सृष्टिप्रकरणम्
सृष्टिस्थितिसंहारादिप्रकरणे सृष्टिप्रकरणम् IV
सृष्टिस्थितिसंहारादिप्रकरणम्
सृष्टिप्रकरणम् – १
ननु परमात्ममाहात्म्यज्ञानमेव मोक्षसाधनम् । न तु तदतिरिक्तपदार्थ-ज्ञानमपि । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथेति । नान्यः पन्था अयनाय विद्यत इति श्रुतेरिति चेन्न । पदार्थज्ञानस्य साक्षान्मोक्षसाधनत्वाभावेऽपि तत्सृष्ट्याद्यष्टकर्तृत्वेन परमात्मज्ञानद्वारा मोक्षसाधनत्वमित्यभि प्रायेणाह- एवं पदार्थे निरूपित इति ।
एवं पदार्थे निरूपिते तत्सृष्ट्यादिकर्तृत्वेन भगवज्ज्ञानं मोक्षसाधनमिति सृष्ट्यादिकं निरूप्यते ।। ४१६ ।
यद्वा तार्किकोक्तसृष्टिप्रक्रियानिरासायाह-एवमिति । अत्र यद्यपि पूर्वं द्रव्यप्रकरण एव प्रकृत्यादिसृष्टिर्निरूपिता । अथाप्यत्र पद्मसृष्ट्यादौ विशेषस्य वक्ष्यमाणत्वात्पुनरनुवाद इति न पौनरुत्यम् । सृष्ट्यादिकर्तृत्वेन परमात्मज्ञानं मोक्षसाधनमित्यत्र प्रमाणं तु निर्णये प्रतिपादितम् —
सृष्टिरक्षाहऽऽतिज्ञाननियत्यज्ञानबन्धनान् ।
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्न चान्यथा ।। इति ।
ईशावास्यभाष्येऽपि-
................तस्मात्सर्वगुणात्मकम् ।।
सर्वकर्तारमीशेशं सर्वसंहारकारकम् ।
यो वेद संहतिज्ञानाद्देहबन्धाद्विमुच्यते ।। इति ।
सिसृक्षा भवतीति–
परमात्मनः प्रलयान्ते सिसृक्षा भवति ।। ४१७ ।।
जगृहे पौरुषं रूपं भगवान्महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ।। इति प्रथमस्कन्धभागवतोक्तेः ।
ईशावास्य भाष्येऽपि -
अनाद्यनन्तकालीनं ससर्जाऽत्मेच्छया विभुः । इति ।
माण्डूकभाष्येऽपि-
अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् ।
उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ।। इति ।
इच्छामात्रं प्रभोः सृष्टिरिति श्रुतिः ।।
क्षोभयतीति-
ततः प्रकृतिं प्रविश्य क्षोभयति । ततो गुणत्रयात्मना विभजति । ततो महदाद्यण्डपर्यन्तं तत्त्वानि तदभिमानिब्रह्मादिदेवांश्च सृजति । ततश्चेतनाचेतनानामंशानुदरे निक्षिप्य ब्रह्माण्डं प्रविशति । ततो दिव्यवर्षसहस्त्रान्ते स्वनाभितः पद्मं जनयति ।। ४१८ ।।
कार्योन्मुखं करोतीत्यर्थः ।।
प्रकृतिं क्षोभयामास प्रविश्य पुरुषोत्तमः । इति भाष्योक्तेः ।
तृतीयतात्पर्येऽपि-
प्रकृतेः क्षोभकं रूपं दैवं नारायणाभिधम् ।
प्रकृतौ महतः स्रष्टा परमः पुरुषोत्तमः ।। इति ।
ततो गुणत्रयात्मनेत्यारभ्य पद्मं जनयतीति पर्यन्तस्य प्रमाणानि पूर्वमेवोदाहृतानि ।
तत्पद्मं कदा जातमित्याकाङ्क्षायामाह – तच्चेति ।
तच्च पद्मं आद्यब्रह्मणः प्रथमपरार्धान्ते जायते । तत्पद्मे चतुर्मुखोऽजनि । चतुर्मुखो जगत्सृष्टौ साधनाऽस्मृत्या दिव्यवर्षसहस्त्रपर्यन्तं तपः करोति । तत्तपसा प्रसन्नो भगवान्स्वदेहतः पञ्चभूतानि सृजति ।। ४१९ ।।
तदुक्तं तृतीयस्कन्धभागवते-
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ।।
तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते ।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ।। इति ।
पद्मदलैश्चेति–
ततश्चतुर्मुखान्तर्गतस्सन् सन्नामको भूत्वा पञ्चभूतैः पद्मदलै- चतुर्दशभुवनानि सृजति । पुनः सर्वे देवा अण्डान्तर्जायन्ते ।। ४२० ।।
