अमितसज्ज्ञानसुखशक्तिपयोनिधित्वान्नर-सिंहोऽ-खिला ज्ञानमतध्वान्तदिवाकर

श्रीपद्मनाभतीर्थभट्टारकविरचिता मायावादखण्डन टीका

हरिः ॐ ।। अमितसज्ज्ञानसुखशक्तिपयोनिधित्वान्नर-सिंहोऽ-खिला ज्ञानमतध्वान्तदिवाकर इत्युक्तम् । तत्र सज्ज्ञानेनाज्ञान-व्युदसनप्रकारमाह विमतमनारम्भणीयमित्यादिना । जैनादि-मतवत्स्वमतस्यापि बाधितविषयत्वेनाङ्गीकारान्मायावादिना जैन-बौद्धादिग्रन्थवन्मायावादो नारम्भणीयो बाधितविषयत्वाविशेषा-दित्यर्थः ।

मायावादस्य बाधितविषयत्वं प्रतिपादयति । न हीत्यादिना । ब्रह्मात्मैक्यं हि मायावादप्रतिपाद्यम् । न हि तन्निरूपयितुं शक्यते मायावादिना । तथा हि यदेतद् ब्रह्मैक्यमात्मनस्तदेतदात्म-व्यतिरिक्तमात्मस्वरूपं वा । आत्मातिरिक्तं सत्यं चेदद्वैतहानि-स्स्यात् । आत्मातिरेकेण वस्त्वन्तरानभ्युपगमात् । आत्मनोऽ-नतिरेके सिद्धसाधनतापत्तिर्दोषस्स्यात् । स्वयम्प्रकाशात्मस्वरूप-प्रतिपादकस्यामानत्वं स्यात् । अज्ञातज्ञापकस्य मानत्वेनाऽङ्गी-कृतत्वात् । मेयत्वादेवात्मनो मिथ्यात्वं स्यात् । ज्ञेयस्य शुक्तिरजतवन्मिथ्यात्वाङ्गीकारात् ।

न च केनचिदाकारेण स्वयम्प्रकाशमानोऽपि विशेषाकारेण मायावादप्रतिपाद्य इति वाच्यम् । निर्विशेषत्वेनाङ्गीकृतत्वात्तस्य । आत्मनस्स्वयम्प्रकाशस्याज्ञानासम्भवान्नाज्ञानकल्पितो विशेष-श्शास्त्रप्रतिपाद्य इति वक्तुं शक्यते । न नु कथमज्ञायमाना-सम्भवेनाज्ञानासम्भवान्नाज्ञाननिवृत्त्यर्थो मायावाद इति वक्तुं शक्यत्वादित्यर्थः । ब्रह्मैक्यमात्मातिरिक्तं सत्यं चेदद्वैतभङ्गस्स्या-दित्युक्तम् । तन्न । ब्रह्मात्मैक्सस्य मिथ्याभूतत्वादित्याशङ्क्य परिहरति ।। मिथ्यात्वे चैक्यस्येति ।। ब्रह्मात्मैक्यं हि वेदान्त-प्रतिपाद्यमङ्गीकृतं मायिना । तस्य मिथ्यात्वे वेदस्यातत्त्वा-वेदकत्वेनाप्रमाण्यं स्यात् । जीवब्रह्मणोरैक्यस्य मिथ्यात्वेन भेदस्य सत्यता स्यात् । परस्परविरुद्धयोरेकतर निषेधस्यान्यतरविधि-नियतत्वात् । अतो द्वासुपर्णेत्यादिजीवेशभेदवाक्यानुरोधेन तत्त्व-मसीत्यावाक्यमग्निर्माणवक इतिवद् गौणार्थमवगन्तव्यमित्यर्थः ।

