तृतीयाध्यायस्य प्रथमः पादः

तृतीयाध्यायस्य प्रथमः पादः

ब्रह्मसूत्राणुभाष्यम्

शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा।

मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम्‌॥ १॥

याति तस्माद्विरक्तः सन्‌ ज्ञानमेव समाश्रयेत्‌।

सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान्‌॥ २॥

तत्वमञ्जरी

१. एवमुक्तदिश निर्दोषानन्तगुणो विष्णुश्चेत् किं मया कार्यमित्यधिकारिणः शङ्कायां मुक्तिहेतुभगवत्प्रीत्यर्थं साधनमनुष्ठेय-मितिभावेन साधनविचारार्थोऽयमध्याय इति भाष्याव्द्यक्तम् ।

२. तत्राद्यपादे गत्यागतिस्वर्गनरकगर्भवासादिस्वरूपस्यैवोक्त्या मुक्तिहेत्वीशप्रीतिसाधनस्यानुक्तेः कथमस्य पादस्य एतदध्यायेऽ-न्तर्गतिरिति चोद्यनिरासाय फलतोऽन्तर्भावोक्तिपरतया तस्मा-द्विरक्तः सन् ज्ञानमेव समाश्रयेत् इत्यन्तिमभाष्यमादावाकृष्य योज्यम् ।

३. तथा हि । जीव इत्यनुवृत्तिः शेषो वा । तस्मादिति ल्यब्लोपे इति पञ्चमी । तदनुसन्धायेति । एतत्पादप्रतिपाद्यमनु-सन्धाय जीवो विरक्तो भवन्निति ज्ञानान्यसाधने तज्जन्यफले च वैराग्याय स्वर्गादिस्वरूपनिरूपणमत्र क्रियत इत्यर्थः ।

४. ननु कथं वैराग्यमपि मुक्तिहेतुगतिजनकम् । येन साधनाध्यायान्तर्भावोऽस्य पादस्य स्यादित्यतोऽपि - तस्माद्विरक्तः सन्निति । तस्माद्वैराग्यात् । विशब्दवाच्ये परमात्मनि, ‘विः पक्षिपरमात्मनोः इत्यभिधानात्, विशेषेण स्वतः स्नेहयुक्तः भक्त इति यावत् । भवन्निति । अन्यत्र वैराग्यात् भगवति भक्तिदार्ढ्यं भवतीत्यर्थः ।

५. ननु तावताऽपि कथमीश्वरप्रीतिः । ‘प्रियो ह ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः इति ज्ञानस्यैव मुक्तिहेतु-प्रीतिजनकत्वोक्तेरित्यत उक्तम् - ज्ञानमेव समाश्रयेदिति । अन्यत्र वैराग्याद्भगवति दृढभक्तिमान् सन्, संशब्दोक्तैः श्रवणमनननिदिध्यासनरूपसाधनैः ईश्वरज्ञानमेवाश्रयेदित्यर्थः । एवं परंपरया वैराग्यस्य मुक्तिहेतुज्ञानोपायत्वोक्त्या वैराग्यभक्त्युपासन-ज्ञानपादानां चतुर्णां क्रमबीजमपि सूचितम् । तदुक्तमनुभाष्ये

वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।

 आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत्’ ।

६. ननु भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’, ‘भूतानां विनिवृत्तिस्तु मरणं’ इति स्मृतिम्यां मृतिमात्रेण मुक्त्यवगमात् किं वैराग्यादिसाधनेनेत्यतः शुभादिकृतः मृत्वा लोकान्तरं गच्छतो जीवस्य भूतैरविनाभावसमर्थनार्थं सूत्रम् - तदन्तरप्रतिपत्तौ रंहतीत्यादि । तत्र विशेषाशंकासमाधानाभ्यां तदर्थस्यैव समर्थनार्थं त्र्यात्मकत्वादित्यादीनि पञ्चाधिकरणानि । तेषां सूत्राणां तात्पर्यार्थं भाषते शुभेन कर्मणा स्वर्गमिति ।