तदुक्तं तृतीयस्कन्धभागवते-
पद्मकोशं तदाविश्य भगवान्कर्मचोदितः ।
एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्य द्विसप्तधा ।। इति ।
अत्र पूर्वं परमात्मना सूक्ष्मरूपेण सृष्टान्येव चतुर्दश भुवनानि चतुर्मुखः पञ्चभूतैः स्थूलानि चकारेति बोध्यम् ।
तदुक्तमैतरेयभाष्ये-
भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः ।
लोकभेदांश्च चक्रेऽत्र पश्चाद्ब्रह्मा विशेषतः ।
सम्यक् चकार लोकांस्ताँल्लोककर्ता ततः स च ।। इति ।
नन्वण्डान्तर्न सर्वेषामुत्पत्तिः । लक्ष्म्यव्याकृताऽकाशादीनां नित्याना- मनुत्पत्तेरित्यत आह– लक्ष्म्यदीति ।
लक्ष्म्यादिनित्यानामपि पराधीनविशेषावाप्तिलक्षणोत्पत्तिः ।। ४२१ ।।
तदुक्तं वियत्पादीयानुव्याख्याने-
प्रकृतिः पुरुषः कालः वेदास्तदभिमानिनः ।
महदाद्याश्च जायन्ते पराधीनविशेषतः ।।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ।
तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ।।
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ।
..........................वेदस्यापीश्वरेच्छया ।
व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ।
..................उत्पत्तिरत्र कथिता ॥ इति ।
न्यायविवरणेऽपि-पराधीनविशेषमात्रं त्वव्याकृताकाशस्य तदभिमानि-प्रकृतेश्च सममेवेति । वियत्पादीयसुधायामपि प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति-पुरुषेति । यस्मात्पुरुषादीनां रमाभिमानिनी सा चैकैव । देहदेह्यादिभेदरहिता तत्तस्मात्साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदितेति ।
महरादिसृष्टिवद्ब्रह्मकल्पे भूरादिलोकत्रयस्य नैकवारं सृष्टिः । किन्तु प्रतिदिनमित्याह - ब्रह्मण इति ।
ब्रह्मणः प्रतिदिनं भूर्भुवः स्वरिति लोकत्रयस्य सृष्टिविनाशौ ।। ४२२ ।।
तदुक्तं तृतीयस्कन्धभागवते-
एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।
तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ।। इति ।
ब्रह्मणः प्रतिदिनं सृष्टिलयावित्युक्तम् । तत्र ब्रह्मदिनं कीदृशमित्याकाङ्क्षायां तत्परिमाणमाह-चतुर्युगेति ।
चतुर्युगसहस्राणि ब्रह्मण एक दिनम् ।। ४२३ ।।
तदुक्तं तृतीयभागवते-
मध्वसिद्धान्तसारः
त्रैलोक्याद्युगसाहस्रं बहिराब्रह्मणो दिनम् ।
तावत्येव निशा तात यन्निमीलति विश्वसृ ।। इति ।
निर्णयेऽपि-
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।
द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः ।
सहस्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ।। इति ।
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।। इति पुराणवाक्यं च । एकस्मिन्ब्रह्मदिने चतुर्दशमनूंस्तद्भुक्तिकालांश्चतुर्दशेन्द्रान् भगवान् सृजतीत्याह– । तत्रेति ।
तत्र चतुर्दशमन्वन्तराणि ।। ४२४ ।।
एकैकस्मिन्दिन इत्यर्थः । चतुर्दशमनवस्तु । स्वायम्भुवः । स्वारोचिः । उत्तमः । तापसः । रैवतः । चाक्षुषः । वैवस्वतः । सावर्णिः । दक्षसावर्णिः । ब्रह्मसावर्णिः । धर्मसावर्णिः । रुद्रसावर्णिः । देवसावर्णिः । इन्द्रसावर्णिरिति ।
