चतुर्थाध्यायस्य प्रथमः पादः

चतुर्थाध्यायस्य प्रथमः पादः

ब्रह्मसूत्राणुभाष्यम्

विष्णुर्ब्रह्म तथाऽदातेत्येवं नित्यमुपासनम्‌।

कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम्‌॥ १॥

प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः।

अनिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगतः॥ २॥

तत्वमञ्जरी

१. अस्मिन्नध्याये आद्यसूत्रस्थातःपदोक्तकर्मक्षयोत्क्रान्तिमार्ग- भोगरूपमोक्षाख्यं फलं निरूप्यत इति श्रीमद्भाष्यादेव अत्रैवाग्रे प्रतिपादनदिशा वा अध्यायार्थः सुज्ञानः । तथैव पादार्था अपि । तत्रान्त्यनये कर्मक्षयाख्यं फलं वक्ष्यन् सप्तभिर्नयैः अत्यावश्यकान्त-रङ्गसाधनं ज्ञानस्योच्यते । तदर्थं भापते - ‘विष्णुर्ब्रह्म तथा दातेत्येवं नित्यमुपासनम् । कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम्’ इति ।

२. तत्रायं विवेकः । सकृदनुष्ठिताग्निष्टोमादिना स्वर्गफलदर्शनात् श्रवणादिनाऽपि सकृदिनुष्ठितेनैव ज्ञानमस्त्वित्यतः प्राप्तस्य ‘आवृत्ति-रसकृदुपदेशात्’ इति नयस्याथों - नित्यमुपासनं कार्यमिति । श्रवणादिरूपमुपासंन नित्यं कार्यं न तु सकृदेवेत्यर्थः । व्रीह्यवघातादिवत् दृष्टार्थत्वेन यावज्ज्ञानोदयं श्रवणादेरावर्त्यत्वादिति भावः ।। १ ।।

३. यत्तु हरेः स्वामित्वस्यातिप्रसिद्धत्वात् नित्यं तदुपासनं नावश्यकमित्यतः प्राप्तं ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इति तदर्थः - आदातेत्येवं नित्यमुपासनम् । कार्यमापद्यपीति । विष्णुरित्यन्वेति । विष्णुरादाता स्वामीत्येवं प्रकारेण नित्यमुपासनं कार्यम् । नित्यमित्यस्य विवरणमापद्यपीति ।

आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः ।

नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’

इत्युक्तेरिति भावः ।

स्वामीति वाच्ये आदातेत्युक्तिः आदत्ते भृत्यानित्यात्मा इत्यात्मशब्दो योगेन स्वामिवाचीति सौत्रात्मपदं व्याख्यातुम् । ‘आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत्’ इत्यनुव्याख्यानोक्तेः । आदातेतीत्येव पूर्तौ प्रकारवाच्येवंशब्दोक्तिः आत्मत्वं विशेषण-मित्येवं रूपेणोपासनं कार्यं न तु जीवत्वेनेति वक्तुम् । ‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः’ इत्यादेः । तेन विष्णुः आत्मतया जीवत्वेनोपास्य इत्वेवं वदन्तो निरस्ताः ।। २ ।।

४. एतेन ‘नाम ब्रह्मेत्युपासीत’ इत्यादौ नामाद्यभिमानिरूप-प्रतीकतादात्म्येन उपासनमपाकुर्वतो ‘न प्रतीके न हि सः’ इति नयस्याप्यर्थः सङ्गृहीतः । विष्णुरादातेत्यनन्तरं विष्णुर्नामादावित्य-स्याप्यभिप्रेतत्वेन विष्णुनामादावित्येवं नित्यमुपासनं कार्यं, न तु विष्णुर्नामेत्येवं रूपेणेति व्याख्यानसंभवात् ।। ३ ।।

५. यत्तु विष्णोरतिप्रीतिहेतुत्वेन उत्कृष्टत्वरूपब्रह्मत्वोपासन-स्यावश्यकत्वं वक्तुं ‘ब्रह्मट्टष्टिः उत्कर्षात्’ इति सूत्रं तदर्थं

भाषते - विष्णुर्ब्रह्मेत्येवं नित्यमुपासनं कार्यमापद्यपीति । पूर्ववदू्याख्यानम् ।

आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु ।

गुणानां स्मरणाशक्त्तौ विष्णोर्ब्रह्मत्वमेव तु । स्मर्तव्यं’ इत्यादेः ।

अत्र विष्णुरादाता ब्रह्मेत्येवमिति सौत्रक्रमेऽनुसर्तव्येऽप्येवमुक्तिः आत्मत्वोपासनमपि ब्रह्मत्वयुक्तमेव कार्यमिति सूचयितुम् । ‘आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता । कार्यैव सर्वथा’ इत्यादेः । अत एव द्वयोः समुच्चते तथाशब्दः ।। ४ ।।