यथा जीवब्रह्मैक्यलक्षणविषयकत्वमपि निरूपयितुमशक्यत्वेन बाधितं तथा प्रयोजनमपि निरूपयितुमशक्यत्वेन बाधितमित्याह एवमेव प्रयोजनमपि निरस्तमित्यादिना ।। यदेतत्साधनवैयर्थ्यात् न चात्माज्ञाननिवृत्तिर्मोक्ष इति वक्तुं शक्यते, आत्मनस्स्वयम्प्रकाश-मानस्याज्ञानासम्भवेन तन्निवृत्त्यसम्भवात् । न सन्नासन्नापि सदसन्न सदसद्विलक्षणः, किन्तु पञ्चमप्रकारोऽज्ञाननिवृत्तिरूपो मोक्ष इति यन्मायिनोक्तं तदप्यत एव निरस्तं भवति । सदसद्विलक्षणरूप-चतुर्थप्रकाराज्ञानासम्भवेन पञ्चमप्रकारस्याज्ञानविवृत्तिरूपमोक्षस्य सुतरामसम्भवात् । अज्ञानविलक्षणयाऽऽत्माज्ञाननिवृत्या भाव्यम् । भावाभावयोर्भिन्नप्रकारत्वादिति सदसद्विलक्षणरूपाज्ञाननिवृत्त्याख्य-मोक्षस्य पञ्चमप्रकारत्वं कल्पितं तदज्ञानासम्भवे न सम्भवतीत्यर्थः। अत उक्तप्रकारेण मायावादे विषयप्रयोजनासम्भवादसम्भवावितं प्रयोजनमुद्दिश्यासम्भवावितविषयप्रतिपत्त्यर्थं तद्बुद्धिमानधिकारी न प्रवर्तत इत्यधिकारी च निरस्तः । अधिकारिविषयप्रयोजनानाम-सम्भवादेषां साध्यसाधनभावरूपस्सम्बन्धोऽपि निरस्तः । तदाह ।। विषयप्रयोजनाभावात् ।

बाधितत्वान्न ब्रह्मात्मैक्यं वेदप्रतिपाद्यमित्युक्तम् । तर्हि किं वेदप्रतिपाद्यमित्यपेक्षितार्थं भगवद्वाक्येन साधयति ।। द्वाविमौ पुरुषावित्यादिना ।। अस्यार्थो नारायणश्रुत्योच्यते ।

ब्रह्मरुद्रादयस्सर्वे शरीरक्षरणात्क्षराः ।

श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः ।

चेतनाचेतनस्यास्य राशेस्संशायकत्वतः ।

कूटस्थ आत्मा स ज्ञेयः परमात्मा हरिः स्वयम् ।

क्षराक्षरात्मनोर्यस्मादुत्तमस्स सदाऽनयोः ।

पुरुषोत्तमनाम्नाऽतः प्रसिद्धो लोकवेदयोः ।

इत्येतदर्थो विविच्य स्मृत्या समाख्यात इति योजनम् ।। इन्द्रियेभ्यः परा ह्यर्था इति ।।

एतत् श्रुत्यर्थः पुराणग्रन्थेनोच्यते— देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।

सोमवित्तपसूर्याप्या अश्व्यग्नीन्द्रेन्द्रसूनवः ।

यमो दक्षश्चेन्द्रियेशास्सुपर्णो वारुणी तथा ।

उमेति चार्थमानिन्यस्तिस्रो द्विद्य्वेकदेवताः ।

मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।

ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिस्सरस्वती ।

तस्य ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।

तस्यास्तु पुरुषो विष्णुः

पूर्णत्वान्नैव तत्समः । कश्चित्कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा । इति । द्विद्य्वेकदेवता इत्यनेन द्वयोश्शब्दस्पर्शयो-स्सुपर्णी देवता, रूपरसयोर्द्वयार्वारुणी देवता, गन्धस्योमा देवतेत्युक्तं भवति ।

सर्वशास्त्रार्थत्वेन यद्विष्णोस्सर्वोत्तमत्वं तद्भगवत्त्वाद्युक्तं तद्भगव त्कृतब्रह्मसूत्रेण द्रढयति— भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयतीति । वैदिकत्वेन मायावादस्य प्रकृतत्वेन सज्जनानां विष्णोस्सर्वोत्तमत्वं वर्णितं न वेति संशयस्स्यात् । तन्निवृत्त्यर्थं मायावादं निराकृत्य तत्त्ववादेन ब्रह्मेश•नादिजगदुत्तमत्वं विष्णो-स्स्थापितं श्रीमदानन्दतीर्थमुनिनेत्याह  इति सर्वज्ञमुनिनेति । उक्तार्थे दृढविश्वासार्थं भगवद्वेदव्यासवचनं महाभारताद्युक्त-मुदाहरति । नास्ति नारायणसममिति ।। नास्ति नारायणसमं न भूतं न भविष्यतीत्यस्य वाक्यस्य सत्यत्वकथनेन रुद्रादेर्जगदुत्तमत्व- वचनं पुराणादिगतमन्यथार्थमिति सूचितम् ।

।। इति श्रीमदानन्दतीर्थभगवत्पादविरचितमायावादखण्डनटीका श्रीपद्मनाभतीर्थभट्टारकविरचिता समाप्ता ।।