तदुक्तमष्टमस्कन्धभागवते-
स्वायभुवस्येह मनोर्वंशोऽयं विस्तराच्छतः ।
आद्यस्तु कथितो यत्र देवादीनां च सम्भवः ।
स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो मनुः ।
सृष्टिस्थितिसंहारादिप्रकरणे सृष्टिप्रकरणम्
तृतीय उत्तमो नाम प्रियवृतसुतोऽभवत् ।
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः ।
पञ्चमो रैवतो नाम मनुस्तापससोदरः ।
षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ।
मनोर्वैवस्वतस्यैते तदा पुत्राः परन्तप ।
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।
नवमो रुद्रसावर्णि र्मनुर्वरुणसम्भवः ।
भविता रुद्रसावर्णी राजन्द्वादशमो मनुः ।
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।।
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम इष्यते ।
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ।। इति ।
गीताभाष्येऽपि -चत्वारः प्रथमाः स्वायम्भुवाद्याः ।
स्वायम्भुवं रोचिषं च रैवतं च तथोत्तमम् ।। इति ।
प्रमेयदीपिकायामपि -ब्रह्मसावर्णी रुद्रसावर्णिर्धर्मसावर्णिर्दक्षसावर्णिरिति चत्वारः । स्वायम्भुवस्वारोचिषरैवतोत्तमाः प्रथमाः । मेरुसावर्णिरपि । तापसस्य भगवदवतारत्वम् । चतुर्दश मनव इत्यादि ।
चतुर्दशमनूनां प्रत्येकं भुक्तिकालमर्यादामाह – एकैकस्य मनोरिति ।
एकैकस्य मनोः सार्धाष्टादशलक्षवर्षाधिकैकसप्ततिमहायुगाः भुक्तिकालाः ।। ४२५ ।।
तदुक्तं तृतीयस्कन्धभागवते-
यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश ।
स्वं स्वं कालं मनुर्भुङ्क्ते साधिकामेकसप्ततिम् । इति ।
तृतीयतात्पर्येऽपि-
युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् ।
वत्सराणां मनोर्भुक्तिः । इति ।
चतुर्दशमनूनां प्रलयकालस्तु । स्वायम्भुवमनोर्द्विसहस्रवर्षाणि प्रलयकालः । स्वारोचिषमनोः पञ्चशतोत्तरसहस्रवर्षाणि । उत्तममनोस्तु चतुःशतोत्तरसहस्रवर्षाणि प्रलयकालः । तापसाद्येकादशमनूनां तु द्विशतोत्तरसहस्रवर्षाणि प्रत्येकं प्रलयकाला इति ।
तदुक्तं तृतीयतात्पर्ये-
सहस्रं चतुरुत्तरम् ।
शतानां प्रलयश्चैव पञ्चोत्तरमथापि वा ।
आद्येषु षट्सु प्रथमे द्विसहस्त्रं प्रकीर्तितम् ।
वत्सराणां मनोरन्तरेवमिन्द्रादिनां भवेत् ।। इति ।
मनुन्यायमिन्द्रादीनामतिदिशति - एवमिति ।
एवं स्वर्गलोकाधिपतय इन्द्राश्चतुर्दश ।। ४२६ ।।
चतुर्दशेत्युपलक्षणम् । भुक्तिकालाः प्रलयकालाश्च मनुवदेवेति द्रष्टव्यम् ।अत्रैकस्मिन्मन्वन्तर एकैक एवेन्द्र इति द्रष्टव्यम् । एवमिन्द्रादीनां भवेदिति तात्पर्योक्तेरिति भावः । चतुर्दशेन्द्राश्च । यज्ञनामा भगवानिन्द्रः स्वायम्भुवमन्वन्तरे । रोचननामेन्द्रः स्वारोचिषमन्वन्तरे । सत्यजिन्नामक इन्द्र उत्तममन्वन्तरे । तापसमन्वन्तरे तापसनामा भगवानिन्द्रः । रैवतमन्वन्तरे विभुरिन्द्रः । चाक्षुषमन्वन्तरे मन्द्रद्युम्न इन्द्रः । वैवस्वतमन्वन्तरे पुरन्दर इन्द्रः । सावर्णिमन्वन्तरे बलिरिन्द्रः । दक्षसावर्णिमन्वन्तरे अद्भुतनामेन्द्रः । ब्रह्मसावर्णिमन्वन्तरे शम्भुरिन्द्रः । धर्मसावर्णिमन्वन्तरे वैधृतिनामेन्द्रः । रुद्रसावर्णिमन्वन्तरे ऋतुधामेन्द्रः । देवसावर्णिमन्वन्तरे दिवस्पतिरिन्द्रः । इन्द्रसावर्णिमन्वन्तरे शुचिरिन्द्रः । इदं चाष्टमस्कन्धभागवत एवोक्तमनुसन्धेयम् । अत्र मन्द्रद्युम्नः पुरन्दर एव । तस्य द्विवारमिन्द्रपदम् ।
