नरसिंहोऽखिलाज्ञानमतध्वान्तदिवाकरः । जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

मायावादखण्डनम्(मूल)

हरिः ॐ

नरसिंहोऽखिलाज्ञानमतध्वान्तदिवाकरः ।

जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ।।

विमतमनारम्भणीयम्, अन्यथाप्रतिपादकत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम् । न हि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे । औतहानेः स्वरूपातिरेके । अनतिरेके स्वप्रकाश-त्वादात्मनः सिद्ध साधनता । निर्विशेषत्वाच्चात्मनो नानधि-गतो विशेषः । सिद्धत्वात् स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम् । ‘अनधिगतार्थगन्तृ प्रमाणम्’ इति तन्मतम् ।

अज्ञानासम्भवादेव तन्मतमखिलमपाकृतम् । मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात् । सत्यता च भेदस्य । एवमेव प्रयोजनमपि निरस्तम् । स्वरूपत्वान्मोक्षस्य पूर्वमेव सिद्धत्वात् । अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चम-प्रकारताऽपि निरस्ता । विषयप्रयोजनाभावादेवाधिकारी च । तदभावादेव सम्बन्धोऽपि ।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ।।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।

स सर्वविद् भजति मां सर्वभावेन भारत ।।

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।

एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

तमसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।।

महतः परमव्यक्तमव्यक्तापुरुषः परः ।

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।।

भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’ इति विष्णोः सर्वोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् ।।

इति सर्वज्ञमुनिना मायावादतमोऽखिलम् ।

निरस्तं तत्त्ववादेन सतां संशयनुत्तये ।।

नास्ति नारायणसमं न भूतं न भविष्यति ।

एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं

मायावादखण्डनं सम्पूर्णम् ।।