कर्मक्षयो देवलयान्योत्क्रांती गम्ययुक्सृतिः
चतुर्थोऽध्यायः
कर्मक्षयो देवलयान्योत्क्रांती गम्ययुक्सृतिः । भोगश्चोक्ता मोक्षभेदास्तुर्येऽघ्रीषु जनिक्रमात् || १ ||
मोक्षांतरंगताज्ञप्त्या आदावत्र निगद्यते । आवश्यकं नित्यमपि यत्कार्यं ज्ञानसाधनं ।। २ ।।
प्रायिकत्वात्प्रधानत्वान्मोक्षाध्यायादिताऽनयोः । श्रुत्याद्यावर्त्यमभ्यासात्स्वामित्वोपासनं सदा ॥ ३ ॥
न ब्रह्मतान्यदेवेषु ध्येयोत्कर्षाच्च सात्मनि । स्वोत्पादकांगता देवैरासीनेनैव संभवात् ।। ४ ।।
आमुक्तत्यावश्यकं ध्यानमारब्धान्यक्षयाद्यतः । चतुर्थाद्ये नया अष्टौ तद्वितीये तु ते दश ।। ५ ।।
दृष्ट्यादेर्वाङ्मनोलीना मनः प्राणे तदुत्तरात् । प्राणः परस्मिन् श्रुत्यादेर्भूतेष्वन्ये श्रतेस्सुराः ॥ ६ ॥
नाग्नावेव श्रुतेः सर्वे न मुक्तत्वाच्छ्रियो लयः । प्राणद्वारेशलीनास्ते सत्येच्छाश्चेशयंत्रिताः ॥ ७ ॥
ज्ञान्युत्क्रांतिर्नाज्ञवत्स्याद्भावि ( भाव्ये) विद्यागतिस्मृती । मार्गोर्चिरादिरेवैकोर्चिषा वायुमहस्ततः ॥ ८ ॥
तटितो वरुणः पश्चात्प्राक्प्राणो ह्यातिवाहिकः । मुख्यवायुर्नयेद्ब्रह्माऽप्रतीकालंबना (त्परं) न्पुरा ॥ ९ ॥ *(ॐ)
नयास्तुर्य-तृतीये षडेकादश तदुत्तरे | मुक्तो भुंक्तेऽविहायेशं जक्षन्नान्योह्यांसंभवात् ||१०||
ज्योतिः प्रकरणाच्चेशः *सुखभुक्तैकभुक्सयुक् । सयुजो ब्रह्मविच्चिद्देह संकल्पादेव भोगिनः ॥ ११ ॥
नोत्तमान्याधिपतयो मुक्ताः स्वेच्छात्तविग्रहाः । न जगद्व्यापृतिजुषो न वृद्धिह्रासभागिनः || १२ |
नावर्तंते विमुक्तास्ते सत्यसंकल्प तादितः। चतुरध्यायगा न्याया धीगा: मेशाबुधामगाः || १३ ||
अर्काद्रींद्रारि-रुद्रार्कधीयोति जगती नखाः । नखरम्भेशाष्टदशारीशास्सर्वांघ्रिगा नयाः ॥ १४ ॥
योगीरागगवीधी राजालमेघागमागिरः । धीरारवाजितपणाधियो रुद्रास्तयोगिरः ॥ १५ ॥
शंबयोधीमयोध्यायसूत्राणां नाधियोनदाः | श्रीरुद्रा ब्रह्ममीमांसा-न्यायाः सूत्राणि भूषणं ॥ १६ ॥
श्रीमदानंदतीर्थेड्य श्रीशप्रीत्या अकार्ययं । विजयींद्रेण यतिना सूत्राणां न्यायसंग्रहः ॥ १७ ॥
इति श्रीसुजन्यायसंग्रहे श्रीविजयींद्रयतिविरचिते ब्रह्मसूत्र न्यायसंग्रहे चतुर्थोऽध्यायः ॥ ४ ॥