तदुक्तमैतरेयभाष्ये—
इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ।
तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे ।
पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ।
द्विवारमिन्द्रतामाप तस्माद्वादश ते परे ।। इति ।
नच
अतीतेन्द्रा एव ते विष्णुषष्ठा: पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः । इति निर्णये ।
वाय्वादीनामिन्द्रपदोक्तेस्तद्विरोध इति वाच्यम् । वाय्वादीनामेव रोचनादि- शब्दवाच्यत्वोपपत्तेः । इन्द्रादीनां मन्वन्तरकाल एव स्वर्गाधिपत्यमित्यत्र छान्दोग्यभाष्यं मानम् । इन्द्रादयो हि मन्वन्तरमात्रं तिष्ठन्तीति ।
महायुगपरिमाणं वक्तुं कृतत्रेतादियुगपरिमाणमाह- कृतेति ।
कृतत्रेताद्वापरकलिभेदेन युगचतुष्टयम् । तत्र देवतामानेन चतुस्सहस्त्रवर्षाणि कृतयुगस्य । पूर्वोत्तरं च प्रत्येकं चतुश्शतवर्षाणि सन्धिकालाः । तथा त्रेतायुगस्य त्रिसहस्त्रवर्षाणि । पूर्वोत्तरं च प्रत्येकं त्रिशतवर्षाणि सन्धिकालाः । एवं द्वापरयुगस्य द्विसत्रवर्षाणि । पूर्वोत्तरं प्रत्येकं द्विशतवर्षाणि सन्धिकालाः । तथा कलियुगस्यैकसहस्त्रवर्षाणि । पूर्वोत्तरं शतवर्षाणि सन्धिकालाः । तथा च द्वादशसहस्त्रवर्षाणि चतुर्युगस्य । एतच्चतुर्युगस्याप्यावृत्तावेको महायुग: ।। ४२७ ।।
तदुक्तं तृतीयस्कन्धभागवते-
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशसाहस्त्रैर्वषैः साधु निरूपितम् ।।
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
सङ्ख्यातानि सहस्त्राणि द्विगुणानि शतानि च ।।
सन्ध्यासन्ध्यांशयोरन्तर्यक्कालः शतसङ्ख्ययोः ।
तमेवाहुर्युगं तज्ज्ञा ….. । इति ।
निर्णयेsपि -
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।
द्विषट्सहस्त्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः ।। इति ।।
महाकल्पादि निरूपयितुं कल्पशब्दार्थमाह-सृष्टिकालेति । अण्डे पद्मचतुर्मुखयोरिति ।
सृष्टिकालविशेषः कल्पः । स द्विविधः महाकल्पः पाद्मकल्पश्चेति ।। ४२८ ।।
महदाद्यण्डपर्यन्तं सृष्टिकालो महाकल्पः । अण्डे पद्मचतुर्मुखयो: सृष्टिकालः पाद्मकल्पः । स एव ब्रह्मकल्प इत्युच्यते ।।
इदमुपलक्षणम् । अण्डाद्बहिरा ब्रह्मसृष्टिकालोऽपि ब्रह्मकल्प इति ध्येयम् ।
तदुक्तं तृतीयभागवते-
पूर्वस्याऽदौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ।।
तस्यैव चान्ते कल्पोऽभूत् यं पाद्ममभिचक्षते ।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ||
अयं तु कथितः कल्प ......... । इति ।
यत्र ब्रह्मान्तरोत्पत्तिर्ब्रह्मकल्प इतीरितः ।। इति तात्पर्ये च ।
ब्रह्मकल्पः परश्चेति महाकल्पश्च कीर्त्यते । इति सप्तमतात्पर्यमपि ।
ब्रह्मकल्पोऽपीति-
ब्रह्मकल्पोऽपि द्विविधः । दिनकल्पो मनुकल्पश्चेति ।।४२९ ॥
ब्रह्माण्डान्तर्वर्तिब्रह्मकल्पोऽपीत्यर्थः ।
प्रतिदिनमिति-
प्रतिदिनं सृष्टिकालो दिनकल्पोऽष्टादशसहस्त्रात्मकः || ४३० ।।