७. जीव इत्यन्वेति । यातीत्याकृष्यते । इह मृत्वा गच्छन् जीवः शुभेन पुण्येन कर्मणा स्वर्गं याति । न तु शुभकर्मकृत् मुक्त्याख्यं परं पदं यातीत्यर्थः । तथा च मरणमात्रेण पुनरावृत्तिमल्लोकस्यैव प्राप्त्या मोक्षाभावात्, भूतनिवृत्तेः मुक्तिहेतु-त्वेऽपि मृतौ निःशेषभूतनिवृत्तेरभावात्, तदर्थं काम्यशुभकर्मणि वैराग्यं विधेयमिति भावः ।। १ ।। २ ।। ।। ३ ।। ४ ।। ५ ।। ६।।

८. ननु तथापि ‘अपाम सोमममृता अभूम’ इत्यादिना शुभकृतोऽपि मुक्तिप्रतीतेः न पुण्ये वैराग्यं युक्तमित्यतः प्राप्तम् - भाक्तं वाऽनात्मवित्वात्तथा हि दर्शयतीति । तस्याप्यर्थः शुभेन कर्मणा स्वर्गमिति ।

९. ‘ज्ञानेनैव परं पदं याति’ इत्येतदप्याकृष्यते । काम्यकर्मकृच्चेत् तदा सोमयागादिरूपशुभकर्मणा स्वर्गं याति । न तु मोक्षं नापि ज्ञानमित्यर्थः । ‘अपाम’ इति श्रुतौ श्रुतममृतं किञ्चित्कालीनं स्वर्गाख्यमेव । न तु मुख्यमिति भावः ।

अकाम्यकृच्चेत् तदा सोमयागाद्यकाम्यशुभकर्मणा, जातेनेति शेषः, ज्ञानेनैव परं याति न तु साक्षादित्यर्थः । साक्षादेव कुतो नेत्यतोऽपि - ज्ञानेनेति । यतो ज्ञानेनैव परं पदं यति नत्वन्येनात इति योज्यम् । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय’ इति श्रुतेरिति भावः । ‘ज्ञानेनैव परं पदं’ इत्यस्यात्रैव वाच्यत्वेऽपि ज्ञानफलयोः सर्वातिशयद्योतनायान्ते भाषणम् ।। ७ ।।

१०. नन्वथापि कृतस्य कर्मणः स्वर्गादौ भोगेन निःशेषकरणात्, ‘कर्मणा बध्यते जन्तुः’ इत्यादेः कर्मनिबन्धनस्य बन्धस्य कर्माभावे स्थित्ययोगात् किं वैराग्येणेत्यतः प्राप्तम् - कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यागिति । तस्याप्यर्थः - शुभेन कर्मणा स्वर्गमिति ।

११. विकर्मणेति यातीति चान्वेति । कर्मणेत्यादितृतीया सहयोगे । ‘सहयुक्तेऽप्रधाने’ इति पाणिनीयस्मृतौ विनाऽपि तद्योगं तृतीया भवतीति तदभियुक्तव्याख्यानात् । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः’ इत्यत्रेव । अस्वर्गमिति च पदच्छेदः । तच्च स्वर्गादन्यमस्वर्गमिति भूलोकपरः । ‘नञ्युक्तमिवयुक्तमन्यस्मिन् सदृशादिकरणे प्रतिपत्तिं गमयति’ इति शाब्दिकन्यायात् । ‘इमं चामुं चोभौ लोकावनु-सञ्चरति’ इत्यादौ द्यावाभूम्योः प्रतिद्वन्द्वितया प्रसिद्धेश्च । तथा च कर्मणा विकर्मणा च सह तद्युक्त एव अस्वर्गं भूलोकं यातीत्यर्थः । स्वर्गाल्लोकाद्भुलोकं पुण्यादिकर्मशेषयुक्त एव प्राप्नोति । तथा हि । स्वर्गादौ भोगेन कर्मणो निःशेषनाशाभावात् तत्र वैराग्यं कार्यमिति युक्तमिति भावः ।। ८ ।।

