामान्यव्याप्तिः ? किं वा अवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वम्’ इति विशेषव्याप्तिः ? नाद्यः । ब्रह्मज्ञानस्य वेदान्तसाध्यत्वेऽपि त्वया ब्रह्मणस्तत्साध्यतानभ्युपगमात् । न द्वितीयः । ब्रह्मज्ञानस्य जगदुपादानत्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । निर्विकारे च तस्मिंस्तस्यायोगात् । आत्मज्ञानस्याविद्यानिवृत्तिहेतुत्वे आत्मनोऽप्य-विद्यानिवृत्तिहेतुत्वप्रसङ्गाच्च । तस्य च ज्ञानस्फोरकत्वेन तदनिवर्तकत्वात् ।

आरोपितस्यापि ज्ञेयस्य ज्ञानव्यावर्तकत्वात्साधकतेति शङ्कानिरासः

नन्वथापि ज्ञेयस्य ज्ञानव्यावर्तकत्वात् व्यावर्तकत्वस्य च व्यावृत्ति-ज्ञानहेतुत्वात्मकत्वात् आरोपितस्यापि हेतुत्वसिद्धिरिति चेत् । स्यादेतदेवं, यदि व्यावृत्तिज्ञानहेतुत्वं व्यावर्तकत्वं स्यात् । न चैवम् । किं तु ? व्यावृत्तिज्ञानहेतुज्ञानविषयत्त्वमेव व्यावर्तकत्वम् । कुत एतत् ? सत्यपि दण्डे दण्डाज्ञाने व्यावृत्त्यज्ञानात् । मया च आरोपितस्य हेतुता-नभ्युपगमेऽपि व्यावृत्तिधीहेतुभूतज्ञानविषयत्वस्याभ्युपगतत्वेन आरोपितस्य व्यावृत्तिज्ञानहेतुज्ञानविषयत्वापरपर्यायव्यावर्तकतोपपत्तेः ।

नन्ववच्छेदकस्य आरोपिततया तदवच्छिन्नमप्यारोपितमेवेति पुनरप्या-रोपि तस्य हेतुता प्राप्तेति चेन्न । अज्ञानस्यावच्छेदकस्यानिर्वचनीयत्वेऽपि तदवच्छिन्नाज्ञानहानेर्ब्रह्माभिन्नायाः पञ्चमप्रकाराया वा सदसद्वैलक्षण्य-लक्षणानिर्वचनीयत्वाभावात् । द्वैतस्यासत्यत्वेऽपि तदवच्छिन्नस्य द्वैता-भावरूपस्याद्वैतस्य सत्यतायास्त्वया अभ्युपगमाच्च । तत्र अज्ञानद्वैते तटस्थे इति चेत् । अत्रापि ज्ञेयं तथेति अवच्छिन्नं पक्षमाश्रित्य केचित्परिहरन्ति ।

स्वयं तु अनवच्छिन्नं पक्षमेवाश्रित्याह ।। न दोषेति ।। अयमर्थः । अर्थावच्छिन्नमेव सुषिरज्ञानं हेतुः । न च असुषिरज्ञानस्यापि हेतुताप्रसङ्गः । विषयावच्छेदमन्तरेण धर्मान्तरेणैव असुषिरज्ञानाद्व्यावृत्तेः । तथा हि, सा किं सत्यसुषिरज्ञानस्य नेत्युच्यते ? किं वा असत्यसुषिरज्ञानस्य ? नाद्यः ‘सत्यसुषिरज्ञानं असुषिरज्ञानाद्व्यावर्तकधर्मोपेतं ततो व्यावृत्तत्वात्संमतवत्’ इति तदनुमानात् । न च विषयेणार्थान्तरता तस्य अतद्धर्मत्वात् । नापि विषयसम्बन्धेन । ज्ञानज्ञेययोः संयोगादेरसम्भवात् । स्वरूपप्रत्यासत्तेश्च ज्ञानस्वरूपानतिरिक्तत्वेन तद्व्यावर्तकत्वायोगात् ।

किं च ‘सत्यसुषिरज्ञानं विषयोपाधिमनपेक्ष्य असुषिरज्ञानाद्विलक्षणं तज्जनकविलक्षणजनकजन्यत्वात् परोक्षज्ञानजनकविलक्षणजनकजन्यापरोक्ष ज्ञानवत्’ । न चासिद्धिः । असुषिरज्ञानजनको योऽसुषिरेन्द्रियसंयोगः तद्विलक्षणसुषिरेन्द्रियसम्प्रयोगजन्यत्वात् सुषिरज्ञानस्य । न च दृष्टान्तस्य साध्यवैकल्यं एकविषययोरपि परोक्षत्वापरोक्षत्वलक्षणवैलक्षण्यदर्शनेन अपरोक्षत्वस्य विषयोपाधिकत्वाभावात् । न च विलक्षणजनकजन्यत्वं सुषिराख्यविषयसम्बन्धरूपवैलक्षण्येनैवोपपन्नमिति तदतिरिक्तवैलक्षण्य-साधने अप्रयोजकता ? यवबीजविलक्षणकलमबीजजन्यत्वस्यापि कदाचिद्देव दत्तादिसम्बन्धरूपवैलक्षण्येनैवोपपत्त्या कलमबीजजन्याङ्कुरस्य यवबीजाङ्कुरा त्स्वतो वैलक्षण्यरूपकलमाङ्कुरत्वस्य कदाचिदभावप्रसङ्गात् ।

अपि च ‘सत्यसुषिरज्ञानं असुषिरज्ञानादन्यसम्बन्धमनपेक्ष्य विलक्षणं असुषिरज्ञानजनितार्थक्रियाविलक्षणार्थक्रियाकारित्वात् यवबीजात्कलमबीज-वत् । न च सुषिरसम्बन्धरूपवैलक्षण्येनैव विलक्षणार्थक्रियाकारित्वोपपत्त्या स्वतो वैलक्षण्येऽप्रयोजकता । तथात्वे देवदत्तसम्बन्धेन विलक्षणस्य यवबीजस्य कदाचित्कलमाङ्कुरोत्पादकत्वप्रसङ्गात् ।

घटाभावादीनां प्रतियोगिसम्बन्धमनपेक्ष्यैव स्वाभाविकवैलक्षण्यसमर्थनम्

नन्वेवं घटाभावस्यापि घटसम्बन्धमनपेक्ष्यैव पटाभावादिभ्यो वैलक्षण्यं स्यादिति चेत् स्यादेव, अन्यथा पटसम्बन्धेनापि विलक्षणं न स्यात् । न हि स्वतोऽविलक्षणमन्यसम्बन्धमात्रेण विलक्षणं भवति । एकस्यैव सत्तादेरीश्वरज्ञानादेश्च विलक्षणानेकसम्बन्धेन वैलक्षण्यप्रसङ्गात् । एकस्यैव दृशोऽनेकदृश्यसम्बन्धेन वैलक्षण्यापाताच्च । देवदत्तादेरपि न दण्डादिना वैलक्षण्यम् । किं तु ? स्वत एव । दण्डादिना तु दण्ड्यादि-रूपं विशिष्टाख्यं वस्त्वन्तरमेवोत्पद्यत इति न कश्चिद्दोषः । काकातिरेकेण गृहे संस्थानविशेषवत् क्षीरसम्बन्धातिरेकेण क्षीरमाधुर्ये गुडादिमाधुर्या-द्वैलक्षण्यवच्च घटसम्बन्धातिरेकेण घटाभावस्यापि पटाभावादितो विलक्षण-स्वभावविशेषस्य घटनिरूपणाधीननिरूपणविषयस्य विलक्षणकारणजन्य-त्वस्य विलक्षणकार्यकरत्वस्य वा अनुभवसिद्धत्वात् । स्वतोऽविलक्षणस्य च नान्यसम्बन्धमात्रेण विलक्षणकारणजन्यत्वं विलक्षणकार्यकरत्वं चेत्युक्तम् । तस्मादज्ञानवदभावादिरपि स्वत एवान्यस्माद्विलक्षणः । व्यवहारसमये तु अनुभवसिद्धस्यापि तस्याभावस्वभावविशेषस्य क्षीरमाधुर्यादिवद्विशिष्या-ख्यातुमशक्तः क्षीरपदवत्तदुपलक्षकं घटपदमेव प्रयुङ्क्ते घटो नास्तीति । अलं प्रसक्तानुप्रसक्त्या ।

न द्वितीयः । असत्यसुषिरज्ञानस्यापि सत्यसुषिरज्ञानवद्विषयोपाधि मनपेक्ष्य व्यावृत्तेरङ्गीकार्यत्वात् । तदेतदाह ।। सत्यतद्विषयज्ञानसदृश-स्येति ।। न च क्लृप्तसुषिरेन्द्रियसम्प्रयोगादिसुषिरज्ञानसामग््रयजन्यस्यास्य कथं विषयोपाधिमनपेक्ष्यासुषिरज्ञानाद्व्यावृत्तत्वाकारेण सुषिरज्ञानसदृशत्वमिति वाच्यम् । दोषवशात्तदुपपत्तेः । अन्यथा तवापि असत्यसुषिरज्ञानस्य सुषिरविषयावच्छेदकस्याप्यभावप्रसङ्गादित्याह ।। दोषवशादिति ।। सत्तानभ्युपगमादिति ।। वृत्तिरूपायास्तत्प्रतिबिम्बितचैतन्यरूपाया वा प्रतीतेः परेण सत्यत्वानभ्युपगमात् पक्षादिप्रतीतेरप्यङ्गता वक्तुं अशक्ये-त्यर्थः ।। किञ्चास्तीति ।। व्याप्त्यादिकं स्वरूपेण सत् ज्ञाततया अनुमानाङ्गम् । व्याप्तिप्रतीतिमात्रस्य व्यभिचारेऽपि सम्भवात् । पक्षादिकं तु ज्ञाततयैव । भ्रान्तिप्रतिपन्नरजतादिकं पक्षीकृत्य तत्तद्वादिभिरसत्त्वादि-साधनात् । एवं चानुमानाङ्गं सर्वं प्रतीतिद्वारा अङ्गमिति अव्याप्त्यादेः स्वरूपसत्त्वमङ्गीकार्यमित्यर्थः ।

असतोऽपि साधकत्वस्य प्रकारान्तरेण शङ्का तन्निरासश्च

ननु ‘‘असतोऽपि साधकत्वमस्ति अनुत्पन्नस्यापि कार्यस्य कारणगत-शक्त्यवच्छेदकतादर्शनात् । कालान्तरे सत्त्वं नोपयोगि’’ इत्यादिशङ्काप्राप्तौ, ‘‘मैवं शक्त्यवच्छेदकता हि शक्तिविषयता । सा च शक्तिसाध्यतेति साध्यत्वमेवानुत्पन्नस्य । न तु साधकत्वम् । साध्यत्वं च नात्यन्तासतः । किं तु ? प्रागभावप्रतियोगिनः’’ इत्यादिकं समाधानं यद्यपि वक्तव्यमस्ति तथापि ग्रन्थगौरवभयात्सङ्क्षिप्यत इत्याह ।। आस्तां विस्तर इति ।।

श्रीनिवासतीर्थीयटिप्पणी

सवित्रिति । दृश्यत्वहेतोरसत्यस्यासाधकत्वाङ्गीकार इति शेषः । सवितृसुषिरस्यासत्यत्वादिति भावः । सुषिरादिनेत्यादिपदेन छिद्रां वा छायां पश्येदिति श्रुत्युक्तं ग्राह्यम् ।। अनिष्टेति । न चिरमिव जीविष्यतीति विद्यादिति श्रुत्युक्तमरणरूपानिष्टेत्यर्थः ।। तज्ज्ञानस्यैवेति । सवितृ-सुषिरज्ञानस्यैवेत्यर्थः । अत एव श्रुतौ अथापि यत्र छिद्र इवादित्यो दृश्यत इति दृशि ग्रहणं कृतमिति ज्ञातव्यम् । ज्ञानं तु सत्यमेवेति सत्यस्यैव साधकत्वमिति भावः । असत्यस्यैव साधकत्वमङ्गीकार्यमिति शङ्कते ।। ज्ञेयभेदेति । सुषिरादिरूपविषयविशेषेत्यर्थः ।। अतिप्रसङ्गित्वादिति । घटादिरूपसुषिरज्ञानसाधारण्यादित्यर्थः ।। तदवच्छिन्नस्येति । सुषिरादि-रूपविषयावच्छिन्नस्येत्यर्थः ।। सिध्यङ्गतायामिति । मरणरूपानिष्ट-साधकत्वमित्यर्थः ।। तस्यापीति । सुषिरादिरूपविषयस्यापीत्यर्थः ।। अङ्गत्वमिति । अनिष्टसाधकत्वं प्राप्तमित्यर्थः । तथा चासत्यस्यैव साधकत्वं प्राप्तमिति द्रष्टव्यम् । अयं भावः । यदुक्तं तत्रापि तज्ज्ञानस्यैव साधक-त्वादिति तत्र पृच्छामः । किं विषयानवच्छिन्नं ज्ञानमात्रं मरणरूपा-निष्टसाधकं किं वा सुषिरादिरूपविषयावच्छिन्नं ज्ञानम् । नाद्यः । घटादिरूपासुषिरज्ञानस्यापि ज्ञानत्वेनानिष्टसाधकत्वप्रसङ्गात् । न द्वितीयः । सुषिरादिरूपविषयावच्छिन्नस्य ज्ञानास्यानिष्टसिद्ध्यंङ्गत्वे सुषिरादिरूप-विषयस्यापि अनिष्टसाधकत्वापत्तेः । अवच्छिन्नस्य यद्भवति तदवच्छेदक-स्यापि भवतीति नियमस्य लम्बकर्णमानयेत्यादौ दर्शनादिति । अर्था-नवच्छिन्नज्ञानमेव साधकमिति पक्षमाश्रित्य परिहरति ।। दोषवशा-दित्यादिना ।। सत्यतद्विषयज्ञानेति । सत्यसुषिरविषयकज्ञानेन सदृशं यज्ज्ञानं असत्यसुषिरज्ञानं तस्येत्यर्थः । अयं भावः । अर्थानवच्छिन्नं सुषिरज्ञानं अनिष्टसाधकम् । न चासुषिरज्ञानस्यापि हेतुत्वप्रसङ्ग इति वाच्यम् । तदभावात् । तथाहि सत्यसुषिरज्ञानं तावदसुषिरज्ञानात्स्वत एव व्यावृत्तं असुषिरज्ञानजनितार्थक्रियाविलक्षणार्थक्रियाकारित्वात् । यवबीज-कलमबीजवत् । न चाप्रयोजकता । तत्रापि विषयस्यैव व्यावर्तकत्वो-पपत्तेरिति वाच्यम् । विषयस्य ज्ञानधर्मत्वाभावात् । न च ज्ञाने विषय-सम्बन्ध एव व्यावर्तक इति वाच्यम् । ज्ञानज्ञेययोः संयोगादेरसम्भवात् । स्वरूपसम्बन्धस्य ज्ञानस्वरूपानतिरिक्तत्वेन तद्व्यावर्तकत्वायोगात् । एवमेवासत्यसुषिरज्ञानस्यापि असुषिरज्ञानाद्विषयसम्बन्धमनपेक्ष्य स्वत एव व्यावर्तकत्वान्नातिप्रसङ्गः । न च सत्यसुषिरज्ञानस्य सुषिरेन्द्रियसन्निकर्ष-रूपसामग्रीजन्यत्वात् । असत्यसुषिरज्ञानस्य चासता सुषिरेणेन्द्रियस्य सन्निकर्षायोगेन तज्जन्यत्वासम्भवात् कथमसत्यसुषिरज्ञानस्य विषयसम्बन्ध-मनपेक्ष्य सुषिरज्ञानसदृशत्वमिति वाच्यम् । दोषवशादुपपत्तेः । तथा चासुषिरज्ञानात्सत्यसुषिरज्ञाने विषयातिरिक्तो व्यावर्तको धर्मविशेषः समीचीनसामग््रया जातः असत्यसुषिरज्ञाने तु दोषघटिततया सामग््रयेति युक्तमेव सादृश्यमिति न कश्चिद्दोष इति । सुषिरादिरूपार्थावच्छिन्नस्य ज्ञानस्यानिष्टसाधकत्वपक्षाङ्गीकारेऽपि न कश्चिद्दोषः ।। ननु तर्हि अवच्छेदकीभूतसुषिरादिरूपार्थस्यापि साधकत्वं स्यादिति चेत् अत्र प्रष्टव्यम् । किं अवच्छिन्नस्य यद्भवति तदवच्छेदकस्यापि भवतीति सामान्यव्याप्तिः । किं वाऽवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वमिति विशेषव्याप्तिः । नाद्यः । अदृष्टत्वात् । लम्बकर्णमानयेत्यादौ दर्शनादिति चेत् । चित्रगुमानयेत्यादौ व्यभिचारोऽपि किं न दृष्टः । न द्वितीयः । ब्रह्माज्ञानस्य जगदुपादानत्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । निर्विकारे च तस्मिन् तस्यायोगात् । आत्मज्ञानस्याविद्यानिवृत्तिहेतुत्वे आत्मनोऽपि तन्निवृत्ति-हेतुत्व प्रसङ्गाच्च । तस्याज्ञानस्फोरकत्वेन तदनिवर्तकत्वात् । नन्वथापि सुषिररूपज्ञेयस्य ज्ञानव्यावर्तकत्वाद्व्यावर्तकत्वस्य व्यावृत्तिज्ञानहेतुत्व-रूपत्वात् आरोपितसुषिरस्यापि हेतुत्वसिद्धिरिति चेत् । स्यादेतदेवम् । यदि व्यावृत्तिज्ञानहेतुत्वं व्यावर्तकत्वं स्यात् । न चैवम् । किं तु व्यावृत्तिज्ञान-हेतुभूतज्ञानविषयत्वमेव । कुत इति चेत् । सत्यपि दण्डे दण्डाज्ञाने देवदत्ते अदण्डिव्यावृत्त्यज्ञानात् । तथा चारोपितस्य व्यावृत्तिहेतुत्वानभ्युपगमेऽपि व्यावृत्तिज्ञानहेतुभूतं यज्ज्ञानं तत्रोल्लिख्यमानत्वरूपतद्विषयत्वस्याभ्युपगत-त्वेनारोपितस्य व्यावृत्तिज्ञानहेतुभूतज्ञानविषयत्वापरपर्यायव्यावर्तकत्वोपपत्तेः । व्यावृत्तिहेतुभूतं ज्ञानं तु सत्यमेवेति न कश्चिद्दोषः ।।

ननु अवच्छेदकस्य सुषिरस्यारोपितत्वात्तदवच्छिन्नं ज्ञानमप्यारोपितमेवेति पुनरप्यारोपितस्य हेतुताप्राप्तेरिति चेन्न । अज्ञानरूपावच्छेदकस्या-निर्वचनीयतया आरोपितत्वेऽपि तदवच्छिन्नाज्ञाननिवृत्तेः पञ्चमप्रकाराया-स्तदभावात् । द्वैतस्यासत्यत्वेऽपि तदवच्छिन्नस्य द्वैताभावरूपाद्वैतस्या-सत्यत्वाभ्युपगमाच्च । तत्राज्ञानद्वैते तटस्थे इति चेत् । तर्ह्यत्रापि तथेति संतोष्टव्यमिति द्रष्टव्यम् ।। एवं सतीति । ज्ञानस्यैव साधकत्वाङ्गीकार इत्यर्थः ।। प्रकृतेति । दृश्यत्वानुमानाङ्गभूतानां व्याप्त्यादीनामित्यर्थः ।। प्रतीतीति । तस्याश्च भवद्भिः सत्यत्वाङ्गीकारादिति भावः ।। परेणेति । सत्यं मन्मते तथेति त्वया तु वृत्तिरूपायाः तत्प्रतिबिम्बितचैतन्यरूपाया वा प्रतीतेः सत्यत्वानभ्युपगमेन पक्षादिप्रतीतेरपि सत्यत्वाभावादिति भावः ।। किं चास्तीत्यादि । व्याप्त्यादिकं स्वरूपेण सदेव ज्ञाततया अनुमानाङ्गं न प्रतीतिमात्रेण । व्याप्तिप्रतीतिमात्रस्य व्यभिचारेऽपि सम्भवात् । लिङ्ग-प्रतीतिमात्रस्य स्वरूपासिद्धेऽपि साम्यात् । पक्षादिकस्य तु ज्ञानमेवानु-मानाङ्गम् । न तु तत्सत्ता आवश्यकी । भ्रान्तिप्रतिपन्नं रजतादिकं पक्षीकृत्य तत्तद्वादिभिरसत्वादिसाधनात् । त्वयैव मिथ्यात्वसाधने दृष्टान्तीकरणाच्च । एवं चानुमानाङ्गं सर्वं प्रतीतिमात्रेणैवांगमित्यस्यायुक्त-त्वात् । लिङ्गव्याप्त्यादेः स्वरूपसत्वमङ्गीकार्यम् । तथा च जगदन्तःपातित्वेन लिङ्गव्याप्त्यादेरसत्त्वादसाधकत्वेनानध्यवसितत्वकथनं युक्तमेवेति भावः ।। असतोऽसाधकत्वादिति । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर-विधिनान्तरीयकत्वादिति भावः ।।

श्रीगुरुराजीयटिप्पणी

तथापि स्थलान्तरे व्यभिचारामूलशैथिल्यमित्याशयेन शङ्कते ।। सवितृसुषिरादिनेति ।। आदिपदेन रज्जुसर्पादिपरिग्रहः । सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् । तदेवार्थक्रियाकारि तत्सदेवार्थकारकमित्यनुव्याख्यानं मनसि निधायोक्तव्यभिचारं परिहरति ।। तत्रापीति ।। तज्ज्ञानस्यैवेति ।। सुषिरादिज्ञानस्येत्यर्थः । तस्य च सत्यत्वान्नेदं मिथ्याभूतस्यासाधकत्वे व्यभिचारस्थलमिति हृदयम् । न च भ्रमत्वात् ज्ञानमप्यसत्यमिति वाच्यम् । नाभूदत्र सुषिरं नाभूदत्र सर्प इतिवच्च न सुषिरज्ञानं ममाभून्न सर्पज्ञानं ममाभूदिति च कस्यचिद्बाधज्ञानानुदयात् । बाधोत्तरकालमपि सुषिरज्ञान-मभूत् सर्पज्ञानमभूदित्येवानुवृत्तेः । भ्रमत्वस्य च विषयवैपरीत्येनैवोपपत्तेः । अर्थस्यासत्वेऽपि भ्रमस्य सत्यत्वसम्भवादिति भावः ।

ननु चात्र सवितृसुषिरानवच्छिन्नमेव ज्ञानमनिष्टादिसाधकमित्यभिप्रायः । किं वा तदवच्छिन्नं ज्ञानं तत्साधकमिति विकल्पद्वयं मनसि निधायाद्यं दूषयति ।। ज्ञेयेति ।। अतिप्रसङ्गित्वादिति ।। ज्ञानमात्रस्यैवारिष्टादि-साधकत्वे घटज्ञानस्यापि ज्ञानत्वेनारिष्टादिसाधकत्वं स्यादित्यतिप्रसङ्गा-दित्यर्थः । अतिप्रसङ्गादित्यतः परमरिष्टादिसिध्यङ्गत्वानुपपत्तेरिति शेषः । द्वितीयं दूषयति ।। तदवच्छिन्नस्येति ।। यद्विशिष्टस्य यस्य यद्भवति तद्विशेषणस्यापि भवतीति व्याप्तेरर्थावच्छिन्नस्य ज्ञानस्यारिष्टादिसिध्यङ्गत्वेऽ-वच्छेदकस्यार्थस्यापि तदङ्गत्वावश्यम्भावादिति भावः । न दोषवशादित्ये-तच्चिरन्तनटीकायामेव स्पष्टम् । तत एव प्रतिपत्तव्यम् ।। एवं सतीति ।। अर्थस्यासत्त्वेऽपि ज्ञानस्य सत्वात्तत एवोदाहृतस्थले सिध्युपपादन इत्यर्थः । सतः साधकत्वे साधकाभावादसत्यस्यापि साधकत्वमस्त्विति शङ्काभिप्राय इति प्राग्विकल्पितद्वितीयपक्षमाशङ्कते ।। अतः सत इति ।। परिहरति ।। असत इति ।। उपलक्षणं चैतत् । सत्यस्यापि साक्षिणो ज्ञानादिसाधकत्वस्य त्वत्सम्मतत्वाच्चेत्यपि द्रष्टव्यम् । ननु साक्ष्यप्यविद्यावृत्तिप्रतिबिम्बित एवाज्ञानादिसाधक इत्याशङ्क्य साक्षिगतसाधकताया अज्ञानाधीनत्वेऽ-पारमार्थिकतया प्रातिभासिकस्याज्ञानसत्वस्य साक्षिणा सिद्धिं विनाऽयोगा-दन्योन्याश्रयादित्याशयवानाह ।। आस्तां विस्तर इति ।।

विश्वमिथ्यात्वानुमानस्य प्रबलप्रमाणबाधोपपादनम्

टीका

अनुमानस्यानवसरो द्वेधा प्रमाणबाधस्तत्प्रतिरोधश्च । तत्राद्यः प्रबल इति तमेवादौ दर्शयति ।

मिथ्यात्वानुमानखण्डनम्

प्रत्यक्षादिविरुद्धत्वात् ‘विश्वं सत्यम्’

इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः

यथायथं प्रत्यक्षानुमानागमसिद्धान् पदार्थान् खलु पक्षीकृत्य तन्मिथ्यात्वमनुमातव्यम् । प्रमाणानि च तत्सत्यतावगाहीनीति तद्बाधितत्वात्कालात्ययापदिष्टो भवति ।

प्रपञ्चे त्रैकालिकाबाध्यत्वस्य आगमसिद्धत्वोपपादनम्

ननु केयं सत्यता ? या प्रत्यक्षादिगोचरा ब्रह्मणि परेणाङ्गी-क्रियते सैवेति ब्रूमः । कालत्रयाबाध्यतालक्षणा सा न प्रत्यक्षादि-गोचरा इति चेत् । तर्हि ब्रह्मणोऽपि कुतः सिद्धा ? ‘तत्सत्यम्’ इत्याद्यागमादिति चेत् । तर्हि तत्प्रकृतेऽपि सममिति तद्विरोधा-त्कालातीत एव । तदिदमुक्तं ‘विश्वं सत्यम्’ इत्यादिना । अन्यथा प्रत्यक्षादीत्यादिपदेन वाक्यस्यापि गृहीतत्वात्पुनर्ग्रहणं व्यर्थं स्यात् ।

प्रपञ्चे त्रैकालिकाबाध्यत्वस्य प्रत्यक्षादिसिद्धत्वोपपादनम्

अङ्गीकारवादश्चायम् । यथा च त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वं प्रत्यक्षादिनैव सिद्धं तथोपपादितमन्यत्रेति ।

मन्दारमञ्जरी

प्रत्यक्षादीनां प्राबल्यसिद्धये तेषामनुमानोपजीव्यतामाह ।। यथायथ-मित्यादिना ।। तदिदमुक्तमिति ।। प्रत्यक्षादीत्यादिशब्दोपात्तमपि वाक्य-मादरात्पुनरुपादानेन ‘प्रत्यक्षवदागमस्य विवक्षितसत्ताग्राहित्वं न प्रयास-साध्यम् । किं तु अनायाससिद्धम्’ इति सूचितमित्यर्थः । प्रबल-प्रत्यक्षविरोधेनाङ्गीकार्याप्रामाण्यानुमानादिविरोधात् स्वतः प्राप्तप्रत्यक्ष-प्रामाण्यत्यागायोगाच्च प्रत्यक्षप्रामाण्यं तावदङ्गीकार्यम् । तत्प्रामाण्यं च यत्कालाद्यवच्छेदेन स्वविषयो गृहीतः तत्कालाद्यवच्छिन्नतया तस्यासत्वे नोपपद्यत इति तत्कालाद्यवच्छिन्नतया प्रत्यक्षविषयस्य सत्त्वमङ्गीकार्यम् । तथा चाविद्यमानस्य तत्कालाद्यवच्छेदेनासत्त्वस्य केनापि प्रमाणेन गृहीतु-मशक्यत्वात् कालान्तरादिभाविनोऽपि तत्कालाद्यवच्छेदेन तदसत्त्वग्राहि-प्रमाणस्याभावनिश्चयात् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वलक्षणं बाध्यत्वं कदाऽपि नास्तीत्यत्यन्ताबाध्यतासिद्धिः । प्रत्यक्षेण यत्कालाद्य-वच्छेदेन स्वविषयो गृहीतः तदतिरिक्तकालाद्यवच्छेदेनासत्त्वं तु घटादे-र्मयाऽप्यङ्गीक्रियते परिच्छिन्नत्वात्तस्य । तथा च प्रत्यक्षस्यापि कालत्रयाबाध्यत्वरूपसत्यताग्राहित्वमस्त्येव । आचार्यैस्त्वङ्गीकारवादः कृत इति अभिप्रेत्याह ।। अङ्गीकारवादश्चेति ।।

