द्वितीयाध्यायस्य प्रथमः पादः
द्वितीयाध्यायस्य प्रथमः पादः
ब्रह्मसूत्राणुभाष्यम्
श्रौतस्मृतिविरुद्धत्वात् स्मृतयो न गुणान् हरेः।
निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम्॥ १॥
देवतावचनादापो वदन्तीत्यादिकं वचः ।
नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् ॥ २॥
तत्वमञ्जरी
१. ननु यदुक्तं अतोऽनन्तगुण इति तदसाध्विव । तत्र युक्तयादिभिर्विरोधात् । तत एव हरेर्दोषित्वस्याप्यापाताच्चेति । अतः प्राप्तो द्वितीयोऽध्यायः । तस्यैकवाक्यत्वसिद्धये प्रतिपाद्योक्तिपरतया-
‘सर्वदोषोज्झितस्तस्मात् भगवान् पुरुषोत्तमः ।
उक्ता गुणाश्चाविरुद्धास्तस्य वेदेन सर्वशः’
इति अन्तिमभाष्यमादावाकृष्य योज्यम् । तथा हि । उक्ता इत्यावर्त्यम् । सर्वशः इत्यपि । तस्य भगवतः । सर्वशो वेदेन कृत्स्नवेदेन । पूर्वाध्यायोक्तन्यायानुगृहीतेनेति भावः । उक्ताः सर्वशो गुणाः सर्वकर्तृत्वादयो गुणाः अविरुद्धाश्च युक्तिसमयादिविरोध-रहिताश्चोक्ताः। सूत्रकृता प्रतिपादिता इत्यर्थः । तस्मात् सर्वविरोधानां परिहृतत्वात् भगवान् पुरुषोत्तमः सर्वदोषोज्झित उक्तः प्रतिपादित इति । पूर्वोक्तार्थे प्रतीताशेषविरोधनिरासेन निर्दोषाशेषगुणता हरेरत्र निर्णीता सूत्रकृतेति यावत् ।
२. आद्यपादार्थोक्तिपरतया ‘नायुक्तं तद्विदेत् श्रुतिः’ इत्यप्या-दावाकृष्य योज्यम् । ‘अतोऽनन्तगुण’ इत्युक्तं प्रमेयं नायुक्तम् युक्तिविरुद्धं न वदेत् श्रुतिरित्याह आत्राद्यपादे सूत्रकृदिति शेषः । युक्तिसमय-श्रुति-युक्तयुपेतश्रुतिविरोधभेदेन विरोधस्य स्मृत्यविरोध-परस्य युक्तिविरोधपरत्वमप्यस्ति । स्मृतिविरोधस्य युक्तिसमयादि-चतुर्विधविरोधरूपत्वादिति भावः ।
३. ननु यदुक्तं अतोऽनन्तगुण इति । तन्न । शैवसांख्य-बौद्धार्हतादिस्मृतिषु शिवादेरेव सर्वकर्तृत्वादिमहिम्नो वर्णनेन तद्विरोधात् । न च तासामप्रामाण्यम् । सर्वज्ञशिवादिप्रत्यक्षमूलत्वेन तदयोगादित्याशंक्य तन्निरासाय प्राप्तं - स्मृत्यनवकाशेत्यादि-सूत्रत्रयम् । तदर्थं भाषते -
श्रौतस्मृतिविरुद्धत्वात् स्मृतयो न गुणान् हरेः ।
निषेद्धुं शक्नुयुरिति ।
