श्रौतस्मृतिविरुद्धत्वात्‌ स्मृतयो न गुणान् हरेः

द्वितीयोऽध्यायः॥

श्रौतस्मृतिविरुद्धत्वात्‌ स्मृतयो न गुणान् हरेः।

निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम्‌॥ १॥

देवतावचनादापो वदन्तीत्यादिकं वचः ।

नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् ॥ २॥

असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम्‌।

वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः॥ ३॥

स्वातन्त्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः।

भ्रान्तिमूलतया सर्वसमयानामयुक्तितः॥४॥

न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत्‌।

आकाशादिसमस्तं च तज्जं तेनैव लीयते॥ ५ ॥

सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा।

तदाभासो हरिः सर्वरूपेष्वपि समः सदा॥ .६॥

मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवः।

मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा॥ ७॥

सर्वदोषोज्झितः तस्माद्‌ भगवान्‌ पुरुषोत्तमः।

उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वशः॥ ८॥

॥ इति द्वितीयोऽध्यायः॥