१२. नन्वथापि कर्मी येन मार्गेण स्वर्गादिलोकं गतः तेनैव मार्गेण भूलोकं प्रत्यागच्छति । अपरिचितमार्गान्तरकृतक्लेशाभावाच्च अतीव कर्मादौ वैराग्यं न विधेयमित्यतः प्राप्तम् - यथेतमनेवं चेति । तस्याप्यर्थः - शुभेन कर्मणा स्वर्गं यातीति ।

१३. स्वर्गमस्वर्गमिति च द्वेधा च पदच्छेदः । आङोऽप्यत्रो-पश्लेषः । यथा तथेति शेषः । तथा च शुभेन कर्मणा स्वर्गं यथा येन मार्गेण याति अस्वर्गं भूलोकं च ईषत् तथा यातीत्यर्थः । येन मार्गेण स्वर्गं प्राप्तः तेनैव मार्गेण किञ्चिद्द्रमागत्य ततोऽर्वाङ् मार्गान्तरेण भूलोकं यातीत्यर्थः । ‘धूमादभ्रं’ इत्यादिभाष्योक्तश्रुतेरिति भावः ।

ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।

एतमातङितं विद्याद्वाक्यस्मरणयोरङित् ।।’

इति शाब्दिकोक्तेः ईषदर्थत्वं आङो बोध्यम् ।। ९ ।।

१४. नन्वथापि न कर्मणि वैराग्यम् । ‘रमणीयचरणा रमणीयां योनिमापद्यन्ते’ इति गमनागमनादेः कर्माङ्गभूताचारफलत्वश्रवणोन कर्मफलत्वाभावादित्यतः प्राप्तम् - चरणादिति चेन्न तदुप-लक्षणार्थेत्यादिसूत्रत्रयम् । तस्याप्यर्थः - शुभेन कर्मणा स्वर्गं यातीति ।

१५. स्वर्गमस्वर्गं भूम्यादिकं वा यज्ञादिकर्मणा यति,

तु तदन्येन आचारेणेत्यर्थः । श्रुतौ चरणशब्दस्य यज्ञादिकर्मोप-लक्षणार्थत्वस्य वा यज्ञादिकाम्यार्थत्वस्य वोपपत्तेरिति भावः ।।१०।।

१६. ननु नर्हि अस्तु काम्ये यज्ञादिकर्मणि वैराग्यं, आगमनादेः यज्ञादिशुभकर्मफलत्वात् । न तु विकर्मणि वैराग्यम् । पापकृतः प्रत्यवायभयाभावेन पतनाभावात् । बिम्यत्पतति न्यायादित्यतः प्राप्तं - अनिष्टादिकारिणामपि चेत्यादिसूत्रत्रयम् । तदर्थमाह - निरयं च विकर्मणा । मिथ्याज्ञानेन च तम इति ।

१७. यातीत्यन्वेति । वीत्यभाववाची विरुद्धवाची च । ‘नाम-रूपाद्विमुक्तः’ इत्यत्रापि नामरूपाविमुक्तत्वमुच्यते विप्रिय इत्यादि-वदिति षद्प्रश्नभाष्ये वीत्यस्याभावार्थत्वोक्तेः । अनिष्टादिकारी हि द्विविधः । अज्ञो मिथ्याज्ञानी चेति । तत्र द्वयोः फलमुच्यते । विकर्मणा स्वोचितकर्माननुष्ठानेन विरुद्धकर्मणा पापकर्मणा च निरयं याति । नरकं च प्रतिपद्यते, न केवलं शुभफलाप्राप्तिमात्रमिति चार्थः । मिथ्याज्ञानिनोऽधिकं चाह । मिथ्याज्ञानेन तमश्च यातीति । नरकमनुभूय पश्चान्नित्यनरकं तमश्च प्राप्नोति । मिथ्याज्ञानार्हविकर्मणि मिथ्याज्ञाने च वैराग्यं विधेयमिति भावः ।। ११ ।।