४. श्रौतीभिः श्रुतिसंवादिनीभिः पाञ्चरात्रादिभिः स्मृतिभिः विरुद्धत्वात् विशेषेण रुद्धत्वात् बाधितत्वादिति यावत् । शैवादिस्मृतयो हरेर्गुणान् निषेद्धुं न शक्नुयुः । तद्भावबोधनाक्षमा इत्यर्थः । सर्वज्ञ तमविष्णुप्रत्यक्षमूलत्वात् श्रुतिसंवादाच्च वैष्णव-स्मृतीनां प्राबल्यमिति भावः । न चाप्तोक्तानां शैवादिस्मृतीनां अप्रामाण्यायोगादनवकाशत्वमित्यतो न निषेधेयुरित्यनुक्तवा न शक्नुयुरित्युक्तम् । तदुक्तसाधनानुष्ठानेऽपि योग्यफलानुपलब्धेः अलब्धप्रामाण्यानामेतन्निषेधे शक्तयभावादित्यर्थः । शिवादेः सर्वज्ञ-त्वेऽप्ययोग्यजनप्रतारणार्थं कृतत्वेन आप्तोक्तत्वस्यैव तासामभावात् अप्रामाण्यस्यैवोपपत्तेरिति भावः ।।१।।
५. ननु फलविसंवादेनाप्रामाण्ये शैवादिस्मृतिवदेव श्रुति-श्रौतस्मृतीनामपि तथात्वं स्यात् । वेदादिष्वपि फलविसंवादस्य बहुलमुपलंभादित्यतः प्राप्तं - न विलक्षणत्वादस्येत्यादिसूत्र-द्वयम् । तदर्थः - वेदा नित्यत्वान्मानमुत्तममिति ।
६. श्रौतस्मृतय इति विभागविपरिणामाभ्यामनुवर्त्यम् । वेदाः श्रौतस्मृतयश्च उत्तमं प्रमाणं कुत इत्यतः श्रौतस्मृतिप्रामाण्यस्य
श्रुतिप्रामाण्यायत्तत्वात् वेदप्रामाण्ये हेतुमाह - नित्यत्वादिति । वेदानामिति योग्यतयाऽन्वेति । अपौरुषेयत्वादित्यर्थः । अप्रामाण्यस्य दोषैकहेतुत्वात् वाक्ये च दोषाणां स्वतन्त्रपुरुष-दोषनिमित्तत्वात् वेदे च अभिनवानुपूर्वीरचयितृपुरुषस्याभावेन तद्दोषनिबन्धनदोषाणामभावनियमादिति भावः ।
७. नित्यत्वं च ‘वाचा विरूपनित्यया’, नित्या वेदाः समस्ताश्च’ इत्यादिश्रुतिस्मृतिसिद्धत्वान्नासिद्धमिति भावः । अत्र वेदस्य नित्यत्वं नाम सजातीयानुपूर्वीकत्वम् । न वर्णवत् कूठस्थनित्यत्वमिति ध्येयम् । ‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः’ इति, ‘क्रमस्य कृतकत्वेऽपि’ इत्यादितत्वनिर्णयटीकोक्तेः । यत्तु ‘नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं’ इत्यादितत्वसंख्यानटीकायां ‘नित्यत्वं नाम कूटस्थतया आद्यन्त-शून्यत्वं’ इति वचनं तत्तु सर्वज्ञेश्वरबुद्धिक्रममपेक्ष्य, नत्वस्मदादि-प्रमोत्पादकक्रममपेक्ष्य । ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इति तत्वनिर्णयोक्तेः ।
८. ननु माऽस्त्वप्रामाण्यं वेदस्य । तद्धेतुदोषाणां अभावात् । प्रामाण्यं कुतः । तस्याप्तोक्तत्वादिगुणहतुकत्वादित्यतोऽपि - नित्यत्वादिति । सहजत्वादित्यर्थः । मानत्वस्येति योग्यतयाऽन्वेति । वेदप्रामाण्यं हि यथार्थज्ञानजननशक्तिः । सा च मानत्वस्य प्रमाजननसामर्ध्यस्य नित्यत्वात् स्वाभाविकत्वात् । गुणान-पेक्षत्वादिति यावत् । वेदाः उत्तमं मानमित्यर्थः ।
९. ज्ञानजनकत्वमेवासिद्धमित्यतः श्रौतेति प्रस्तावात् श्रुतय इति वाच्ये वेदा इत्युक्तिः ‘वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदाः’ इत्यादेः विद्धात्वर्थज्ञानजनकत्वद्योतनाय । तथा च बोधकत्वात् दोषाभावेन विपरीतबोधकत्वाभावात् वेदाः उत्तमं मानमित्यर्थः ।
