जिज्ञासासूत्रगब्रह्मशब्दार्थः प्राङ् निरूपितः
तृतीयोऽध्यायः
जिज्ञासासूत्रगब्रह्मशब्दार्थः प्राङ् निरूपितः । अथेत्याद्यवशिष्टार्थ उत्तरद्विकगोचरः ।। १ ।।
एवं च सिद्धसाध्यार्थं द्विकद्वयमिति स्थितिः । तृतीये साधनं साध्यं चतुर्थे तत्क्रमात्क्रमः ।। २ ।।
वैराग्यभक्त्युपासात दृष्टिमाहा-त्म्यमंघ्रिषु । वैराग्याद्भक्ति दार्ढे सत्युपासातोऽपरोक्षधीः ।। ३ ।।
पूर्व पूर्वस्य हेतुत्वमुत्तरत्रेत्ति तत्क्रमः । भूतयुग्यातिदेहार्थं प्रश्नादेर्मृतिमान्पुमान् ।। ४ ।।
त्र्यात्मभूयस्त्वतोप्य्शब्द्ब्स्तथात्वं (भूतेतः) प्राणयुग्गतेः । अंशतोग्न्यादिगत्युक्तिः श्रद्धाऽऽपोग्नावथादिमे।। ५ ।।
अर्थादुक्तेश्च तत्सिद्धिः कर्म्यमुख्यामृतो मतः । श्रुतेनाशेषभुक्स्वर्गेऽन्यथाचागतिरागमात् ।। ६ ।।
गतागती कर्मणैव चानिष्ठादिकृतामपि । सप्तेति नित्यनिरयोऽत्रापीश व्यापृतिः श्रुतेः ॥ ७ ॥
नैतयोरिति साध्यैोक्तिर्नाहेतोः ससुखं तमः ।। नाविद्वत्त्वाध्दूमतादि न चिराद्गर्भभाक्च्छ्रुतेः ॥ ८ ॥
व्रीह्यादिस्थितिरवोक्तेः पितरं प्रविशत्पुरा । योनिं प्रविश्यैव देही वैराग्यांघ्रौ तु विंशतिः ।। ९ ।। (ॐ)
ईशसृष्टः श्रुतेः स्वप्नः तत एव तिरोहितः । न कालाज्जाग्रदप्यस्मात्सुप्तिर्नाडीस्थितात्मनि ॥ १० ॥
प्रबोधोऽप्यत एवास्मात्सर्वावस्थास्सदा हरेः । मोह ईशेर्धप्रवेशो नेशरूपेषु भिन्नता ।। ११ ।।
ईशोऽप्राकृतरूपोऽन्योऽ*जीवो यत्प्रतिबिंबकः । नाभक्तौ साम्य सुव्यक्तिस्तद्वैचित्र्यं तथा फलात् ॥ १२ ॥
पातान्नदानादिनेशोऽव्यक्तोप्याविर्भवेत्स्वत: । कालवत्स्वानान्यधर्मालौकिका (स्तेन्यतादित:)स्तसुखादयः॥ १३ ॥
स्थानभेदेप्याभिन्नांशो ध्येयादन्योनिषेधतः । सदा सर्वं चेशसृष्टं फलं चास्माद्धि युज्यते ॥ १४ ॥ (ॐ)
भक्त्यंघ्रौ विंशति नया द्विचत्वारिंशदुत्तरे । सर्ववेदैर्विचार्योऽसौ विधेर्धेयोऽखिलैर्गुणैः ॥ १५ ॥
केषांचिदेव माहात्म्यात्फलं तेषामतो महत् । आनंदादयास्तु सर्वेषां प्रियशीर्षादिकं तु न ॥ १६ ॥
चतुः सर्वेतरैर्देवैध्यानाध्याने द्वयोर्मते । आनंदाद्यात्मशब्दो यथार्थं सोपि तान्वदेत् ॥ १७ ॥
ध्येयास्तेऽलौकिकाः कार्या वाण्या सामान्यतः क्रियाः । युगपन्नात्मशब्दास्ते न संभृत्यादि निर्जरैः ॥ १८ ॥
नैकैकत्रापक्षितोक्तिर्यत्य चित्यं छिदादिकं । स्वेच्छयोपासते मुक्ताः कर्माण्यातन्वते न वा ॥ १९ ॥
नापरोक्षदृशोऽमुक्तिः साधिकारानुसारिणी । प्राणः सर्वाधिकार्यग्रयोध्याहृते रीश्वरावरः ॥ २० ॥
सत्यादिरीश एवैकोऽबद्वैव श्रीर्भजत्यमुं । श्रवणाद्यखिलं दृष्ट्यै तदंगं गुर्वनुग्रहः॥ २१ ॥
स्वयत्नात्स बली लिंगैः विकल्प: प्राक्समे गुरौ । दृष्ट्वैवावधृतेर्मुक्तिः श्रुत्यादिः प्रबलोत्रच ॥ २२ ॥
भक्त्याद्यपि ज्ञानहेतुरीक्षा नानैव मोक्षदा । बिब्मवीक्षैव मोक्षार्था भक्त्या ब्रम्हैव मोक्षदं ॥ २३ ॥
नांश्यन्योंशस्तत्तनुस्थोंगत्वेनान्यामरार्चनं । भूमोपास्योऽखिलैः श्रैष्ठयात्तद्धीर्नानाप्रकारतः (धिकारतः)॥ २४ ॥
बिंबान्यस्योपास्यतापि काम्योपासा विकल्पिता । देवाश्रितांगता ध्येया न देवान्यैः सहाश्रुतेः ॥ २५ ॥ (ॐ)
दृष्ट्या सर्वपुमर्थाप्तिः नास्यां सर्वाधिकारिता । न साविशेषा देवादौ कामचारोऽविधिः स्तुतिः ॥ २६ ॥
नैवायोग्यो लभेतेक्षां नेछेद् ब्राम्हपदाद्यपि । मुख्यज्ञानफला देवाः न्यासस्सर्वाश्रमोत्तमः ॥ २७ ॥
रहस्येवोपदेशस्स्यात्तज्जन्मन्येव नेक्षणं । मुक्तिश्चैवं ज्ञानजन्म न्येकादश तुरीयगाः ॥ २८ ॥
इति श्रीसुजन्यायसंग्रहे श्रीविजयींद्रयतिविरचिते तृतीयोऽध्यायः ॥ ३ ॥