१८. ननु नित्यनरको नाम नास्त्येव । ‘यावदिन्द्राश्चतुर्दश’ इति नरकभोगस्यानित्यत्वोक्तेरित्यतः प्राप्तम् - अपि सप्तेति । तस्याप्यर्थः निरयं तम इति च नरकभेदोक्त्या सूचितः ।

१९. ‘रौरवोऽथ महाश्च’ इति स्मृतौ नित्यानित्यनरक-विभागोक्त्या ‘यावदिन्द्राः’ इत्यादेरनित्यनरकविषयत्वेन नित्य-नरकस्य तमसो भावादिति भावः ।। १२ ।।

२०. नन्वथापि नरकस्य दुःखानात्मकत्वान्नरके तत्साधने वा न वैराग्यं कार्यम् । न च तस्य दुःखरूपताऽङ्गीकर्तुं शक्या । तस्य दुःखात्मकत्वे तद्भोक्तृजीवाप्रेरकत्वे हरेः ‘सर्वं प्रवर्तयति’ इति सर्वप्रेरकत्वश्रुतिविरोधेन तत्प्रेरकत्वे वाच्ये दुःखभोक्तृनरकस्य-प्रेरकस्य हरेरपि दुःखभोगप्रसङ्गादित्यतो दुःखाभोगेनैव तत्प्रेरकत्वं हरेर्वक्तुं सूत्रम् - तत्रापि च तद्व्यापारादविरोध इति । तस्याप्यर्थमाह - निरयं च विकर्मणेति ।

२१. वेः विशब्दवाच्यस्य परमात्मनः कर्मणा प्रेरणरूपव्यापारेण जीवो निरयं च यातीति योज्यम् । न केवलमितरावस्या, नरक-दुःखमपि तत्प्रेरणयैवानुभवति जीव इति चार्थः । दुःखरूपनरकानु-भवितृप्रेरकत्वेऽपि ईश्वरस्य ईश्वरत्वादेव दुःखसाक्षात्कारकृतनीचो-च्चतारूपभोगाभावोपपत्तेरिति भावः ।। १३ ।।

२२. यत्तु यत्र दुःखं तत्र सुखमिति व्याप्तेः तमस्यपि सुखमस्तीत्यतः तस्य दुःखैकरूत्वं वक्तुं - न तृतीये तथोप-लब्धेरित्यादिसूत्रपञ्चकम् ।

२३. तस्याप्यर्थः विकर्मफलदुःखरूपनिरयादपि मिथ्याज्ञान-फलत्वेन तमसो विशिष्योक्त्या सङ्गृहीतो बोध्यः । ‘तिर्यक्षु करके चैव सुखलेशो विधीयते’ इत्यादेः सुखलेशसत्वेऽपि तमसि तदभाव-सूचनात् ।। १४ ।।

२४. नन्वथापि ‘अथैतयोः पथोर्नैकतरेण च तानीमानि च क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति’ इति श्रुतौ एतयोर्देव-यानपितृयानयोर्मध्ये यान्येकेनापि पथा न गच्छन्ति तानीमानि अल्पानि सुखदुःखमिश्राणि सदा गत्यादिमन्तीति देवयानपितृयान-रूपफल एव जीवानां स्वातन्त्र्यं प्रतीयते । न हि पुरुषप्रयत्नाविषये न गच्छन्तीति प्रयोगो युज्यते । अतो ‘मूले लब्धफलो नैव शाखाग्रं गन्तुमिच्छति’ इति न्यायेन फल एव स्वातन्त्र्यात् किं वैराग्यसाधने-नेत्यतः प्राप्तम् - विद्याकर्मणोरिति तु प्रकृतत्वादिति । तदर्थमाह - ज्ञानेनैव परं पदं यातीति ।