१०. उक्तं च जैमिनिसूत्रे ‘औत्पत्तिकस्तु शब्दस्यार्थेन संबंधस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चार्थेनोपलब्धे तत्प्रामाण्यं’ इत्यादि । वेदा इत्युक्तया ‘वेदा ह्येवैनं’ इति श्रुतिसूचनेन मानान्तरसंवादान-पेक्षमेव वेदप्रामाण्यमिति सूचितम् ।
एवं च सति प्रामाण्ये विसंवादः कर्तृवैगुण्यादिकृत इति कल्प्यं अधिकारिणां फलोपलंभादिति भावेनोत्तममित्युक्तम् ।। २ ।।
११. नन्वथापि ‘अतोऽनन्तगुण इत्ययुक्तम् । ‘आपोब्रुवन्’ ‘मृदब्रवीत्’, ‘ता आप ऐक्षन्त’ इत्यादिवेदवचसः अबादिकं न वक्तृ जडत्वात् घटवदित्यादियुक्तिविरुद्धत्वेन अमानत्वे तत्सामान्यादितरेषु तथात्वमिति जैमिनिन्यायेन सर्ववेदवचसि प्रामाण्येऽनाश्वासादित्यतः प्राप्तम् - अभिमानिव्यपदेशस्त्विति योगद्वयम् । तदर्थः - देवतावचनादापो वदन्तीत्यादिकं वचः । नायुक्तवादीति ।
१२. आपो वदन्तीत्यर्थानुवादः । शाखान्तरवाक्यं वा । ‘आपोऽबुवन्’ इत्यादिकं वचः न युक्तिविरुद्धार्थवादी । कुतः । देवतावचनात् । देवताकर्तृकवचनादित्यर्थः । उपलक्षणमेतत् । ईक्षणादेः देवताकर्तृकत्वादित्यर्थः ।
१३. तदेव कुतः । देवतावचनात् । अबादिशब्दैः अबाद्य-भिमानिचेतनरूपदेवतानामभिधानादित्यर्थः । ननु कथं युक्तिविरोध-मात्रेण अबादिपदनां अमुख्यार्थान्तरग्रहणम् । ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिपु स्मृतम्’ इत्युक्तेरित्यतोऽबादिजडादप्यभिमानि-चेतने तच्छब्दानां मुख्यत्वमिति सूचनाय वचनादित्यभिधावृत्तिरुक्ता । तत्राबादिशब्दाप्रवृत्तिनिमित्ताप्त्वादिकं प्रति स्वातन्त्र्यरूपतदधीनत्व सूत्रोक्तन्यायस्मारणाय स्वामिवाचिदेवतापदप्रयोगः । अन्यथा चेतनेत्येव ब्रूयात् ।
१४. ननु देवता नास्त्येव । मानाभावात् । शरीरेन्द्रियादि-मत्त्वे चोपलंभापत्तेः । अन्तर्धानशक्तौ च न मानमित्यनुपपत्ति-निरासायापि देवतावचनादिति । ‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजस’ इत्यादितादृशदेवताप्रतिपादकागमरूपवचनादित्यर्थः । तथा च देवता तद्विग्रहतदन्तर्धानाभिमन्यमानव्यापकत्वादेः सिद्ध-त्वान्न कोऽपि दोप इति ।। ३ ।।