श्रीनिवासतीर्थीयटिप्पणी

अनवसर इति । प्रतिबन्धकजिज्ञासाविच्छेदो ह्यवसरः । तदभावोऽ-नवसरः । लिङ्गपरामर्शानन्तरमपि बाधसत्प्रतिपक्षावतारशङ्कया मुहूर्त-मा(त्रंविलं)त्रमवलम्बते अनुमानावतार इत्यभियुक्तवचनादिति भावः । प्रत्यक्षादीनां प्राबल्यसिद्धये तेषामनुमानोपजीव्यत्वं दर्शयति ।। यथायथ-मिति । यथायोग्यमित्यर्थः ।। अनुमातव्यमिति । अन्यथा आश्रयासिद्धिः स्यादिति भावः ।। कालात्ययापदिष्ट इति । धर्मिग्राहकप्रमाणबाध इत्यर्थः । प्रश्नस्यासङ्गतिपरिहारायाह ।। येति । उत्तरमाह ।। ब्रह्मणीति । परेण मायावादिना । कालत्रयेति ।। पारमार्थिकत्वरूपेत्यर्थः । लक्षणेत्यनन्तरं ब्रह्मण्यङ्गीकृतेति शेषः ।। न प्रत्यक्षादिगोचर इति । प्रत्यक्षस्य वर्तमान-मात्रग्राहित्वादिति भावः ।। कुत इति । कालत्रयाबाध्यत्वलक्षणसत्यता कुतः प्रमाणात्सिद्धेत्यर्थः ।। तदिति । कालत्रयाबाध्यत्वलक्षणसत्यत्व-स्यागमसिद्धत्वमित्यर्थः । प्रकृते पक्षीभूते जगति ।। अन्यथेति ।। ब्रह्मप्रतिबन्धात्त्त्रैकालिकाबाध्यत्वलक्षणसत्यत्वं जगत्यामेव सिद्धमिति वक्तुं विश्वं सत्यमित्यादिमूलं प्रवृत्तमित्यभिप्रायाभावे इत्यर्थः ।। व्यर्थं स्यादिति । प्रत्यक्षादीत्यादिपदेनैव वाक्यस्याप्युपात्तत्वात् । विश्वं सत्यमिति यदा वाक्यं पुनः पृथगुपात्तं तेनेदमुक्तं भवति । प्रत्यक्षवदागमस्य त्रैकालिकाबाध्यता-लक्षणसत्ताग्राहित्वं न प्रयाससाध्यं किं त्वनायाससाध्यमिति ।। अङ्गीकार-वादश्चायमिति । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वमङ्गीकृत्य त्रैकालिका-बाध्यत्वरूपसत्यत्वं जगति न प्रत्यक्षसिद्धं किं त्वागमेनेति यदुक्तं भगव-त्पादैः सोऽयमङ्गीकारवाद इत्यर्थः । वस्तुतत्वं कथमित्यत आह ।। यथा चेति । तथाहि । अनुमानेन जगति त्रैकालिकसत्ताप्रतिषेधरूपमिथ्यात्वं साध्यते प्रतिपन्नोपाधौ वर्तमानकाले सत्यत्वरूपप्रतियोगिग्राहकेण प्रत्यक्षेण तत्र तदा तदत्यन्ताभावरूपमिथ्यात्वग्राहकानुमानं विरुध्यत एव । प्रतियोगिनः सत्वस्य स्वात्यन्ताभावाभावरूपत्वेन तद्ग्राहकप्रत्यक्षस्य साक्षा-द्ग्राह्याभावावगाहित्वात् । अत्र वदन्ति । नात्र साक्षाद्विरोधः । वर्तमान-कालीनसत्वस्य त्रैकालिकसत्ताप्रतिषेधविरहव्याप्यत्वेन साक्षात्तद्विरह-रूपत्वाभावात् । न हि विशेषणाभावो विशिष्टाभावरूपः किं तु तद्व्याप्य एवेति । न च तद्व्याप्यत्वेनैव विरोधोऽस्त्विति वाच्यम् । तथात्वे अनुमानविरोधप्राप्त्या प्रत्यक्षविरोधकथनायोगादिति । तन्न । तथात्वे वह्निरनुष्ण इत्यत्रापि कालत्रये औष्ण्याभावस्य साध्यत्वात् । प्रत्यक्षेण च वर्तमानकाल एवौष्ण्यग्रहणात् । त्रैकालिकानौष्ण्याभावाभावव्याप्यभूत-वर्तमानकालीनौष्ण्यग्राहकत्वेनैव विरोधप्राप्त्या साक्षाद्ग्राह्याभावावगाहित्वेन प्रत्यक्षस्यानुमानबाधकत्वं सर्वसंमतं न स्यादिति बाधोच्छेद एव स्यादिति । अत्र ब्रूमः । त्रैकालिकसत्ताप्रतिषेध इत्यत्र कालत्रयस्य सत्ताप्रतिषेध-विशेषणत्वेन निषेध्यकोटौ प्रवेशो न विवक्षितः । किंतु तदधिकरणतयोप-लक्षणत्वमेव । तथा च कालत्रये यः सत्ताप्रतिषेधस्तदत्यन्ताभाव इति यावत् । तद्विरहरूपत्वं कादाचित्कस्यापि प्रतियोगिनोऽस्त्येव । कथमन्यथा कादाचित्कस्य घटादेस्त्रैकालिकप्रतिषेधरूपस्वात्यन्ताभावविरहरूपत्वमिति । उक्तं चैतदभिप्रायेणैव न्यायामृते । ‘‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कार-स्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम्’’ इति । उक्तं च भक्तिपादीयसुधायाम् । घटादिसत्ताप्रतिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावादिति ।। व्याख्यातं चैतद्गुरुचरणैः कुत्रापि कदापि घटादेः सत्ता नास्तीत्येवमात्यन्तिकसत्ताप्रतिषेधरूपस्य बाधस्य कुत्रचित् कदाचित्तत्सत्ताग्राहिणा प्रत्यक्षेण साक्षाद्ग्राह्याभावावगाहित्वेन विरोधावश्यंभावादित्यर्थ इति । चक्षुरादिबाह्यप्रत्यक्षाभिप्रायेणेदमुपपादितम् । अतीतानागतवर्तमानरूपकालत्रयावगाहिसाक्षिप्रत्यक्षं तु स्वविषयस्य गगनादेः त्रिकालाबाध्यत्वरूपं सत्त्वं साक्षादेव गृह्णाति । एवं मानसप्रत्यक्षमपि न वर्तमानग्राहि । यथोक्तमनुव्याख्याने । ‘‘प्रत्यक्षं मानसं चैव यदाऽतीतार्थ-गोचरम् । तदा स्मृतिप्रमाणत्वम्’’ इति ।।

श्रीगुरुराजीयटिप्पणी

ननु प्रत्यक्षादीनां दृश्यात्वानुमानापेक्षया प्राबल्यानिर्णयात् कथं तद्बाधकत्वम् । प्राबल्येऽपि वा प्रत्यक्षादीनां प्रपञ्चस्वरूपमात्रविषयत्वा-द्दृश्यत्वानुमानस्य च तन्मिथ्यात्वविषयकत्वाद्भिन्नविषयतया परस्परवार्ता-नभिज्ञयोः कथं बाध्यबाधकभाव इत्याशङ्क्य प्राबल्यं तावदुपपादयति ।। यथायथमिति ।। अन्यथाऽश्रयहीनत्वप्रसङ्गादिति भावः । विरुद्धार्थतामुप-पादयति ।। तानि चेति ।। यद्यपि स्तम्भोऽयमित्यादिप्रतीतिर्न सदित्येव-माकारा । तथापि स्तम्भादीनां सद्विशेषत्वान्न सत्तां व्यभिचरति । अस्ति च सदित्यपि प्रतीतिः । अतः सर्वथा प्रत्यक्षादिभिः प्रतीयमानं वस्तु सदित्येव प्रतीयत इति प्रत्यक्षादिविरोधोऽनुमानस्येति भावः । ननु मिथ्यात्वानुमानस्य न प्रत्यक्षादिविरोधः । प्रत्यक्षादिगृहीतसत्वस्यानुमान-गृहीतप्रपञ्चमिथ्यात्वाविरोधित्वाद् अनुमानगृहीतमिथ्यात्वविरोधि सत्वस्य च प्रत्यक्षादिनाऽग्रहादित्यभिप्रायेण सत्वमाक्षिपति ।। नन्विति ।। इयं सत्ता का ? न कापीत्यर्थः । तथाहि  किं सत्ता परजातिरुतासद्विलक्षणत्वमर्थ-क्रियाकारित्वं वाऽबाध्यत्वं वा । नाद्यः । तथा सति मिथ्यात्ववादिना मया प्रपञ्चेत्यभ्युपगतपरजात्यादिरूपसत्ताया एव प्रत्यक्षादिना ग्रहणेन प्रत्यक्षा-देरनुमानगृहीतमिथ्यात्वविरोधिसत्वग्राहकत्वाभावेन प्रत्यक्षादेरनुमान-बाधकत्वाभावापत्तेः । न चतुर्थः । बाधस्य प्रतिपन्नोपाधौ त्रैकालिकसत्य-तन्निषेधरूपत्वेन सत्यतानिरूप्यत्वात् । अबाध्यत्वरूपसत्यतायाश्च बाध-निरूप्यत्वेनान्योन्याश्रयापातात् । वर्तमानमात्रग्राहिप्रत्यक्षस्य तात्कालिका-बाधग्राहकत्वेऽपि त्रिकालाबाध्यत्वाग्राहकतयाऽनुमानबाधकत्वानुपपत्तेश्चेति शङ्काभिप्रायः । परेण ब्रह्मण्यङ्गीकृतायास्त्रिकालाबाध्यत्वलक्षणसत्यताया एव मयापि प्रपञ्चे तत्वेनाङ्गीकारात् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधमात्रस्य वा विज्ञानेन निवृत्तेरेव वा बाधत्वाभ्युपगमेन तस्य सत्ताघटितत्वाभावेना-न्योन्याश्रयाप्रसङ्गात् । तादृशसत्तायाश्चानुमानगृहीतमिथ्यात्वविरोधित्वेन तद्ग्राहकप्रमाणबाधो दृश्यत्वानुमानस्य न दुष्परिहार एवेत्याशयवान् परकीयब्रह्मणि त्रिकालाबाध्यत्वरूपसत्यताङ्गीकारं परमुखेनैव वाचयितुं गूढाभिसन्धिरुत्तरमाह ।। ब्रह्मणीति ।। या यादृशी सा तादृशी । ‘‘यादृशं ब्रह्मणस्सत्वं तादृशं स्याज्जगत्यपि’’ इति वचनादित्याशयः । आशय-मजानानः शङ्कते ।। त्रिकालेति ।। ब्रह्मणि त्रिकालाबाध्यत्वलक्षणा सत्यता मयाङ्गीक्रियते । न च सैव च त्वया जगत्यङ्गीकर्तुं शक्यते । तथा सति तस्य वर्तमानमात्रग्राहिप्रत्यक्षग्राह्यत्वाभावेन दृश्यत्वानुमानस्य प्रत्यक्षेण बाधाभावप्रसङ्गादित्यर्थः । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेन त्रिकाला-बाध्यत्वाग्राहकत्वेन दृश्यत्वानुमानाभावस्य प्रत्यक्षेण बाधाभावेऽपि नास्माकं काचित् क्षतिः । आगमस्यैव ब्रह्मणीव प्रपञ्चेऽपि त्रिकालाबाध्यत्व-ग्राहकत्वेन दृश्यत्वानुमानस्यागमबाधितताया अवर्जनीयत्वादित्यभिप्रेत्या-गमस्य त्रिकालाबाध्यताग्राहकतां परमुखेनैव वाचयितुं ब्रह्मणि तादृश-सत्ताग्राहकं प्रमाणमाक्षिपति ।। न हीति ।। कुतः सिद्धेति ।। न कुतोऽपि । प्रत्यक्षादिभिस्तत्सिद्धेरसम्भवादन्यस्य च साधकस्याभावा-दित्यर्थः । न च प्रत्यक्षादेस्सर्वस्य त्रिकालाबाध्यत्वाग्राहकतां ब्रूमः । येनोक्तदोषः प्रसज्येत । किन्नाम, वर्तमानमात्रग्राहित्वात् प्रत्यक्षस्य तद्ग्राहकत्वं नास्तीति । आगमस्य तु त्रिकालाबाध्यत्वग्राहकत्वमभ्युपगम्यत एव । ततश्च ब्रह्मणः प्रत्यक्षेणोक्तरूपसत्यतासिध्यसम्भवेऽपि आगमेनैव तत्सिद्धिसम्भवान्न तदसिद्धिप्रसङ्ग इत्याशयेन शङ्कते ।। तत्सत्यमित्यादि-वाक्यादिति ।। हन्तैवं प्रत्यक्षेण प्रपञ्चस्योक्तरूपसत्वसिध्यसम्भवेऽपि ब्रह्मवदागमेन तत्सिद्धिसम्भवादागमबाधो दृश्यत्वानुमानस्येति यदिष्ट-सिद्धिरिति स्वाशयं सिद्धान्त्युद्घाटयति ।। तदिति ।। विवक्षितार्थे मूलकारीय ज्ञापकमाह ।। तदिदमुक्तमिति ।। तस्यान्वयोपपत्तिशङ्कानिरासेनोक्तार्थ-ज्ञापकतामुपपादयति ।। अन्यथेति ।।

ननु कुतोऽत्र प्रत्यक्षबाधपरित्यागाश्रयणम् । प्रत्यक्षस्य वर्तमानमात्र-ग्राहित्वेन त्रिकालाबाध्यत्वासम्भवादेवेति चेन्न । प्रत्यक्षस्य वर्तमानमात्र-ग्राहकत्वनियमस्यैवासिद्धेः । स हि किं चक्षुरादिप्रत्यक्षमधिकृत्य वाऽभिमतः मानसप्रत्यक्षं वा साक्षिप्रत्यक्षं वा । नाद्यः । मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् । अतीतवर्तमानत्वधर्मिणी सा न दृश्यत इत्यादिना भक्तिपादे चक्षुरादिप्रत्यक्षस्य वर्तमानमात्रग्राहकत्वनियमाभावस्याचार्यैरुपपादितत्वेन तदसम्भवात् । न द्वितीयः । ‘प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम् । तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम्’ इत्यादिना तत्रैव मानसप्रत्यक्षस्यापि तन्नियमाभावस्य समर्थनात् । न तृतीयः ।। तच्चेन्नोत्तरगोचरम् । कथ-मेवोत्तरः कालस्तद्गो मोक्षस्य गृह्यत इत्यादिनाऽतो न वर्तमानैकनियमः स्याद्ग्रहेक्षज इत्यन्तेन ग्रन्थेन साक्षिप्रत्यक्षस्य तन्नियमनिराकरणेन तदसिद्धेः । तस्मादुक्तनियमो न स्वसम्मतः । नापि परसंमतः । तथा सति रूप्यादेः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वस्याप्रत्यक्षत्व-प्रसङ्गात् । तस्मात्स्वपरासम्मतेरुक्तनियम एवासिद्धः । अस्तु वा तन्नियमः । तथापि प्रत्यक्षबाधोऽवर्जनीय एव । वर्तमानमात्रावगाहित्ववादिनाऽपि प्रत्यक्षस्य वर्तमानकालीनबाधाभावावेदकस्याभ्युपगमादनुमानस्य च वर्तमानकालीनविश्वबाधग्राहकत्वात् । ततश्च विरुद्धार्थयोः प्रबलदुर्बलयोश्च प्रत्यक्षानुमानयोः कथं न बाध्यबाधकभावः । अथानुमानमागामिनमेव विश्वस्य बाधं बोधयति । न त्वधुनातनम् । प्रत्यक्षं चेदानीन्तनमेव बाधा-भावं गृह्णाति । न त्वागामिनम् । न च भिन्नविषययोर्विरोधोऽस्ति । तथा सतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यनुमानस्यापि विरोधप्रसङ्गात् । तत्कथं बाध्यबाधकभाव इति चेन्न । बाधस्य प्रतिपन्नोपाधौ त्रैकालिकसत्तानिषेधरूपत्वात् तन्निषेधस्य च वर्तमान-कालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्धत्वावश्यम्भावेन तद्बोधकस्यानुमानस्य प्रत्यक्षबाधापरिहारः स्यात् । साक्षिणः साक्षात्स्वविषयगगनादिबाधाभाव-ग्राहकतया विषयबाधमनन्तर्भाव्य प्रामाण्यग्रहणानुपपत्तेर्निर्दोषतद्धीप्रामाण्य-ग्रहणद्वारा स्वविषयघटादिबाधाभावग्राहकतायाः ‘सत्यत्वं गगनादेश्च साक्षि-प्रत्यक्षसाधितम्’ इत्यादिना बहुषु स्थलेषु व्युत्पादनाच्च । तत्कथमेतदित्यतः सत्यमेवं वस्तुगतिः । यत्प्रत्यक्षं त्रिकालाबाध्यत्वग्राहकमेवेति । अयं तु ग्रन्थः प्रत्यक्षस्य वर्तमानमात्रग्राहित्वनियमं तत एव च प्रत्यक्षस्य त्रिकाला-बाध्यत्वग्राहकत्वं चाङ्गीकृत्य प्रवृत्त इत्यविरोध इत्याशयेनाह ।। अङ्गीकार-वादश्चायमिति ।। अन्यत्रानुव्याख्यानप्रमाणलक्षणादावित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

अनुमानस्यानवसर इति । संज्ञैषा पूर्वाचार्यस्य प्रमाणबाध-तत्प्रतिरोधयोः ।। एतेन बाधप्रतिबाधयोरिवासिद्ध्यादेरपि अनुमानावसर-विघातकत्वेन अनुमानस्य अनवसरत्वात् अनुमानस्यानवसर द्वैविध्यकथन-मयुक्तमिति परास्तसंज्ञायाः पुरुषेच्छाधीनत्वेन सर्वेषामपीयं संज्ञा स्यादिति शङ्कानवकाशात् ।। ब्रह्मणीति ।। ब्रह्मणि या स्वरूपसत्ताऽङ्गीकृता सैव तत्सदृशस्वरूपसत्तेत्यर्थः । एतेन परेण ब्रह्मणो निर्धर्मत्वाङ्गीकारात् ब्रह्मणि या अङ्गीकृता इत्यनुपपन्नम् । तथा धर्माणां प्रातिस्विकत्वात् सैवेत्यनु-पपन्नमिति चोद्यं परास्तम् । न प्रत्यक्षादिगोचर इति । धर्मिग्राहक-प्रत्यक्षानुमानागमागोचरो न भवतीत्यर्थः । कालत्रयाबाध्यत्वलक्षणेति-विशेषणं वर्तमानमात्रग्रहणस्वभावत्वान्न प्रत्यक्षस्य तद्ग्राहकत्वम् । यज्जन्यं महत्वाधिकरणं तत् कालत्रयाबाध्यं सर्वावयवारब्धमिति व्याप्तिग्रहाभावात् । प्रत्युत निर्विशेषेण सावयवारब्धत्वेन व्याप्तिग्रहणात् । अनुमानं न कालत्रयाबाध्यत्वग्रहजनकम् । स्वर्गादिस्वरूपप्रतिपादकं वाक्यं कालत्रया-बाध्यत्वबोधकपदाभावात् न कालत्रयाबाध्यत्वग्रहजनकमिति सूचनायेति दृष्टव्यम् ।। तर्हीति यदि सत्ता न धर्मिग्राहकमानगोचरा तर्हि ब्रह्मणोऽपि कुतः सिद्धेत्यर्थः । न ब्रह्मणो धर्मिग्राहकमानेन सत्ता सिद्धा भवति । किन्तु तटस्थेनागमेनेति शङ्कते ।। तत्सत्यमित्यादीति ।। तटस्थागमेनैव बाधात् कालात्ययापदिष्टमनुमानं भवति । किं धर्मिग्राहकस्य सत्ताग्राहकता-व्युत्पादनप्रयासेनेति भावेनाह ।। तत्प्रकृत इति ।। उपपादितमन्यत्रेति ।। ‘सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम्’ इमत्यादावित्यर्थः ।

विश्वमिथ्यात्वानुमाने प्रकरणसमदोषः

टीका

प्रतिरोधोऽपि द्विविधः तेनैव हेतुना हेत्वन्तरेणेति । तत्राद्य-स्यान्तरङ्गत्वात्प्रथमं तमाह–

मिथ्यात्वानुमानखण्डनम्

रजतं दृष्टम्’ इति भ्रममात्रत्वात् ‘विमतं सत्यं दृश्यत्वादात्मवत्’ इत्यपि प्रयोज्यत्वात् प्रकरणसमः

टीका

विमतम्’ इति पूर्ववद्व्याख्येयम् । सत्यं कालत्रयाबाध्यम् । आत्मनोऽपि दृश्यत्वस्योपपादितत्वान्न दृष्टान्तः साधनविकलः । ‘इत्यपि प्रयोज्यत्वात्’ प्रपञ्चमिथ्यात्व इव तत्सत्यत्वेऽपि दृश्यत्वस्य प्रयोक्तुं शक्यत्वात् ।

शुक्तिरजते दृग्विषयत्वरूपदृश्यत्वाभावसमर्थनम्

ननु मिथ्याभूतेऽपि शुक्तिरजते वर्तमानं दृश्यत्वं कथं प्रपञ्च-सत्यतासिद्धौ प्रयोक्तुं शक्यते ? इति । अत उक्तं ‘रजतम्’ इत्यादि । इदमत्राकूतम् । दृग्विषयत्वं हि दृश्यत्वमत्राभिमतम् । ‘यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषयः’ इति अनित्य ज्ञाने व्यवस्था । रजतज्ञानं च शुक्तिसन्निकृष्टेन्द्रियेण जातमिति सैव तस्य विषयः ।

दृग्व्यावर्तकत्वरूपदृगुल्लेख्यत्वमेव शुक्तिरजतस्येति समर्थनम्

अत एव ‘अन्यत् अन्यात्मना अवगाहते’ इति भ्रमः । तथा च ‘रजतं दृष्टम्’ इति योऽयमनुव्यवसायः स च भ्रम एव । न च भ्रान्तिकल्पितेन विपक्षवृत्तित्वेन लिङ्गस्य व्यभिचारो भवति । तथा सति सर्वानुमानोच्छेदप्रसङ्गात् ।

शुक्तिरजते दृग्विषयत्वरूपदृश्यत्वाभावे विरोधाद्युद्भावनानुपपत्तिशङ्का तन्निरासश्च

दृग्विषयत्वाभावेऽपि दृग्व्यावर्तकत्वमात्रमसतोऽपि शुक्ति-रजतस्यास्तीति तदभ्युपगमेन न विरुद्धादिवादविरोध इति । नन्वनैकान्त्यं दृष्टान्तस्य साधनवैकल्यं चानाश्रित्य न प्रकरण-समप्रवृत्तिरिति ताभ्यामेवालम् । किमनेन ? मैवं तथा सति हेतु-दोषमनाश्रित्य दृष्टान्तदोषाप्रवृत्तेः सोऽप्यनुपसङ्ख्येयः स्यात् । स्फुट-प्रतिभासवशात्तत्परिग्रहे प्रकृतेऽपि समानम् । वस्तुतस्तु नेय-माचार्यप्रक्रिया । विरुद्धानैकान्तिकादिवत् परपरिकल्पितरीत्या व्यवहार इति ।

मन्दारमञ्जरी

अन्तरङ्गत्वादिति ।। दूष्यानुमानातिरिक्तहेतुनिरपेक्षत्वादित्यर्थः । ननु ‘प्रयोग्यत्वात्’ इति वक्तव्यम् । ‘चजोः कु घिण्यतोः’ इति कुत्व-विधानादिति । अत उक्तं ‘प्रयोक्तुं शक्यत्वात्’ इति । ‘प्रयोज्यनियोज्यौ शक्यार्थे’ इति शक्यार्थे प्रयोज्यशब्दस्य निपातितत्वात्साधुत्वमित्यभिप्रायः ।

ननु सिद्धान्तिनाऽपि वस्तुतो रजतस्य दर्शनाङ्गीकारात् कथं तस्य भ्रान्तिसिद्धत्वमुक्तम् ? इति । अत आह ।। इदमत्राकूतमिति ।। नित्यज्ञानस्योत्पत्त्ययोगान्नित्यज्ञानविषये अव्याप्तिनिरासाय नित्यज्ञान इत्युक्तम् ।। शुक्तिसन्निकृष्टेति ।। आरोपितस्य रजतस्य इन्द्रिय-सन्निकर्षायोगादित्यर्थः ।

ननु रजतज्ञानं कथं शुक्तिविषयं स्यात् ? अन्यज्ञानस्यान्य-विषयत्वायोगादिति चेत् रजतज्ञानमिति कोऽर्थः ? किं रजतसम्बन्धि-ज्ञानमिति ? किं वा रजतसन्निकृष्टकरणजन्यज्ञानमिति ? यद्वा रजतोल्लेखिज्ञानमिति ? नाद्यः चक्षुरादिजन्यतया जन्यजनकभावसम्बन्धेन चक्षुरादिसम्बन्धिनोऽपि ज्ञानस्य रूपादिविषयत्वोपलम्भात् । न द्वितीयः आपादकासिद्धेरुक्तत्वात् । तृतीयं दूषयति ।। अत एवेति ।। अत एव उल्लेख्येन्द्रियसन्निकृष्टयोर्भेदादेव अन्यत् इन्द्रियसन्निकृष्टं शुक्त्यादि अन्यात्मना इन्द्रियासन्निकृष्टरजतात्मना अवगाहते उल्लिखतीति कृत्वा भ्रमत्वम् । इन्द्रियसन्निकृष्टस्यैवोल्लेख्यत्वे सन्मात्रोल्लेखित्वेन भ्रान्तित्वा-योगादित्यर्थः ।

एतेन ‘‘रजतस्याविषयत्वे ‘रजतस्य ज्ञानम्’ इति षष्ठ्यर्थो न निरूपितः स्यात् । विषयविषयिभावातिरेकेण षष्ठ्यर्थस्य सम्बन्धस्याभावात्’’ इति निरस्तम् । उल्लेख्योल्लेखिभावसम्बन्धस्य षष्ठ्यर्थत्वात् । न च तद्विषय-त्वातिरिक्तं तदुल्लेख्यत्वं नास्तीति युक्तम् । उक्तरूपविषयताहीनस्यापि रजतस्य व्यावर्तकतामात्ररूपोल्लेख्यत्वानुभवात् । न च ‘मया हेतूकृतं दृश्यत्वं न दृग्जनककरणसन्निकृष्टत्वम् । किं तु ? तदुल्लेख्यत्वमेव । त्वयाऽपि सत्यत्वे तदेव हेतूकर्तव्यम् । अन्यथा प्रकरणसमत्वायोगात् । न ह्यर्थभेदेऽपि शब्दैक्यमात्रेण प्रकरणसमता । तथा च सत्यत्वसाधक-दृश्यत्वहेतोः शुक्तिरूप्ये व्यभिचारः’ इति साम्प्रतम् । यदि दृश्यत्वं दृग्जनककरणसन्निकृष्टत्वं तदा प्रकरणसमता । यदा दृग्व्यावर्तकत्वमात्रं तदा विरुद्धत्वादिरिति पक्षभेदेन प्रकरणसमताभिधानात् । अत एव वक्ष्यति तदभ्युपगमेन न विरुद्धादिवादविरोधः इति । दृग्व्यावर्तकत्वमात्र-स्यात्मन्यपि विद्यमानतया त्वया तस्य हेतूकर्तुमशक्यत्वाच्च ।

रजतं दृष्टम्’ इत्यनुव्यवसायस्य बाधकाभावेन भ्रान्तित्वानुपपत्तिशङ्का तन्निरासश्च

स च भ्रम एवेति ।। ननु कथमेतत् ? बाधकं विना भ्रान्तित्वायोगात् । न चारोपितस्य करणसन्निकर्षो नास्तीति युक्तिर्बाधिका । प्रत्यक्षविरोधेन युक्त्यप्रामाण्यस्यैव न्याय्यत्वात् । स्वमते अनुव्यवसायस्य नियतप्रामाण्य-साक्षिरूपत्वेन तदप्रामाण्येऽपसिद्धान्तश्च । क्वचिज्ज्ञानगतप्रामाण्ये सन्देहा-दिना तस्य मानसत्वेऽपि ज्ञानमात्रे क्वचिदपि सन्देहाद्यभावेन तस्य सर्वत्र साक्षिवेद्यतानियम इति हि स्वसिद्धान्त इति चेत् मैवं, भावानवबोधात् । ‘रजतं दृष्टम्’ इति रजतावच्छिन्नं दर्शनमेवानुभूयते । न तु दर्शनस्य रजतसन्निकृष्टेन्द्रियजन्यत्वम् । जन्यजनकभावस्य सर्वत्रान्वय-व्यतिरेकावसेयत्वेन तस्याप्रत्यक्षत्वात् । अथापि स साक्षिवेद्य इत्यङ्गीकारे निरवकाशयुक्त्या सावकाशसाक्षिणो बाधिततया जन्यजनकभावे अनु-व्यवसायो भ्रमः स्यादित्यापादनं ह्यत्राभिप्रेतमिति न कोऽपि दोष इति ।। नन्वनैकान्त्यमिति ।। एतदनुमाने सपक्षस्य ब्रह्मणो दूष्यानुमानविपक्षत्वात् अस्य सपक्षवृत्तित्वं दूष्यानुमानस्य विपक्षवृत्तित्वं विना नोपपद्यते’ इति दूष्यानुमानानैकान्तिकत्वमस्योपजीव्यम् । तथैतदनुमानविपक्षस्य शुक्तिरूप्यस्य दूष्यानुमानदृष्टान्ततया अस्य विपक्षाद्व्यावृत्तिर्दूष्यानुमान-दृष्टान्तस्य साधनवैकल्यं विना नोपपद्यते’ इति दूष्यानुमानदृष्टान्तसाधन-वैकल्यमस्योपजीव्यमित्यर्थः ।। हेतुदोषमिति ।। साध्यवैकल्यं हि दृष्टान्तस्य साधारणानैकान्तिकतामाश्रित्य प्रवर्तते । साध्यविकलदृष्टान्तस्यैव विपक्षतया तद्वृत्तेर्हेतोरनैकान्तिकतावश्यम्भावात् । साधनवैकल्यं तु असाधारणा-नैकान्तिकतामाश्रित्य प्रवर्तते । दृष्टान्ते साधनाभावे विपक्षादिव सपक्षादपि व्यावृत्त्यवश्यम्भावादित्यादेरिति भावः ।। सोऽप्यनुपसङ्ख्येयस्स्यादिति ।। उपसङ्ख्यातश्च भासर्वज्ञादिभिरिति शेषः । नैयायिकैकदेशिभिरुदाहरणाभासः पृथङ्नोपसङ्ख्यातः । तान्प्रति व्याप्यत्वासिद्धिमनाश्रित्य विरुद्धाद्यप्रवृत्तेः विरुद्धाद्यपि न पृथगुपसङ्ख्येयं स्यादिति वक्तव्यम् ।। वस्तुतस्तु नेयमिति ।। आचार्यमते असिद्ध्यव्याप्त्योरेव हेतुदोषत्वादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

