क्लृप्त्यर्थं क्रियते ब्रम्हसूत्रेषु न्यायसंग्रहः
॥ ब्रम्हसुत्रन्यायसंग्रह प्रारंभः ||
श्रीमद्धनुमद्भीममध्वांतर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
श्रीगुरुभ्योनमः ॥ हरिः ॐ ॥ (ॐ) पादसमाप्तिसूचना
प्रथमोऽध्यायः
श्रीशं श्रीमध्वमुनींद्रानानम्याखिलसद्गुरून् | क्लृप्त्यर्थं क्रियते ब्रम्हसूत्रेषु न्यायसंग्रहः ॥ १ ॥
जीवान्यब्रह्मजिज्ञास्यं सृष्ट्याद्यष्टविधायि यत् । शात्रैकगम्यं तद् ब्रह्मोपक्रमादिसमन्वयात् ॥२ ॥
नावाच्यमीक्षणीयत्वाद् ब्रह्मानंदमयादिकम् । अन्तस्स्थमब्धिचारादेरा-काशोऽनंततादितः ॥ ३ ॥
प्राणः श्रीलक्ष्म्यधीशत्वाज्ज्योतिः कर्णादिदूरतः । गायत्री त्राणगानादेः प्राणो देहरथादितः || ४ || (ॐ)
द्वादशाद्याद्यांघ्रिनया स्तद्वितीये तु सप्त ते । सर्वगो (त्र) ब्रह्मशब्दादे रत्ता सर्वादनाद्धरिः॥ ५ ॥
ऋतं पिबंतौ हृत्स्थत्वादमृतत्वादितोऽतरः । अंतर्याम्यंतरादेः सोऽदृश्यादिः परविद्यतः॥ ६ ॥
वैश्वानरश्चात्मशब्दात् (ॐ) द्युभ्वादेराश्रयोऽप्यतः । भूमा पूर्णसुखादे रक्षरमंबरपूर्वधृत् ॥ ७ ॥
सदीक्षितृत्वाहृत्खस्थो हत पाप्मत्वपूर्वकैः । कथंचित्त्वानुकूल्येन ग्राह्यं सर्वप्रकाशनात् ॥ ८ ॥
ईशानो वामनश्रुत्या देवा विद्याधिकारिणः । नासंस्कारादितः शूद्राः कंपनाद्वज्रमीश्वरः ॥ ९ ॥
ज्योतिस्सावधृतिश्रुत्याऽऽकाशो नामाद्यभावतः । स्वप्नादिदृगसंगत्वा ब्राह्मणः पतिपूर्वतः ॥ १० ॥ (ॐ)
नयाश्चतुर्दशाऽऽद्यस्य तृतीये षट् तदुत्तरे । अव्यक्तं तत्स्वतंत्रत्वाज्ज्योतिस्तावा इति श्रुतेः ॥ ११॥
रूपनानात्वतः पंचाऽवांतरं कारणं च सः । प्रकृतिश्च प्रतिज्ञादेः शून्यादिश्वोक्तहेतुतः ॥ १२ ॥ (ॐ)
आद्याध्यायगता न्याया: धीगाः ३९, सूत्राणि मालयाः । १३५ | जिज्ञास्ये जीवभेदायाऽनंतसद्गुणलक्षणं ॥ १३ ॥
ब्रह्मेत्युक्तं तत्प्रसिध्यै जन्माद्यस्येति सूत्रितं । अनतिव्याप्तये तस्य शास्त्रयोनित्वमीरितं ॥ १४ ॥
तल्लक्षणद्वयो-पेते मुख्याऽशेषागमार्थता । समोक्तोपक्रमादिस्तद्धेतुस्तुर्ये प्रतिश्रुतः ॥ १५ ॥
समर्थसिध्यै वाच्यत्वगतिसाम्ये निरूपिते । पंचमेऽथ प्रतिज्ञातसमन्वय समर्थनं ॥ १६ ॥
शद्वाश्चतुर्विधास्तत्रान्यत्रान्यत्रैव चोभयोः । प्रसिद्धा इति ते सर्वे नामलिंगात्मना द्विधा ॥ १७ ॥
तत्रप्रसिद्धो विष्ण्वैकनिष्टो विष्ण्वादिगीर्यथा । तदेकनिष्टता सिद्धेर्न कार्यस्तत्समन्वयः ॥ १८ ॥
यत्राऽन्य वृत्तिरेकैव समन्वयविरोधिनी । उभयत्र प्रसिद्धं तदक्षरादिवचो यथा ॥ १९ ॥
ब्रह्मावृत्त्यन्यवृत्ती द्वे विरोधिन्यौ समन्वये । यत्राऽन्यत्र प्रसिद्धं तदिंद्राकाशादिगीर्यथा ।। २० ।।
उक्तद्वयं ब्रह्मवृत्तौ बाधकं च त्रयं यदा । अन्यत्रैव प्रसिद्धं तद्दुःखिबद्धादिगीर्यथा ।। २१ ।।
आपातरूढिरहितधर्मद्वारा च धर्मिंगं । लिंगमन्यत्ततो नामांतर्यामींद्रादिगीर्यथा ॥ २२ ॥
अन्यत्रैव प्रसिद्धानां दुःशकावगतित्त्वतः । सर्वाधिकारवैधुर्याच्चांत्यांघ्रौ तत्समन्वयः ।। २३ ॥
अन्येष्वपि महामल्लभीरुभंगनयात्कृतः । आद्येऽन्यत्र प्रसिद्धानां नाम्नां तत्रापि मुख्यतः ।। २४ ।।
अमुख्यत्वादन्यगतलिंगानां तु द्वितीयगः । उभयत्र प्रसिद्धानां नामलिंगात्मनामपि ।। २५ ।।
समन्वयस्तृतीयेंघ्रौ कृतोऽत्रैव प्रंसगतः । देवशूद्राधिकारैतदभावौ तु विचारितौ ।। २६ ।।
छंदोभि-धसमाकर्षौ द्वावन्तर्ग(र्गु)णकौ नयौ ॥ २७ ॥
इति श्रीब्रह्मसूत्र न्यायसंग्रहे विजयींद्रयतिविरचिते प्रथमोऽध्यायः ॥ १ ॥