१५. नन्वथापि न सर्वकर्तृत्वाद्यनन्तगुणो हरिरिति युक्तम् । सर्वे भावाः प्रलयेऽसन्तो भावत्वात् कार्यवदिति युक्त्या लये भावमात्रासिद्धौ कार्यस्य कर्त्रुपादानपूर्वकत्वनियमयुक्त्या ‘असदे-वेदमग्रे’, ‘स यद्यदेव तन्मनोऽकुरुत’ इत्यादिश्रुत्युपसर्जनतया कारणत्वेनोपेतस्य लयवर्तिविश्वप्रागभावस्य कर्तृत्वसाधनेन तद्विरोधा-दनन्यगत्या तस्यैवोषादानत्वात् । न च जडस्य कर्तृत्वायोगः । वृक्षेण स्थीयत इत्यादौ कर्तृवाचितृतीयादर्शनात् । न चाभावस्य भावोपादानत्वायोगः । नीरूपस्य वायो रूपयुक्ताग्न्युपादानत्व-वदुपपत्तेः । कुत एवेश्वरः कुतस्तरां तस्य सर्वकर्तृत्वं, कुतस्तमां अनन्तगुणता तस्येत्यतः प्राप्तं - असदिति चेदित्यादिसूत्रषट्कम् । तदर्थः असन्नैवकारणं दृश्यते क्कचिदित्यादि ।
१६. अत्रासच्छब्देन लयवर्तिविश्वप्रागभाव उच्यते । कारण-शब्दः कर्तृवचनः । अभावो नैव कर्ता कुत इत्यतोऽपि - असदिति । हेतुगर्भमिदम् । अभावत्वात् निषेधैकस्वरूपत्वात् । तावता कुतो कर्तृतेत्यतोऽपि - असन्नेव कारणं दृश्यते क्कचिदिति । अभावः कर्ता क्कापि नोपलभ्यत इति व्यभिचारा-भावोक्त्या योऽभावः सोऽकर्ता इति व्याप्तिलाभात्तद्बलादिति भावः । तृतीयायोगित्वरूपकर्तृत्वदृष्टावपि हरावभिमतस्य बुद्धिपूर्वकृति-मत्त्वरूपकर्तृत्वस्य क्कचिदभावेऽनुपलंभादिति भावः ।
ननु लोकेऽदृष्टमपि अस्तु विश्वप्रागभावस्य उक्तदिशा कर्तृत्वमुपादानत्वं च । तथा चाप्रयोजको हेतुरित्यतोऽपि असदिति । असदेवेत्येवकारान्वयः । यद्यसत् अभावः कर्तृ उपादानकारणं तर्हि क्कचित्प्रलये असदेव स्यादिति शेषः । अभावमात्रावशेषः स्यात् । कार्यनाशे उपादानकारणावशेषनियमात् । नेदमनिष्टमित्यतोऽपि - न दृश्यते क्कचिदिति । क्कापि प्रमाणे लयेऽभावमात्रावशेषस्या-दर्शनादित्यर्थः । भावत्वं तु लयरूपे काले व्यभिचारि । श्रुतिगतिस्तु वक्ष्यते । तथा चाप्रामाणिकस्वीकाररूपत्वादनिष्टमेवेति नाप्रयोजको हेतुरिति भावः ।
किञ्च प्रामाणिकपरित्यागरूपत्वाच्चेदमनिष्टं इत्यप्याह - असदित्यादिना । कारणं क्कचित् प्रलये असन्नैव अभावो नैव । किन्तु भाव एव । कुतः । दृश्यते क्कचित् । अनुमानरूपे प्रमाणे तथोपलंभादित्यर्थः । विमतोत्पत्तिः भावाधीना उत्पत्तित्वात् घटोत्पत्तिवत् । विमतो विनाशः सशेषः नाशत्वात् घटनाशवत् इत्यनुमानेन लये भावकारणसिद्धेरिति भावः ।
१७. नन्वभावस्य निषेधैकस्वरूपत्वेन विवक्षितकर्तृत्वायोगेऽपि घटादौ कर्तृत्वेन दृष्टस्य जीवस्यैव लाघवयुक्त्या विश्वकर्तृत्वमप्यस्तु । तथा प्रधानस्य विश्वोपादानस्य वाऽस्तु कर्तृत्वं लाघवात् । अकारणकमेवोत्पद्यतां जगदुक्तयुक्तेः । न च युक्तिरप्रयोजिका । ‘जीवाद्भवन्ति भूतानि’, ‘प्रधानादिदमुत्पन्नं’, ‘अकस्माद्धीदमा-विरासीत्’ इत्यादिश्रुतिमूलत्वादित्यतः अमूषां पूर्वोक्तश्रुतेश्च अन्यथासिद्धिं एतेनेति षष्ठगुणसूत्रस्मारितामाह