अन्तरङ्गत्वादिति । दूष्यानुमानातिरिक्तहेतुनिरपेक्षत्वादित्यर्थः ।। पूर्ववदिति । विमतं मिथ्येत्यत्र विमतपदव्याख्यानन्यायेनेत्यर्थः । तथाहि । सर्वं सत्यमित्युक्ते शुक्तिरजतादौ बाधो ब्रह्मणि सिद्धसाधनता च स्यात् । अतो विमतमित्युक्तम् । विमतेरनेकविधत्वेऽपि साध्यविशेषोपादानात्त-द्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिविषयीभूतं वियदादीत्युक्तं भवति । तथा यदि वियदादिरूपविश्वमेव न स्यात्तदा किमाश्रयिणी विप्रतिपत्तिः स्यात् । यदि च तत्सत्यत्वं सिद्धं भवेत्तदा कथं विप्रतिपत्तिः स्यात् । एककोटेर्निश्चितत्वात् । यदि वा सत्यत्वमप्रसिद्धं भवेत्तदापि कथं विप्रतिपत्तिः स्यात् । कोटेरप्रसिद्धत्वादित्येवमाश्रया-सिद्धिसिद्धसाधनताऽप्रसिद्धविशेषणत्वरूपप्रतिज्ञादोषोद्धारोऽपि विमतग्रहणेन सूचित इत्यपि द्रष्टव्यम् । व्यावहारिकसत्यत्वस्य परेणाप्यङ्गीकृतत्वादाह ।। सत्यं कालत्रयाबाध्यमिति ।। दृष्टान्तभूते आत्मनि दृश्यत्वस्य परेणा-नङ्गीकारात्साधनवैकल्यमित्यत आह ।। आत्मनोऽपीति ।। प्रयोज्यत्वादिति पदं व्याख्याति ।। प्रयोक्तुं शक्यत्वादिति । प्रयोज्यनियोज्यौ शक्यार्थ इति सूत्रेण शक्यार्थे  प्रयोज्यशब्दनिपातनादिति भावः । मिथ्याभूत इति । विपक्ष इत्यर्थः । तथा च व्यभिचरितत्वान्न सत्यत्वसाधकत्वमिति भावः ।

ननु शुक्तिरजते दृश्यत्वहेतोरभावान्न व्यभिचार इत्यत्रोच्यते । प्रागनिर्वचनीयासिद्धेरेव सपक्षाभावाद्विरुद्ध इति ग्रन्थेनानिर्वचनीयस्या-प्रसिद्धत्वेन सपक्षाभावाद्वियदादिव्यतिरिक्तं सर्वं विपक्ष इति दृश्यत्वस्य शुक्तिरजतादौ विपक्षे वर्तमानत्वेन साध्यविपरीतव्याप्त्या दृश्यत्वहेतुर्विरुद्ध इति दृश्यत्वस्य शुक्तिरजते सत्वमुक्तं तथा आत्मनोऽपि दृश्यत्वादनै-कान्तिकता चेत्यनैकान्तिकत्वोक्त्या च तत्रापिशब्देन दृश्यत्वस्य सपक्षभूतशुक्तिरजतादौ सत्वस्योक्तत्वात् । अतः पूर्वोत्तरग्रन्थविरोध इत्यत आह ।। इदमत्राकूतमिति । दृग्विषयत्वं ज्ञानविषयत्वं किं तद्विषयत्व-मित्यत आह ।। यत्सन्निकृष्टेति । नन्वेवं तर्हि नित्यज्ञानविषये अति-व्याप्तिरित्यत उक्तम् ।। अनित्यज्ञान इति । अनित्यज्ञानविषयस्यैवेदं लक्षणमिति नातिव्याप्तिरित्यर्थः ।। रजतज्ञानं चेति । रजतोल्लेखिज्ञान-मित्यर्थः ।। शुक्तिसन्निकृष्टेनेति । आरोपिततया अत्यन्तासता रजते-नेन्द्रियस्य सन्निकर्षायोगादिति भावः । तस्य ज्ञानस्य ।। अत एवेति । अत एव उल्लेख्येन्द्रियसन्निकृष्टयो रजतशुक्तिकाशकलयोर्भेदादेव । अन्यत् इन्द्रियसन्निकृष्टशुक्तिकाशकलं अन्यात्मना इन्द्रियासन्निकृष्टरजतात्मनाऽव-गाहते उल्लिखतीति कृत्वैव रजतज्ञानस्य भ्रमत्वम् । इन्द्रियसन्निकृष्टस्यैवो-ल्लेख्यत्वे सन्मात्रोल्लेखित्वप्रसङ्गेन भ्रमत्वायोगादित्यर्थः ।

नन्वेवं सति रजतस्य ज्ञानविषयत्वाभावे रजतं दृष्टमिति रजतज्ञानस्य रजतसन्निकृष्टेन्द्रियजन्यत्वावगाह्यनुव्यवसायविरोधः । तेन रजतस्य ज्ञान-विषयत्वप्राप्तेरित्यतो रजतं दृष्टमिति भ्रममात्रत्वादित्यंशः प्रवृत्तः इत्यभि-प्रेत्याह ।। तथा चेति । दृष्टं ज्ञानविषयीकृतमित्यर्थः ।। अनुव्यवसाय इति । रजतस्य ज्ञानविषयत्वावगाहीत्यर्थः । ज्ञानज्ञानमनुव्यवसायशब्दार्थः ।। स भ्रम एवेति ।

ननु पराभिमतानुव्यवसाय एवास्माकं साक्षी तस्याव्यभिचारितया प्रामाण्यनियमेन तस्य भ्रमत्वोक्तावपसिद्धान्त इति चेत् । उच्यते । इदं रजतमिति ज्ञानस्वरूपमात्रमेव साक्षिवेद्यं तत्र क्वचिदपि संदेहाभावेन तस्य सर्वत्र साक्षिवेद्यतानियमात् । तस्य ज्ञानस्य दृष्टमिति रजतसन्निकृष्ट-करणजन्यत्वेन रजतविषयत्वावगाही योऽनुव्यवसायः स मानस एव । न साक्षिरूपः । यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’ इत्यनुव्याख्या-नोक्तेरिति ज्ञातव्यमिति सम्प्रदायः । एतादृशानुव्यवसायस्य साक्षिरूपत्वेऽपि न दोषः । आरोपितस्य करणसन्निकर्षायोगादिति निरवकाशयुक्त्या साक्षिणो बाधिततया रजतसन्निकृष्टेन्द्रियजन्यत्वांशे साक्षिणो भ्रमत्वमेवेत्याहुः ।

ननु यथाकथंचित् दृग्विषयत्वरूपदृश्यत्वस्य शुक्तिरजते सत्वाद्व्यभिचार इति चेत्तत्राह ।। न चेति ।। सर्वानुमानेति । भ्रान्तिकल्पितस्य धूमस्य ह्रदेऽपि सत्वादिति भावः । नन्वेवं सति प्राक् शुक्तिरजतस्यापि दृश्यत्व-मङ्गीकृत्य विरुद्धत्वोक्तिविरोध इत्यतस्तं परिहरति ।। दृग्विषयत्वा-भावेऽपीति । तत्सन्निकृष्टकरणजन्यत्वरूपज्ञानविषयत्वाभावेऽपीत्यर्थः ।। दृग्व्यावर्तकत्वमात्रमिति । दृगुल्लेख्यत्वरूपं यत् दृग्व्यावर्तकत्वं तन्मात्ररूपं दृश्यत्वमित्यर्थः । ननु व्यावर्तकत्वं नाम व्यावृत्तिप्रत्ययजनकत्वम् । तच्च पूर्ववृत्तित्वरूपेण सत्तागर्भम् । तथा चासतो रजतस्य एतादृशं व्यावर्तकत्वं कथमिति चेत् । उच्यते । व्यावर्तकत्वं नाम न व्यावृत्तिप्रत्ययजनकत्वं किं तु व्यावृत्तिधीजनकज्ञानविषयत्वमेव । कुत इति चेत् । देवदत्ते दण्डे सत्यपि तदज्ञाने दण्डिव्यावृत्त्यज्ञानात् । व्यावृत्तिधीजनकं ज्ञानं तु सत्यमेव । तथा चासतोऽपि रजतस्य व्यावृत्तिधीहेतुभूतज्ञाने उल्लेख्यमानत्व-रूपविषयत्वसद्भावेन तद्व्यावर्तकत्वं युक्तमिति न कश्चिद्दोषः ।। तदभ्युप-गमेनेति । एतादृशं दृश्यत्वमङ्गीकृत्य पूर्वं विरुद्धानैकान्तिकत्वे अभिहिते ।

अतो न विरुद्धादिवादविरोधः । विरुद्धानैकान्तिकत्वोक्तिविरोधो नास्तीत्यर्थः ।

ननु प्रपञ्चमिथ्यात्वसाधनाय मयोपन्यस्तं दृश्यत्वं न दृग्जनक-करणसन्निकृष्टत्वरूपं विवक्षितम् । किंतु भवदुक्तरीत्या दृग्व्यावर्तकत्वरूपं तदुल्लेख्यत्वमेव । भवद्भिरपि सत्यत्वे तदेव हेतूकर्तव्यम् । अन्यथा तेनैव हेतुना प्रतिरोधरूपप्रकरणसमाभिधानायोगात् । न चार्थभेदेऽपि शब्दैक्य-मात्रेण प्रकरणसमतोक्तेति वाच्यम् । शब्दसाम्येन चेत्पृथिव्याः गोत्वात् शृृङ्गं समापतेत् । अतः सत्यत्वसाधकस्य दृग्व्यावर्तकत्वरूपं यद्दृगुल्लेख्यत्वं तद्रूपस्य दृश्यत्वस्य शुक्तिरूप्ये (सत्वात्) व्यभिचारः प्राप्त एवेति चेन्न । अस्मदनुमाने व्यभिचारदानाय दृश्यत्वस्यास्मदुक्तरीत्या निर्वचनाङ्गीकारे ब्रह्मण्यपि एतादृशदृश्यत्वस्य सद्भावेन व्यभिचारप्राप्त्या मिथ्यात्वसाधनाय हेतूकर्तुमशक्यत्वात् इत्यालोचनीयम् ।।

नन्वनैकान्त्यमिति । विमतं मिथ्या दृश्यत्वादित्यनुमानस्य विमतं सत्यं दृश्यत्वादिति तेनैव हेतुना प्रकरणसमरूपं यत्प्रतिरोधानुमानं तत्र दूष्यानु-माने ब्रह्मणो विपक्षत्वेन तत्र दृश्यत्वसद्भावादनैकान्तिकत्वमायाति । तस्यैव ब्रह्मणः प्रकरणसमानुमाने सपक्षत्वात्तद्वृत्तित्वं दृश्यत्वस्य वक्तव्यम् । तथा च दूष्यानुमाने हेतोर्विपक्षवृत्तित्वं विना सत्प्रतिपक्षानुमाने सपक्षवृत्तित्वं नोपपद्यत इति दूष्यानुमाने अनैकान्तिकत्वं प्रकरणसमानुमानस्योपजीव्यम् । तथा दूष्यानुमाने सपक्षीभूतस्य शुक्तिरजतरूपदृष्टान्तस्य साधनवैकल्ये प्राप्ते प्रकरणसमानुमाने तस्य विपक्षतया हेतोस्तद्व्यावृत्तिः सिध्यति । अतो दूष्यानुमाने दृष्टान्तस्य साध्यवैकल्यं विना प्रकरणसमानुमानस्य विपक्षा-द्व्यावृत्तिर्न सिध्यतीति दूष्यानुमाने दृष्टान्तस्य साधनवैकल्यं प्रकरणसमानु-मानस्योपजीव्यमित्यनैकांत्यसाधनवैकल्याभ्यामेवालम् । मिथ्यात्वानुमानस्य दुष्टत्वमस्त्विति यावत् । किमनेन प्रकरणसमकथनेनेत्यर्थः । यो दोषो यद्दोषोपजीवनेन प्रवर्तते तस्यैव दोषत्वेन गणनां कृत्वा स एव वक्तव्यो न तदुपजीवी अन्य इत्यङ्गीकारे अतिप्रसङ्गमाह ।। तथा सतीति । अनैकान्तिको द्विविधः । साधारणानैकान्तिकोऽसाधारणानैकान्तिकश्चेति । पक्षादित्रयवृत्तिहेतुः साधारणानैकान्तिकः । पक्षमात्रवृत्तिहेतुरसाधारणा-नैकान्तिकः । तत्र शब्दोऽनित्यः प्रमेयत्वादित्यत्र प्रमेयत्वहेतोर्विपक्ष-भूतगगनादिवृत्तित्वेनानैकान्तिकत्वे प्राप्ते सति तत्र साध्यवैकल्यं प्राप्तमेव तथा भूर्नित्या गन्धवत्त्वादित्यत्र गन्धवत्त्वस्य पक्षवृत्तित्वेन सपक्षे गगनादि-वृत्तित्वेनानैकान्तिकत्वे प्राप्ते सति तत्र साध्यवैकल्यं प्राप्तमेव तथा भूर्नित्यागन्धवत्त्वादित्यत्र गन्धवत्त्वस्य पक्षवृत्तित्वेन सपक्षे गगनादावसत्व-प्राप्त्या साधनवैकल्यं प्राप्तमेवेत्येवं साधारणानैकान्तिकत्वादिरूपं हेतुदोष-माश्रित्यैव साध्यवैकल्यादिरूपदृष्टान्तदोषप्रवृत्तेर्हेतुदोषेणैवालं किं दृष्टान्त-दोषेणेति दृष्टान्तदोषोप्यनुपसंख्येयः स्यात् । पृथग्गणनीयो न स्यात् । न चेष्टापत्तिः । भासर्वज्ञादिभिः पृथगुपसंख्यातत्वादिति भावः ।

ननूक्तरीत्या हेतुदोषाश्रयणेन दृष्टान्तदोषप्रवृत्तावपि दृष्टान्तदोषस्यैवादौ स्फुटं प्रतिभासमानत्वात्तस्यैव परिग्रहो न हेतुदोषस्येति चेत्समं प्रकृतेऽपि । उक्तरीत्या अनैकान्त्याद्याश्रयणेन प्रकरणसमप्रवृत्तावपि प्रकरणसमरूप-दोषस्यैवादौ स्फुटं प्रतिभासमानत्वात्स एवोक्त इत्यभिप्रेत्याह ।। स्फुट-प्रतिभासेति ।। नेयमिति । बाधप्रकरणसमयोर्हेतुदोषत्वोक्तिराचार्यप्रक्रिया तत्सिद्धान्तो न भवतीत्यर्थः । असिध्यव्याप्त्योरेव हेतुदोषत्वात् । बाध-सत्प्रतिपक्षयोः प्रतिज्ञादोषत्वेन हेतुदोषत्वाभावादिति भावः । ननु स्वप्रक्रियात्वाभावे आचार्याणां तदुक्तिर्व्यर्थेत्यत आह ।। विरुद्धेति । विरुद्धानैकान्तिकयोः यथा हेतुदोषत्वं एवं बाधसत्प्रतिपक्षावपि तद्दोषाविति परकल्पितरीतिस्तथेत्यर्थः । तेन विरुद्धानैकान्तिकयोः कथं पररीत्या कल्पितत्वमिति शङ्कानवकाशः । आचार्यप्रक्रिया त्वित्थम् । त्रिविधोऽनु-मानविरोधः । प्रतिज्ञाविरोधहेतुविरोधदृष्टान्तविरोधभेदेन । प्रतिज्ञाविरोधो द्विविधः । प्रमाणविरोधः स्ववचनविरोधश्च । प्रमाणविरोधोऽपि द्विविधः । प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्चेति । समबलप्रमाणविरोधोऽपि द्विविधः । तेनैव हेतुना हेत्वन्तरेण चेति । हेतुविरोधोऽपि द्विविधः । असिद्धिरव्याप्तिश्चेति । अव्याप्तिस्त्रिविधा । लिङ्गस्य साध्येन तदभावेन च सम्बन्धः । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धः । उभयसम्बन्धा-भावश्चेति । एवं प्रक्रियायां सत्यामपि विरुद्धानैकान्तिकानध्यवसितानां यथापररीत्योक्तिः । एवं कालात्ययापदिष्टसत्प्रतिपक्षयोरपि हेतुदोषत्वं परपरिकल्पितरीत्यैवाङ्गीकृत्योक्तम् । स्वसिद्धैः साधनं परसिद्धैर्दूषणम् । स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणमिति भगवत्पादैरेवोक्तत्वादिति द्रष्टव्यम् । विमतं सत्यमिति मूलस्य हेत्वन्तरेण प्रतिरोधमाहेत्यवतारिकायाः स्पष्टत्वादनुक्तिरिति ज्ञातव्यम् ।

श्रीगुरुराजीयटिप्पणी

यत्सन्निकृष्टकरणेति ।। ज्ञानासाधारणकारणनिष्ठासाधारणकरण-सन्निकर्षप्रतियोगित्वं विषयत्वमिति लक्षणमत्र विवक्षितमिति स्वामिनः । अत्र सन्निकर्षस्य कारणत्वविवक्षयाऽऽकाशादिसन्निकृष्टचक्षुरादिजन्य-रूपादिज्ञानेऽऽकाशादेरपि रूपादिज्ञानकरणचक्षुरादिनिष्ठसन्निकर्ष-प्रतियोगित्वाद्विषयत्वप्रसङ्गनिरासः । चक्षुरादेराकाशादिना सन्निकर्षस्य रूपादिज्ञानकारणत्वाभावेन ज्ञानकारणसन्निकर्षप्रतियोगित्वस्य तत्राभावात् । करणासाधारणत्वविवक्षया चात्मसन्निकृष्टमनोजन्यरूपादिज्ञानेऽऽत्ममनः-सन्निकर्षस्य कारणत्वेन करणनिष्ठज्ञानकारणसन्निकर्षप्रतियोगित्वादात्मनो विषयत्वप्रसङ्गनिरासः । मनसो रूपादिज्ञानकरणत्वेऽपि साधारणत्वेना-साधारणकरणत्वाभावात् । सन्निकर्षासाधारण्यविवक्षया च मनःसन्निकृष्ट-चक्षुर्जन्यरूपज्ञाने चक्षुषोऽसाधारणकरणत्वेन तन्निष्ठज्ञानकरणमनःसंयोग-प्रतियोगित्वान्मनसो विषयत्वप्रसङ्गनिरासः । न चात्ममनःसन्निकर्षस्य साधारणकारणत्वात् सन्निकर्षासाधारण्यविवक्षयैव मनोजन्यरूपप्रतीतेरात्म-विषयकत्वासिद्धेः करणासाधारण्यविवक्षा वैयर्थ्यमिति वाच्यम् । चाक्षुष-ज्ञानत्वावच्छिन्ने चक्षुर्मनःसन्निकर्षस्याप्यसाधारणत्वेन चक्षुःसन्निकृष्टमनोजन्य रूपज्ञाने चक्षुषोऽविषयत्वाय करणासाधारण्यस्याप्यवश्यं विवक्षणीयत्वात् । न च तत्तदिन्द्रियमनःसंयोगानां तत्तज्ञानकारणत्वकल्पनस्यानेककारण-तदवच्छेदककल्पनया गौरवकारणत्वेन चाक्षुषज्ञानत्वावच्छिन्ने चक्षुर्मनः-संयोगस्याकारणत्वात् नायमतिप्रसङ्ग इति वाच्यम् । तथा सति गौरवादेव रूपचक्षुःसन्निकर्षादेरसाधारणकारणस्याकल्पनीयतया सन्निकर्षासाधारण्य-विवक्षायां रूपप्रतीते रूपविषयत्वाभावप्रसङ्गात् । न च यत्किञ्चिद्दण्डेन यत्किञ्चिद्घटवत् यत्किञ्चिदर्थेन्द्रियसन्निकर्षेणान्यविषयकज्ञानापत्त्या प्राग-भावस्येव तत्तदिन्द्रियार्थसन्निकर्षस्य तत्तज्ज्ञानहेतुताया अवश्यमङ्गी-कार्यत्वेऽप्यर्थसन्निकृष्टेन्द्रिये मनःसन्निकर्षस्य हेतुताभ्युपगमेऽतिप्रसङ्गाभावे-नात्र विशिष्य हेतुहेतुमद्भावस्य न कल्पना युक्ता । अन्यथा दण्डादावपि विशिष्य तत्कल्पनापत्तेरिति वाच्यम् । अर्थसन्निकर्षे स्वार्थसन्निकृष्टे चक्षुषि मनःसन्निकर्षाभावेऽपि तेन स्वार्थज्ञानापत्तिरूपातिप्रसङ्गस्यात्रापि सत्वात् । विस्तरस्तु वाक्यार्थचन्द्रिकायां द्रष्टव्यः ।

नन्वेवमपि प्रत्यभिज्ञाया इन्द्रियस्य तत्तया, लिङ्गज्ञानस्य लिङ्गिना, वाक्यज्ञानस्य च वाक्यार्थेनासन्निकर्षात्तत्राव्याप्तिरिति चेन्न । प्रत्यभिज्ञाया-मिन्द्रियस्य तत्तया संस्कारस्य, लिङ्गज्ञानस्य लिङ्गिना च तद्व्याप्तलिङ्ग-विषयत्वस्य, वाक्यज्ञानस्य वाक्यार्थेन च तत्परवाक्यविषयत्वस्यैव सन्नि-कर्षत्वेन तत्तादावप्युक्तलक्षणसद्भावात् । न चात्माश्रयः । तद्व्याप्त-विषयकत्वादेरसन्निकर्षत्वेनैव लक्षणशरीरप्रवेशाभ्युपगमादिति ध्येयम् ।। दृग्व्यावर्तकत्वमात्रमसतोऽपि रजतस्यास्तीति ।। ननु व्यावर्तकत्वमप्यसतो नाङ्गीकर्तुं शक्यम् । तद्धि व्यावृत्तिजननशक्तिमत्वं व्यावृत्तिबुद्धिजननशक्ति-मत्वं वा । न च शक्तिमतोऽभावे शक्तिः सम्भवतीति चेदत्र स्वामिनः । यथा ह्यतीताद्यर्थस्य न व्यावृत्तिजननशक्तिमत्वं व्यावृत्तिबुद्धिजननशक्तिमत्वं वाऽभ्युपगम्यते । किन्तु ज्ञानेऽन्यस्माद्व्यावृत्तिस्तज्जननशक्तिर्ज्ञानहेतुष्वेव । ज्ञानमन्यस्माद्व्यावृत्तमिति व्यावृत्तिबुद्धिजननशक्तिस्तु ज्ञानहेत्वा-सादितेऽवश्याभ्युपगमनीये ज्ञाननिष्ठस्वाभाविकविशेष एव । एवं च तदुभय-विधं व्यावर्तकत्वं ज्ञानहेतुज्ञानगतस्वाभाविकविशेषयोरेव । अतीताद्यर्थे तु ज्ञानहेतुजन्यव्यावृत्तिविशिष्टज्ञाने वा ज्ञानहेत्वासादितस्वाभाविकविशेषेण जन्यव्यावृत्तिबुद्धौ चोल्लेखित्वमात्रं व्यावर्तकत्वं विषयत्वप्रयोजकत्वेनाभ्युप-गम्यते । तथोक्तरूपे द्विविधे ज्ञानेऽसतो रजतस्योल्लेखमात्रम् । तच्च न तत्सत्तासापेक्षमिति को दोषः ? न चातीतादिज्ञानस्य प्रमात्वेन जन्यज्ञाने भानोपयुक्ततत्तानुभवजन्यसंस्कारादेः सामग्रीकोटौ निवेशनेन तत्र हेतु-सामर्थ्यादिकल्पनसंभवेऽप्यसत्ज्ञानरूपत्वेन जन्यज्ञानेऽसज्ज्ञानोपयुक्त-तत्सन्निकर्षादेव सम्भवेन तस्य सामग्रीकोटावनिवेशनेन तत्रैतत्कल्पना न सम्भवतीति वाच्यम् । अतीतादिज्ञानस्य प्रमात्वात्समीचीनसामग््रयुत्पादित-ज्ञाने तादृशसामग््रयुत्पादितस्वाभाविकविशेषजन्यव्यावृत्तिबुद्धौ वोल्लेखित्व-मित्येतावन्मात्रविशेषसद्भावेऽपि स्वसामर्थ्यासादितज्ञानोल्लेखित्वमात्रस्य व्यावर्तकत्वादिरूपतया ज्ञानसामग्रीसमीचीनत्वादेरकिञ्चित्करत्वात् । शुक्ति-सन्निकर्षसादृश्यादेरेव जन्यज्ञानेऽसद्भानोपयुक्तस्य भ्रमसामग्रीकोटावपि प्रवेशेन तादृशव्यावर्तकत्वस्य असत्त्यप्युपपन्नत्वादिति । नन्वनैकान्त्य-मित्यादिको ग्रन्थश्चिरन्तनटीकायामेव स्पष्टः । तत एवानुसन्धेयः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु परोक्तानिर्वचनीयदृश्यत्वस्यात्मन्यभावात् साधनविकलो दृष्टान्त इत्यत आह । आत्मनोऽपीति ।। अनिर्वचनीयत्वविचारमपहाय परोक्त-दृश्यत्वं स्वपक्षे आत्मन्युपपादितत्वादित्यर्थः । अत एवासिद्धिः परास्ता । पराभिप्रेतधर्मविशिष्टतया जगति दृश्यत्वाभावेऽपि तदुक्तदृश्यत्वरूपस्वरूप- मात्रस्य सत्त्वात् । ननु न च शुक्तिरजादौ व्यभिचारेण प्रतिपाद्यानुमानस्य हीनबलत्वात् प्रकरणसमत्वभङ्ग इत्याशङ्कते ।। ननु मिथ्याभूत इति ।

विश्वमिथ्यात्वानुमाने सप्रतिसाधनदोषः

मिथ्यात्वानुमानखण्डनम्

विमतं सत्यं प्रमाणदृष्टत्वात् यदित्थं तत्तथा यथा आत्मा’ इति प्रयोगात् सप्रतिसाधनः

प्रमाणदृष्टत्वात् इत्यत्र प्रमाणपदवैयर्थ्यशङ्का तत्परिहारश्च

टीका

नन्वत्र दृष्टत्वमात्रस्य व्यभिचारोऽस्ति न वा ? आद्ये पूर्वानुमान मसत्स्यात् । तत्र तन्मात्रस्य प्रयोगात् । द्वितीये प्रमाणविशेषण-वैयर्थ्यमिति । मैवं प्रमाणदृष्टत्वपदेन प्रामाणिकत्वमात्रस्याभिमत-त्वात् । अथवा दृग्व्यावर्तकत्वमेवात्र दृष्टत्वमभिमतम् । तच्च शुक्तिरजतादावस्तीति सफलं विशेषणम् ।

अनुमानप्रयोगे व्याप्त्यभिधाननियमाभावसूचनम्

टीका

पूर्वानुमाने व्याप्तिमनभिधायात्र यदित्थं तत्तथेति तामभिदधता तदभिधाननियमो नास्तीति सूचितम् । आत्मनः प्रमाणदृष्टत्वा-नङ्गीकारे वेदान्तवैयर्थ्यं स्यात् ।

प्रमाणदृष्टत्वहेतुं विकल्प्य दूषणं तन्निरासश्च

नन्वत्र तत्त्वावेदकप्रमाणदृष्टत्वं हेतुः ? उत अतत्त्वावेदक-प्रमाणदृष्टत्वम् ? आद्येऽसिद्धिः । द्वितीये विरोध इति । मैवम्, ‘अतत्त्वावेदकं प्रमाणम्’ इति च विप्रतिषिद्धमेतत् ।

प्रमाणदृष्टत्वानुमाने असिद्धिशङ्का तन्निरासश्च

एवं तर्हि असिद्धिरेवास्त्विति चेत् न । ‘प्रपञ्चमिथ्यात्वसिद्धौ प्रत्यक्षादीनामप्रामाण्यसिद्धिः तत्सिद्धौ च तत्सिद्धिः’ इति परस्पराश्रयप्रसङ्गात् ।

मन्दारमञ्जरी

प्रामाणिकत्वमात्रस्येति ।। तस्यैकरूपत्वान्न विशेषणमस्ति येन तद्वैयर्थ्यं चोद्येत ।

प्रामाणिकत्वहेतावपि प्रमाणपदवैयर्थ्यशङ्का तत्परिहारश्च

नन्वथापि प्रामाणिकत्वं प्रमाणज्ञातत्वम् । तथा च ज्ञातत्वेनैव पूर्णत्वात्प्रमाणग्रहणं व्यर्थमेव । ननु चैवमवयवार्थविचारेण वैयर्थ्याभिधाने ‘मानविषयत्वं मेयत्वम् । तत्र विषयत्वमात्रेणालम् । किं मानग्रहणेन ?’ इत्यादेर्वक्तुं शक्यत्वादतिप्रसङ्गः । तत्र प्रमेयपदेनैव सर्वमुपात्तम् । न तु विशेषणोपादानार्थमधिको यत्नः कृतोऽस्ति यस्य वैयर्थ्यं शङ्क्यत इति चेत् । मैवं, प्रकृतेऽपि प्रामाणिकग्रहणेनैव सर्वस्योपात्तत्वेन परिहारसाम्यात् । किं च न प्रामाणिकत्वं प्रमाणज्ञातत्वम् । किं तु ? प्रमाणविषयत्वम् । तथा च पूर्वोक्तदृश्यत्वस्यात्र प्रवेश एव नास्तीति दृष्टत्वमात्रस्य व्यभिचारोऽस्ति न वेति विकल्प एव न सम्भवति । न चात्रापि प्रमाणग्रहणं व्यर्थम् । आरोपितरजतस्येष्टत्वेनेच्छाविषये तस्मिन्विषयत्वमात्रस्य व्यभिचारादिति भावः ।

यद्येवं तर्हि प्रामाणिकत्वादित्येव वक्तव्यम् । लक्षणाश्रयणे प्रयोजना भावात् । प्रमाणदृष्टत्वादिति ह्युक्तम् । एवं च प्रमाणग्रहणवैयर्थ्यं तदवस्थमित्यपरितोषात् पक्षान्तरमाह ।। अथवेति ।।

