विरोधो युक्तिसमयश्रुतियुक्तियुतागमैः

द्वितीयोऽध्यायः

विरोधो युक्तिसमयश्रुतियुक्तियुतागमैः । समन्वयेऽपाक्रियते द्वितीयेंऽधिषु चक्रमात् || ||

उक्ते समन्वयेऽत्राविरोधोक्तेस्तस्य हेतुता । समन्वयस्य सिध्यैवाऽविरोध इति हेतुता || ||

पत्त्यादेरिवि भंगेऽश्वगजादीनां प्रवर्तनं । भंगे दुर्बलयुक्त्यादेः समयादेरतिक्रमः।। ३ ।।

द्वितीये बहिरंगत्वात्तद्विरोधोऽथवा हृतः । स्मृतीनां चतुरात्मत्वात्सर्वादौ तन्निराकृतिः ।। ४ ।।

नान्य-स्मृतिस्तद्विरोधान्मानं नित्या श्रुतिस्तु मा । मृदुत्याद्यभिमान्यर्थं प्रागभावेन कर्तृता ॥ ५ ॥

न जीवैक्यं वाक्यबलाज्ज्ञेयाऽनन्यस्वतंत्रता । जीवोऽकर्ताऽहितकृतेर्नान्यसाम्यं श्रुतेर्हरेः ।। ६ ।।

न फलार्थेशितुस्सृष्टिर्न वैषम्याद्य-पेक्षणात् । स्वातंत्र्या सर्वगुणयुग्द्वितीयाssद्ये नयाः पयाः।। ७ ।।

(ॐ) नाऽचेतनं जगत्कर्तृ नेशोऽनुग्रहमात्रकृत् । फलाभावान्न सिद्धांतोऽकर्तृ जीवान्वितं जडं ।। ८ ।।

प्रधानयुङ्न जीवो वारंभोऽणुत्वादितो न किं । नाणुपुंजोऽप्यतत्प्राप्तेर्नासध्देतुरदर्शनात् ॥ ९ ॥

न ज्ञानतास्यादृष्टत्वान्नादृष्टेसप्तभंगिता । रुद्रो न कर्ता दोषित्वान्न शक्तिः पुरुषाऽयुता।। १० ।। (ॐ)

वियदुत्पत्तिमच्छ्रुत्या वायुश्चाजन्यसंभवात् । स्वातंत्र्यान्नेश्वरोत्पत्तिर्वायोर्वा तेजसो जनिः ॥। ११ ॥

आपोग्निद्वारतो*जन्या अन्नं भूर्बहुयुक्तितः । लय ईशादेव लिंगाद्द्व्युत्क्रमाद्युज्यते लयः ।। १२ ।।

विज्ञानमनसोश्चैवं नाश्रुते ब्रह्मणो लयः । ब्रह्मजन्यः श्रुतेजीव उत्क्रांत्यादेरणुश्च सः ॥ १३ ॥

जीवोऽभिन्नांशः पार्थक्यः ब्रह्मान्यश्चोपदेशतः । नित्योपाधित्वतो नित्योऽभिव्यक्तेर्धी सुखात्मकः ॥ १४ ॥

कर्ता शास्त्रस्यार्थवत्त्वादंशोऽभेदभिदा श्रुतेः । विद्यादिभेदाद्देवादिनया एको-नविंशतिः ।। १५ ।। (ॐ)

श्रुतेरोवेंद्रियोत्पत्तिर्विशिष्य श्रवणान्मनः । मनोजन्या श्रुतेर्वाक्च धींद्रियेष्वेव सप्तता ।। १६ ।।

व्याप्तेः प्रकाशतोऽणुत्वं मुख्यश्चोत्पत्तिमान् श्रुतेः । प्राणवच्चेशवशगो मनोवत्पंचरूपवान् ॥ १७ ॥

बहिर्व्याप्नोति देहेणुर्न प्राणा जीवसाधनं । श्रुत्यानिंद्रियता मुख्ये संज्ञामूर्तिकृदीश्वरः ।। १८ ।।

आत्मदेहेऽधिकं त्वेकं नयास्तुर्ये त्रयोदश ॥ १९ ॥

इति श्रीब्रह्मसूत्रन्यायसंग्रहे श्रीविजयींद्रयतिविरचिते द्वितीयोऽध्यायः ।।