असज्जीवप्रधानादिशब्दा बह्मैव नापरम् ।
वदन्ति कारणत्वेन क्कापीति ।
‘एतेन सर्वे व्याख्याताः’ इत्यत्रोक्तन्यायेनेति भावः । तथा च युक्तिर्निर्मूलत्वात् अप्रयोजिकैवेति भावः ।
यद्वा ‘असन्नैव कारणं’ इत्यत्र असत्पदोद्धारेण जीवपदावापेन जीवः क्कापि कारणं नैव दृश्यते । येन लाघवावतारः स्यादिति व्याख्येयम् । जीवस्य सुखदुःखादौ स्वतन्त्रकर्तृत्वाभावदर्शनेन घटादावपि तथाऽनुमानादिति भावः ।। ४ ।।
१८. नन्वथापि अनन्तगुणो हरिरित्यसाधु । अल्पगुण-जीवाभिन्नत्वात् जीववदिति युक्तिविरुद्धत्वात् । न चासिद्धिः । ‘परेऽव्यये सर्व एकीभवन्ति’ इति श्रुतिसिद्धत्वात् । श्रौतैक्यस्य च ब्रह्मधर्मत्यागेन तस्य जीवसालक्षण्येन वा, जीवधर्मत्यागेन तस्य ब्रह्मसालक्षण्येन वा, उभयधर्मत्यागेन चिन्मात्रेण वा निर्वाह्यत्वादि-त्यतः प्राप्तम् - भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवदिति । तदर्थः - पूर्णगुणो हरिरिति ।
१९. निर्दोषश्रुतिसाक्षिभ्यां प्रमितेशजीवधर्मत्यागायोगेन ऐक्यस्य बाधिततया हेतोरसिद्धिः । श्रौतैक्योक्तिस्तु उदके उदकान्त-रस्यैक्योक्तिवत् स्थानैक्यादिना गौणी नेयेति भावः ।। ५ ।।
२०. नन्वथापि न सर्वकर्तृत्वाद्यनन्तगुणो हरिरिति साधु । विमता सृष्टिः, कर्त्रन्यस्वतन्त्रसाधनसाध्या, सृष्टित्वात् पटसृष्टिवदि-त्यनेकस्य स्वातन्त्र्यसाधकयुक्तिविरोधेन ईशस्यैव स्वातन्त्र्यबोधक-वेदस्याप्रामाण्यादित्यतः प्राप्तं - तदनन्यत्वमारंमणशब्दादिभ्य इत्यादियोगसप्तकम् । तदर्थः स्वातन्त्र्यादिति ।
२१. हरेरिति विपरिणामेनान्वयः । ‘नायुक्तं तद्वदेत् श्रुतिः’ इति चेहाप्यन्वेति । हरेरेव स्वातन्त्र्यादन्यस्य अस्वातन्त्र्यात् युक्तिविरुद्धवादिनी श्रुतिर्न भवति । येनोक्तदोषः स्यादित्यर्थः । कुतो हरेरेव स्वातन्त्र्यमित्यतोऽपि - नायुक्तमित्यादि । तत् हरेरेव स्वातन्त्र्यं अन्यस्यास्वान्त्र्यमित्येतत् ‘किं स्विदासीदधिष्ठानभारंभणं नासदासीन्नोसदासीत्तदानीं नासीद्रजो नो व्योम’ इत्यादि-साधनान्तरस्वातन्त्र्यनिराकरणपरा श्रुतिर्वदेत् । तथाऽयुक्तं न युक्तिशून्यं न । सर्वस्य तत्तन्त्रत्वात् साधनसत्ताप्रदत्वात् इत्यादि-युक्तिसिद्धं च यतोऽत इति योज्यम् ।