द्वितीये विरोध इति ।। अतत्त्वावेदकप्रमाणदृष्टत्वस्य सत्त्वाभावेनैव व्याप्तत्वादिति भावः ।। विप्रतिषिद्धमिति ।। तत्त्वावेदकस्यैव प्रमाणशब्दार्थ त्वादिति भावः । असिद्धिरेवास्त्विति ।। प्रत्यक्षादेः प्रामाण्यस्यैवाभावा-त्प्रमाणदृष्टत्वमसिद्धमिति भावः । प्रत्यक्षादीनामप्रामाण्ये कारणान्तरा-भावात्प्रपञ्चमिथ्यात्वमेव तत्र कारणमिति वाच्यम् । प्रत्यक्षादिप्रमाणसिद्ध-प्रपञ्चमिथ्यात्वं च कुतः ? इत्युक्ते तद्ग्राहिप्रत्यक्षादीनामप्रामाण्यादिति वक्तव्यम् । तथा चान्योन्याश्रय इत्याह ।। न प्रपञ्चेति ।।

श्रीनिवासतीर्थीयटिप्पणी

हेतौ प्रमाणपदवैयर्थ्यमाशङ्क्य परिहरति ।। नन्वत्रेत्यादिना । दृष्टत्व-मात्रस्य दृश्यत्वमात्रस्य ।। पूर्वानुमानमिति । विमतं सत्यं दृश्यत्वादिति प्रतिपक्षानुमानमित्यर्थः । कुत इत्यत आह ।। तत्रेति । प्रतिपक्षानुमाने निर्विशेषेण दृश्यत्वमात्रस्यैव प्रयोगात् ।। प्रामाणिकत्वेति । तस्य चैकरूपत्वात् न तत्र विशेषणमस्तीति न तद्विशेषणवैयर्थ्यशङ्कावकाशः । एकस्मिन्धर्मिणि लघुगुरुधर्मद्वयसमावेशे लघुना व्याप्त्यवच्छेदे गुरो-रनावश्यकत्वरूपव्यर्थविशेषणताबीजाभावादिति भावः । अवयवार्थ-विचारमकृत्वा हेतुः कृतः तत्रापि अवयवार्थविचारे विशेषणवैयर्थ्यमाया-त्येव । तथा हि । प्रामाणिकत्वं नाम प्रमाणजन्यज्ञानविषयत्वं तत्र ज्ञानविषयत्वेनैवालं प्रमाणग्रहणवैयर्थ्यं तदवस्थमेवेत्यपरितोषात्पक्षान्तर-माह ।। अथवेति ।। अस्तीति । तथा च तत्र व्यभिचारपरिहाराय प्रमाण-विशेषणं सार्थकमित्यर्थः । दृष्टान्ते साधनवैकल्यं परिहरति ।। आत्मन इति । ब्रह्मज्ञानजननायैव तेषां प्रवृत्तत्वादिति भावः ।। असि-द्धिरिति । प्रपञ्चावेदकप्रमाणानां प्रत्यक्षादीनां तत्त्वावेदकत्वाभावेन तत्त्वावेदकप्रमाणदृष्टत्वं प्रपञ्चे स्वरूपासिद्धमित्यर्थः ।। विरोध इति । अतत्त्वावेदकप्रमाणदृष्टत्वस्य सत्यत्वाभावेनैव व्याप्तत्वादिति भावः ।। विप्रतिषिद्धमिति । यथावस्थितार्थज्ञेयविषयीकारित्वस्य प्रमाणशब्दार्थत्वात् । अतत्त्वावेदकप्रमाणेत्युक्ते स्वव्याहतिः स्यात् । अतो विकल्प एवानुपपन्न इत्यर्थः ।। एवं तर्हीति । व्याहतत्वेन उक्तविकल्पाभ्यां दूषणानुपपत्ता-वपीत्यर्थः ।। असिद्धिरेवेति । प्रत्यक्षादेः प्रामाण्याभावात् । प्रमाण-दृष्टत्वहेतोः स्वरूपासिद्धिरेवास्त्वित्यर्थः ।। प्रपञ्चमिथ्यात्वसिद्धाविति । उक्तानुमानेन प्रपञ्चस्य मिथ्यात्वे सिद्धे तदन्तर्गतत्वात् प्रत्यक्षादीनाम-प्रामाण्यसिद्धिरित्यर्थः ।। तत्सिद्धौ च तत्सिद्धिरिति । प्रत्यक्षादीनाम-प्रामाण्ये सिद्धे प्रमाणदृष्टत्वहेतोः स्वरूपासिद्धत्वेन प्रतिपक्षानुमानस्य दुष्टतया तद्विरोधाभावेन उक्तानुमानात्प्रपञ्चमिथ्यात्वसिद्धिरित्यर्थः ।।

श्रीगुरुराजीयटिप्पणी

विकल्पप्रश्नेन दूषणमुक्तम् । तत्र स्वव्याहतत्वात् विकल्पप्रश्न एव नोपपद्यते । दूरे दूषणाभिधानमित्याशयेन व्याहतिमुपपादयति ।। अतत्त्वा-वेदकमिति ।।

मिथ्यात्वानुमानखण्डनपरशुः

प्रमाणदृष्टत्वपदेनेति ।। प्रमाणदृष्टपदेन प्रामाणिकत्वरूपोऽखण्डो धर्मः हेतुतया उक्त इत्यर्थः । न च शुक्तिरजताविति । ननु यथा शुक्ति-रजतादौ यथा दृग्व्यावृत्तकत्वमस्ति तथैव नेदं रजतप्रमाणजन्यदृक्-व्यावृत्तकत्वमस्त्येवेति व्यभिचारवारकत्वात् व्यर्थमेवेदं विशेषणमिति चेन्न । रजतस्य नेदं रजतमिति ज्ञानोल्लेख्यत्वेऽपि तद्व्यावृत्तकत्वेन व्यभिचार-परिहारसम्भवात् । न हीदं रजतमिति विभ्रमं यथा रजतज्ञानत्वेन व्यवहरन्ति तथा नेदं रजतमिति विज्ञानं रजतज्ञानत्वेन व्यवहरन्ति । किन्तु रजताभावज्ञानत्वेन येन तद्व्यावर्तकत्वं रजतस्य स्यात् । द्वितीय इति ।। अतत्त्वावेदकप्रमाणदृष्टस्यासत्त्वेन भाव्यत्वात् । सत्यमिति । साध्याभिधाने व्याघात इत्यर्थः ।। एवं तर्हीति । अतत्त्वावेदकं प्रमाणमित्यस्य व्याहतत्वेन प्रमाणदृष्टत्वेन हेतुः स्यात् । स चासिद्ध एवेति भावः ।। परस्पराश्रय-त्वेति ।। ननु प्रपञ्चस्य सत्यत्वसिद्धौ प्रत्यक्षादिप्रामाण्यसिद्धिः । तत्सिद्धौ तत्सिद्धिरिति भवतामन्योन्याश्रय एवेति चेन्न । प्रामाण्यस्य स्वतस्त्वेन विषयसिद्ध्यधीनत्वाभावात् ।।

प्रमाणदृष्टत्वानुमाने शंकितस्यात्मत्वोपाधेर्विकल्पेन निरासः ।

टीका

आत्मत्वमत्रोपाधिरिति चेन्न । तस्यैवानिरूपणात् । न ताव-ज्ज्ञानत्वमात्मत्वम् । ज्ञातृज्ञेयशून्यस्य ज्ञानस्यापि शून्यत्वात् । नापि ज्ञानाश्रयत्वं निर्गुणत्वाङ्गीकारात् । न च सामान्यविशेष आत्मत्वम् । सामान्यस्यापि वास्तवस्य परेणानङ्गीकारात् । कल्पितस्य तु देहादावपि सद्भावात् ।

प्रपञ्चस्य सत्यत्वे दृग्दृश्श्यसम्बन्धाभावेन दृश्यत्वानुपपत्तिशङ्का

प्रपञ्चस्य सत्यत्वे दृग्दृश्ययोः सम्बन्धानुपपत्तेः कथं दृश्यत्वम् ? इति चेत् ।

दृग्दृश्यसम्बन्धं विनैव दृश्यत्वोपपादनम्

अन्तरेणैव सम्बन्धं दृश्यत्वमस्तु । अतिप्रसङ्गं च प्रतीति-रेवापाकरिष्यति ।

मन्दारमञ्जरी

ज्ञातृज्ञेयशून्यस्येति ।। न तावदात्मैव ज्ञाता ज्ञेयो वा । परेणा-नङ्गीकारात् । नापि तदतिरिक्तम् । तस्य कल्पिततया मोक्षावस्थायाम-भावादित्यर्थः ।। कल्पितस्येति ।। ‘अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्य’ इति वदता परेण देहादावात्मत्वारोपस्याभ्युपगतत्वादित्यर्थः ।। अतिप्रसङ्ग-मिति ।। अयं भावः, दृश्यत्वनियामकत्वेन सम्बन्धो वाच्य इति हि त्वयोच्यते । यथोक्तं ‘न च दृक्सम्बन्धमात्रेण दृश्यत्वमिति युज्यते अतिप्रसङ्गात्’ इति । तदसङ्गतम् । तथात्वे हि तस्यापि नियामकान्तरं कल्प्यम् । एवं तस्य तस्यापीत्यनवस्था स्यात् । तथा च तत्परिहारार्थं ‘कश्चित्स्वनिर्वाहकः स्वभाव एव नियामकः । स च प्रतीत्युन्नेयः’ इति वाच्यम् । तथा च आदावेव तथाऽस्तु लाघवात् । न चैवं इति स्वभाव-वादप्रसङ्गः । बहुधाऽन्वेषणेऽपि नियामकान्तरालाभे स्वभावस्वीकरणात् । प्रकृते च वास्तवसम्बन्धस्य भवतैव महता प्रयासेन निराकृततया तदलाभस्तावत्सिद्धः ।

आध्यासिकसम्बन्धस्य दृश्यत्वानिर्वाहकत्वम्

आध्यासिकसम्बन्धोऽपि स्वस्य दृश्यतानिर्वाहार्थमाध्यासिक सम्बन्धान्तरमपेक्षते, एवं तदपि सम्बन्धान्तरमपेक्षत इत्यनवस्थानान्न नियामकः । किं च आध्यासिकसम्बन्ध इति कोऽर्थः । किं यः कश्चित्सम्बन्ध एवाध्यस्त इति वा ? किं वा दृश्यस्य दृगध्यस्तत्वं नाम सम्बन्ध इति ? आद्ये सम्बन्धमात्रस्यैव मिथ्यात्वं लब्धं न दृश्यवर्गस्येति तवाभिमतासिद्धिः । न द्वितीयः दृष्टदृश्यत्वनिर्वाहार्थं तत्कल्पने दृष्टानेक-पदार्थहानिप्रसङ्गेन तस्याकल्पनीयत्वात् । न ह्यल्पस्य हेतोर्बहुत्यागो युक्त इति ।

आध्यासिकसम्बन्धं विनापि दृग्दृश्ययोः सम्बन्ध्यभिन्नं सम्बन्धमङ्गीकृत्य दृश्यत्वोपपादनम्

अथ वा अस्तु कश्चिद्दृग्दृश्ययोः सम्बन्धः । स च सम्बन्धिभ्यां न भिद्यते । येन सम्बन्धिभिन्नसम्बन्धस्य सम्बन्धिना सम्बन्धान्तरमङ्गीकार्यम् । एवं तस्य तस्यापीत्यनवस्था स्यात् । न चैवम् सम्बन्धाभावप्रसङ्गः । ज्ञानाभेदमात्रेण आनन्दाभावप्रसङ्गेन मोक्षस्यापुमर्थता प्रसङ्गात् । अस्मन्मते अभेदेऽपि विशेषबलादेकतरपरिशेषाभावस्यान्यत्रोपपादितत्वाच्च ।

श्रीनिवासतीर्थीयटिप्पणी

आत्मत्वमिति । दृष्टान्तभूते आत्मनि सत्यत्वात्मत्वयोः सद्भावेन साध्यव्यापकत्वात् । प्रमाणदृष्टत्वरूपसाधनवति प्रपञ्चे आत्मत्वाभावेन साधनाव्यापकत्वाच्चेत्यर्थः ।। तस्यैवेति । आत्मत्वस्यैवेत्यर्थः ।। ज्ञातृज्ञेय-शून्यस्येति । लोके ज्ञानं ज्ञातृज्ञेयसापेक्षं दृष्टम् । आत्मस्वरूपज्ञानस्य ज्ञाता किं स्वयमेव वा परो वा । नाद्यः । क्रियाकर्त्रोरेक्यस्य बाधितत्वात् । न द्वितीयः । तदतिरिक्तपराभावात् । नापि ज्ञेयमस्ति । आत्मस्वरूपं ज्ञानं किं स्वविषयं परविषयं वा । नाद्यः । एकस्यां क्रियायां कर्तृकर्मणोरेकत्वस्य विरुद्धत्वात् । यथोक्तं भगवत्पादैः । ‘स्वविषयत्वं हि कर्तृकर्मविरोधा-त्तैर्नाङ्गीक्रियत इति’ । न द्वितीयः । परस्य मिथ्यात्वात् । संसारावस्थायां मिथ्याभूतज्ञातृज्ञेययोः सत्त्वेऽपि मोक्षावस्थायां तदुभयाभावात् तदानीं ज्ञानत्वं न स्यात् । तथा च ज्ञातृज्ञेयशून्यस्य ज्ञानस्यापि शून्यत्वाद-भावादित्यर्थः । यथोक्तं तत्त्वोद्योते । आत्मनः स्वविषयत्वाभावा-त्परविषयत्वाभावाच्चेति । विषयवर्जितः प्रकाश एव न भवति घटवदिति च । उक्तं चान्यत्र । ‘ज्ञातृज्ञेयविहीनं ते ब्रह्मज्ञानात्मकं यदि । भोक्तृ-भोज्यविहीनाऽपि भवेत्तर्हि भुजिक्रिया’ इति । सामान्यविशेष जाति-विशेषः ।। अनङ्गीकारादिति । जातेरनेकानुगतत्वेन आत्मत्वस्य जातित्वे आत्मनां बहुत्वापत्तेः । तस्य च तवानिष्टत्वात् । तथा चैकव्यक्तित्वेन नात्मत्वं जातिरित्यर्थः ।

ननु कल्पितात्मनां बहूनां सत्त्वात्तन्निष्ठं यत्कल्पितं आत्मत्वं तज्जाति-र्भविष्यतीत्याशङ्क्य निराकरोति ।। कल्पितस्य त्विति । अन्योन्यस्मिन् अन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति वदता परेण देहेन्द्रियादावप्यात्म-त्वारोपस्याभ्युपगतत्वादित्यर्थः । तथा च पक्षैकदेशाद्देहेन्द्रियादेरव्यावृतत्वेन साधनाव्यापकत्वाभावादात्मत्वं नोपाधिरिति भावः । अनुमानस्य तर्क-पराहतिमाशङ्कते ।। प्रपञ्चसत्यत्व इति । यदि प्रपञ्चः सत्यः स्यात्तर्हि दृग्दृश्ययोः सम्बन्धानुपपत्त्या दृश्यत्वमेव न स्यात् । तथा हि । वृत्तिप्रति-बिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपं यज्ज्ञानं तदेव दृगित्युच्यते । तस्याः दृश्यस्य घटादेः प्रपञ्चस्य कः सम्बन्धः । न तावत्संयोगः । ज्ञानस्याद्रव्यत्वात् । नापि समवायः । आत्मधर्मस्य ज्ञानस्य घटादेश्चायुतसिद्धत्वाभावेन समवायायोगात् । विषयविषयिभावस्तु सम्बन्ध एव न भवति । सम्बन्धिभिन्नत्वाभावात् । अद्विष्ठत्वाच्च । तथा च प्रपञ्चस्य सत्यत्वे दृग्दृश्ययोः संयोगसमवायरूपसम्बन्धानुपपत्तेः प्रपञ्चस्य दृशि अध्यस्तत्वमेव सम्बन्ध इति वक्तव्यम् । आध्यासिकसम्बन्धश्च प्रपञ्चस्य सत्यत्वे न सम्भवतीति भवदनुमानस्य तर्कबाध इत्यर्थः ।। अन्तरेणैव सम्बन्धमिति । दृग्दृश्ययोरिति वर्तते । ननु सम्बन्धमन्तरेण दृश्यत्वाङ्गीकारे घटज्ञानस्य पटोऽपि विषयः स्यादित्यतिप्रसङ्ग इति चेत्तत्राह ।। अतिप्रसङ्गं चेति ।। प्रतीतिरेवेति । घटज्ञानवानहमित्यनु-व्यवसायरूपप्रतीत्या घटज्ञानस्य घटविषयकत्वस्यैवावगाहनान्न पट-विषयकत्वमिति नातिप्रसङ्ग इति भावः ।

श्रीगुरुराजीयटिप्पणी

स्वरूपासिद्धिमाशङ्क्य निरस्य व्याप्यत्वासिद्धिमप्याशङ्क्य निरस्यति ।। आत्मत्वमत्रोपाधिरिति चेदित्यादिना ।। अनङ्गीकृतत्वादिति ।। ततश्च साध्याव्यापकतेति भावः ।। सद्भावादिति ।। ततश्च साधनव्यापकतेति भावः ।। सम्बन्धानुपपत्तेरिति ।। आत्मगुणस्य ज्ञानस्य ज्ञेयेन संयोग-समवाययोरयोगाद्विषयविषयिभावस्य चाद्विष्टत्वेनासम्बन्धत्वादन्यस्य च सम्बन्धस्यासम्भवादिति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु कल्पितमेवात्मत्वमुपाधिरित्यत आह ।। कल्पितस्येति ।। देहा-दावात्मत्वारोपासम्भवेन कल्पितस्य तत्र सद्भावादित्यर्थः । उपाधि-व्यतिरेकेण साध्यव्यतिरेकसाधनभागासिद्धौ हेतुः स्यादिति भावः । प्रपञ्च-सत्यत्व इति ।। यदि प्रपञ्चः सत्यं तर्हि दृश्यत्वं न स्यात् । दृश्यत्वस्य दृग्दृश्यसम्बन्ध निबन्धत्वात् । सम्बन्धस्य च दृश्यारोपितत्वात् । अन्यस्याभावात् । तस्य त्वयाऽङ्गीकारादिति भावः । अन्तरेणैव सम्बन्धमिति । यथा सम्बन्धमन्तरेणैव सम्बन्धो भवति एवं सम्बन्धमन्तरेणैव दृश्यत्वमस्तु ।। धर्मस्य सम्बन्धापेक्षनियमाभावादिति भावः । ननु यदि सम्बन्धमनपेक्ष्यैव दृश्यत्वं स्यात् तर्हि वह्निसम्बन्धं विनैव काष्ठादिना दाहः स्यात् । अविशेषादित्यत आह । अतिप्रसङ्गमिति । सम्बन्धं विना दाहादर्शनात् । सम्बन्धसापेक्षसम्बन्धं विनापि दृश्यत्व-दर्शनात् । दृश्यत्वं सम्बन्धनिरपेक्षधर्मः । ततश्च नातिप्रसङ्ग इति पराकरिष्यतीत्यर्थः ।

अध्यासिकसम्बन्धं विनापि दृग्दृश्ययोः संयोगसम्बन्धमङ्गीकृत्य दृश्यत्वोपपादनम्

टीका

संयोगो वाऽस्तु । गुणत्वान्नेति चेत् । त्यज्यतां गुणत्वम् । गुणत्वे वा गुणादिपञ्चकस्य निर्गुणत्वनिष्क्रियत्वपरिभाषा नादरणीया ।

मन्दारमञ्जरी

ननु स तर्हि सम्बन्धः संयोगः समवायो वा ? आद्यस्तावदस्त्वित्याह ।। संयोगो वेति ।। त्यज्यतां गुणत्वमिति ।। ज्ञानस्येति शेषः । गुणत्वे वेति ।। अयमभिप्रायः । गुणे क्रिया तावदङ्गीकार्या । पटे गच्छति तद्गतरूपेऽपि गतिदर्शनात् । पटगता सा रूपे प्रतीयत इति चेत् विपरीतं किं न स्यात् । पटावयवतन्तुगता गतिः पटे प्रतीयत इति वक्तुं शक्यत्वादतिप्रसङ्गाच्च ।

किं च गच्छत्पटनिष्ठमहारजनद्रव्ये गतिरस्ति न वा । न चेन्महारजनस्य देशान्तरेण सह संयोगो न स्यात् । असमवायिकारणाभावात् । न च पटनिष्ठक्रिया तदसमवायिकारणम् । कार्यैकार्थप्रत्यासत्तेः कारणैकार्थप्रत्या-सत्तेश्चाभावेन तस्याः समवायिकारणप्रत्यासत्त्यभावात् । नापि पटदेशान्तर संयोगः । देशान्तरेण पटस्य संयोगानन्तरं महारजनस्य देशान्तरेण सह संयोगप्रतीतिप्रसङ्गात् । तन्तुदेशान्तरसंयोगादेव पटस्य देशान्तरसंयोगसिद्धौ पटे क्रियाभावप्रसङ्गाच्च । न च क्रियावता पटेन महारजनसंयोगस्तद-समवायिकारणम् । क्रियाहीनस्य महारजनद्रव्यस्य क्रियावता पटेन संयोगानुपपत्तेः । क्रियावत्संयोगस्य संयोगप्रतिसम्बन्धिनि क्रियामुत्पादय-तस्तन्निष्ठक्रियाद्वारवतस्य देशान्तरसंयोगोत्पादकतानियमेन महारजने क्रिया-स्वीकारावश्यम्भावाच्च । तस्माद्गच्छत्पटनिष्ठमहारजने गतिरस्तीति पक्ष एवाश्रयणीयः । एवं च तद्रीत्या रूपादावपि क्रियासिद्धिः । अनुभवस्या-विशेषात् ।

एवं गुणे गुणोऽप्यङ्गीकार्यः । ‘एकं रूपं’ ‘चतुर्विंशतिर्गुणाः’ इति गुणेऽपि सङ्ख्यादिगुणप्रतीतेः । यद्यपि गुणे संयोगव्यवहारं ‘द्रव्ययोरेव संयोगः’ इति दर्शनाभ्यासवान्जनो न करोति तथापि घटपटयोः संयुक्तयोः सतोः ‘तद्गतरूपे अपि संयुक्ते’ इति लोकः करोत्येव । किं च ‘रूपेण युक्तो घटः’ इति सर्वेऽपि व्यवहरन्ति । तथापि ‘संयुक्तः’ इति न व्यवहरन्तीति चेन्न । ध्वंसप्रध्वंसशब्दयोरिवानयोरर्थभेदास्फुरणात् । ‘द्रव्याणां कर्म संयोगः’ इत्यादौ जैमिन्यादिभिः परीक्षकैरद्रव्यसम्बन्धेऽपि संयोगव्यवहाराच्च । तथा च ज्ञानस्य गुणत्वेऽपि तस्य विषयेण सह गुणात्मकः संयोगः सम्बन्धोऽस्तु । न च ज्ञाने संयोगासमवायिकारण-क्रियाभावात्संयोगानुपपत्तिः । रूपादौ क्रियासाधनप्रकारेण ज्ञानेऽपि तत्साधनात् । नन्वतीतेन विषयेण कथं संयोगः ? इति चेत् किमतीतादेः सम्बन्धमात्रं नाङ्गीक्रियते ? संयोग एव वा ? नाद्यः सम्बन्धाभाव-स्याप्यतीतसम्बन्धित्वाभावप्रसङ्गात् । प्रध्वंसादेरतीतादिसम्बन्धाभाव-प्रसङ्गाच्च । न द्वितीयः । तद्वत्संयोगस्याप्युपपत्तेः । न चास्माभिः संयोगो द्विष्ठ इत्यङ्गीक्रियते । येन विषयलक्षणाश्रयाभावे कथं तदाश्रित-संयोगोऽवतिष्ठेतेति चोद्येत । किं नाम ? सादृश्यादिवदेकाश्रितोऽन्यनिरूप्य इति । ‘संयोगः’ इत्यबाधितव्यवहारास्पदत्वं च संयोगलक्षणम् । न चैवमन्योन्याश्रयः । पूर्वपूर्ववृद्धकृतव्यवहारविषयत्वज्ञानेनोत्तरोत्तरेषां व्यवहारोपपत्तेः । ‘मन्त्रः’ इत्यभियुक्तप्रसिद्धिर्मन्त्रलक्षणं इति मीमांसकै-रङ्गीकृतत्वाच्चेति ।

श्रीनिवासतीर्थीयटिप्पणी

अन्तरेणैव सम्बन्धं दृश्यत्वमस्त्वित्युक्तम् । अस्तु वा सम्बन्धः । स च संयोगः समवायश्चेति द्विविधः । तत्राद्यस्तावदस्त्वित्याह ।। संयोगो वाऽस्त्विति ।। गुणत्वादिति । ज्ञानस्येति शेषः । द्रव्ययोरेव संयोग इति भावः ।। गुणत्वमिति । ज्ञानस्येति शेषः । तुष्यतु दुर्जन इति न्यायेनाह ।। गुणत्वे वेति । ज्ञानस्य गुणत्वेऽपि घटादिना संयोग एव सम्बन्धोऽस्तु । ननु संयोगस्य द्विष्ठत्वात् ज्ञानघटयोः संयोगसम्बन्धाङ्गीकारे ज्ञानेऽपि संयोगप्राप्त्या गुणादिपञ्चकस्य निर्गुणत्वपरिभाषाभङ्गः स्यात् । किञ्च ज्ञाने संयोगाङ्गीकारे तस्य क्रियाजन्यत्वात् साऽप्यङ्गीकार्या स्यादिति चेत्तत्राह ।। गुणादिपञ्चकस्येति । गुणकर्मसामान्यविशेषसमवायरूपपदार्थपञ्चक-स्येत्यर्थः ।। निर्गुणत्वेति । गुणे गुणोऽप्यङ्गीकार्यः । चतुर्विंशतिगुणाः, कर्माणि पञ्च, सामान्यं त्रिविधं, विशेषास्त्वनन्ताः, समवायस्त्वेक एवेति प्रतीत्या गुणादिपञ्चकस्यापि सगुणत्वसिद्धेः गुणे संयोगस्याप्यङ्गीकार्यत्वात् । यद्यपि गुणे(पि) संयोगव्यवहारं द्रव्ययोरेव संयोग इति दुर्दर्शनाभ्यास वान्लोको न करोति । तथापि घटपटयोः संयुक्तयोः सतोस्तद्गतरूपे अपि संयुक्ते इति व्यवहारं लोकः करोत्येव । किञ्च रूपेण युक्तो घट इति सर्वेऽपि व्यवहरन्ति । तथापि संयुक्त इति न व्यवहरन्तीति चेन्न । ध्वंस-प्रध्वंसशब्दयोरिव युक्तसंयुक्तशब्दयोरप्यर्थभेदाननुभवात् । जैमिनिनाऽपि पूर्वमीमांसायां द्रव्याणां कर्मसंयोग इति सूत्रे द्रव्यकर्मसम्बन्धेऽपि संयोग-व्यवहाराच्च । एवमेव ज्ञानस्य गुणत्वेऽपि तस्य विषयेण सह संयोगोऽस्तु । न च ज्ञाने संयोगासमवायिकारणक्रियाभावात्संयोगानुपपत्तिरिति वाच्यम् । घटे चलति सति तद्गतरूपेऽपि चलनदर्शनेन गुणेऽपि क्रियायाः अङ्गीकार्य-त्वात् । ननु घटगतमेव चलनं रूपे प्रतीयत इति चेन्न । वैपरीत्यस्यापि वक्तुं सुवचत्वात् । पटावयवतंतुगतमेव चलनं पटे प्रतीयत इत्यपि वक्तुं शक्यत्वाच्च । एवमेव देवदत्ते चलति सति तद्गतज्ञानस्यापि चलनसम्भवेन संयोगासमवायिकारणचलनक्रियायाः ज्ञानेऽपि सम्भवेन संयोगोपपत्तेः । एतदर्थमेव निष्क्रियत्वग्रहणं कृतम् । अन्यथा प्रसङ्गाननुगुणत्वेन तद्ग्रहणस्या कर्तव्यत्वादित्यवधेयम् । प्रसङ्गादुक्तमित्यप्याहुः ।

श्रीगुरुराजीयटिप्पणी

ननु ज्ञानं गुणः अनित्यत्वे सत्येकेन्द्रियग्राह्यत्वात् रूपवदित्यनुमानेन सिद्धस्य गुणत्वस्य कथं त्याग इत्यत अङ्गीकृत्य गुणत्वं संयोगमुपपादयति ।। गुणत्वे वेति ।।

मिथ्यात्वानुमानखण्डनपरशुः

गुणत्वादिति । दृश्यगुणत्वादित्यर्थः ।

आध्यासिकसम्बन्धं विनापि दृग्दृश्ययोः समवायसम्बन्धमाश्रित्य दृश्यत्वोपपादनम्

टीका

समवायो वा अस्तु । प्रक्रिया तु प्रकारान्तरेण कल्प्यताम् ।

दृग्दृश्ययोः संयोगसमवायातिरिक्तवास्तवसम्बन्धमाश्रित्य दृश्यत्वोपपादनम्

किं च गुणगुणिनोः संयोगानुपपत्तौ समवाय इव तन्तुद्वयस्य समवायासम्भवे संयोग इव च दृग्दृश्ययोः प्रसिद्धसम्बन्धानुपपत्तावन्य एव कश्चिद्वास्तवः किं न कल्पनीयः ? न हि प्रक्रियापरिक्षयो वस्तुपरिक्षयाद्गरीयान् ।

प्रपञ्चस्य मिथ्यात्वेऽपि दृश्यत्वानुपपत्तिसमर्थनम्

किञ्च मिथ्यात्वेऽपि कथं दृश्यत्वम् ? गगन इव गन्धर्वनगरस्य दृशि प्रपञ्चस्यारोपितत्वादिति चेत् तर्हि सर्वेण सर्वं दृश्येत । न वा केनापि किञ्चित् । इन्द्रियसन्निकर्षादिकं नियामकमिति चेत् तर्हि किमने-नारोपितत्वेन ? करणसम्बन्धादिनिबन्धनो विषयविषयिभाव एवास्तु दृग्दृश्ययोः सम्बन्ध इति सङ्क्षेपः ।