२५. शुभेन कर्मणा स्वर्गमित्यनुवर्त्यम् । कर्मणैवेत्येवकारान्वयः । शुभकर्मणैव स्वर्गं याति । भगवज्ज्ञानेनैव परमं पदं याति । न तु स्वर्गं परमं पदं वा स्वातन्त्र्येण यातीत्येवकारार्थः । तथा च फलरूपयोः परपदयानस्वर्गयानरूपदेवयानपितृयानयोः ज्ञानकर्मरूपसाधकायत्त-त्वेन जीवानां तत्र फले स्वातन्त्र्याभावादीशाधीनमपि स्वातन्त्र्यं कर्मादिरूपसाधन एवेति काम्यकर्मणि वैराग्यं कार्यमेवेति भावः ।।१५।।

२६. नन्वथापि न कर्मणि वैराग्यं युक्तम् । ‘धूमो भूत्वाभ्रं भवति’ इति श्रुतौ कर्मकृतो महासुखहेतुदेवताभावस्योक्तेरित्यतः प्राप्तम् - तत्स्वाभाव्यापत्तिरुपपत्तेरिति । तस्याप्यर्थमाह - ज्ञानेनैव परं पदं यातीति ।।

२७. शुभेनेत्याकृष्यान्वेति । स्वर्गमेवेत्येवकारान्वयः । शुभेन कर्मणा जीवः स्वर्गमेव याति । न तु देवतात्वादिकम् । कुतः, यतो ज्ञानेनैव स्वयोग्यज्ञानेनैव परं उत्तमं पदं स्वर्गरूपं देवत्वं देवतापदवीं वा याति । न तु कर्मणा विद्यागम्यं पदं यस्मादि-त्युक्तेरित्यर्थः । धूमो भूत्वेति श्रुतिस्तु ‘धूमादिभावप्राप्तिश्च तद्भतौ गतिरेव च’ इत्यादिस्मृतेः देवतासायुज्यपरेति भावः ।। १६ ।।

२८. यत्तु स्वर्गादवरूढस्य कर्मिणः ‘यथेतमाकाशमाकाशा-द्वायुः वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति अभ्रं भूत्वा मेघो भवति’ इत्यादौ बहुस्थानप्राप्त्युक्तेः, अनेकस्थानेषु कल्पान्तं तत्तद्देवतासायुज्येन महासुखहेतुत्वात् किं कर्मणि वैराग्येणेत्यतः प्राप्तम् नातिचिरेण विशेषादिति सूत्रम् ।

२९. तदर्थस्य ‘शुभेन कमेणा स्वर्गं’ इति प्राचीनभाष्येणैव भोगावशिष्टशुभकर्मादिसहितो जीवः ईषत् अल्पकालेनैव अस्वर्गं स्वर्गादन्यत् भूम्यादिकं याति, न तु चिरेणेति योजनया सङ्ग्रहसंभवान्न पृथगुक्तिः ।

स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात्पूर्वमेव तु ।

मातुः शरीरमाप्नोति’ इत्यादेरिति ।। १७ ।।

३०. ननु ‘त इह व्रीहियवा ओषधिवनस्यपतयस्तिला माषा इति जायन्ते’ इति श्रुतौ कर्मिणो व्रीह्यादिभावश्रवणात् सुखसाधनतया वेदोपदिष्टकर्मवतां व्रीह्यादिभावेन दुःखित्वे ‘ब्राह्मणो विर्वेदमायात्’ इत्यादिवेदविहितवैराग्यादावपि तच्छङ्का स्यात् । यज्ञानां हिंसायुतत्वेन ततः पापस्य संभवेन दुःखहेतुत्वस्य न्याय्यत्वेन सुखहेतुत्वेन विधानायोगाच्चेत्यतः प्राप्तम् - अन्याधिष्ठिते पूर्ववदभिलापादि-त्यादियोगद्वयम् ।