२२. स्वरूपनिराकरणपरेयं कुतो नेत्यतः - अयुक्तं तदिति । तत् साधनस्वरूपनिराकरणमयुक्तमित्यर्थः । कुत इत्यतोऽपि - नायुक्तं तद्वदेत् श्रुतिरिति । तत् साधनजातं श्रुतिर्वदेत् प्रतिपादयति । तदयुक्तं न । विमता सृष्टिः, कर्त्रन्यसाधनसाध्या, सृष्टित्वात् पटसृष्टिवदिति युक्तिसिद्धं च यतोऽत इति योज्यम् । ‘अद्भ्यः संभूतः पृथिव्यै रसाच्च’ इति, ‘तम आसीत्’ इति, ‘अद्भ्यः संभूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिश्रुत्यादौ साधनान्तर-सत्वोक्त्यान्यथाऽनुपपत्तेः स्वातन्त्र्यरूपधर्मान्तरेण निषेधो न स्वरूपेणेति भावः । तथा ‘तद्यदासीत्तदावृतमासीत् तस्माद्धान्यन्न परः किञ्च नास’ इत्यादिका श्रुतिः तत् हरिस्वातन्त्र्यादि स्पष्टं वदेत् । अतश्चेति च योज्यम् । अप्रामाणिकत्वाच्च साधनान्तरस्वातन्त्र्यं नोपेयमित्याह - नायुक्तं तद्वदेच्छतिरिति । तत् साधनान्तर-स्वातन्त्र्यं अयुक्तं युक्तिशून्यं श्रुतिर्न वदेत् । श्रुत्यसिद्धं चेत्यर्थः । प्रत्यक्षं तु तत्र नैव योज्यम् । अतः प्रमाणैरनुपलंभान्न साधनान्तर-स्वातन्त्र्यमिति भावः । विमता सृष्टिः, कर्त्रन्यस्वतन्त्रसाधनसाध्ये-त्यादियुक्तिस्तुप्रागुक्तश्रुत्यादिना बाधिता । साधनसत्त्वश्रुतिस्तु परतन्त्रसाधनपरेति भावः ।
२३. नन्वेवं हरेरेव स्वातन्त्र्ये स्वरूपसामर्थ्येनैव सर्व-सृष्ट्याद्युपपत्तौ साधनान्तरोपादानमपि तस्य न स्यादित्यतोऽपि - नायुक्तं तदित्यादि । तत् साधनान्तरोपादानं स्वतन्त्र्स्यापि हरेरयुक्तं न । लीलयोपपत्तेरिति भावः । गमनशक्तस्य पुंसो लीलया दण्डमालंब्य गच्छतो पङ्गुत्ववदैश्वर्याविरोधात् । लीलया तूपादानमिति कुतः । अशक्तस्यैव कुतो नेत्यत आह - तद्वदेच्छतिरिति । लीलयैव साधनान्तरोपादानमित्येतत्
‘शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं’
इत्याद्यनुभाष्योक्तश्रुतिर्वदेद्यतोऽत इत्यर्थ इत्याद्यूह्यम् ।। ६ ।।
२४. नन्वथापि न हरिरेव स्रप्टृत्वाद्यनन्तगुण इति युक्तम् । जीवो महदादिविश्वकर्ता चेतनत्वात् ईशवाद्यङ्गीकृतेशवत् इत्यादियुक्तया ‘जीवाद्भवन्ति भूतानि’ इत्यादिश्रुत्यनुभवसंवादिन्या जीवकर्तृत्व-साधिन्या विरुद्धत्वेन ईशस्रष्टृत्वश्रुतेरमानत्वादित्यतः प्राप्तं - इतर-व्यपदेशादित्यादिसूत्रषट्कम् । तदर्थः - सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छतिरिति ।