मन्दारमञ्जरी

प्रकारान्तरेणेति ।। संयोगातिरिक्तः सम्बन्धस्समवायः । स चानित्योऽ-नेकश्चेत्यादिः प्रकारान्तरशब्दार्थः ।। अन्य एवेति ।। उभयातिरिक्ते सम्बन्धेऽर्थापत्तिसिद्धे तस्योभयेतरत्वे सति सम्बन्धत्वलक्षणं नामान्तरं च करणीयमित्यर्थः । अधिष्ठानभूता दृक् संसारावस्थायां प्रकाशते न वा ? आद्ये दोषमाह ।। तर्हि सर्वेणेति ।। प्रकाशमानदृगध्यस्तत्वस्य सर्वान्प्रत्य-विशिष्टत्वादिति भावः । द्वितीयं दूषयति ।। न वा केनेति ।। अधिष्ठान-प्रकाशरूपस्याध्यस्तस्फुरणस्याभावान्न किञ्चिदपि प्रकाशेतेत्यर्थः ।

सङ्क्षेपशब्दसूचितार्थविवरणम्

इति सङ्क्षेप इति ।। ‘‘इदमंशावच्छिन्ने चैतन्ये रजतमध्यस्तम् । अविद्यावृत्तिप्रतिबिम्बितसाक्षिचैतन्येन तु दृश्यते । एवं च यत्राध्यस्तं न तेन दृश्यम् । येन च दृश्यं न तत्राध्यस्तम् । अपि च नित्यानुमेयविषयस्य परोक्षवृत्तिज्ञानेऽध्यासस्त्वयापि नाङ्गीक्रियते । अथापि नित्यानुमेयं तेन दृश्यमित्यङ्गीकार्यम् । अन्यथा हेतोर्भागासिद्धिप्रसङ्गादिति न दृगध्यस्तत्वं दृश्यता प्रयोजकम् । किं च ‘यदि दृश्यं दृगध्यस्तं स्यात् तदा ‘दृघ्घटः’ इति तदनुविद्धतया प्रतीयेत’ । न च दृशि दृक्त्वादन्यः सामान्या-कारोऽस्ति । येन तदनुविद्धतया घटादिः प्रतीयेत, न तु दृग्रूपविशेषानु-विद्धतया इति चोद्येत’’ इत्यादि यद्यपि बहु वक्तव्यमस्ति । तथापि ग्रन्थगौरवभयादुपरम्यत इति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

ननु ज्ञानघटयोः कथं समवायः । अयुतसिद्धत्वाभावात् । अयुतसिद्धयोः सम्बन्धः समवायः । स चैको नित्यश्चेति प्रक्रिया । तत्राह ।। प्रक्रिया त्विति । संयोगातिरिक्तः सम्बन्धः समवायः, स चानित्योऽनेकश्चेति प्रकारान्तरेणेत्यर्थः । दृग्दृश्ययोः ज्ञानज्ञेययोः ।। प्रसिद्धेति । संयोगसमवाय-रूपप्रसिद्धसम्बन्धद्वयानुपपत्तावित्यर्थः । संयोगसमवायातिरिक्तः आध्यासिकः सम्बन्धः कल्प्यत एवेत्यत उक्तं वास्तव इति । ननु यो वास्तवः सम्बन्धः कल्प्यते तस्य किं लक्षणं का च तस्य विशेषसंज्ञेति चेन्न । ज्ञानज्ञेययोः संयोगसमवायसम्बन्धानुपपत्त्या सिद्धे तदतिरिक्तसम्बन्धे लक्षणादि-जिज्ञासायाः व्यर्थत्वात् । संयोगसमवायेतरत्वे सति सम्बन्धत्वमिति तल्लक्षणस्य वक्तुं शक्यत्वाच्च । विशेषसंज्ञायाश्च विषयविषयिभावरूपेण यथारुचि कल्पनीयत्वादिति द्रष्टव्यम् । नन्वेवं चेत्सम्बन्धो द्विविधः । संयोगः समवायश्चेति प्रक्रियाभङ्गः । संयोगसमवायान्यसम्बन्धकल्पने तस्य क्लृप्तपदार्थेष्वनन्तर्भावात्तदाधिक्यं च स्यादिति चेत्तत्राह ।। न हि प्रक्रिया-परिक्षय इति । किं तु वस्तुपरिक्षय एव गरीयानित्यर्थः । प्रमितवस्त्वनु-सारेण हि प्रक्रिया कल्पनीया । न तु स्वकल्पितप्रक्रियानुरोधेन प्रमित-वस्तुत्यागः । प्रसिद्धसम्बन्धानुपपत्त्यैव तस्यापि सम्बन्धस्य प्रमितत्वात् । अत एवैतादृशसम्बन्धान्तर्भावेणैव पदार्था अपि गणनीया इति भावः । यदि जगन्मिथ्या स्यात्तदापि दृग्दृश्ययोः सम्बन्धो न स्यात् इति त्वां प्रत्यप्यापादयितुं शक्यत्वेन त्वदुक्ततर्कस्य अननुकूलत्वरूपाङ्गवैकल्यात्तर्का-भासत्वमित्यभिप्रेत्याह ।। किं चेति ।। शङ्कते ।। गगन इवेति । यथा गन्धर्वनगरं गगन आरोपितं एवं दृशि सर्वोऽपि प्रपञ्चोऽध्यस्त इत्या-ध्यासिकसम्बन्धसद्भावान्न प्रपञ्चस्य मिथ्यात्वे दृग्दृश्ययोः सम्बन्धानुपपत्ति-रित्यर्थः । त्वन्मते चैतन्यस्यैव दृक्त्वात्तत्र प्रपञ्चस्याध्यस्तत्वे पृच्छामः । अधिष्ठानभूतं चैतन्यमिदानीं प्रकाशते न वा । आद्ये दोषमाह ।। तर्हि सर्वेणेति । आरोपाधिष्ठानभूतचैतन्यस्य सर्वान्प्रत्यविशिष्टत्वेन प्रकाश-मानत्वात् । तत्रारोपितं सर्वं सर्वेण दृश्येतेत्यर्थः । द्वितीयं दूषयति ।। न वा केनापीति । अध्यस्तज्ञाने अधिष्ठानप्रकाशस्य कारणत्वात् तदभावे केनापि किंचिदपि न दृश्येतेत्यर्थः ।

ननु सर्वेण सर्वं दृश्येतेत्युक्तमयुक्तम् । यस्य सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयं व्याप्य तदाकारं भवति । तत्र वृत्त्युपारूढं जीवचैतन्यं घटाधिष्ठानचैतन्येनैकीभूय तत्रत्याज्ञानं नाशयति । तस्यैव तत्राध्यस्तो घटः प्रकाशते नान्यस्येति नोक्तदोष इत्याशङ्कते ।। इन्द्रियेति ।। तर्हि किमनेनेत्यादि । इन्द्रियसन्निकर्षस्य नियामकत्वाङ्गीकारे दृग्दृश्ययोः किमाध्यासिकसम्बन्धाङ्गीकारव्यसनेन । विषयविषयिभाव एव तयोः सम्बन्धोऽस्त्वित्यर्थः । ननु ज्ञानज्ञेययोः विषयविषयिभावसम्बन्धाङ्गीकारे घटज्ञानस्य पटोऽपि विषयः स्यादित्यतिप्रसङ्ग इत्याशङ्कापरिहारायोक्तम् । करणसम्बन्धादिनिबन्धन इति । यत्सन्निकृष्टेन करणेन यज्ज्ञानमुपजायते स तस्य विषय इत्यङ्गीकारान्नातिप्रसङ्ग इति भावः ।

श्रीगुरुराजीयटिप्पणी

नन्वयुतसिद्धत्वाभावात्कथं दृग्दृश्ययोः समवाय इत्यत आह ।। प्रक्रियेति ।। अयुतसिद्धयोः सम्बन्धः समवायेत्येतल्लक्षणपरित्यागेन संयोगान्यः सम्बन्धः समवाय इत्यनेन प्रकारेणेत्यर्थः । ननु संयोग-समवायातिरिक्तसम्बन्धकल्पनायां तस्य क्लृप्तपदार्थेष्वनन्तर्भावात्तदाधिक्यं स्यादिति क्लृप्तपदार्थप्रक्रिया सप्तैवेत्यादिरूपा भज्येतेत्यतः प्रमितवस्त्वनु-सारेणैव प्रक्रियायाः कल्पनीयत्वान्न स्वकल्पितप्रक्रियानुरोधेन प्रमित-वस्तुत्यागो युक्तः । अन्यथाऽतिप्रसङ्गादित्याशयवानाह ।। न हीति ।। किंचेति ।। गुणत्वात् ज्ञेयेन घटादिना संयोगस्यात्यगुणत्वाच्च समवायस्या-सम्भवात् । अन्यस्य च सम्बन्धस्याभावेन दृग्दृश्ययोः सम्बन्धानुपपत्ते-स्तुल्यत्वादिति भावः ।। दृशि प्रपञ्चस्यारोपितत्त्वादिति ।। तथा चाधिष्ठानाध्यस्तत्वसम्बन्धेन चित्प्रकाश्यत्वोपपत्तेर्न दृश्यत्वानुपपत्तिरिति भावः । अधिष्ठानभूता दृक् संसारावस्थायां प्रकाशते न वा ? आद्ये दोषमाह ।। तर्हीति ।। देवदत्तस्य घटज्ञानं यदा जायते तदा देवदत्तेनेव यज्ञदत्तादिभिरपि घट इव पटादिरपि तदेवान्यदाऽपीत्येवं सर्वेण सर्वं सर्वदाऽपि विज्ञायेतेत्यर्थः । प्रकाशमानदृगध्यस्तत्वस्य देवदत्तादीन् सर्वान् प्रति घटादीनां सर्वेषां सर्वदाऽविशिष्टत्वादिति भावः ।। न चेति ।। अधिष्ठानप्रकाशरूपाध्यस्तस्फुरणोत्पादकस्याभावाद्देवदत्तेनापि घटो न ज्ञायेतेत्यर्थः । ननु तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारकस्या-नादृतदृक्सम्बन्धस्यैव विषयप्रकाशोपपादकत्वाभ्युपगमात् । एकदृगध्यस्त-त्वेऽपि कस्यचिदेव कञ्चिदेव प्रति कदाचिदेव च प्रकाशकः सम्भवतीत्या-शयेन शङ्कते ।। इन्द्रियसन्निकर्षादिकमिति ।। परिहरति ।। किमारोपि-तत्त्वेनेति ।। सत्यत्वेऽपि दृश्यत्वोपपत्तेर्न दृश्यत्वोपपत्त्यर्थमारोपितत्त्वमङ्गी-करणीयमित्यर्थः । तत्कथमित्यतः दृश्यत्वमित्यत्र दृक्शब्देन किं वृत्ति-र्विवक्षिता किं वा चैतन्यमिति विकल्पद्वयं मनसि निधायाद्यं दूषयति ।। करणसम्बन्धादिनिबन्धन इति ।। न द्वितीय इत्याह ।। इति संक्षेप इति ।। वृत्तिविषयत्वेन व्यवहारस्य वृत्तिगतस्वाभाविकविशेषेण विषया-परोक्ष्यस्य सम्भवेन चैतन्याविषयत्वेऽपि बाधकाभावेनोक्तरूपदृश्यत्वाभाव-स्येष्टत्वात् । सत्यत्वेऽपि तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारककिञ्चि-त्सम्बन्धस्य सत्त्वेन चित्प्रकाश्यत्वसम्भवाच्चेत्याशयः ।

मिथ्यात्वानुमानखण्डनपरशुः

अयुतसिद्धयोरेव समवायाङ्गीकारात् दृग्दृश्ययोर्न समवायः इत्यत आह । प्रक्रिया त्विति ।। मिथ्यात्वेऽपि त्वदुक्तरीत्या दृश्यत्वमनुपपन्नमिति आह ।। किञ्चेति ।। मिथ्यात्वे कथं दृश्यत्वमुपपन्नम् । दृग्श्दृयसम्बन्धा-भावस्यात्रापि सत्त्वादिति भावः ।। सर्वेणेति ।। यदि शुक्तिरजतादि-वद्धटादिकं सर्वमध्यस्तं स्यात् । तर्हि घटादिकं यथाऽनेकप्रतिपत्तिसाधारणं तथा शुक्तिरजतादिकमपि अनेकप्रतिपाद्यसाधारणं स्यात् । आरोपितत्वस्य घटादिसाधारण्येन घटादिभ्यो रजतादौ विशेषानापादकत्वादित्यर्थः । नन्वारोपितस्यायं स्वभावः स्वयं अज्ञानकल्पितं तद्दर्शनमात्रविषयत्वम् । तन्न शुक्तिरजतादेः सर्वप्रतिपत्तिसाधारण्यमित्यत आह ।। न वा केना-पीति ।। आरोपितस्य कल्पकान्यदर्शनायोग्यत्वे किञ्चिद्धटादिकं केनापि कल्पकान्येन केनापि न दृश्येत इति सर्वप्रतिपत्तिसाधारण्यं न स्यादिति भावः ।। इन्द्रियसंनिकर्षादिकमिति ।। घटादेर्व्यावहारिकसत्त्वात् । इन्द्रिय-सन्निकर्षसम्भवेन यस्य यस्येन्द्रियेण सन्निकृष्यते । तेन तेन गृह्यत इति सर्वप्रतिपत्तिसाधारणमिति भावः । विषयविषयिभाव एवास्ति । ततश्च दृश्यत्वमुपपन्नमिति भावः ।

प्रपञ्चमिथ्यात्वानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्

टीका

अथावसरतो दृष्टान्तं दूषयिष्यन् साध्यसिद्ध्यर्थं साधनान्वेषण-मिति प्राधान्यात् साध्यवैकल्यं तावदाह–

मिथ्यात्वानुमानखण्डनम्

शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात्साध्यविकलो दृष्टान्तः

टीका

किमु तद्दृष्टान्तेन जगतः’ इति अपिशब्दार्थः । असत्त्वस्य परेण जगत्यसिसाधयिषितत्वात्सद्विविक्तत्वादीनां च अनिर्वचनीयत्वा-बहिर्भावं सिद्धवत्कृत्य ‘अनिर्वचनीयत्वाभावात्’ इत्युक्तम् । ‘साध्य विकलः’ इति साध्यसमानधर्मविकल उच्यते ।

शुक्तिरजतानिर्वचनीयत्वसाधकार्थापत्तिशङ्का

न तावच्छुक्तिरजतं सत् । बाधविरोधात् । नाप्यसत् । अपरोक्षतया प्रतीत्यनुपपत्तेः । ततोऽर्थादनिर्वचनीयं तदिति चेन्न ।

अर्थापत्तेः सदसदात्मकत्वेनाप्युपपत्तिसमर्थनम्

सत्त्वात्प्रतीतिः, असत्वाच्च बाधः, इति सदसदात्मकत्वेना-प्युपपत्तेः । तत् विरुद्धमिति चेत् । कोऽयं विरोधः अर्थापत्तिश्चे-त्तथाभावं गमयेत् । अन्यथा सदसद्वैलक्षण्यमपि नाङ्गीकार्यं स्यात् । विरुद्धविधिसमुच्चयवत् विरुद्धनिषेधसमुच्चयस्यापि विरुद्धत्वात् । निषेधसमुच्चयस्यातात्विकत्त्वान्न विरोध इति चेत् । तर्हि विधि-समुच्चयोऽप्यतात्विक एवाङ्गीक्रियताम् । लाघवात् ।

आध्यासिकसम्बन्धं विना दृश्यत्वानुपपत्तेरेवाभावसमर्थनम्

किं च अपरोक्षप्रतीतिविषयत्वमुक्तविधया न शुक्तिरजतस्या-स्तीति कस्यानुपपत्तिः ? उल्लेखमात्रं त्वसतोऽपि चेत्का अनु-पपत्तिः ? विस्तृतमेतदन्यत्रेत्यलं पल्लवितेन ।

मन्दारमञ्जरी

ननु साधयितुं योग्यं हि साध्यम् । एवं दृष्टान्तस्यापि सिद्धसाध्य-सजातीयधर्मं प्रति आश्रयत्वात्साध्यविकलत्वमिष्टमेवेत्यत आह ।। साध्य-विकल इतीति ।। अपरोक्षतया प्रतीत्यनुपपत्तेरिति ।। असतः परोक्ष-प्रतीत्यभावे ततो वैलक्षण्यस्य ज्ञातुमशक्यत्वेनानिर्वचनीयत्वासिद्धिप्रसङ्गात् अपरोक्षतयेति विशेषितम् ।। न सत्वात्प्रतीतिरसत्त्वाच्च बाध इति ।। यथा भट्टमतानुसारिणा त्वयाऽपि गुणगुण्यादेरत्यन्तभेदे गवाश्वादिवत्पृथक्-सिद्ध्यादिप्रसङ्गात् अत्यन्ताभेदे च पर्यायत्वप्रसङ्गात् भेदाभेदौ स्वीकृतौ न तूभयबहिर्भावः, यथा वा जातेष्टेः शुद्धकाम्यत्वे ‘पुत्रे जाते’ इति पुत्रजनन-रूपनिमित्तश्रवणविरोधात् शुद्धनैमित्तिकत्वे च ‘पूत एव तेजस्व्यन्नादो भवति’ इति पूतत्वादिफलश्रवणविरोधात् उभयसम्बन्धिताङ्गीकारोऽङ्गीकृतः न तूभयबहिर्भावः, तथा शुक्तिरूप्यादेरत्यन्तसत्वे बाधानुपपत्तेः अत्यन्ता-सत्त्वे च प्रतीत्यनुपपत्तेरुभयात्मकत्वमङ्गीकार्यम् । तथा च ख्यातेः सत्त्वेन, बाधस्य च असत्त्वेनाप्युपपन्नत्वादर्थापत्तेरन्यथाप्युपपत्तिरित्यर्थः ।

किमर्थापत्तौ प्रवृत्तायामपि विरोधः ? किं वा विरोधादर्थापत्तिरेव न प्रवर्तते ? इति । आद्यं दूषयति ।। विरोध इति ।। द्वितीयं प्रत्याह ।। अन्यथेति ।। विधिसमुच्चय इति ।। न चैवं निषेधसमुच्चयस्य तात्त्विकता-पातः निषेधसमुच्चयस्यातात्त्विकत्वेऽपि विधिसमुच्चयतात्त्विकत्वप्रसङ्गस्या-विशेषात् । उल्लेखमात्रमिति ।। यद्यपि ज्ञानजनककरणसम्बन्धित्वरूपं विषयत्वं सत्त्वमपेक्षते । असतः करणसम्बन्धायोगात् तथापि यथा परोक्ष-ज्ञानं प्रति तज्जनिताभिवदनरूपव्यवहारविषयतायोग्यतारूपं ‘कस्य ज्ञानम्’ इत्युक्ते ‘अस्य ज्ञानम्’ इति आश्रयाश्रयिभावादिसम्बन्धान्तराभावेऽपि ज्ञानावच्छेदकत्वरूपं तदुल्लेख्यत्वं तथा अपरोक्षज्ञानं प्रत्यप्यस्तु । अविशेषात् । तथाऽप्यसतोऽपरोक्षज्ञानं भ्रान्तेरन्यत्र न दृष्टचरमिति चेत् न । सद्विलक्षणस्यापि भ्रान्तेरन्यत्र दर्शनादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

अवसरतः प्राप्तमिति शेषः । प्रतिज्ञाहेतुनिराकरणानन्तरं दृष्टान्तनिरासस्य अवसरतःप्राप्तं दृष्टान्तं दूषयिष्यन्नित्यर्थः । आदौ साधनवैकल्यमनभिधाय साध्यवैकल्याभिधाने निमित्तमाह ।। साध्यसिध्यर्थमिति । प्राधान्यात् साध्यस्येति शेषः ।। जगत इतीति । जगतो नास्तीति किमु वक्तव्य-मित्यर्थः । ननु यद्यसत्वं सद्विविक्तत्वं वा मिथ्यात्वं परस्याभिमतं स्यात् । तदा कथं साध्यवैकल्यं भवद्भिरभिधातुं शक्यम् अपसिद्धान्तप्रसङ्गादित्यत आह ।। असत्त्वस्येति । अपसिद्धान्तभयेनेति शेषः ।। अनिर्वचनीयत्वेति । असद्विलक्षणस्वरूपानुपमर्देन सद्विलक्षणत्वे साध्ये अनिर्वचनीयत्वमेवोक्तं भवतीति सिद्धवत्कृत्येत्यर्थः । ननु साधयितुं योग्यं सन्दिग्धमिति यावत् साध्यं तद्वैकल्यं दृष्टान्तस्य भूषणमेव । तस्य निश्चितसाध्यसमानधर्म-वत्त्वात् । अतो व्याख्याति ।। साध्यविकल इतीति । तथा च तद्वैकल्यं दूषणमेवेत्याशयः । शुक्तिरजते अनिर्वचनीयत्वाभावात्साध्यवैकल्य-मित्युक्तम् । तदयुक्तम् । ख्यातिबाधान्यथानुपपत्त्या तस्यानिर्वचनीयतायाः सिद्धत्वादित्यभिप्रेत्य शङ्कते ।। न तावदित्यादिना । नन्वसदपिपदादिना-परोक्षतः प्रतीयत एव । अन्यथा प्रपञ्चे असद्वैलक्षण्यज्ञानानुपपत्तेरित्यत उक्तम् ।। अपरोक्षतयेति ।। ततोऽर्थादिति । शुक्तिरजतमसच्चेदपरोक्षतया न प्रतीयेत । यदसत्तदपरोक्षतया न प्रतीयते । यथा नरविषाणम् । इदं चापरोक्षतया प्रतीयते तस्मादसन्न भवति । सच्चेन्न बाध्येत यत्सत्तन्न बाध्यते । यथा आत्मा । बाध्यते चेदं तस्मात्सन्न भवतीति ख्याति-बाधान्यथानुपपत्त्या एतत् शुक्तिरजतं सदसद्विलक्षणरूपानिर्वचनीयमेवे-त्यर्थः । अर्थापत्तेरन्यथाप्युपपत्तिरूपं दोषमाह ।। सत्वात्प्रतीतिरित्यादिना । असच्चेन्न प्रतीयेत प्रतीयते चेदं तस्मादसन्नेत्युक्ते सत्त्वेनापि प्रतीत्युपपत्ति-रस्तु न तु तदन्यथानुपपत्त्या असद्वैलक्षण्यं कल्प्यम् । एवं सच्चेन्न बाध्येत बाध्यते चेदं तस्मात्सन्नेत्युक्तेऽसत्त्वेनापि बाधोपपत्तिरस्तु । न तु तदन्यथानुपपत्त्या सद्वैलक्षण्यं कल्प्यम् । एवं च शुक्तिरूप्यादेरत्यन्तसत्त्वे बाधानुपपत्तेरत्यंतासत्त्वे च प्रतीत्यनुपपत्तेः सदसदात्मकत्वमेवाङ्गीकार्यं न तु तद्बहिर्भावः । तथा च ख्यातेः सत्त्वेन बाधस्य चासत्त्वेनाप्युपपन्नत्वात् । अर्थापत्तेरन्यथाप्युपपत्तिरित्यर्थः । तथाहि । व्यवहारे भट्टनय इति भट्टमतानुसारिणा त्वया गुणगुण्यादेरत्यन्तभेदे गवाश्वादिवत्पृथगुपलब्धि-प्रसङ्गात् । अत्यन्ताभेदे च पर्यायत्वान्यतरमात्रावशेषप्रसङ्गाद्भेदाभेदौ स्वीकृतौ नोभयबहिर्भावस्तद्वदिति ज्ञातव्यम् । शङ्कते ।। तद्विरुद्धमिति । सदसदात्मकत्वं विरुद्धमित्यर्थः । किमर्थापत्तिप्रवृत्त्यनन्तरं सदसत्त्वं विरुद्ध-मित्युच्यते । उत सदसत्त्वस्य विरुद्धत्वादेतादृशविरुद्धप्रमेयनिर्णयाय अर्थापत्तिरेव न प्रवर्तत इति । आद्यं दूषयति ।। कोऽयं विरोध इति । अर्थापत्तिरूपप्रमाणमेव चेद्यदि सदसत्त्वं गमयेत्तदा कोऽयं विरोधो नाम । प्रामाणिकेऽर्थे विरोधोऽकिञ्चित्कर इति भावः । द्वितीयं प्रत्याह ।। अन्यथेति । कुत इत्यत आह ।। विरुद्धेति । विरुद्धे ये सदसत्त्वे तन्निषेधसमुच्चयस्यापि विरुद्धत्वादित्यर्थः । सदसत्त्वरूपप्रमेयस्य विरुद्धत्वा-दर्थापत्तिरेव न प्रवर्तत इति यद्युच्येत तर्हि सदसतोर्द्वयोरेव सर्वैरनुभूय-मानत्वेन सदसद्वैलक्षण्यरूपप्रमेयस्यापि विरुद्धत्वात्तन्निर्णयाय त्वदीयार्था-पत्तेरपि प्रवृत्तिर्न स्यादिति भावः । निषेधसमुच्चयस्य सदसद्वैलक्षण्यरूपस्य विधिसमुच्चयः सदसत्त्वरूपः ।। लाघवादिति । विरुद्धातात्त्विकसद-सद्वैलक्षण्याङ्गीकारापेक्षयाऽविरुद्धातात्त्विकसदसत्त्वाङ्गीकारस्यैव लघुत्वा-दित्यर्थः । न च विधिसमुच्चयस्यातात्त्विकत्वे तन्निषेधसमुच्चयस्य तात्त्विकत्वापातः परस्परविरुद्धयोरिति न्यायादिति वा वाच्यम् । निषेध-समुच्चयस्यातात्त्विकत्वे विधिसमुच्चयस्यापि तात्त्विकत्वप्रसङ्गः । उक्तन्याया-देवेति साम्यादिति भावः ।। किञ्चेति । यदि शुक्तिरजतमपरोक्षतया प्रतीयते तर्हि तदन्यथानुपपत्त्याऽसद्वैलक्षण्यं वक्तव्यम् । तदेवोक्तविधया नास्ति । अपरोक्षतया प्रतीयमानत्वं नामेन्द्रियजन्यज्ञानं विषयत्वम् । तथा च यत्सन्निकृष्टेन करणेन यज्ज्ञानं जायते स तस्य विषय इति निरुक्त-विषयत्वस्य अत्यन्तासति रजतेऽसम्भवेन कस्यानुपपत्तिः ययाऽसद्वैलक्षण्यं सिध्येदित्यर्थः । तथा चासच्चेदपरोक्षतया न प्रतीयेत प्रतीयते चेदं तस्मादसन्नेति विपर्ययपर्यवसाने स्वरूपासिद्धिरिति भावः । ननु अपरोक्ष-प्रतीतिविषयत्वं न निरुक्तरूपम् । येनोक्तदोषः । किं नाम तदुल्लेखित्व-मात्रमेव विवक्षितमिति चेन्न । तथात्वे ज्ञाने उल्लेख्यत्वान्यथानुपपत्त्या असद्वैलक्षण्यं साधितं स्यात् । न च तद्युक्तम् । असतोऽपि ज्ञान-व्यावर्तकत्वरूपतदुल्लेख्यत्वसंभवेनानुपपत्तिरेव नास्ति । यया सद्वैलक्षण्यं साध्येतेत्याह ।। उल्लेखमात्रं चेदिति । विषयत्वमिति शेषः ।।

श्रीगुरुराजीयटिप्पणी

सदसदात्मकत्वेनापीति ।। सदसदात्मकत्वेनैवेत्यर्थः । किमर्थापत्तौ प्रवृत्तायां विरोध उच्यते, उत विरोधापत्तिप्रवृत्तिरेव न सम्भवतीत्युच्यत इति विकल्पद्वयं मनसि निधायाद्यं दूषयति ।। कोऽयं विरोध इति ।। यद्यर्थापत्तौ प्रवृत्तायामयं विरोधस्तदा विरोधस्यार्थापत्त्युत्तरकालमुपस्थितत्वेन ततः प्रागुनुपस्थितत्वेन तत्प्रवृत्तिप्रतिबन्धकत्वानुपपत्तेरप्रतिबद्धा अर्थापत्तिः स्वप्रमेयं सदसदात्मकत्वं गमयेदेवेत्यर्थः । द्वितीयं दूषयति ।। अन्यथेति ।। तत्रापि विरोधेनार्थापत्तिप्रवृत्तिकुण्ठनादिति भावः ।। निषेधेति ।। तथा च प्रतिबद्धख्यातिबाधान्यथाऽनुपपत्त्या सदसद्विलक्षणत्वसिद्धिरुपपन्नेति भावः ।। अङ्गीक्रियतामिति ।। तथा चाप्रतिबन्धात् ख्यातिबाधान्यथाऽनुपपत्त्या सदसदात्मकत्वसिद्धिरपि युक्तेति भावः । नन्वेवं सदसदात्मकत्वं सद-सद्विलक्षणत्वयोरुभयोरपि ख्यातिबाधाऽन्यथानुपपत्त्या सिद्धिसम्भवे सद-सदात्मकत्वेनैव तदुपपत्त्या श्रयणे किं विनिगमकमित्यतस्तृतीयप्रकारासम्भव एव चतुर्थप्रकाराश्रयणस्य न्याय्यत्वात्तत्संभवेऽपि चतुर्थप्रकारकल्पनायां गौरवम् । मत्पक्षे तु तदकल्पनात् लाघवमेव तन्नियामकमित्याशयेनाह ।। लाघवादिति ।। किं चापरोक्षतया न प्रतीयेतेति कोऽर्थः ? अपरोक्षतया न विषयीक्रियेतेति वा ? नोल्लिख्येतेति वा ? तत्राद्यमिष्टापत्त्या दूषयति ।। किञ्चेति ।। उक्तविधयेति ।। शुक्तिरजतज्ञानस्य रजतसन्निकृष्टकरणा-जन्यत्वादित्युक्तविधयेत्यर्थः । द्वितीयमप्रयोजकत्वेन दूषयति ।। उल्लेखेति ।। ननु व्यावृत्तिधीजनकत्वरूपं व्यावर्तकत्वमेवोल्लेख्यत्वं तत्कथमसतः सकल-सामर्थ्यरहितस्य स्यादित्यत आह ।। विस्तृतमेतदिति ।। अन्यत्र तत्त्वोद्योतादावित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