६. देवानां स्वाश्रयाङ्गकत्वगुणवच्वेन ईश्वरोपासनस्याङ्गेषु यथाऽश्रयभाव इत्युपासनापाद एवोक्तस्यात्र ‘आदित्यादिमतयश्च’ इत्यनेनावश्यकत्वमात्रोक्त्या ‘सुरेश्वरैः यथाक्रमं बहुगुणैर्विष्णु-रुपास्यः’ इत्युपासनापादीयभाष्येणैव सङ्गृहीतप्रायत्वात् अत्र तदर्थ-स्यानुक्तिः । यद्वा, आदातेत्यनन्तरमिति शब्दं प्रभृत्यर्थकमपि वा समुच्चयार्थं वा व्याख्याय स्वस्वोत्पत्त्यङ्गकश्च विष्णुरेवमित्यर्थमुक्त्वा ‘आदित्यादिमतयश्चङ्ग उपपत्तेः’ इत्येतदर्थसङ्ग्रहोऽपि ध्येयः ।। ५ ।।

७. तथा स्मरणध्यानसाधारण्येन उपासनमात्रस्य नित्यं कार्यत्व-भाषणात् ध्यानमात्राङ्गासीनादीत्थंभावोक्तिपरस्य ‘आसीनः संभवात्’ इति नयस्यार्थोऽत्र नोक्तः । यद्वा, एवमित्यनेनैव आसीनादीत्थं-भावमपि परामृश्यासीन इति नयार्थोऽपि सङ्ग्राह्यः । यद्वा, उपासनमित्यावर्त्यम् । एवं नित्यमुपासन कार्यम् । किं कृत्वा ? उपासनं, आसनस्योप उपासनम् । आसने उपविश्येत्यर्थः ।। ६ ।।

८. यदपि मुक्तिपर्यन्तमुपासनस्य कार्यत्वोक्तिपरं ‘आप्राय-णात्तत्रापि हि दृष्टं’ इति सूत्रं तदर्थोऽपि नित्यं यावन्मुक्ति उपासनं कार्यमित्युक्त्यैव सङ्गृहीत इति ।। ७ ।।

९. ननु साधनाध्याये वक्तव्यस्योपासनस्यात्र कर्मक्षयाख्य-फलोक्तिपरपादे निरूपणमसङ्गतमित्यतो ज्ञानस्यान्तरङ्गसाधनत्व-द्योतनायात्र निरूपणमिति भावेन तत्फलमाह - ब्रह्म तेन यात्य-परोक्षतामिति । तेन ब्रह्मत्वाद्युपासनेन ब्रह्म कर्तृ अधिकारिणाम-परोक्षविषयतां यातीत्यर्थः । एतेन यदुपासनापादे ‘तन्निर्धारणार्थ-नियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम्’ इति श्रवणमनननिदिध्यास-नानां साक्षात्परंपरया साक्षात्कारहेतुत्वमुक्तं, यदपि ज्ञानपादे ‘ऐहिकमप्रस्तुतप्रतिबन्धे’ इत्यत्र व्यभिचारनिरासेन ज्ञानफलकत्व-मुक्तं तदत्र स्फुटीकृतं भवति ।

१०. यत्तु ज्ञानस्य मुक्तिहेतुत्वमयुक्तम् । येन तदर्थ-मुपासनमावश्यकं स्यात् । चिरकालीनचीर्णकर्मणां भूयसां भावेन तेषां भोगेन विना निवृच्ययोगात् कर्मणां चिरकालभोगे च

सति जीर्णबीजवत् ज्ञानस्याहेतुत्वापत्तेरित्त्यतः प्राप्तं ‘तदधिगमे’ इत्यादिसूत्रसप्तकम् । तदर्थं भाषते - प्रारब्धकर्मणोऽन्यस्य ज्ञाना- देव परिक्षयः । अरिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगत इति ।

११. उभयस्यापि ज्ञानात्पूर्वोत्तरकालीनस्यापि सर्वस्य ज्ञानादेव परिक्षयो भवति । प्राचीनस्य नाशः । उदीचीनस्य चोत्तमानां सर्वात्मनाऽश्लेषः । अधमानां नृणां तु उत्तरारिष्टस्य परिक्षयो

नाम अशुचित्वास्पृश्यत्वासंभाष्यत्वाद्यनापादकत्वं तु प्रागुक्तरीत्या पापस्यास्त्येव । अतो न तेन विरोधः ।

नन्वेवं ‘नाभुक्तं क्षीयते’ इत्यादिवचनविरोध इत्यतः ‘अनारब्धकार्ये एव तु’ इति सूत्रोक्तं विशेषमाह - प्रारब्धकर्म-णोऽन्यस्यारिष्टस्येति । वचनं तु प्रारब्धपरमिति भावः । अत्र पुण्यपापसाधारण्येन कर्मण इति वाच्ये अरिष्टस्यैवेति पापस्यैवोक्तिस्तु प्राचीनपुण्यस्यानिष्टस्य त्याग इष्टस्य भोगः । उत्तरस्य चात्याग इति विशेषद्योतनाय । अन्यस्याप्रारब्धारिष्टादन्यस्य प्रारब्धपुण्यस्य च भोगतो भोगेन परिक्षय इत्यर्थः । प्रारब्धस्येति वाच्ये अन्यस्येत्युक्तिः प्रारब्धपुण्यपापोभयग्रहणाय । एतच्चोपलक्षणम् । मिथ्याज्ञानि-पुण्यस्याप्येवं ध्येयम् ।। ८ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य

विवृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां

चतुर्थाध्यायस्य प्रथमः पादः ।


Load More