२५. हरेरित्यस्ति । हरेरेव सर्वकर्तृत्वात् नोक्तयुक्तिविरुद्धवादिनी श्रुतिरित्यर्थः । कुत एवं, जीवकर्तृत्वमेव कुतो नेत्यतोऽपि - अयुक्तं तदिति । तच्च जीवकर्तृत्वमयुक्तं युक्तिशून्यम् । तथा हिताकरणा-हितकरणकृत्स्नप्रसक्तयादियुक्तिविरुद्धं च यतोऽत इति । चेतनत्वं त्वप्रयोजकमिति भावः । श्रुत्यादिमूलं कथमेवमित्यतोऽपि श्रुतिः तज्जीवकर्तृत्वं न वदेदिति योज्यम् । पूर्वोक्तदिशा ब्रह्मपरत्वात् । स्वतन्त्रकर्तृत्वानुभवस्तु अस्वातन्त्र्यानुभवबाधित इति भावः ।। ७ ।।
२६. ननु जीव इवेशेऽपि कृत्स्नप्रसक्तयादियुक्तिविरोध-दोषसाम्यात् हस्तादिकरणशून्यत्वाच्च तस्यापि स्रष्टृत्वाद्यनन्तगुणता न युक्तेत्यतः प्राप्तं - श्रुतेस्तु शब्दमूलत्वादित्यादिसूत्रपञ्चकम् । तदर्थः - नायुक्तं तद्वदेदित्यादि ।
२७. तत् हरेः स्रष्टृत्वाद्यनन्तगुणत्वं अयुक्तं कृत्स्नप्रसक्त्यादि-युक्तिविरुद्धं न । कुतः । तत् लोके विरुद्धधर्माणां ईशेऽविरुद्धत्वं ‘योऽसौ विरुद्धोऽविरुद्धः’ इत्यादिश्रुतिः तथा तत् अप्राकृत-हस्तपाण्यादिमत्त्वं वा ‘अपाणिपादो जवनो गृहीता’ इत्यादिश्रुतिः वदेद्यतोऽत इति । ननु श्रुत्युक्तत्वेऽपि कथं युक्तिविरुद्ध-मुपेयमित्यतोऽपि नायुक्तं तदिति । तत् प्रागुक्तं युक्तिविरुद्धं न । यतः तत् प्रकृतं ब्रह्म अयुक्तं युक्त्ययोग्यम् । न हि युक्त्यगम्यस्ये युक्तिविरोध इति भावः ।
२८. कुत एतत् । यत् मुक्तगम्यत्वं ‘औपनिषदः पुरुषः’ इत्यादिश्रुतिर्वदेद्यतोऽत इति । किञ्च तद्बह्म नायुक्तं सर्वविरोध-शामकानन्तशक्तियुक्तमेव । ‘विचित्रशक्तिः पुरुषः पुराणः’, ‘न चान्येषां शक्तयः’ इत्यादिश्रुतिर्वदेत् । जीवं तु नैवं यतोऽत इति ।।८।।
२९. नन्वधापि न स्रष्टृत्वाद्यनन्तगुणत्वं हरेः साधु । स्रष्टृत्वादेः फलवत्त्वेऽपूर्णतापत्तेः । असति च फले प्रेक्षावच्वाभावापत्तेरित्यादि-युक्तिविरोधादित्यतः प्राप्तं - न प्रयोजनवत्त्वादिसूत्रदूयम् । तदर्थः - नायुक्तमित्यादि ।
३०. तत् स्रष्टृत्वाद्यनन्तगुणत्वं अयुक्तं उक्तरीत्या फलमुखयुक्ति-विरुद्धं न । कुतः तत् स्रष्टृत्वादिसाध्यफलं अनपेक्ष्यैव स्रष्टृत्वादिगुण-वत्त्वं केवलं लीलयैवेति ‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’ इत्यादिश्रुतिः वदेद्यतोऽन इत्यादि योज्यम् । लोके मत्तस्य नृत्तगानादिवत् पूर्णस्यापि हरेर्लीलारूपतया स्रष्टृत्वोपपत्तेरिति भावः । श्रुतौ ‘एष’ इत्यस्येच्छारूपः सृष्ट्यादिव्यापार इत्यर्थः ।। ९ ।।
३१. नन्वथापि न स्रष्टृत्वाद्यनन्तगुणत्वं हरेः साधु । निर्निमित्तं प्राणिनां विभागेन सुखदुःखादिदाने वैषम्यस्य नैर्द्यृण्यस्य चापत्तेरित्यतः प्राप्तं - वैषम्यनैर्घृण्ये न सापेक्षत्वादित्यादि-सूत्रत्रयम् । तदर्थः - नायुक्तं तदित्यादि ।