अपरोक्षतयेति । परोक्षभ्रमविषयश्च स्यात्सतोऽपि बाधसत्त्वात् । बाधो नासत्त्वप्रतिक्षेपायालमित्यभिप्रेत्य हेत्वन्तरोपादानमिति द्रष्टव्यम् । विरुद्ध-निषेधसमुच्चयस्येति । नन्विदमनुपपन्नम् । विरुद्धयोरपि गोत्वाश्वत्वयो र्निषेधद्वयस्य सामानाधिकरण्यदर्शनात् । न च विरुद्धशब्देन भावा-भावत्वरूपं विवक्षितम् । गोत्वाश्वत्वयोरतथात्वात्तदभावसमुच्चयेति सत्त्वा-सत्त्वयोः भावाभावरूपत्वात्तन्निषेधसमुच्चयो न सम्भवतीति वाच्यम् । भावाभावात्मकयोर्निषेधस्य भावाभावात्मकत्वेन विरुद्धनिषेधयोर्विरुद्धत्वमिति पृथगभिधानादिति चेदुच्यते । नैतत् विज्ञायते । विरुद्धनिषेधयोः विरुद्ध-निषेध इति विज्ञायते । न च सत्त्वाभाववति शुक्तिरूप्यादौ असत्त्वा-भावदर्शनात् सत्त्वासत्त्वनिषेधौ न विरुद्धाविति वाच्यम् । तत्सिद्ध्यर्थमेव त्वप्रतनात् ।।

प्रपञ्चमिथ्यात्वानुमाने दृष्टान्ते साधनवैकल्योपपादनम्

मिथ्यात्वानुमानखण्डनम्

उक्तप्रकारेण दृश्यत्वाभावात्साधनविकलश्च

टीका

रजतं दृष्टमिति भ्रममात्रत्वात्’ इति उक्तप्रकारेण । ‘शुक्ति-रजतस्य’ इत्यनुवर्तते । ‘च’कारो दृष्टान्त इत्यस्यानुकर्षणार्थः ।

प्रपञ्चमिथ्यात्वानुमाने उपाधिदोषोद्भावनम्

केचित्, उपाधिदोषमसिद्धावन्तर्भावयन्ति । अन्ये, अनैकान्तिके । परे, कालात्ययापदिष्टतायाम् । एके सत्प्रतिपक्षतायाम् । केचित्तु दृष्टान्तदोष इति । तत्र गुणदोषचिन्तायां नायमवसर इति सर्वावसितौ उपाधिदोषमाह–

मिथ्यात्वानुमानखण्डनम्

प्रमाणविरुद्धत्वमुपाधिः

उपाधेः साध्याभिन्नताशङ्का

टीका

नन्वत्र बाध्यत्वं साध्यम् । तदेव च प्रमाणविरुद्धत्वम् । न हि स्वस्मिन्स्वयमुपाधिः । व्याप्यव्यापकभावस्य भिन्नाश्रयत्वादिति । मैवम् । अन्यथाप्रतिपत्तिपूर्वकं तदुन्मूलनेन सम्यग्बोधो बाधः । प्रमाणविरोधस्तु विपरीतप्रमाणविषयत्वमात्रमिति भेदात् ।

मन्दारमञ्जरी

असिद्धाविति ।। उपाधिसद्भावे निरुपाधिकसम्बन्धरूपव्याप्तेरभावा-दुपाधिर्व्याप्यत्वासिद्धावन्तर्भवतीत्यर्थः ।। अनैकान्तिक इति ।। उपाधि रूपव्यापकनिवृत्त्या पक्षात्साध्यरूपव्याप्यनिवृत्त्या पक्षस्यैव विपक्षत्वात्पक्षे वर्तमानस्य हेतोरनैकान्तिकतेत्यर्थः ।। कालात्ययापदिष्टतायामिति ।। उपाधिरूपव्यापकनिवृत्तिलक्षणप्रबलप्रमाणेन पक्षे साध्याभावस्य निर्णी-तत्वादिति भावः ।। सत्प्रतिपक्षतायामिति ।। उपाधिव्यतिरेकस्य पक्षे दूष्यानुमानसाध्याभावसाधकत्वादिति भावः ।। दृष्टान्तदोष इति ।। साध्यादिमत एव दृष्टान्तत्ववदुपाधिहीनस्यैव दृष्टान्तत्वात्साध्यवैकल्यादि-वदुपाधिर्दृष्टान्तदोष इत्यर्थः ।। सर्वावसिताविति ।। उपाधेर्दोषत्वे सर्ववादिसंमतौ सत्यामित्यर्थः । क्वचित्सर्वावसितमिति पाठः । तदा सर्वावसितत्वं उपाधिदोषविशेषणम् ।

सम्यग्बोधो बाधः’ इत्युक्ते ‘घटोऽयम्’ इति सम्यग्बोधो बाधः स्यात् । तदर्थम् ‘अन्यथाप्रतिपत्तिपूर्वकम्’ इत्युक्तम् । तावत्युक्ते शुक्तिकायां रजतत्वज्ञानानन्तरं तस्यामेव ‘इदम्’ इति सम्यग्बोधो बाधः स्यात् । तदर्थं ‘तदुन्मूलनेन’ इत्युक्तम् । अन्यथाप्रतिपत्तेरुन्मूलनं च तद्विषयासत्त्वज्ञापनं वा तस्या भ्रान्तित्वज्ञापनं वेति द्रष्टव्यम् । सम्यग्ग्रहणाभावे तु वल्मीके स्थाणुत्वभ्रमानन्तरं ‘नायं स्थाणुः । किं तर्हि ? पुरुषः’ इति भ्रान्त्यन्तर-मपि बाधः स्यात् । तदर्थं सम्यग्ग्रहणम् । विपरीतप्रमाणविषयत्वमात्र-मिति ।। ‘नेदं रजतम्’ इति अभावग्राहकप्रमाणं प्रति रजतादेः प्रतियोगि-त्वेनावच्छेदकतया विषयत्वमात्रमित्यर्थः । मात्रपदेन अन्यथाप्रतिपत्ति-पूर्वकत्वं तदुन्मूलनं च व्यावर्तितम् । तेनोक्तरूपं बाधं प्रति निषेध्यतया विषयत्वरूपात् बाध्यत्वात् प्रमाणविरुद्धत्वस्य भेद इति द्रष्टव्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

इत्युक्तप्रकारेणेति । दृश्यत्वं हि दृग्विषयत्वं तच्च यत्सन्निकृष्टे-नेत्यादिरूपं तत्तु शुक्तिरजते नास्तीति प्रागुक्तप्रकारेणेत्यर्थः । दृष्टान्त इत्यस्य पूर्ववाक्यस्थितस्य । ननूत्तरत्र भगवत्पादैर्मिथ्यात्वानुमानस्योपाधि-रूपो दोष उच्यते तदयुक्तम् । उपाधेर्दोषत्वाभावादिति चेन्न । उपाधे-र्दोषत्वाभावे सर्ववादिभिस्तस्य हेत्वाभासादावन्तर्भावो नोच्येत । अदोषस्य दोषेऽन्तर्भावकथनायोगात् । अतस्तस्य दोषत्वं सर्वसंमतमित्याशयेनाह ।। केचिदिति । उपाधिदोषं उपाधिरूपं दोषम् ।। असिद्धाविति । व्याप्ति-स्सम्बन्धो निरुपाधिक इत्युक्तत्वेन उपाधिसद्भावे निरुपाधिकसाध्यसम्बन्ध-रूपव्याप्त्यभावेन तदभावापादकत्वादुपाधेर्व्याप्यत्वासिद्धावन्तर्भाव इत्यर्थः । यथाहुः । व्याप्यत्वासिद्धो द्विविधः । एको व्याप्तिग्राहकप्रमाणाभावाद-परस्तूपाधिसद्भावादिति ।। अनैकांत्य इति । उपाधेः साधनाव्यापकत्वेन साधनवति पक्षेऽभावात् साध्यव्यापकत्वेन व्यापकीभूतस्वनिवृत्त्या स्वव्याप्य-भूतसाध्यस्यापि व्यावर्तनेन पक्षस्यैव विपक्षत्वप्राप्त्या तत्र वर्तमानस्य हेतोरनैकांत्यमित्यर्थः ।। कालात्ययापदिष्टतायामिति । उपाधिरूपव्यापक-निवृत्तिलक्षणप्रबलप्रमाणेन पक्षे व्याप्यभूतसाध्यस्यापि व्यावर्तितत्वेन साध्या भावस्य निर्णीतत्वादुपाधेर्बाधान्तर्भाव इत्यर्थः ।। सत्प्रतिपक्षतायामिति । यागीयहिंसायां निषिद्धत्वरूपोपाधिव्यावृत्त्याऽधर्मसाधनत्वस्यापि निवर्तनेन यागीयहिंसा धर्मसाधनं न भवति निषिद्धत्वशून्यत्वादित्येवमुपाधिव्यतिरेकस्य साध्याभावसाधकत्वादुपाधिः सत्प्रतिपक्षतायामन्तर्भूत इत्यर्थः ।। दृष्टान्तदोष इति । व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयत इति हि दृष्टान्तलक्षणम् । तथा चोपाधौ प्राप्ते हेतुसाध्ययोर्निरुपाधिकसाध्यसम्बन्धरूपव्याप्त्यभावेन व्याप्तिसंवेदनस्थानत्वरूपलक्षणाभावेन दृष्टान्तत्वायोगादाश्रयवैकल्यापादक-त्वादुपाधेराश्रयवैकल्यरूपदृष्टान्तदोषेऽन्तर्भाव इत्यर्थः । यथा सिद्धसाधनता-प्राप्तौ सन्दिग्धसाध्यधर्मवत्त्वरूपपक्षलक्षणापगमेन तस्याः आश्रयासिद्धावन्त-र्भावः । यथाहुः । आश्रयासिद्धताहेतोः सिद्धधर्मस्य साधने । पक्षो हि संश्रयस्तस्य स च साध्यान्वितो यत इति तद्वदिति ज्ञातव्यम् ।। गुणदोष-चिन्तायामिति । तत्र सत्प्रतिपक्षान्तर्भावपक्ष एव श्रेयान् । यथोक्तं भगवत्पादैः । प्रतिज्ञायाः समबलप्रमाणविरोध एव सप्रतिसाधनः । स एवोपाधिदोषोऽपीति । पक्षादिविभागात्पूर्वं व्याप्तिग्रहणसमये प्रवृत्तस्योपाधे-र्व्यभिचारोन्नायकतयाऽनैकांत्येऽन्तर्भावपक्षोऽपि युक्तः । यथोक्तमनु-व्याख्याने । साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य चेति । व्याप्यत्वा-सिध्यन्तर्भावपक्षस्त्वयुक्तः । अव्यभिचरितसाध्यसम्बन्धस्यैव व्याप्तिलक्षणत्वेन निरुपाधिकसाध्यसम्बन्धस्य व्याप्तिलक्षणत्वाभावात् । तथाहि । उपाधिर्नाम साध्यव्यापकः । व्यापकत्वं नाम व्याप्तिनिरूपकत्वम् । एवं च व्याप्तिज्ञाने तद्धटितोपाधिज्ञानं तज्ज्ञाने निरुपाधिकसाध्यसम्बन्धरूपव्याप्तिज्ञानम्, अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वादित्यन्योन्याश्रयापत्तेः । दृष्टान्त-दोषान्तर्भावपक्षोऽप्ययुक्तः । आश्रयासिद्धिवदाश्रयवैकल्यस्य दृष्टान्तदोषत्वा-भावेन तत्रोपाधेरन्तर्भावकल्पनायोगात् । इत्यादिप्रकारेण तत्पक्षाणां गुणदोषचिन्तायामित्यर्थः ।। नायमवसर इति । बालव्युत्पादनार्थमिदं प्रकरणम् । प्रकरणं च शास्त्रैकदेशसम्बद्धम् । तथा च शास्त्र एवायं विचारः कर्तुमुचितो नात्र अनवसरग्रस्तत्वादिति भावः ।। इति सर्वावसिताविति । इत्येवमन्तर्भावकथनान्यथानुपपत्त्या उपाधेः दोषतायाः सर्ववादिनामवसितौ संमतौ सत्यामित्यर्थः । क्वचित्सर्वावसितमिति पाठः । सर्वेषां वादिनां दोषत्वेन सम्मतमित्यर्थो द्रष्टव्यः । केचित्तु सर्वावसितौ सर्वेषामसिध्यादीना-मवसान इत्यर्थ इत्यप्याहुः । प्रमाणविरुद्धत्वमिति । तद्रूपमिथ्यात्व-मित्यर्थः ।। भिन्नाश्रयत्वादिति । भिन्नाधिकरणनिष्ठत्वेन एकस्मिन्नेवाधि-करणे तदयोगादित्यर्थः ।। तदुन्मूलनेन । अन्यथाप्रतिपत्त्युन्मूलनेन ।। बाधः। तद्विषयत्वं बाध्यत्वमिति शेषः । अत्र सम्यग्बोधो बाध इत्युक्ते घटोऽय-मित्यादिसमस्तयथार्थज्ञानानामपि बाधत्वप्रसङ्गः । अतस्तत्रातिव्याप्ति-परिहाराय अन्यथाप्रतिपत्तिपूर्वकमित्युक्तम् । तावत्युक्ते शुक्तिकायां रजतज्ञानानन्तरं तस्यामेव इदं द्रव्यमिति जायमानस्य सम्यग्बोधस्यापि बाधत्वप्रसङ्गः । तदर्थं तदुन्मूलनेनेत्युक्तम् । यद्यप्युत्तरज्ञानेन पूर्वज्ञान-स्योन्मूलनं भवत्येव । तथाऽप्यत्रान्यथाप्रतिपत्तेरुन्मूलनं नाम तद्विषयासत्व-ज्ञापनं वा तस्याः भ्रान्तित्वज्ञापनं वा विवक्षितम् । तथा च शुक्तौ रजतभ्रमानन्तरं जायमानेनेदं द्रव्यमिति ज्ञानेन पूर्वं जातायाः अन्यथा-प्रतिपत्तेर्निरुक्तमुन्मूलनं न भवतीति न तस्य बाधत्वप्रसङ्गः । सम्यग्पदाभावे वल्मीके स्थाणुत्वभ्रमानन्तरं नायं स्थाणुः किन्तु पुरुष इति भ्रमान्तरमपि बाधः स्यादत उक्तं सम्यगिति ।। विपरीतप्रमाणेति । शुक्तिकां दृष्ट्वा आदावेव नेदं रजतमिति रजताभावज्ञानं जायते । तत्र रजतविपरीतो यो रजता भावस्तद्ग्राहकत्वेन नेदं रजतमिति विपरीतप्रमाणं प्रति रजतस्य प्रतियोगित्वेनावच्छेदकतया विषयत्वमात्रं प्रमाणविरुद्धमित्यर्थः । मात्र-शब्देनान्यथाप्रतिपत्तिपूर्वकं तदुन्मूलनं व्यावर्त्यते ।।

श्रीगुरुराजीयटिप्पणी

शिष्यः शङ्कते ।। नन्विति ।। साध्योपाध्योरभेदो न स्वरीत्या नापि पररीत्येत्याशयवान् स्वमते तयोर्भेदव्युत्पादनेनैव परमतेऽपि तयोर्भेदसिद्धिं मन्वानो विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतमित्त्यनुव्याख्यानं मनसि निधाय बाध्यत्वं तावद्वक्ति ।। अन्यथेति ।। अत्र तद्विषयत्वं बाध्यत्वमिति शेषः । सम्यग्बोधो बाध इत्युक्ते सर्वोऽपि सम्यग्बोधो बाधः प्रसज्येत । न च तथा व्यवहारः । तन्निवृत्त्यर्थमन्यथाप्रतिपत्तिपूर्वकमित्युक्तम् । अन्यथा-प्रतिपत्तिपूर्वकं बोध इत्येवोक्ते धारावाहिकत्रये रजतत्त्वेनावगतस्य शुक्ति-शकलस्य पुनर्नागवंगत्वादिज्ञाने प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथात्वं च स्वरूपापेक्षया विवक्षितम् । तेन घटस्यैव पटाद्यपेक्षया अन्यथा घटत्वेन विज्ञातस्य पुनः घटत्वेन विज्ञाने नातिप्रसङ्गः । तावत्त्युक्ते रजतत्त्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने, तथा पुरुषान्तर-सम्बन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्ज्ञाने प्रसङ्गः । तन्निरासाय तदुन्मूलनेनेत्युक्तम् । तदुन्मूलकत्वं चात्र तज्जनित-प्रवृत्त्यादिपरम्पराविघटकत्वम् । तच्च नोदाहृतज्ञानस्यास्तीति नातिप्रसङ्गः । अनेनैव परमते आरोपपूर्वकस्वात्त्यन्ताभावप्रतिनिषेध्यत्वेन विषयत्वं बाध्यत्वम् । प्रमाणविरुद्धत्वं च स्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयत्वमात्रमिति साध्योपाध्योर्भेदः सूचितो भवति । यद्वा सर्वस्मिन् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा ज्ञानत्वेन ज्ञाननिवर्त्यत्वं वा बाध्यत्वम् । विपरीतप्रमाणविषयत्वं तु प्रमाणविरुद्धत्वमिति । परमते साध्योपाध्योर्भेदस्य स्पष्टत्वात्तमनुपपाद्यैव स्वरीत्या तमुपपादयति ।। अन्यथेति ।।

मिथ्यात्वानुमानखण्डनपरशुः

केचिदिति । उपाधिव्यतिरेकेण साधनवति पक्षे साध्याभावसिद्धौ पक्षातिरिक्त एव व्यभिचारो वक्तव्य इति नियमात् पक्षव्यभिचारस्य वक्तुमशक्तत्वात् । केचिदुपाधिदोषं व्याप्यत्वासिद्धावन्तर्भावयन्ति । साध्याभावसाधकस्य उपाधिव्यतिरेकस्य प्राबल्येन हेतोर्बाधितविषयत्वं भवतीति उपाधिदोषमपरे कालात्ययापदिष्टतायामन्तर्भावयन्ति । उपाधि-व्यतिरेकस्य पूर्वहेतुना समबलत्वात् उपाधिदोषमेके सत्प्रतिपक्षतायामन्त-र्भविष्यन्ति । उपाधिव्यतिरेकेण पक्षे साध्यव्यतिरेकसिद्धौ पक्षस्यैव विपक्षत्वेन वैधर्म्यदृष्टान्तत्वात् तत्र व्यापकवैकल्प्यमस्तीति उपाधिवैधर्म्यं दृष्टान्तदोषेऽन्तर्भावयन्तीत्यर्थः । तटस्थः शङ्कते ।। नन्विति ।। एतेन परमते ज्ञाननिवृत्यत्वस्य बाध्यत्वात् प्रमाणविरुद्धत्वमित्युक्तमिति परास्तम् ।। विपरीतप्रमाणविषयत्वेति ।। नेदं रजतमित्येवमाकारकबोध-गोचरत्वमुपाधिरिति भावः ।

प्रमाणविरुद्धत्वोपाधेः साध्याव्यापकताशङ्का तत्परिहारश्च

टीका

तर्हि अनुपसञ्जातबाधभ्रमे प्रमाणविरुद्धत्वं नास्तीत्यव्याप्तिरिति चेन्न । तत्रापि बाधार्हत्वस्य सत्त्वात् ।

प्रमाणविरुद्धत्वोपाधेः साधनव्यापकत्वशङ्का तन्निरासश्च

प्रपञ्चस्यापि प्रमाणविरुद्धत्वात्साधनव्यापकोऽयमिति चेन्न । प्रतीतप्रमाणानामन्यथा व्याख्यातत्वात् । दृश्यत्वेन साधने मिथ्या-त्वस्योपाधित्वात् । अन्योन्योपाधिभावेनापि अनुमानस्याभासत्वात् ।

प्रमाणविरुद्धत्वस्यैव मिथ्यात्वे प्रयोजकत्वसमर्थनम्

लोके च कस्यचिदर्थस्य सत्यत्वमिथ्यात्वयोर्विप्रतिपत्तौ दर्शनं सत्यतायां प्रमाणविरोधं मिथ्यात्वेऽनुसरन्ति । ततो मिथ्यात्वे तदेव प्रयोजकमिति ज्ञायते ।

मन्दारमञ्जरी

अनुपसञ्जातबाधभ्रमे प्रमाणविरुद्धत्वं नास्तीत्यव्याप्तिरिति ।। अनुप-सञ्जातबाधभ्रमविषये मिथ्यात्वस्य सत्त्वेऽपि प्रमाणविरुद्धत्वं नास्तीत्युपाधेः साध्यव्यापकता नास्तीत्यर्थः ।। बाधार्हत्वस्येति ।। प्रबलविपरीत-प्रमाणविषयत्वयोग्यतारूपप्रमाणविरुद्धत्वलक्षणोपाधेरित्यर्थः ।। न तु बाध्यत्वरूपसाध्यस्येति भ्रमितव्यम् । तत्र तस्य परेणाप्यङ्गीकृतत्वात् । न विपरीतप्रमाणविषयत्वमात्रमुपाधिः । किं तु ? तद्योग्यत्वम् । तच्च तत्राप्यस्तीति सिद्धा साध्यव्यापकतेति भावः । एतच्च भ्रान्तिसमानाधि-करणमेव विपरीतप्रमाणमभ्युपेत्योक्तम् । वस्तुतस्तु अनुपसञ्जातबाधभ्रमे विपरीतप्रमाणविषयत्वं चास्त्येव । भ्रान्तेन तदभावस्याज्ञातत्वेऽपि ईश्वरादिभिस्तदभावस्य ज्ञातत्वात् । न हि भ्रान्तिसमानाधिकरणमेव तदुन्मूलनं बाधकं भवतीति नियमः तथा भ्रान्तिसमानाधिकरणमेव विपरीतप्रमाणं भवतीति नियमः ।

अनुपसञ्जातबाधभ्रमविषये उपाधेः साध्यसमव्याप्तता नास्तीति शङ्का तत्परिहारश्च

अनुपसञ्जातबाधभ्रमे प्रमाणविरुद्धत्वमस्तीति क्वचित्पाठः । तत्र ‘अनुपसञ्जातबाधभ्रमविषये भ्रमविषयत्वात् प्रमाणविरुद्धत्वे सत्यपि अनुप-सञ्जातबाधत्वात् बाधविषयत्वरूपबाध्यत्वस्याभावेन ‘यत्रोपाधिस्तत्र साध्यम्’ इति समव्याप्तेरभावादनुपाधित्वमित्यभिप्रायेण अनुपसञ्जात बाधेत्यनेन ग्रन्थेन शङ्कितत्वात् तत्रापि बाधार्हत्वस्य सत्वादित्यनेन ग्रन्थेन परेणापि बाध्यत्वं बाधार्हत्वमेव विवक्षणीयम्, अन्यथा अनुपसञ्जातबाध-भ्रमविषये दृश्यत्वहेतोर्व्यभिचारप्रसङ्गात् । बाधार्हत्वं च तत्राप्यस्तीति समव्याप्तिरस्तीति भावेन परिहृतम्’ इति व्याख्येयः । प्रतीतप्रमाणा-नामिति ।। ‘नेह नाना’ इत्यादिवाक्यानामित्यर्थः । दृश्यत्वेनैव प्रमाण-विरुद्धत्वं प्रपञ्चे साध्यते । तथा च साधनवत्पक्षादव्यावृत्तेः साधनव्यापक उपाधिरित्याशङ्क्याह ।। दृश्यत्वेनेति ।। ननु यदा दृश्यत्वेन मिथ्यात्व-प्रमाणविरुद्धत्वयोरन्यतरत् साध्येत तदा एकस्य साधने अपर उपाधिर्भव-तीति न कस्यापि सिद्धिः स्यात् । यदा तु मिथ्यात्वे सति प्रमाणविरुद्धत्वं विशिष्टं साध्येत तदा कथम् ? इति चेत् न । साध्यविशेषणप्रयोजनानां सिद्धसाधनतापरिहारादीनामभावेन तथा साध्यनिर्देशासम्भवात् । उपाधित्वेन शङ्क्यमानानामनन्तत्वेन तेषां साध्यशरीरप्रवेशनायोगाच्च । किं च पक्षेतरत्वं पक्षे न साधयितुं शक्यं व्याघातात् । अनुकूलतर्कसद्भावे च तस्याप्युपाधि-त्वात् ।

एतेन केनचिद्धेतुना विश्वसत्यतासाधने प्रमाणविरुद्धत्वमुपाधिः । तत्साधने च सत्यत्वमुपाधिरिति स्वव्याघात इति निरस्तम् । अनुकूल-तर्काभाव एवैवमाश्रयणात् । मिथ्यात्वसत्यत्वसाधकानुमानेषु चानुकूल-तर्काभावाभावयोरन्यत्रोक्तत्वाच्चेत्यलम् । उपाधिरेव प्रयोजक इत्याह ।। लोक इत्यादिना ।।

श्रीनिवासतीर्थीयटिप्पणी

अनुपसञ्जातबाधभ्रम इति । न उपसञ्जातः अनुपसञ्जातः अनुपसंजातो बाधो यस्य स अनुपसञ्जातबाधः । स चासौ भ्रमश्च तस्मिन्नित्यर्थः ।। प्रमाणविरुद्धत्वमस्तीत्यव्याप्तिरिति । अनुपसञ्जातबाधभ्रमविषये भ्रम-विषयत्वादेव योग्यतया प्रमाणविरुद्धत्वे सत्यपि अनुपसञ्जातबाधत्वात् । बाधविषयत्वरूपं बाध्यत्वं नास्तीति यत्र प्रमाणविरुद्धत्वं तत्र बाध्यत्वमिति समव्याप्तेरभावादनुपाधित्वमित्यर्थः । ननु समव्याप्तत्वं नोपाधिलक्षणमिति चेन्न । तथात्वे शब्दोऽनित्यः कृतकत्वादित्यत्राश्रावणत्वमुपाधिः स्यात् । साध्यव्यापकत्वात्साधनाव्यापकत्वाच्च । अतोऽपेक्षितमेव समपदम् । गगनादौ व्यभिचारेण समव्याप्तेरभावात्तद्व्यावृत्तिः । यथाहुः । साधना-व्यापकाः साध्यसमव्याप्ता उपाधय इति ।। बाधार्हत्वस्येति । बाधृ विलोडने अस्मत्कृत्ये यत्प्रत्यये बाध्येतिरूपम् । कृत्याश्चार्हार्थे स्मर्यन्ते । र्ओ कृत्यतृचश्चेति स्मरणात् । कृत्याः प्राङ्ण्वुल इति सूत्रेण ण्वुल्तृचा-वित्यतः प्राग्विहितानां प्रत्ययानां कृत्यत्वाभिधानात् । यत्प्रत्ययस्यापि तदन्तर्गतत्वादिति द्रष्टव्यम् । इदं च यस्य भ्रान्तिर्जाता तस्यैव बाधोऽपेक्षित इत्यभ्युपेत्य तदभिप्रायेण बाधार्हत्वस्य सत्त्वादित्युक्तम् । वस्तुतस्तु ईश्वरीययोगीश्वरीयबाधविषयत्वं फलोपधानमेवास्तीति द्रष्टव्यम् ।। प्रमाणेति । नेह नानास्ति किंचनेत्यादिसत्यत्वविपरीतमिथ्यात्वप्रतिपादक-प्रमाणेत्यर्थः ।। प्रतीतेति । प्रपञ्चमिथ्यात्वप्रतिपादकत्वेन प्रतीतेत्यर्थः । ननु दृश्यत्वहेतुनैव प्रमाणविरुद्धत्वमपि पक्षे साध्यत इति उपाधिः साधनव्यापक एवेत्याशङ्क्याह ।। दृश्यत्वेनेति । साधने प्रमाणविरुद्धत्वोपाधेः पक्षे साधन इत्यर्थः ।। आभासत्वादिति । तथा चान्योन्योपाधिभावे मिथ्यात्व-प्रमाणविरुद्धत्वयोर्मध्ये कस्यापि सिद्धिर्न स्यादिति भावः । मिथ्यात्वे प्रमाणविरुद्धत्वरूपोपाधिरेव प्रयोजको न दृश्यत्वहेतुरिति लोकानुभव-सिद्धम् । अतो प्रयोजकोऽयं दृश्यत्वहेतुरित्याह ।। लोके चेत्यादिना ।। प्रयोजक इतीति । प्रयोजकश्चोपाधिरित्युच्यत इत्यर्थः ।