३१. तदर्थस्यापि शुभेनैवेति भाष्येणैव शुभेन कर्मणा स्वर्गं यातीति यज्ञादिकर्मणः शुभत्वस्वर्गरूपसुखहेतुत्वयोरुक्त्या, तथा शुभेन कर्मणा अस्वर्गं स्वर्गादन्यत्, पदमित्यन्वेति, व्रीह्यादिस्थानमेव याति, न तु तद्भावं प्राप्नोतीत्युक्त्या च सङ्ग्रहो बोध्यः । यागीयहिंसायाः ब्रह्महिंसावत् निषिद्धत्वाभावात्, प्रत्युत ‘वायव्यं श्वेतमालभेत’ इति विहितत्वाच्च पापाहेतुत्वेन शुभत्वात् पापाहेतुत्वेनैव दुःखानापादकत्वात् तद्युक्तयज्ञानां सुखसाधनत्वं दुःखाहेतुत्वं च युक्तमेव । ‘व्रीहियवाः’ इति श्रुतिस्तु व्रीह्याद्यभिमानिजीवेन स्थानैक्यपरेति भावः ।। १८ ।।

३२. यत्तु ‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इत्युक्तेः स्वर्गादवरूढस्यापि पितृप्रवेशं विनैव मातृप्रवेश इत्याशङ्क्य पितृक्रमेण मातृप्रवेशं वक्तुं सूत्रम् - रेतःसिग्योगोथेति ।

यच्च ‘देहं गर्भस्थितं क्कापि प्रविशेत्स्वर्गतो गतः’ इत्युक्तेः पितृप्रवेशं विनैव मातृप्रवेशोऽस्तु । आस्तीकादौ दर्शनात् । द्रुपद-मान्धातृशुकादौ दर्शनान्मातृप्रवेशोऽपि व्यर्थ एवेत्याशङ्क्य कर्मिणां पितृक्रमेण योनिद्वारा मातृप्रवेशोक्त्यर्थं सूत्रम् - योनेः शरीर-मिति ।

तत्र पित्रादिक्रमेणैव जननमौत्सर्गिकम् । क्कचिदन्यथाभावो बलवत्कारणकृत इति भावेन प्रसिद्धत्वात् पित्रादिक्रममुक्त्वा अन्यथाभावेऽपि हेतुमाह - ज्ञानेनैव परं पदं यातीति ।

३३. शुकादिजीवा यत्परं अन्यत्पदं स्थानं प्रसिद्धं मातापित्रादि-स्थानं विना यत्स्थानान्तरपुरुषमातृप्रभृति यान्ति तज्ज्ञानेनैव भगवज्ज्ञानप्रभावेणैवेत्यर्थः । तेषां ज्ञनित्वेन ज्ञानप्रभावात् क्कचिदन्य-थात्वेऽपि कर्मी पितृप्रवेशक्रमेणैव शरीरं प्रतिपद्यत इति नियमात् विधेयमेव कर्मणि वैराग्यमिति । तदुक्तमनुभाष्ये - ‘जीवपुरुषयोनीनां सङ्गातिनियमोज्ज्ञितिम् । अथशब्देन भगवानाह कारणतश्च ताम्’ इति । उक्तं च न्यायविवरणे-

विशेषकारणादेव विशेषाज्जनिरिष्यते ।

सामान्यजननं चैव नृणां सामान्यहेतुतः ।।’

इति । उक्तं च सुधायां - ‘जन्मकारणादृष्टाकृष्टो जन्तुः बीजादिसंबन्धेन शरीरमापद्यत इत्युत्सर्गः । स च क्कचिज्ज्ञान-तपोयोगादिलक्षणेन कारणविशेषेणापाद्यते’ इत्यादि ।

३४. एवं सक्षेपतो निरूपितस्य एतत्पादीयाशेपनयार्थस्य परम्परया मुक्तिहेतौ वैराग्ये उपयोगं वदन्नुपसंहरति - तस्मादिति । ज्ञानादन्यस्य अस्थिरानर्थफलसाधनत्वात्, ज्ञानस्यैव स्थिरमहा-फलसाधनत्वात् अन्यत्र विरक्तः सन् भगवज्झानमेव सम्पदोक्त-भक्तिश्रवणादिसाधनैः आश्रयेत्, सम्पादयेदित्यर्थः ।। १९ ।। २० ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य विवृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां

तृतीयाध्यायस्य प्रथमः पादः ।

Load More