३२. तत् स्रष्टृत्वाद्यनन्तगुणत्वं नायुक्तं प्रागुक्तयुक्तिविरुद्धं न भवति । कुतः । तत् स्रष्टृत्वादिकं ‘पुण्येन पुण्यं लोकं नयति । पापेन पापं’ इत्यादिका श्रुतिः कर्मसापेक्षं वदेद्यतोऽत इति योज्यम् । अनादितत्तदीयकर्मापेक्षया सुखादिदानान्न वैषम्यादियुक्तिविरोध इति भावः । नन्वेवं कर्मणोऽस्वातन्त्र्ये पुनर्वैषम्यद्यापत्तिः । स्वातन्त्र्ये तु हरेः सर्वस्वातन्त्र्यादिगुणहानिरित्यतोऽपि - नायुक्तं तदित्यादि । तत् हरेः स्रष्टृत्वस्वातन्त्र्यादिगुणवत्त्वं उक्तयुक्तिविरुद्ध न । कुतः । तत् स्वाधीनकर्मापेक्षया फलदानं ‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशिताऽपि’ इत्यादिका श्रतिरदोषं वदेद्यतोऽत इति योज्यम् । तत्तदीयानादिपूर्वपूर्वपुण्यादिकं अपेक्ष्य आत्मना तैस्तैः कारितोत्तर-पुण्यादिकमपेक्ष्य सुखदुःखादिफलदानेन प्राप्तवैषम्यादेरदोषत्वस्य श्रुतावुक्तत्वात् वेदाप्रामाण्यकारणत्वाभावान्न कोऽपि दोष इति भावः ।। १० ।।
३३. नन्वथाप्यनन्तगुणो हरिरित्यसाधु । हरिः नानन्तगुणः चेतनत्वात् चैत्रवत् । दोषवान् गुणवत्त्वात् चैत्रवदित्यादियुक्ति-विरुद्धत्वादित्यतः प्राप्तं - सर्वधर्मोपपत्तेश्चेति । तदर्थः - नायुक्तं तदित्यादि ।
३४. तत् हरेरनन्तगुणत्वादिकं नायुक्तं युक्तिविरुद्धं न । कुतः । तत् हरेः निर्दोषाशेषसद्गुणत्वं ‘गुणाः श्रुताः’ इत्यादिका श्रुतिः वदेद्यतोऽत इति । तथा नायुक्तं तत् उक्तं प्रमेयं युक्तिहीनं न । किंतु, हरिः प्राप्तानन्तगुणः तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् । हरिः सदा त्यक्ताशेषदोषः तज्जिहासुत्वे सति तत्र शक्तत्वात्, सामान्यव्याप्त्या चैत्रवदित्यादियुक्तियुक्तमेव यतोऽत इति । प्राचीनयुक्तिस्तु उक्तश्रुतियुक्तिबाधितेति भावः ।
३५. पादार्थं उपसंहरति - नायुक्तमित्यादि । तत् तस्मात् पूर्ववाद्युक्तयुक्तीनां सिद्धान्त्युक्तश्रुतियुक्तिबाधितत्वाद्भगवतः सर्व-कर्तृत्वाद्यनन्तगुणवत्त्वबोधिका ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादि श्रुतिः न युक्तिविरुद्धं वदेदित्यर्थः । श्रुतिरित्येकवचनं अर्थैक्याभिप्रायेण । ‘पुनस्तस्यार्थवित्तये चकार ब्रह्मसूत्राणि’ इत्यादिवदिति ।। ११ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य
विवृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां
द्वितीयाध्यायस्य प्रथमः पादः ।। ४ ।।