श्रीगुरुराजीयटिप्पणी

स्वरीत्या साध्याव्यापकतामाशङ्कते ।। तर्हीति ।। अनुपसञ्जात-बाधभ्रमविषये भ्रमविषयत्वात् । सत्यपि मिथ्यात्वे प्रमाणविरुद्धत्वा-भावादुपाधेः साध्यव्यापकतेत्यर्थः । उक्तभ्रमविषये प्रमाणविरुद्धत्वाभाव-मुपपादयितुमनुपसञ्जातबाधत्वेन भ्रमविशेषणं कृतम् । बाधपदं चात्र विपरीतप्रमापरम् । न तूक्तविधपरमिति भवत्यनेन प्रमाणविरुद्धत्वा-भावसिद्धिः । यद्यप्युक्तस्थले विपरीतप्रमाणविषयत्वं चास्त्येव भ्रान्तेन तदभावस्याज्ञातत्वेऽपीश्वरादिभिस्तस्य ज्ञातत्त्वात् । भ्रान्तिसमानाधिकरणमेव समानाधिकरणभ्रान्तिप्रसञ्जितान्यथाकारोन्मूलनेन बाधकं भवतीति नियमवत् भ्रान्तिसामानाधिकरण्यमेव विपरीतप्रमाणं भवतीति नियमाभावात् । तथा च न साध्यव्यापकत्वशङ्कावकाशः । तथापि भ्रान्तिसमानाधिकरणमेव विपरीतप्रमाणं भवतीति नियममभ्युपेत्ययमाशङ्केति द्रष्टव्यम् ।। बाधार्ह-त्वस्येति ।। अत्रापि बाधपदं विपरीतप्रमाणपरमेव । ततश्च विपरीत-प्रमाणविषयत्वयोग्यतारूपप्रमाणविरुद्धत्वोपाधेरित्यर्थः । ततश्चोक्तभ्रम-विषयेऽनुपसञ्जातविपरीतप्रमाणत्वेन विपरीतप्रमाणविषयत्वाभावेऽपि तद्योग्यत्वसत्त्वान्न साध्यव्यापकतेत्याशयः । क्वचिदनुपसंजातबाधभ्रमे प्रमाणविरुद्धत्वमस्तीति पाठस्तत्रापि शङ्कापरिहारग्रन्थयोर्बाधपदं निरुक्त-बाधपरमेव । ततश्चानुपसञ्जातबाधभ्रमविषये भ्रमविषयत्वात् प्रमाणविरुद्धत्वे सत्यप्यनुपसञ्जातबाधत्वेनोक्तबाधविषयत्वरूपबाध्यत्वस्याभावेन यत्रो-पाधिस्तत्र साध्यमिति व्याप्त्यभावेनासमव्याप्तेरनुपाधित्वशङ्कार्थः । न बाध्यत्वमात्रं बाधविषयत्वं तथा सत्यनुपसञ्जातबाधभ्रमविषये सत्यपि दृश्यत्वे बाध्यत्वाभावेन व्यभिचारप्रसङ्गात् । किन्तु बाधार्हत्वमेव । तच्च तत्राप्यस्त्येवेति समव्याप्तत्वादुपाधित्वमिति परिहारार्थः । अत्र च भ्रान्ति-समानाधिकरणमेव विपरीतं प्रमाणं भवतीति नियमाभावात् विपरीत-प्रमाणविषयत्वसद्भावेऽपि भ्रान्तिसमानाधिकरणमेव बाधकं भवतीति नियमादुक्तभ्रमविषये बाधाभावश्चोपपन्न इति न पूर्ववदसिद्धनियमाश्रयणम् । बाधपदस्य निरुक्तार्थपरत्वापरित्यागश्चेति ध्येयम् । इमौ च शङ्कापरिहारौ समव्याप्त एवोपाधिरित्युदयनमतमाश्रित्य द्रष्टव्यौ ।। अन्योन्योपाधि-भावेनेति ।। तथाहि अनुकूलतर्काभावान्मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वं, तस्मिन् साध्ये श्यामत्वमुपाधिरित्यन्योन्योपाधिभावे-नानुमानद्वयस्याभासत्वम् । तथा प्रकृतानुमाने अनुकूलतर्काभावात् दृश्यत्वेन मिथ्यात्वे साध्ये प्रमाणविरुद्धत्वमुपाधिस्तस्मिन् साध्ये मिथ्यात्वमित्य-न्योन्योपाधिभावेनानुमानद्वयस्याप्याभासत्वम् । युगपदुभयसाधने त्वर्थान्तरम् । मिथ्यात्वे एव विप्रतिपत्तेरिति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

अनुपसंजातबाधेति ।। अनुपसंजातबाधविषये बाधकप्रमाविषयत्वं नास्तीति साध्यव्यापक उपाधिरित्यर्थः । प्रपञ्चस्यापीति । प्रपञ्चस्वरूप-निषेधकप्रमाणजन्यबोधकज्ञानविषयत्वादित्यर्थः ।।

पक्षादिलक्षणकथने कारणोक्तिपूर्वं पक्षलक्षणकथनम्

टीका

अत्र ‘आश्रयासिद्धः पक्षः’ ‘सपक्षाभावाद्विरुद्धः’ ‘असिद्धो हेतुः’ । ‘साध्यविकलो दृष्टान्तः’ इति पक्षसपक्षविपक्षाः प्रतिज्ञाहे-तुदृष्टान्ताश्च व्यवहृताः । न च पक्षादिस्वरूपानवगतौ उक्तदोष-स्फूर्तिर्भवतीति क्रमेण तल्लक्षणान्याह–

मिथ्यात्वानुमानखण्डनम्

साध्यधर्मविशिष्टः पक्षः

यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्मः’ इति नास्ति कश्चित् क्षुद्रोपद्रवः । साध्यग्रहणं सपक्षादिव्यावृत्त्यर्थम् । ‘साध्य-विशिष्टः’ इत्येवोक्ते वस्तुतोऽग्निविशिष्टस्य पर्वतस्य साध्यत्वात्त-द्विशिष्टस्यान्यस्य पक्षत्वं स्यात्तदर्थं धर्मग्रहणम् । धर्ममात्रस्य प्रागेव सिद्धत्वात् साध्यत्वानुपपत्तेर्विशिष्टग्रहणम् । तथा च साध्यत्वं धर्मस्य तत्सम्बन्धितयैव सिद्ध्यति । विशिष्टत्वं च धर्मधर्मिभावेनैव विवक्षितम् । न तु सम्बन्धमात्रेण । तेन साधनधर्मादा-वतिप्रसङ्गाभावान्न तदर्थं धर्मीति वक्तव्यम् ।

मन्दारमञ्जरी

पक्षसपक्षविपक्षाः प्रतिज्ञाहेतुदृष्टान्ताश्च व्यवहृता इति ।। यद्यपि विपक्षपदं प्रतिज्ञापदं चेहाचार्येण न प्रयुक्तं तथापि आत्मनोऽपि दृश्यत्वा-दित्यत्र विपक्षस्यात्मनोऽपि विवक्षितत्वाद्विपक्षोऽपि व्यवहृतः । तथा प्रतिज्ञादोषमाश्रयासिद्ध्यादिकं कथयता प्रतिज्ञाऽप्यर्थाद्व्यवहृतेति भावः । नास्ति कश्चिदिति ।। साध्यशब्देन किं सन्दिग्धो धर्मो विवक्षितः ? किं वा प्रतिज्ञापनीयः ? अथ वा प्रमित्सितः ? नाद्यः । प्रमाणसम्प्लवादिना निश्चितेऽपि अनुमानप्रवृत्तेरङ्गीकारात् । न द्वितीयः । स्वार्थानुमाने प्रयोज्य-कर्तुरभावेन प्रज्ञापनाभावात् । न तृतीयः । अनिष्टानुमानाभाव-प्रसङ्गादित्यादिरुपप्लवो नास्ति । लिङ्गजन्यप्रतीतिविषयधर्मस्य साध्यधर्मपदेन विवक्षितत्वादित्यर्थः ।। अग्निविशिष्टस्य पर्वतस्य साध्यत्वादिति ।। यथा अग्निः पर्वतसम्बन्धितया साध्यः तथा पर्वतोऽप्यग्निसम्बन्धितया साध्यः । स्वरूपमात्रसिद्धावपि विशिष्टासिद्धेरुभयत्र समत्वादित्यर्थः । एवं चाग्नि-विशिष्टस्य पर्वतस्यापीति अपिशब्दाध्याहारेण योज्यम् । अन्यथा साध्यत्वं धर्मस्य तत्सम्बन्धितयैवेत्युत्तरग्रन्थविरोधात् ।। तथा च साध्यत्वमिति ।। यद्यपि साध्यो धर्मो यस्येति बहुव्रीहेराश्रयितुं शक्यत्वाद्विशिष्टग्रहणं न लक्षणान्तर्गतं तथापि धर्मस्य न स्वरूपेण साध्यत्वमित्यर्थसूचकत्वाद्विशिष्ट-ग्रहणं सार्थकमित्यर्थः ।

साध्यधर्मविशिष्टत्वं साध्यधर्मसम्बन्धित्वम् । तच्च व्याप्यतया साधन-स्याप्यस्तीति तत्रातिव्याप्तिपरिहारार्थं कैश्चिद्धर्मिग्रहणं कृतम् । तन्न कर्तव्यमित्याह ।। विशिष्टत्वं चेति ।। विवक्षितमिति ।। धर्मिग्रहणं कुर्वताऽप्यवश्यं साध्यविशिष्टशब्देन साध्येन धर्मितया सम्बन्धित्वं विवक्षित्वैवातिव्याप्तिः परिहरणीया । न तु धर्मिग्रहणेन । साधनस्यापि स्वनिष्ठधर्मं प्रति धर्मित्वादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

उत्तरत्र भगवत्पादैः पक्षादीनां लक्षणं कथ्यते । तदसङ्गतम् । पूर्वं पक्षादेरप्रकृतत्वादित्यतोऽसङ्गतिपरिहाराय प्रकृतत्वमुपपादयति ।। अत्रे-त्यादिना । यद्यपि विपक्षप्रतिज्ञे आचार्यैर्न व्यवहृते । तथापि आत्मनोऽपि दृश्यत्वादित्यत्र विपक्षस्यात्मनोऽपीति विवक्षितत्वात्सोऽप्यर्थाद्व्यवहृतप्रायः । जगतोऽभावादाश्रयासिद्धः पक्ष इत्यादिना आश्रयासिध्यादिरूपप्रतिज्ञादोष-कथनेनार्थात्प्रतिज्ञाऽपि व्यवहृतप्रायेति द्रष्टव्यम् । ननु साध्यशब्देन किं सन्दिग्धो धर्मो विवक्षितः किं वा परं प्रति ज्ञापनीयः । न तावत्सन्दिग्ध-धर्मविशिष्टः पक्ष इत्याद्यो युक्तः । महानसे वह्नेः प्रत्यक्षसिद्धत्वेऽपि प्रत्यक्षसिद्धमपि वह्निं अनुमिनुयामिति अनुमित्सया यदाऽनुमानं प्रवर्तते तदा तदनुमानपक्षीभूते महानसे अव्याप्तिः । सन्दिग्धधर्मविशिष्टत्वाभावेन पक्षत्वाभावप्रसङ्गेनाव्यापकत्वात् । नापि परप्रतिज्ञापनीयधर्मविशिष्टः पक्ष इति द्वितीयः । स्वार्थानुमाने पक्षेऽव्याप्तेः । तत्र परस्यैवाभावात् इति क्षुद्रोपद्रवपरिहारायाह ।। यत्प्रतीतिरिति । तथा च लिङ्गजन्यप्रतीति-विषयधर्मस्यैव साध्यधर्मपदेन विवक्षितत्वात् सिषाधयिषया प्रवृत्तानुमान-स्वार्थानुमानसाध्ययोरपि लिङ्गजन्यप्रतीतिविषयत्वसद्भावात् तद्विशिष्टत्व-मुक्तानुमानद्वयसंबन्धिपक्षद्वयेऽप्यस्तीति नाव्याप्तिरूपक्षुद्रोपद्रव इत्यर्थः ।। सपक्षादीति । आदिपदेन विपक्षग्रहणम् । धर्मविशिष्टः पक्षः इत्युक्ते सपक्षे महानसे महानसत्वरूपधर्मविशिष्टत्वस्य विपक्षे ह्रदत्वादिधर्मविशिष्टत्वस्य सद्भावादतिव्याप्तिः स्यादतः साध्येत्युक्तम् । तथा च सपक्षे नाव्याप्तिः । महानसनिष्ठे महानसत्वरूपधर्मे लिङ्गजन्यप्रतीतिविषयत्वरूपसाध्यत्वाभावेन तद्विशिष्टत्वाभावात् । एवमेव विपक्षेऽपि नातिव्याप्तिः । तत्रत्यह्रदत्वादि-धर्मस्य निरुक्तसाध्यत्वाभावेन तद्विशिष्टत्वाभावादित्यर्थः । अग्निविशिष्टस्य पर्वतस्येत्यनन्तरमपिशब्दोऽध्याहार्यः । तथा च यथा अग्निः पर्वतसंबन्धितया साध्यः एवं पर्वतोऽप्यग्निसंबन्धितया साध्यः अग्निपर्वतयोः स्वरूपमात्रस्य सिद्धत्वेऽपि विशिष्टासिद्धेरुभयत्रापि समानत्वात् । एवं चाग्निविशिष्ट-पर्वतस्यापि साध्यत्वेन तद्विशिष्टस्यान्यस्य तदवयवस्य पक्षत्वं स्यात् । अतस्तत्रातिव्याप्तिपरिहाराय धर्मपदं दत्तम् । तथा चाग्निविशिष्टतया पर्वतस्य साध्यत्वेऽपि तस्य धर्मित्वेन धर्मत्वाभावान्न तद्विशिष्टस्यान्यस्य पक्षत्वमिति न तत्रातिव्याप्तिरित्यर्थः । विशिष्टपदकृत्यमाह ।। धर्ममात्र-स्येति । साध्यत्वानुपपत्तेरित्युपलक्षणम् । पक्षत्वानुपपत्तेश्चेत्यपि द्रष्टव्यम् । तथा साध्यधर्मः पक्ष इत्येवोक्ते वह्निरूपधर्मस्यैतदनुमानात्प्राक् यत्र कुत्रचित्सिद्धत्वेन लिङ्गजन्यप्रतीतिविषयत्वरूपसाध्यत्वानुपपत्तेः साध्यपद-धर्मपदयोर्विशेषणविशेष्यभावानुपपत्तिः । तस्य धर्मस्य पक्षत्वाभावादसंभवश्च स्यात् । अतस्तत्परिहाराय विशिष्टग्रहणं कृतमित्यर्थः । विशिष्टग्रहणेन कथमुक्तशङ्कापरिहार इत्यत आह ।। तथा चेति । पर्वतस्य साध्यधर्म-विशिष्टत्वोक्त्या वह्निरूपधर्ममात्रस्य प्रागेव सिद्धत्वान्न स्वरूपेण तस्य साध्यत्वम् । किन्तु पर्वतसंबन्धित्वेनैव । तस्य च पूर्वमसिद्धत्वाल्लिङ्गजन्य-प्रतीतिविषयत्वरूपं साध्यत्वं युक्तमिति विशेषणविशेष्यभावो युक्त इति विशिष्टग्रहणेन सूचितम् । तेनासम्भवश्च परिहृतो द्रष्टव्यः । अत्र साध्य-धर्मविशिष्टत्वं नाम साध्यधर्मसम्बन्धित्वमात्रम् । तच्च व्याप्यव्यापकभाव-सम्बन्धेन साधनरूपधर्मस्याप्यस्तीति तत्रातिव्याप्तिः स्यात्तदर्थं कैश्चिद्धर्मि-ग्रहणं कृतम् । यथाऽह । पक्षः साध्यान्वितो धर्मीति, सन्दिग्धसाध्यधर्मा धर्मी पक्ष इति च । तथा च धर्मधर्मिभावेनैव साध्यधर्मसम्बन्धित्वस्य विवक्षितत्वात्साधने च साध्येन सह धर्मधर्मिभावसम्बन्धाभावाद्धर्मिग्रहणेन तत्रातिव्याप्तिपरिहारः कृतः । स न कर्तव्य इत्याह ।। विशिष्टत्वं चेति । सम्बन्धमात्रेण । व्याप्यव्यापकभावादिसम्बन्धमात्रेण ।। तेनेति । धर्मधर्मिभावरूपसम्बन्धाभिप्रायकेण विशिष्टपदेनेत्यर्थः ।। अतिप्रसङ्गेति । अतिव्याप्तीत्यर्थः ।। वक्तव्यमिति । धर्मिपदं न पृथग्दातव्यमित्यर्थः ।।

मिथ्यात्वानुमानखण्डनपरशुः

व्यवहृता इति ।। यद्यपि प्रतिज्ञाविपक्षौ नाचार्यैः व्यवहृतौ तथापि आत्मनोऽपि दृश्यत्वादित्यत्र विपक्षस्यात्मनोऽपीति विवक्षितत्वा-त्प्रतिज्ञादोषं कथयतः प्रतिज्ञाया अपि विवक्षितत्वात् प्रतिज्ञाविपक्षौ व्यवहृताभिप्रायौ इत्यभिप्रेत्य व्यवहृता इत्युक्तमिति द्रष्टव्यम् । नन्वेतल्लक्षणं सिषाधयिषया प्रवृत्तानुमानपक्षे सिद्धधर्मवैशिष्ट्यसद्भावेन साध्यधर्म-वैशिष्ट्याभावात् अव्याप्तमित्यत आह यत्प्रतीतिरिति ।। साध्यधर्मो यस्येति बहुव्रीहिविग्रहाश्रयणेन साध्यधर्मविशिष्टलाभसंभवेऽपि यद्विशिष्टग्रहणं तत्प्रयोजनमाह ।। धर्ममात्रस्येति ।।

सपक्षलक्षणकथनम्

मिथ्यात्वानुमानखण्डनम्

साध्यसमानधर्मविशिष्टः सपक्षः

टीका

पक्षविपक्षयोरपि समानधर्मविशिष्टत्वात्तद्व्युदासार्थं साध्यग्रहणम् । समानग्रहणं च पक्षव्युदासार्थम् । समानत्वं च साध्यत्वमपहाय साक्षादेवेति नातिप्रसङ्गः । शेषं पूर्ववत् ।

विपक्षलक्षणम्

मिथ्यात्वानुमानखण्डनम्

साध्यविपरीतधर्मविशिष्टो विपक्षः

टीका

विपरीतो विरुद्धः । यथा अग्निमत्वसाधने निरग्निकत्वम् । तेन पक्षसपक्षयोरपि व्युदासः ।

मन्दारमञ्जरी

इति नातिप्रसङ्ग इति ।। समानत्वं किं सर्वथा ? उत कथञ्चित् ? नाद्यः । सन्दिग्धत्वादिना साम्यस्य महानसगताग्नावप्यभावात् । न द्वितीयः। अग्न्यभावस्यापि प्रमेयत्वादिना साध्यसमत्वेन तद्वतो विपक्षस्यापि सपक्षता-प्रसङ्गादित्ययं दोषो नास्ति । सन्दिग्धत्वादिकं विना व्यापकतावच्छेदकाग्नि-त्वादिनाऽपि विद्यमानसाम्यस्य विवक्षितत्वात् । न हि धूमव्यापकत्व-मग्नित्वेनेव प्रमेयत्वेनावच्छिद्यते । प्रमेयत्वस्य धूमाव्यापके घटादावसत्त्वात् । अतिप्रसक्तस्य चावच्छेदकत्वायोगादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

पक्षविपक्षयोरपीति । द्रव्यत्वप्रमेयत्वादिरूपसपक्षसमानधर्मविशिष्ट-त्वादतिव्याप्तिरित्यर्थः । साध्यधर्मविशिष्टः सपक्ष इत्युक्ते पक्षेऽतिव्याप्ति-स्तदर्थं समानग्रहणं कृतमित्याह ।। समानेति । तस्य साध्यधर्मेणैव विशिष्टतया समानधर्मविशिष्टत्वाभावान्नातिव्याप्तिरित्यर्थः । ननु साध्यग्रहणेन कथं पक्षविपक्षयोरतिव्याप्तिपरिहारः । द्रव्यत्वप्रमेयत्वादेरपि साध्यसमान-धर्मत्वेन तद्विशिष्टत्वस्य तयोरपि सद्भावात् । किं च सपक्षगतधर्मस्य साध्यसमानधर्मत्वं सर्वथा विवक्षितम् उत यथाकथंचित् । नाद्यः । सन्दिग्धत्वादिना साध्यसमानत्वस्य महानसगताग्निरूपधर्मेऽभावादसम्भवः स्यात् । न द्वितीयः । अग्न्यभावस्यापि प्रमेयत्वादिना साध्यसमानत्वेन विपक्षस्यापि सपक्षत्वप्रसङ्गादित्यत आह ।। समानत्वं चेति । साध्यत्वं सन्दिग्धत्वम् । उपलक्षणमेतत् । द्रव्यत्वप्रमेयत्वादिकमपि द्रष्टव्यम् । अयं भावः । सपक्षगतवह्निरूपधर्मस्य साध्यसमानत्वम् । साक्षाद्व्यापकता-वच्छेदकभूतं यद्वह्नित्वं तेनैव विवक्षितम् । नान्येन । न हि वह्निगतधूम-व्यापकतावच्छेदकं द्रव्यत्वप्रमेयत्वादिकं भवितुमर्हति । धूमव्यापके घटादौ विद्यमानत्वेनातिप्रसक्तस्यावच्छेदकत्वाभावात् । तथा च नासंभवः । नापि पक्षेऽतिव्याप्तिः । तत्र व्यापकतावच्छेदकीभूतवह्नित्वविशिष्टवह्नेरेव सत्त्वेन तत्समानधर्मविशिष्टत्वाभावात् । नापि विपक्षेऽतिव्याप्तिः । वह्नित्वावच्छिन्न-पक्षीयवह्निसमानवह्निरूपधर्मविशिष्टत्वाभावात् । तथा च न कोऽप्यतिप्रसङ्ग इति ।। शेषं पूर्ववदिति । वह्निविशिष्टपर्वतस्यापि साध्यत्वेन द्रव्यत्वादिना साध्येन पर्वतेन समानो यो महानसः तद्विशिष्टस्यान्यस्य तदवयवस्य सपक्षत्वं स्यादिति धर्मपदम् । तथा च महानसस्य धर्मित्वेन धर्मत्वा-भावान्नोक्तदोष इति । शेषम् अवशिष्टधर्मपदकृत्यं पूर्ववत् पक्षलक्षणगत-धर्मपदकृत्यरीत्या द्रष्टव्यमित्यर्थः । मूले साध्यविपरीतेत्यत्र साध्यतत्समान-धर्मविपरीतधर्मविशिष्ट इति व्याख्येयम् । अन्यथा साध्यधर्मवान्विपक्ष इत्युक्ते सपक्षेऽतिव्याप्तिप्रसक्त्यभावेन विपरीतपदेन तद्व्युदासकथनायोगादिति द्रष्टव्यम् । विपरीतधर्मं दर्शयति ।। यथेति । तेन विपरीतग्रहणेन । तथा च साध्यधर्मविशिष्टो विपक्ष इत्युक्ते पक्षेऽतिव्याप्तिः । समानधर्मविशिष्ट इत्युक्ते सपक्षेऽतिव्याप्तिः । तदर्थं विपरीतपदम् । तथा च पक्षस्य साध्यविपरीत-धर्मविशिष्टत्वाभावात् । सपक्षस्य च साध्यसमानधर्मविपरीतधर्मविशिष्टत्वा-भावान्नातिव्याप्तिरिति भावः। विपरीतपदाभावेऽसंभवश्च स्यादिति द्रष्टव्यम् ।।

श्रीगुरुराजीयटिप्पणी

शेषं पूर्ववदिति ।। विशिष्टत्वं च धर्मधर्मिभावेनैव विवक्षितम् । न तु सम्बन्धमात्रेण । तेन साधनधर्मादौ नातिव्याप्तिरित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

धर्ममात्रस्यानुमानात्प्रागेव सिद्धत्वेन साध्यत्वासंभवात् । साध्यधर्मो यस्येति विग्रहाश्रयणमनुपपन्नमित्याशङ्कानिरासाय बहुव्रीहिमनाश्रित्य साध्यधर्मविशिष्ट इति उक्तम् ।। धर्मिसङ्ग्रहार्थमुपात्तेनापि विशिष्टपदेन धर्ममात्रस्यासाध्यत्वानुपपत्तावपि धर्मिसंबन्धितया साध्यत्वमुपपन्नमिति सूचयाम्बभूवेति भावः । समानत्वं चेति । साध्यत्वातिरिक्त-साधारणधर्मेणेत्यर्थः । व्यापकतावच्छेदकधर्मेणेति भावः ।

प्रतिज्ञालक्षणम्

मिथ्यात्वानुमानखण्डनम्

पक्षवचनं प्रतिज्ञा

टीका

नन्वेवं सति ‘पक्षः’ इत्यादेः प्रतिज्ञात्वं स्यात् । न स्यात् । येनाकारेण योऽर्थः परं प्रति जिज्ञापयिषितः तथा तन्निर्देशस्य विवक्षितत्वात् । अत एव न निगमने प्रसङ्गः ।

मन्दारमञ्जरी

येनाकारेणेति ।। न च पक्ष इत्यादिकं तथा । पक्षत्वाकारस्य पर्वतसम्बन्धित्वेन वह्निं जिज्ञासमानेन परेणाजिज्ञासितत्वेन प्रतिजानतापि पुरुषेण तस्याजिज्ञापयिषितत्वात् । यत्र तु पक्षत्वमेव जिज्ञापयिषितं तत्र ‘अयं पक्षः’ इति वचनमपि प्रतिज्ञा भवतीति भावः ।। अत एवेति ।। निगमने हि साधनोपलक्षितो वह्निः पर्वतसम्बन्धितया निदर्श्यते । न च साधनोपलक्षितो वह्निर्जिज्ञापयिषितः । पक्षसम्बन्धितया साध्यस्यैव जिज्ञापयिषितत्वात् । साधनस्य तज्ज्ञानोपायत्वेनोपादानादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

स्यादिति । तथा चातिव्याप्तिरिति भावः । ननु पक्ष इत्यादेः वचनस्य कथं प्रतिज्ञात्वं नास्तीत्यत आह ।। येनाकारेणेति । येन पर्वत-सम्बन्धित्वाकारेण योऽर्थो वह्न्यादिरूपः परं प्रति जिज्ञापयिषितो ज्ञापयितुमिष्टः । तथा पर्वतसंबन्धित्वेनैव रूपेण तन्निर्देशस्य पक्षवचनपदेन विवक्षितत्वात् । तादृशश्चाकारः पर्वतो अग्निमानित्यादिरूप इत्यर्थः । तथा च पक्ष इति वचनस्य न प्रतिज्ञात्वं प्रसज्यते । वह्निं जिज्ञासमानं परं प्रति पक्षत्वाकारस्य पर्वतसम्बन्धित्वेन जिज्ञापयिषितत्वाभावात् । यत्र तु कदाचित्पक्षः क इति पक्षत्वमेव जिज्ञासितं तदा तं प्रति अयं पक्ष इति वचनमपि प्रतिज्ञा भवत्येवेति भावः ।। अत एवेति । पक्षवचनमित्यस्य येनाकारेणेत्याद्यर्थस्य विवक्षितत्वादेवेत्यर्थः । अन्यथा तस्माद्वह्निमानेवेति निगमनस्यापि पक्षवचनत्वेनातिव्याप्तिः स्यात् । एवं विवक्षायां तु न तत्रातिव्याप्तिरूपोऽतिप्रसङ्गः । निगमने हि येन पर्वतसम्बन्धित्वाकारेण योऽर्थो वह्निरूपोऽर्थः परं प्रति जिज्ञापयिषितस्तथा पर्वतसंबन्धित्वेनैव रूपेण वह्निनिर्देशो नास्ति । किन्तु तस्माद्धूमवत्त्वादिति साधनोपल-क्षितवह्नेरेव पर्वतसंबन्धितया निर्दिश्यमानत्वात् । न च साधनोपलक्षितो वह्निर्जिज्ञापयिषितः । किन्तु पक्षसम्बन्धितया साधनानुपलक्षितवह्नेरेव जिज्ञापयिषितत्वात् । तर्हि निगमने तस्मादित्यंशोपादानं किमर्थमिति चेन्न । वह्निज्ञापनोपायत्वेनैव तदुपादानं न तु वह्निवत्परं प्रति तस्यापि ज्ञापनार्थत्वेन सिद्धत्वादिति भावः ।।

मिथ्यात्वानुमानखण्डनपरशुः

अत एवेति । येनाकारेण धर्मो जिज्ञापयिषितेनैवाकारेणेत्युक्तत्वादेव तथेत्येवकारकपक्षवचने निगमने नातिप्रसङ्ग इत्यर्थं न्यायवाक्यावयत्वं च विशेषण विवक्षितम् । तेन पर्वतो वन्हिमानित्येवमाकारकस्य बाह्य-वाक्यनिरासः ।

हेतुलक्षणम्

मिथ्यात्वानुमानखण्डनम्

लिङ्गं हेतुः

टीका

व्याप्तिबलेन अर्थगमकं लिङ्गम् ? यद्यपि हेतुशब्दः साधनत्वाभि व्यञ्जकलिङ्गवचने प्रसिद्धः तथाप्यर्थस्यैवात्र विवक्षितत्वात्तल्लक्षण-मेवोक्तमिति अर्थे वर्तते ।

मन्दारमञ्जरी

अर्थस्यैवात्र विवक्षितत्वादिति ।। असिद्धो हेतुरित्यत्र अर्थासिद्धे-रेवोक्तत्वेन तस्यैवात्र विवक्षितत्वादित्यर्थः ।। तल्लक्षणमेवोक्तमिति ।। लिङ्गमित्यनेन हेतुशब्दार्थलक्षणमेवोक्तमित्यर्थः ।। अर्थे वर्तत इति ।। हेतुशब्द इत्यनुवर्तते ।

श्रीनिवासतीर्थीयटिप्पणी

साधनत्वाभिव्यंजके पञ्चम्यन्ते तृतीयान्ते वा ।। प्रसिद्ध इति । लिङ्गस्य वचनं हेतुः साधकत्वप्रकाशकमिति वचनादित्यर्थः । तथापि अर्थे वर्तत इत्यन्वयः । लक्षणयेति शेषः । प्रतिपाद्यप्रतिपादकभावो लक्षणाबीजसंबन्ध इति भावः । कुत इत्यत आह ।। अर्थस्यैवेति । अत्र ग्रन्थे पूर्वमसिद्धो हेतुरिति दृश्यत्वरूपार्थस्यैवासिद्धिरुक्ता । हेतुरिति तदर्थो लिङ्गमुच्यते इति व्याख्यातत्वादतोऽत्र लिङ्गं हेतुरिति वचनार्थकहेतुशब्दोपलक्षितार्थस्यैव लक्षणमुक्तमित्यर्थः ।।

दृष्टान्तलक्षणम्

मिथ्यात्वानुमानखण्डनम्

निदर्शनं दृष्टान्तः

टीका

निदर्श्यते साध्यसाधनयोर्धर्मयोर्व्याप्तिर्यस्मिन् तन्निदर्शनम् । व्याप्तिग्रहणस्थलमिति यावत् । तद्वचनमुदाहरणं प्रसिद्धमेवेति ।