प्रतिदिनं भूरादिलोकत्रयस्य नाशेन पुनःपुनर्लोकत्रयस्य सृष्टेरिति भावः ।
तदुक्तं तृतीयभागवते—–
एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।
तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ।। इति ।
दिनकल्पाः कतीत्याकांक्षायामाह-अष्टादशेति । आद्यब्रह्मण: प्रथमपरार्धान्तिमदिने पद्मस्योत्पत्तिः । तत्र चतुर्मुखोत्पत्तिः । तेन च प्रतिदिनं भूरादिसृष्टिः । इति पूर्वोदाहृतभागवते प्रतिपादितम् । तथा च द्वितीयपरार्ध एव दिनकल्पः । स चाष्टादशसहस्त्रात्मको भवतीत्यर्थः । केचित्तु षट्त्रिंशत्सहस्रात्मको दिनकल्पः । भारतादिकमपि षट्त्रिंशत्सहस्त्रात्मकमिति मन्यन्ते । तन्न । प्रथमपरार्धे लोकसृष्टेरभावेन चतुर्मुखस्याप्युत्पत्तेरभावेन दिनकल्पाभावात् । न च
भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः ।
लोकभेदांश्च चक्रेऽत्र पश्चाद्ब्रह्मा विशेषतः ।
सम्यक् चकार लोकांस्ताँल्लोककर्ता ततः स च ।। इति ।
ऐतरेयभाष्ये- सूक्ष्मरूपेण लोकानां परमात्मना सृष्टत्वोक्तेः प्रथमपरार्धेऽपि दिनकल्पोऽस्तीति वाच्यम् । तत्प्रमाणबलेनैव प्रथमपरार्धे चतुर्मुखस्याजातत्वेन तेन भूरादिसृष्टेरभावात् । परमात्मना प्रतिदिनं भूरादिविनाशपूर्वकं भूरादिकं सृष्टमित्यत्र प्रमाणाभावात् । ब्रह्माण्डान्तश्चतुर्दशभुवनात्मकपद्मस्योदकैः पूर्णत्वेन प्रतिदिनसृष्टेरयुक्तत्वाच्च । प्रथमपरार्धे वसिष्ठशक्तिपराशरसत्यवतीव्यासादीनामभावेन भारतादिनिर्माणस्य दूरोत्सारितत्वाच्च । वैवस्वतमन्वन्तरेऽष्टाविंशतितमे द्वापरे व्यासावतारेण भारतस्य कृतत्वेन प्रथमपरार्धे वैवस्वतमन्वन्तरादेरसम्भवाच्च । न च-
लयस्य त्वष्टमो भागः सृष्टिकाल उदाहृतः ।।
इति दशमतात्पर्योक्तेः प्रथमपरार्धेऽपि सृष्टिः सम्भवतीति वाच्यम् । महदादिब्रह्माण्डान्तस्सृष्टिपरत्वेनाप्युपपत्तौ भूरादिसृष्टिविनाशसाधकत्वाभावात् ।
न च–
द्विपरार्धधिष्ण्यमध्यासितः सकललोकनमस्कृतं यत् ।
इति द्वितीयस्कन्धभागवते सत्यलोकस्य द्विपरार्धधिष्ण्यत्वमुच्यते । तदर्थस्तु द्विपरार्धसम्बन्धिधिष्ण्यं द्विपरार्धधिष्ण्यं तदध्यासित इति । तथा च प्रथमपरार्धेऽपि सत्यलोकादिकं चतुर्मुखश्चोत्पन्न इति वाच्यम् । द्वे परार्धे यस्याऽद्यब्रह्मणः स द्विपरार्धस्तस्य धिष्ण्यं चतुर्मुखरूपेणेति तदर्थोपपत्तेः । यद्वा पद्मस्य प्रथमपरार्धान्तिमदिने जातत्वेन सत्यलोकस्य द्विपरार्धसम्बन्धित्वोपपत्तेः । सूक्ष्मरूपेण सत्यादिलोकानां परमात्मना पूर्वं जातत्वाच्च । तस्मादष्टादशसहस्रात्मक एव दिनकल्प इति सिद्धम् ।
मनुकल्पसङ्ख्यामाह— एकैकस्मिन्निति ।
ब्रह्मण एकैकस्मिन्दिने चतुर्दशमनुकल्पाः ।। ४३१ ।।
तदुक्तं तृतीयभागवते-
निशावसाना आरब्धो लोककल्पोऽनुवर्तते ।
यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश ।। इति ।
तथा च द्वितीयपरार्धे द्विसहस्राधिकसार्धद्विलक्षसङ्ख्याका मनुकल्पा भवन्तीति बोध्यम् ।
प्रयोजनोक्तिपूर्वकं भगवदवतारानाह-ब्रह्मणः प्रतिदिनमिति । राजस- तामसैरिति–
ब्रह्मण: प्रतिदिनं राजसतामसैर्जनैः सात्विकजनोपद्रवे सति मत्स्यकूर्माद्यवतारा भविष्यन्ति ।। ४३२ ।।
तदुक्तं द्वितीयस्कन्धतात्पर्ये-
सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम् ।
रजस्तमोभ्यां विष्णुर्हि तदा प्राहुर्भवत्यजः ।
राजसांस्तामसान्हत्वा सात्विकान्वर्धयिष्यति ।। इति ।
गीतायामपि-
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। इति ।
प्रथमस्कन्धभागवते–
एते स्वांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ।। इति ।
वैवस्वतमन्वन्तर इति-
तत्रापि वैवस्वतमन्वन्तरे दशावताराः ।। ४३३ ॥
आदौ मत्स्यावतारः । तदुक्तं प्रथमस्कन्धभागवते ॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ।। इति ।
सृष्टिस्थितिसंहारादिप्रकरणे सृष्टिप्रकरणम्
अष्टमस्कन्धभागवतेऽपि-
स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।
विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः ।।
सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः ।
संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ।। इति ।
द्वितीयवारमपि मत्स्यावतारः ।
स च हयग्रीवासुरेणापहृतान्वेदानुज्जहार ।
तदुक्तं द्वितीयस्कन्धभागवते-
विस्रंसितानुरुभये सलिले मुखान्म
आदाय तत्र विजहार ह वेदमार्गान् । इति ।
कूर्मावतारोऽपि द्विवारम् । अमृतमथनस्य द्विवारत्वात् ।
तदुक्तमष्टमस्कन्धतात्पर्ये–
अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् ।
अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः ।। इति ।
वराहस्याप्यवतारद्वयम् । तदुक्तं तृतीयतात्पर्ये-
ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः ।
स एव पार्षदाविष्टो द्वितीयं कर्णताडनात् ।। इति ।
नृसिंहावतार एक एव -सप्तमस्कन्धोक्तः ।
वामनस्याप्यवतारद्वयम् । तस्यैव त्रिविक्रमत्वात् ।
तदुक्तं पञ्चमतात्पर्ये–
वाराहे वामपादं तु तदन्येषु तु दक्षिणम् ।
पादकल्पेषु भगवानुज्जहार त्रिविक्रमः ।। इति ।
रामावतारोऽप्येक एव त्रेतायुगे नवमस्कन्धोक्तः ।
परशुरामावतारोऽप्येक एव नवमस्कन्धोक्तः । कृष्णावतार एक एव । दशमस्कन्धोक्तः । बुद्धावतार: कल्क्यवतारश्चैक एव निर्णयोक्तः । दशावतारा इत्युपलक्षणम् । वैवस्वतमन्वन्तरे व्यासावताराः द्वापरयुगेषु पञ्च द्रष्टव्याः ।
तदुक्तं द्वितीयतात्पर्ये-
तृतीये सप्तमे चैव षोडशे पञ्चविंशके ।
अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत ।।
व्यासाचार्यस्तु पूर्वेषु चरमे स्वयमेव तु ।
विव्यास वेदांश्चक्रे च भारतं वेदसम्मितम् ।। इति ।
प्रथमतात्पर्येऽपि रामावतारात्पूर्वमप्यस्ति व्यासावतारः ।।
तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान् । इति ।
अन्यत्रान्यावतारा इति-
अन्यत्रान्यावतारा अपि ।। ४३४ ।।
स्वायम्भुवमन्वन्तरादिषु यज्ञऋषभाद्यवतारा इत्यर्थः । ते चावतारा अष्टमस्कन्ध भागवतादावुक्ता ज्ञातव्याः । स्वायम्भुवमन्वन्तरे यज्ञऋषभावतारद्वयम् ।
तदुक्तं पञ्चमस्कन्धतात्पर्ये-
दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः ।
पस्पर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम् ।। इति ।
अवताराणां प्रयोजनमाह-एतैरिति ।
एतैरवतांरैरयोग्यजनसंहारः सज्जनोद्धारश्च भविष्यति || ४३५ ॥
एतच्च तत्र तत्र भागवतादौ द्रष्टव्यमिति ।
।। इति सृष्टिप्रकरणम् ॥
***