मन्दारमञ्जरी

व्याप्तिग्रहणस्थलमिति ।। यत्र सतोर्व्याप्यव्यापकयोर्व्याप्तिर्गृह्यते तद्व्याप्तिग्रहणस्थलमिति द्रष्टव्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

व्याप्तिग्रहणस्थलमिति । उक्तं च परेण व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयत इति । ननु भगवत्पादैरुदाहरणलक्षणं वक्तव्यम् । यदित्थं तत्तथा यथा संप्रतिपन्नमित्युदाहरणस्यापि व्यवहृतत्वात् । अतो न्यूनतेत्या-शङ्क्य दृष्टान्तलक्षणकथनेन तदपि लक्षितप्रायमेव । अतो न न्यूनतेत्या-शयेनाह ।। तद्वचनमिति । सम्यग्व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमित्यर्थः । उक्तं च परेण । द्विधोदाहरणं सम्यग्व्याप्तिनिर्देशपूर्वकम् । दृष्टान्तवचनं तत्स्यादिति ।

श्रीगुरुराजीयटिप्पणी

ननु प्रतिज्ञादिसमकक्षतयोदाहरणलक्षणं वक्तव्यम् । तत्कथं दृष्टान्त-लक्षणमात्रकथनमित्यत आह ।। तद्वचनमिति ।। अतो हेतोर्न तस्या-नभिधानं दोषायेति शेषः ।

ग्रन्थान्ते मङ्गलाचरणम्

टीका

यत्प्रसादात् यत्प्रीत्यैव च इदं प्रकरणं कृतवांस्तमेवाचार्योंऽते स्तुतिप्रणामाभ्यां प्रीणयति

मिथ्यात्वानुमानखण्डनम्

यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना ।

निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं

प्रपञ्चमिथ्यात्वानुमानखण्डनं सम्पूर्णम्

टीका

दृश्यते इत्यनेन ‘दृश्यते त्वग््रयया बुद्ध्या’ इत्यादिश्रुतिं सूचयति । तेन यदुक्तम् ‘आत्मनोऽपि दृश्यत्वात्’ इति तदुपपादितं भवति । दृश्यते चेद्रूपादिमत्त्वेनानित्यत्वं प्रसज्ज्येतेति चेन्न । निर्दोषानन्द-नित्याभिव्यक्तज्ञानात्मकत्वेन अजडत्वात् । तदाह ।। सदानन्देति ।। इत्थम्भूतलक्षणे तृतीया । न केवलं निर्दोषानन्दचिदात्मकः । नाप्य-भेदात् गुणगुणिभावाभाव इत्युक्तं निर्दोषेति ।। कल्याणत्वं परिपूर्ण-त्वादिना । रमापतिमित्यनेन भगवती चापि वन्दिता भवतीति ।

उत्पत्तिस्थितिभङ्गं विश्वं यस्मात्प्रपद्यते पुरुषात् ।

स जयति जगतामन्तर्यामी स्वामी रमानाथः ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित प्रपञ्चमिथ्यात्वानुमानखण्डनविवरणं जयतीर्थभिक्षुविरचितं सम्पूर्णम् ।।

मन्दारमञ्जरी

नाप्यभेदादिति ।। चिदात्मनेत्युक्त्या अभेदात्प्रसक्तो यो गुणगुणि-भावाभावः सोऽपि नेति गुणग्रहणं कुर्वतोक्तमित्यर्थः । अभेदेऽपि विशेषबलाद्गुणगुणिभावो भविष्यतीति भावः ।

अभीष्टफलदातारं शुकादिद्विजसेवितम् ।

भवाध्वाटनखिन्नोऽहं विष्णुमन्दारमाश्रये ।।

।। इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण

व्यासतीर्थयतिना विरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिका

भावप्रकाशिका मन्दारमञ्जरी सम्पूर्णा ।।

श्रीनिवासतीर्थीयटिप्पणी

मूले चिदात्मनेत्यस्य चिदात्मकविग्रहवत्त्वेनेत्यर्थो द्रष्टव्यः ।। दृश्यत इति । श्रवणमननसहकृतया बुध्या ध्यानेन दृश्यते अपरोक्षीक्रियत इत्यर्थः । अथवा । बुद्ध्या अपरोक्षज्ञानेन दृश्यते विषयीक्रियत इत्यर्थो द्रष्टव्यः । आदिपदेन आत्मा वा ओ द्रष्टव्य इत्यादिश्रुतिग्रहणम् । तेन श्रुतिसूचनेन ।। उपपादितमिति । श्रुतिसम्मत्येति भावः । रूपादिमत्त्वेनेति । शरीरेन्द्रियादिमत्त्वेनेत्यर्थः । अनित्यत्वं मरणम् । दृश्यत्वोक्त्या शरीरादि-मत्त्वं प्राप्तम् । शरीरेन्द्रियादिमतश्चानित्यत्वं नियतम् । जडशरीरादे-स्तदापादकताया जीवे दृष्टत्वादिति भावः ।। अजडत्वादिति । रूपादेरिति शेषः । जडशरीरस्यैवानित्यत्वापादकत्वेन भगवच्छरीरस्य ज्ञानानन्दा-द्यत्मकतया तदभिन्नत्वेन अजडत्वान्नानित्यत्वापादकत्वमिति भावः । तथा च श्रुतिः । यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमात्मको भगवान् । ज्ञानात्मक ऐश्वर्यात्मकः सुखशक्त्यात्मक इति ।

ननु कर्तृकरणयोस्तृतीयेति सूत्रेण कर्तरि करणे च तृतीया विहिता । व्यासेन कृतं बाणेन इत्युदाहरणम् । प्रकृते च दृश्यत इत्युक्तं दर्शनक्रियां प्रति चिदानंदात्मनेत्यस्य कर्तृकरणत्वयोरभावात्कथं तृतीयेत्यत आह । इत्थंभूतलक्षण इति । इत्थंभूतलक्षणे तृतीया । कञ्चन प्रकारं प्राप्त इत्थं-भूतः । तल्लक्षणे तज्ज्ञापके तृतीया स्यात् । यथा छात्रेणोपाध्यायमद्राक्षी-दिति । अत्रोपाध्यायत्वरूपप्रकारं प्राप्त उपाध्याय इत्थंभूतः । तत्र उपाध्यायत्वरूपप्रकारस्यान्यत्र प्रसक्तिपरिहाराय तज्ज्ञापके छात्रे तृतीया भवति । एवं दृश्यत इति दर्शनविषयत्वरूपप्रकारं प्राप्तो रमापतिरित्थंभूतः । तत्र दर्शनविषयत्वं केन प्रकारेण किं निर्गुणत्वेन वा अन्येन वा प्रकारेणेति शङ्कायां दर्शनविषयत्वरूपप्रकारज्ञापकं चिदात्मकत्वमिति तत्र तृतीया युक्तेत्यर्थः ।। न केवलमिति । निर्दोषेति सच्छब्दार्थानुवादः । आनन्द-ज्ञानरूपगुणद्वयात्मक एव न भवतीत्यर्थः ।। नाप्यभेदादिति । चिदात्म-नेत्युक्त्या अभेदाद्गुणगुणिभावाभावः प्रसक्तः । सोऽपि नास्तीत्यर्थः ।। इत्युक्तमिति । इत्याशयेनोक्तमित्यर्थः ।। निर्दोषेतीति । केवलमानन्द-चिदात्मक एव न भवतीत्येतत् अखिलेत्यनेनोक्तम् । अभेदाद्गुण-गुणिभावाभावो नेत्येतत् कल्याणाः गुणाः यस्यासौ तथोक्त इत्यनेनोक्तम् । अभेदेऽपि भेदकार्यकारी यो विशेषस्तद्बलाद्गुणगुणिभावो युक्त इत्यभिप्रायः । गुणानां कल्याणत्वं नाम कीदृशमित्यत आह ।। परिपूर्णत्वादिनेति । परिपूर्णत्वं नाम प्रत्येकमपरिच्छिन्नत्वम् । आदिपदेन भगवदात्मकत्वादि-ग्रहणम् । गुणानां सङ्ख्यया आनंत्यस्याखिलेत्यनेनोक्तत्वाद्गुणानां प्रत्येकं निःसीमत्वापरपर्यायपरिपूर्णत्वरूपं यद्गुणत आनंत्यं तत्कल्याणपदेनोक्तम् । प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते । तदानंत्यं हि गुणतस्ते चानन्ता हि सङ्ख्ययेति वचनादिति भावः । भगवती महालक्ष्मीः ।। अभिवन्दि-तेति ।। भगवद्विशेषणत्वेनेत्यर्थः । पूर्वार्धे यच्छब्दश्रवणात् उत्तरार्धे तमित्यध्याहार्यम् ।। समापितग्रन्थो भगवांष्टीकाकारोऽन्तेऽपि मङ्गल-माचरति ।। उत्पत्तीति ।। विश्वं कर्तृ । भङ्गमिति द्वितीया । परोदीरित-प्रपञ्चमिथ्यात्वप्रमाणस्याभासताव्युत्पादनेन सत्यभूतजगदुदयादिनिमित्त-कारणत्वरूपं यत् परब्रह्मलक्षणं जन्माद्यस्य यत इति भगवता सूत्रकारेणोक्तं तदत्र समर्थितम् । तदभिप्रायेणोक्तम् । उत्पत्तीत्यादि । उत्पत्तिश्च स्थितिश्च भङ्गश्चेति द्वन्द्वः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीति एकवद्भावं सनपुंसकम् । यस्यैकवद्भावः सनपुंसकं स्यादिति नपुंसकत्वं चाश्रित्योत्पत्ति-स्थितिभङ्गमित्युक्तमिति ज्ञातव्यम् । जयति उत्कृष्टो वर्तते । इत्यशेषमति-मङ्गलम् ।।

यादवाचार्यहृत्पद्मगतश्रीमध्वहृद्गतः ।

प्रीयतामनया ग्रन्थकृत्या व्यासो गुणाकरः ।। १ ।।

श्रीमध्वकृतसिद्धान्तं योऽभ्यधात्स्नेहतो मयि ।

तं वंदे यादवाचार्यगुरुं शिष्यकृपानिधिम् ।।

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिका संपूर्णा ।।

श्रीगुरुराजीयटिप्पणी

शिष्टं चिरन्तनटीकायां स्पष्टम् । तत एव प्रतिपत्तव्यम् ।

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते यस्मात् ।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ।।

इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां परमहंसपरिव्राजकाचार्याणां श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्यकेशवभट्टाचार्यविरचितं मिथ्यात्वानुमानखण्डनविषमपदवाक्यार्थविवरणं समाप्तम् ।।

मिथ्यात्वानुमानखण्डनपरशुः

ननु चिदात्मनेति तृतीयाऽनुपपन्ना । कर्तृकरणयोस्तृतीयेति कर्तृत्व-करणवाचकत्वाभिधानात् । प्रकृते च जीवस्य कर्तृत्वेन तदिन्द्रियाणां करणत्वेन चिदात्मनः कर्तृत्वकरणत्वयोरन्यतरस्याभावादित्यत आह । इत्थंभूतेति ।। विनाशयोग्यत्वरूपप्रकारं प्राप्तस्येश्वरस्य ज्ञापनाय केचिदात्मक इत्थंभूतलक्षणेति सूत्रेण तृतीयेत्यर्थः । यद्यपि विनाशयोग्य-चिदात्मकश्च एक एवेति न ज्ञाप्यज्ञापकभावः । तथापि चिदात्मकत्वेन विनाशयोग्यत्वं ज्ञाप्यमिति विनाशयोग्यत्वावच्छिन्नतया ईश्वरस्य ज्ञाप्यत्वं चिदात्मकत्वावछिन्नतयेश्वरस्य ज्ञापकत्वमस्त्येवेति न तृतीयानुपपत्तिरिति द्रष्टव्यम् ।।

इति श्रीमत्सत्यनिधितीर्थश्रीमच्चरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितः मिथ्यात्वानुमानखण्डनपरशुः समाप्तः ।।

आलोड्य सर्वशास्त्राणि अतिगूढार्थबुद्धितः ।

सर्ववादिजयश्रेष्ठानहं वन्दे गुरून्सदा ।।

श्रीकृष्णार्पणमस्तु

 

।। श्री मध्वराजो विजयते ।।

श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

प्रपञ्चमिथ्यात्वानुमानखण्डनोपन्यासः

ननु ‘‘यतो वा इमानि भूतानि जायन्त’’ इति श्रुत्या ‘‘जन्माद्यस्य यत’’ इति भगवता सूत्रकारेण च जगज्जन्मादिकारणत्वं परस्य ब्रह्मणो लक्षणमुक्तम् । तदयुक्तम् । जगज्जन्मादिकारणत्त्वस्यावास्तवत्वेन तत्प्रतिपादकत्वे श्रुतिसूत्रयोरतत्त्वावेदकत्वापत्त्या अप्रामाण्यप्रसङ्गात् । न च जगज्जन्मादिकारणत्वस्यावास्तवत्वस्यैवासिद्धेः तत्प्रतिपादकत्वेऽपि श्रुतिसूत्र योरतत्त्वावेदकत्वापत्तिरिति वाच्यम् । जगतोऽवास्तवत्वेन जगज्जन्मादि-कारणत्वस्यावास्तवत्वसिद्ध्या तदसिद्धेर्वक्तुमशक्यत्वात् । न च साधक-प्रमाणाभावेन जगदवास्तवत्वस्याप्यसिद्धेः कथं जगज्जन्मादिकारण-त्वस्यावास्तवत्वसिद्धिः स्यादिति वाच्यम् । विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा संप्रतिपन्नमित्यानुमानस्यैव जगदवास्तवत्वसाधकत्वेन जगज्जन्मादिकारणत्वस्यावास्तवत्वसिद्धेः संभवादिति चेत् ।। अत्र ब्रूमः । उक्तानुमानस्याभासतया तेन जगतोऽवास्तवत्वसिद्धेः असंभवेन तेन जगज्जन्मादिकारणत्वस्यावास्तवत्वसिद्धेः दूरनिरस्तत्वात् ।

तथाहि । अत्र साध्यमानं मिथ्यात्वं किमत्यन्तासत्त्वं स्यादनिर्वचनीयत्वं वा स्यात्सद्विविक्तत्वं वा स्यात् स्वात्यंताभावसमानाधिकरणतया प्रतीयमानत्वं वा स्यादिति विकल्पयामः । नाद्यः । तथा सति जगतोऽत्यन्तासत्त्वापत्त्या मिथ्यात्वरूपसाध्यधर्मस्याश्रयशून्यतया आश्रयासिद्ध्यापत्तेः ।। किञ्च जगतोऽसद्विलक्षणत्वस्य सिद्धान्तत्वेन जगदसत्त्वस्य तद्विरुद्धत्वेन तत्साधने अपसिद्धान्तापत्तेः ।

नाप्यनिर्वचनीयत्वमिति द्वितीयः पक्षः संभवति । तत्राप्यनिर्वचनीयत्वं नाम निर्वचनानर्हत्वं वा स्यात् सदसद्विलक्षणत्वं वा स्यात्, इति विकल्पयामः । नाद्यः । सर्वस्यापि निर्वचनार्हत्वेन निर्वचनानर्हत्वस्यै-तदनुमानात् प्रागसिद्धत्वेन तत्साधनेऽप्रसिद्धविशेषणत्वापत्तेः । न द्वितीयः । तत्रापि सदसद्विलक्षणत्वं नाम सदसद्भिन्नत्वं वा सदसत्वानाश्रयत्वं वा । आद्येऽपि सदसद्यदेकं तद्भिन्नत्वं साध्यतयाऽभिप्रेतम् । उत सद्भिन्नत्वं असद्भिन्नत्वं च प्रत्येकं धर्मद्वयं वा सद्भिन्नत्वसहितमसद्भिन्नत्वं वा सद्भिन्नत्वविशिष्टमसद्भिन्नत्वं वा स्यादिति विकल्पयामः । न तावदाद्यः । सदेकस्वभावे जगति सदसद्रूपतायाः मयाऽनङ्गीकारेण सद्रूपं यदेकं तद्भिन्नत्वस्य मां प्रति संमतत्वेन तत्साधने सिद्धसाधनतापत्तेः । नापि द्वितीयः । असद्भिन्नत्वांशस्य प्रपञ्चे मां प्रति सिद्धत्वेन तत्साधने सिद्धसाधनत्वापत्तेः । नापि तृतीयः । पर्वतः शिलात्मकोऽग्निमांश्चेत्यादिवत् सिद्धस्यासिद्धेन सहोच्यमानस्यापि सिद्धत्वात् इति न्यायेन सिद्धसाधनत्वस्य दुर्वारत्वात् । न चतुर्थः । सतोऽपि प्रपञ्चस्य सदन्तरविलक्षणत्वाङ्गीकारेण सद्भिन्नत्वस्य मयाऽप्यङ्गीकारेण सद्भिन्नत्वविशिष्टासद्भिन्नत्वस्य सिद्धत्वेन तत्साधने सिद्धसाधनतापत्तेः ।

नापि सदसद्विलक्षणत्वं नाम सदसत्वानाश्रयत्वमिति द्वितीय पक्षः संभवति । तत्रापि सदसत्वरूपं यद्विशिष्टं तदनाश्रयत्वं साध्यमिति अभिप्रेतं स्यात् । सत्त्वानाश्रयत्वमसत्वानाश्रयत्वरूपं धर्मद्वयं वा स्यात् । सत्त्वा-नाश्रयत्वविशिष्टमसत्त्वानाश्रयत्वं वा सर्वथा सत्त्वानधिकरणत्वे सति असत्त्वानाधिकरणत्वे सति सदसत्वानधिकरणत्वं वा इति विकल्पयामः । नाद्यः । सत्त्वैकस्वभावस्य प्रपञ्चस्य सदसत्त्वस्य मयाऽप्यनङ्गीकारेण सदसत्त्वानाश्रयत्वसाधने सिद्धसाधनतापत्तेः । न द्वितीयः । असत्त्वा-नाश्रयत्वांशस्य मां प्रति सिद्धतया सिद्धसाधनतापत्तेः । नापि तृतीयः । घटादेर्देशकालादिपरिच्छिन्नस्यान्यदेशकालयोः सत्त्वानाश्रयत्वस्यैतद्देशकाल-योरसतानाश्रयत्वस्य च त्वयाऽप्यङ्गीकारेण सत्त्वानाश्रयत्वविशिष्टा-सत्त्वानाश्रयत्वस्य सिद्धत्वेन तत्साधने सिद्धसाधनत्वापत्तेः । न चतुर्थः । सर्वथा सत्त्वानाश्रयत्वे सत्यसत्त्वानाश्रयत्वे सति सदसत्त्वानाश्रयत्वस्यै तदनुमानात्प्रागसिद्धत्वेन तत्साधकत्वेऽप्रसिद्धविशेषणतापत्तेः ।

नापि सत्यविविक्तत्वं मिथ्यात्वमिति तृतीयः पक्षः सम्भवति । तत्रापि सत्यविविक्तत्वं नाम सत्यभिन्नत्वं वा सत्यत्वानाश्रयत्वं वा बाध्यत्वं वा । नाद्यः । सत्यस्यापि प्रपञ्चस्य सत्यान्तरभिन्नतायाः मयाऽङ्गीकारेण प्रपञ्चे सत्यभिन्नत्वस्य मां प्रति सिद्धत्वेन तत्साधने सिद्धसाधनतापत्तेः । नापि द्वितीयः । तत्रापि सत्यत्वं नाम अर्थक्रियादिलक्षणं वा व्यवहारातीतत्व-लक्षणपारमार्थिकत्वं वा स्यादिति विकल्पयामः । नाद्यः । प्रपञ्चे अर्थक्रियासामर्थ्यादिलक्षणसत्वस्य त्वयाऽप्यङ्गीकृतत्वेन तदनाश्रयत्वसाधने अपसिद्धान्तापत्तेः । नापि द्वितीयः । व्यवहारातीतत्वलक्षणपारमार्थिकत्वा-नधिकरणत्वस्य प्रप्रञ्चे मयाऽप्यङ्गीकारेण तत्साधने सिद्धसाधनतापत्तेः । नापि सत्यविविक्तत्वं नाम बाध्यत्वमिति तृतीयः पक्षः संभवति । तत्रापि बाध्यत्वं नाम, अन्यथाविज्ञातस्य सम्यग्ज्ञानगोचरत्वं वा प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा । नाद्यः । मिथ्यात्वक्षणिकत्वादिना विज्ञातस्य प्रपञ्चस्य अक्षणिकत्वमिथ्याप्रकारकबाधकज्ञानविषयत्वेनास्माभि-रप्यङ्गीकृतत्वेन सिद्धसाधनत्वात् । न द्वितीयः । मिथ्यात्वलक्षणे सत्तामात्रनिषेधो वा अभिप्रेतः । पारमार्थिकत्वनिषेधो वा । नाद्यः । तथात्वे व्यावहारिकसत्वस्यापि अभावापत्त्या तदाश्रयेणानाश्रयत्वसमर्थनभङ्गा-नापत्तेः । न द्वितीयः । तथात्वे पारमार्थिकत्वज्ञाने, तन्निषेधलक्षणबाध्यत्व-ज्ञानं, त्त्तेन चाबाध्यत्वरूपपारमार्थिकत्वज्ञानमिति परस्परज्ञानार्थं परस्पर-ज्ञानापेक्षायामन्योन्यान्याश्रयापत्तेः । नापि भ्रान्तिसिद्धा सत्ता व्यावहारिकी सत्तेति द्वितीयपक्षः सम्भवति । तथापि भ्रान्तिसिद्धस्यास्तित्वे भ्रान्तित्वस्या-योगात् । सत्ता नास्तीत्यसत्वस्यैव व्यावहारिकसत्तास्वीकारेणानाश्रयत्व-परिहारानुपपत्तेः । न च प्रतीतिसाध्यमात्रस्यैवाश्रयत्वे प्रयोजकत्वेन सत्त्वस्य तत्राप्रयोजकत्वेन जगतः सत्त्वाभावेऽपि प्रतीयमानत्वेनाश्रयत्वप्रयोजकी-भूतायाः प्रतीतेः विद्यमानत्वेन मिथ्यात्वरूपसाध्यधर्मं प्रति आश्रयत्व-सम्भवात् नाश्रयासिद्धिरिति वाच्यम् । तथा सति सुरभितासाधने गगनारविन्दस्याश्रयत्वापत्त्या तत्राश्रयासिद्ध्यभावापत्तेः । न च गगनार-विंदस्य निरुपाख्यत्वेनाश्रयत्वप्रयोजकप्रतीतेरेवाभावेन न सुरभिता साधने तस्याश्रयत्वमिति वाच्यम् । तथापि शब्दात् गगनारविंदस्य सत्ताप्रतीति-दशायां तस्याश्रयत्वोपपत्त्या तत्र सुरभितासाधने आश्रयासिद्धेर-नुद्घाटनीयत्वापत्तेः । न चेष्टापत्तिरिति वाच्यम् । तथा सति तस्य सदनुमानत्वापत्त्या इष्टापत्तेर्वक्तुमशक्यत्वात् । न च अङ्गान्तरवैकल्यान्न सदनुमानत्वमिति वाच्यम् ।। अकाल्पनिकाङ्गसाकल्यस्य त्वन्मते कुत्राप्य-भावात् । काल्पनिकाङ्गसाकल्यस्य च सर्वत्र सौलभ्यात् सर्वस्याप्यनुमानस्य दुष्टताया एव प्रसङ्गेन किञ्चित् दुष्टं किञ्चिददुष्टमिति दुष्टादुष्टविभागभङ्गा-पत्तेः । न चाङ्गसाकल्यस्य काल्पनिकत्वेऽपि यत्राङ्गसाकल्यं वादि-प्रतिवादिभ्यामुपगतं तत्साधनम् । यत्र तु न, न तत्साधनं इति विभाग-सम्भवात् न तद्भङ्गापत्तिरिति वाच्यम् । तथात्वे भ्रान्तवाद्याद्यारब्धकथाभासे वादिप्रतिवादिनोरङ्गसाकल्याभ्युपगमसत्वेन एतदीयासत्साधनदूषणयोरप्य-दुष्टत्वापत्तेः । किञ्चाङ्गसाकल्यस्य काल्पनिकत्वेऽपि वादिप्रतिवादिभ्या-मङ्गसाकल्यस्याभ्युपगतिमात्रेण साधनस्यादुष्टत्वव्यवस्थापत्तेः यत्र वादि-प्रतिवादिनोः अङ्गसाकल्याभ्युपगमः तत्र साधनस्यादुष्टत्वप्राप्तावपि प्रकृतानु मानाङ्गसाकल्यस्य त्वत्संमतत्वेऽपि मया तदनभ्युपगमेन वादिप्रतिवादि संमतत्वाभावेन अदुष्टत्वप्रयोजकाभावापत्त्या दृश्यत्वानुमानस्या दुष्टत्वा भावापत्तेः । तस्मात्सद्विविक्तत्वं मिथ्यात्वमिति तृतीय पक्षः न युक्तः ।

नापि चतुर्थः । तत्रापि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्व मभिमतं स्यात् । किं वा सद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वा-कारेणात्यन्ताभावप्रतियोगित्वं वेति विकल्पयामः । नाद्यः । शशविषाणा-देरपि स्वरूपेणात्यन्ताभावप्रतियोगित्वातिरिक्तासत्वाभावेन तत्साधनेऽसत्वा पत्याऽपसिद्धान्तापत्तेः । न द्वितीयः । तथात्वे अनिर्वचनीयत्वापत्त्या तत्पक्षोक्तदोषापत्तेः । तस्मात् विमतं मिथ्या इति प्रतिज्ञा न युक्ता ।।

एवं दृश्यत्वादिहेतुरप्यनुपपन्न एव । तथाहि । दृश्यत्वं किं सद्वा स्यादसद्वा स्यात् अनिर्वचनीयं वा । नाद्यः । दृश्यत्वे दृश्यत्वस्यावृत्तौ अज्ञानासिद्ध्यापत्त्या तत्र तद्वृत्तौ तत्रैव व्यभिचारापत्या दृश्यत्वे सत्यत्वानुपपत्तेः । न द्वितीयः । तथात्वे पक्षे दृश्यत्वस्यासत्वेन वादिरीत्या स्वरूपासिद्ध्यापत्तेः । न तृतीयः । अनिर्वचनीयदृश्यत्वस्य प्रपञ्चे प्रतिवाद्य-संमतत्वेन तद्रीत्याऽसिद्ध्यापत्तेः । न च साधारणप्रयुक्तहेतोर्विशेषविकल्पेन निराकरणे पर्वतोऽग्निमान् धूमादित्यनुमानेऽपि किमेतद्देशकालसंलग्नो धूमो हेतुः किं वाऽनैतद्देशकालसंलग्नः । नाद्यः । तथात्वे दृष्टान्ते एतद्देशकाल संलग्नधूमस्यासत्वेन साधनविकलत्वात् । न द्वितीयः । तथात्वे नैतद्देशकाल संल्लग्नो धूमः स्यात् (सत्त्वेन साधनविकलत्वात्) । स्वपक्षेऽसत्वाद-सिद्धिरिति विशेषविकल्पेन निराकरणस्य कर्तुं शक्यत्वेन सर्वानुमानोच्छेदा-पत्या तस्यासंभवेन धूमानुमाने अविवक्षितविशेषधूमसामान्यस्य हेतुत्ववत् दृश्यत्वानुमानेऽपि अविवक्षितविशेषसत्यानिर्वचनीयदृश्यत्वसामान्यस्यैव हेतुत्वाभ्युपगमात् तस्य वादिप्रतिवादिसंमतत्वान्नासिद्धिरिति वाच्यम् । धूमद्वये धूमसामान्यस्य वादिप्रतिवादिसंमतत्वेन धूमानुमाने तथा परिहारो-पपत्तावपि अनिर्वचनीयस्य स्वत एव प्रतिवादिनं प्रत्यसिध्या असिद्धाश्रयस्य सामान्यस्याप्यसिद्धत्वेन सत्यानिर्वचनीयदृश्यत्वयोर्दृश्यत्वसामान्यस्य वादि-प्रतिवादिसंमतत्वाभावेन दृश्यत्वानुमाने तथा परिहारानुपपत्तेः । किञ्च वृत्तिव्याप्यत्वस्य साधारणस्य विपक्षभूत आत्मन्यप्यङ्गीकृतत्वेना-नैकान्तिकत्वापत्त्या दृश्यत्वस्य तद्रूपत्वासंभवेन दृग्जन्यफलाश्रत्वरूपत्वेन तत्रापि फलस्य व्यवहाररूपत्वे तस्य विपक्ष आत्मन्यपि वृत्या अनैकान्ति-कत्वापत्त्या ज्ञाततारूपस्यैवाङ्गीकार्यत्वात् । दृग्जन्यज्ञाततारूप-फलाश्रयत्वस्य ज्ञातताऽनङ्गीकारिणोऽस्मान् प्रति असिद्धत्वेन प्रतिवाद्य-सिद्ध्यापत्तेः । किञ्च साध्यमानमिथ्यात्वस्यापसिद्धान्तभयेनासत्व-रूपत्वानुपपत्त्याऽनिर्वचनीयत्वरूपतयाऽ निर्वचनीयस्यैव सपक्षस्य वक्तव्य-तया तस्यानिर्वचनीयतया सिद्ध्यभावेन पक्षीभूतवियदादिव्यतिरिक्तस्य सर्वस्यापि विपक्षतया शुक्तिरजतादौ विपक्षे वर्तमानत्वात् दृश्यत्वस्य साध्याभावव्याप्तत्वोपपत्त्या विरुद्धत्वापत्तेः इत्यलम् ।।

इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

मिथ्यात्वानुमानखण्डनोपन्यासः समाप्तः ।

इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

मिथ्यात्वानुमानखण्डनोपन्यासः समाप्तः ।इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

मिथ्यात्वानुमानखण्डनोपन्यासः समाप्तः ।इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः