इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्
सदसच्छास्त्रतत्प्रवर्तक विचारः
तत्र सदनन्तगुणे सत्याशेषविश्वोदयादिकर्तरि विष्णुरूपे परब्रह्मणि ब्रह्मसूत्रयोजनं यत्तदेव सकलश्रुत्यनुकूलत्वात्प्रामाणिकैरङ्गी कार्यम् । न तु प्रत्यगभिन्ननिर्विशेषचिन्मात्रे मायिकृतं योजनम्, तादृशे ब्रह्मणि मानाभावात् । धर्मिज्ञानसाध्यसप्रकारकसंशयनिवर्तकैककोटिप्रकारकनिश्चयजनकानां वेदान्तानां सगुणब्रह्म परत्वावगमात् । शब्दस्य प्रमाणमात्रस्य वा विशिष्टार्थबोधकत्वस्वाभाव्यात् । न च लक्षणया वेदान्तानां चिन्मात्रे तात्पर्यम्, चिन्मात्रस्याध्यस्ताधिष्ठानतयाऽज्ञानादिसाक्षितया सदाभासमानत्वेन तत्र तात्पर्यासम्भवात् । 'सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते' इति वदता परेण सर्वज्ञानविषयत्वाङ्गीकारात् । न च विशिष्टमेव सर्वप्रत्ययवेद्यम्, शुद्धं चौपनिषदमिति वाच्यम्, अधिकस्य भानेऽपि श्रुतिवेद्यस्य भानावश्यकत्वात् । न हि दण्डिनि भाते पुरुषो न भासते । अन्यथा विश्वाधिष्ठानस्य शुद्धस्याभाने जगदान्ध्यापत्तेः । सत्यब्रह्मादिपदलक्ष्यस्य गङ्गा पदलक्ष्य तीरस्यागङ्गात्ववदसत्यत्वाब्रह्मत्वाद्यापत्तेः । न च तत्र जहत्स्वार्था लक्षणा, तस्मात्तथात्वम्; इह त्वजहत्स्वार्थेति कथमसत्यत्वाद्यापत्तिरिति वाच्यम्, काकेभ्यो दधि रक्ष्यतामित्यत्र हि यथा काकत्वस्य काकपदशक्यस्य त्यागो व्यक्तेरत्याग इति जहदजहल्लक्षणायामशक्यस्य मार्जारादेर्लाभस्तथा असत्यत्वादिलाभ आवश्यकः । अन्यथा लक्षणावैयर्थ्यम् । न हि शक्यैकदेशे लक्षणा सार्थिका क्वापि दृष्टा । अतोऽचिन्त्यानन्तसद्गुणालये ब्रह्मण्येव सूत्रयोजनं युक्तम् ।
॥ केचिदत्र वदन्ति-यद्यप्यन्यदीयानि सगुणयोजनान्युपादेयानि तथाप्यानन्दतीर्थीय योजनमनुपादेयमेव । अन्यदीयेषु हि योजनेषु सगुणनिर्गुणभेदाभेदादिविषयतया कतिपयेष्वेव सूत्रेषु प्रकारभेदः । अन्येषु सूत्रेषु क्वचित्क्वचित् पूर्वपक्षसिद्धान्तरचनाभङ्गीभेदेऽपि फलतो न विवादः । आनन्दतीर्थीययोजने प्रायः सर्वत्रैव प्रकारभेदः, सोऽप्यन्येषामसंप्रतिपन्नः, तेषु स्वमात्रकल्पितेध्वर्थेषु चतुरकमठमाठरकोण्ठरव्यकौण्डिन्यमाण्डव्यमार्कण्डेयमौद्गल्य पौष्यायणपौत्रायणसौत्रायणपाराशर्यायणमाध्यन्दिनायनकाषारवकौचारवकौपायणवृहदुद्दालकायनकौशिक सौपर्णवत्सगौपवनभालवेयाग्निवेश्यचतुर्वेदसंहिताचतुर्वेदशिखेन्द्रद्युम्नपरमश्रुत्यादिवचनानि, तदनुसारण्यध्यात्मनारायण संहिताब्रहत्संहितामहासंहितानारायणतन्त्रब्रह्मतन्त्रपुरुषोत्तमतन्त्रमायावैभवब्रह्मवैवर्तब्रह्मतर्कभविष्यत्पर्वादिवचनानीति चात्यन्ताप्रसिद्धानामेव वचनानां साक्षितयोपन्यासः ।
तदुपन्यासप्रसक्तस्वानाप्तत्वशङ्काव्युदासाय हनुमद्भीमसेनक्रमेण वायोः स्वयं तृतीयावतार इत्युद्घोषः ।
तत्र च साक्षितया-
प्रथमो हनुमान्नाम द्वितीयो भीमसेनकः ।
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्य साधकः ॥
इति स्मृतिवचनमस्तीति स्वयमेवोदाहृतवान् । "बळित्था तद्वपुषे धायि दर्शतम्" इत्याद्युर्ग्वेदमन्त्रस्य स्वकल्पितवाय्ववतारत्रयपरतया प्रदर्शनमित्यादि तु प्रामाणिक मर्यादोल्लङ्घनं भूयसा दृश्यते; तथापि युक्तियुक्तं वचो ग्राह्यं न तु पुरुषगौरवमिति न्यायेन तन्मतं श्रद्दधीमहि, यदि तत्रोपपन्नं किंचिदाकलयेम । नचैवं प्रायेण हि तन्मते स्वमात्रहृदयारूढानि वचनान्येवोपजीवितानि न तु न्यायाः । ये तु न्यायाः प्रदर्शितास्तेऽप्यत्यन्त शिथिला एव कचित्क्वचिदाश्रिताः । पूर्वमीमांसकमर्यादाऽप्यसामञ्जस्येनैव नीता । प्रायेण चासाधुभिरेव शब्दैर्व्यवहारः । श्लोकरचनायां त्वन्वयासंभवो वृत्तान्यथाभावश्चाधिकः । सर्वमेतत्तदीयभाष्यानुव्याख्यान भारततात्पर्यनिर्णयादिग्रन्थदर्शिनां स्पष्टमतोऽनुपादेयमेव तन्मतमिति । अत्रोच्यते-
सर्वथाऽऽनन्दतीर्थस्यानुपादेयं मतं हि नः । स्वीकार्याण्यविरोधाच्चेतराणीत्याह यः किल ॥
चूतस्य नापराधोऽस्ति ह्युष्ट्रो दूराद्यदुज्झति । सौभाग्यं नैव निम्बस्य यदादत्तेऽनुरागतः ॥
इदमेवोत्तरं तस्य मन्दबुद्धेः सुरद्विषः । विष्णु द्वेषादबुवाणस्य ह्युत्तरं नास्ति चापरम् ॥
यदुक्तमन्य योजनेषु काचित्को भेदः, आनन्दतीर्थीययोजने प्रायः सर्वत्रैव प्रकारभेद इति, तत् शोभते, सार्वत्रिकप्रकारभेदस्य दर्शनान्तरत्वोपपादकत्वात् । अन्यथा त्वदीयविवरणवाचस्पतिवत्काचित्कभेदोपपस्या दर्शनान्तरत्वं न स्यात् । दैवात्काचित्कप्रकारैक्येऽपि प्रायः प्रकार भेद एव हि दर्शनभेदे बीजम् । न तावदप्रसिद्धश्रुत्युदाहरणं दोषः, श्रौतस्मार्तकर्मविधायकानां तत्तन्मन्त्राणां च खिलानामेव प्रायेणापस्तम्बादिभिः स्वस्वसूत्रेषूदाहरणात् । ऋषीणां सर्वज्ञत्वात्तत्तच्छ्रतिदर्शित्वात्तदुपपद्यत इति चेन्न, सर्वज्ञत्वस्यास्मदाचार्येऽपि दण्डेनानिवारणात् । त्वदीयश्रद्धाजाड्यस्यानुपादेयत्वात् । कथमन्यथा गौडपादशंकरादेः सर्वज्ञत्वादिकमङ्गीकुरुषे ? प्रत्युत--
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ।।
इति पाद्मवचनेन त्वन्मतस्यैव बौद्धत्वमुच्यते । चतुर्भिः सहितः शिष्यैः शंकरोऽवतरिष्यति ।
इति त्वदुदाहृतवचनं तु विप्रलिप्सा मूलत्वेनोपपन्नमिति न तद्बलात्त्वन्मतस्य प्रेक्षावदुपादेयत्वम् । त्वन्मतस्य च मोहशास्त्रत्वं पुराणेषु स्पष्टमावेद्यते । यथा कौर्मे श्रीमुष्णमाहात्म्ये पञ्चमेऽध्याये-
पुरा भागीरथीतीरे नियन्ता पृष्टवान् मुनिम् । नष्टा भागवता धर्माः सच्छास्त्राणि कलौ युगे ।।
इति श्रुतं मया पूर्व तीर्थयात्राप्रसंगतः । कथं नष्टा भविष्यन्ति पुनः स्थास्यन्ति वै कथम् ॥
वद विद्वन्महाबाहो को वोद्धारं करिष्यति ।
वामदेव उवाच -
चतुःसहस्रे द्विशते गते सौगन्धिके वने ।
निहता भीमसेनेन द्वापरान्ते नृपोत्तम ।
सौगन्धिकाख्ये निहतास्ते खला दैत्यपुङ्गवाः ।
रुद्रेण निहता ये च त्रैपुराश्च कलौ युगे ॥
चतुः सहस्रेSब्दशते गते मणिमदादयः ।
जनिष्यन्ति ब्रम्हयोनी दैत्याः सत्कर्मदूषकाः ||
मिथ्यावादमसच्छास्त्रं करिष्यन्ति कलौ युगे ।
गोपयिष्यन्ति सद्धर्मान् सच्छास्त्रपरिपन्थिनः ॥
एवं धर्मेषु नष्टेषु शास्त्रेषु च कलौ युगे ।
देवैर्विज्ञापितो विष्णुर्वायुमाज्ञापयिष्यति ॥
उद्धरस्व महाबाहो मम धर्मान्सनातनान् ।
इत्याज्ञप्तो भगवता कलौ वायुर्भविष्यति ॥
(१ एवं क्रोधवशाः खलाः इत्यपि पाठः । २ चतुःसहस्रे त्रिशते इत्यपि पाठः ।)
मध्वनाम्ना यतिरसौ सच्छास्त्राणि करिष्यति ।
निरसिष्यति पाषण्डान् दुःशास्त्राणि महामतिः ।
स्थापयिष्यति सद्धर्मान्सच्छास्त्रं व्याकरिष्यति ।
श्रोष्यन्ति मुनयः सर्वे शुकाद्या देवरूपिणः ॥ इति । तथा स्कान्दे श्रीमुष्णमाहात्म्ये नवमेऽध्याये
कलौ पाषण्डभूयिष्ठे धर्मलेशविवर्जिते ।
वैवस्वतेऽन्तरे प्राप्ते ह्यष्टाविंशयुगे कला |
चैपुरा भारते युद्धे निहता राक्षसा भुवि ।
यदा प्रवर्तयिष्यन्ति मार्ग पाषण्डगोचरम् ||
तदा संप्रार्थितो देवैर्भगवान् हरिरीश्वरः ।
तत्कर्मकरणे दक्षं मातरिश्वानमादिशत् ॥
वायुस्तु यतिरूपेण जनिष्यति कलौ युगे ।
कृत्वा सच्छास्त्रसन्दर्भं स्थापयिष्यति सत्पथम् ॥
एवमेव महादेवि नारायणपरायणाः । इत्यादि ।
नन्वेवं केनचित्स्वमनीषया वैदिकविरुद्धमार्गान्तरं परिकल्प्य तत्र प्रमाणत्वेन स्वकल्पितवेदवाक्यमुदाहर्तुं शक्यम् इति सर्वधर्मादिव्यवस्था नष्टा स्यादिति चेन्न; अस्मदाचार्योदाहृतखिलश्रुतीनां प्रत्यक्षश्रुतिसमानार्थकत्वेनाविरोधितया व्यवस्थानाशासंभवात् । किंच पूर्वमीमांसायां तत्र तत्र "ऊर्जम् पशूनाप्नोत्यूर्जोऽवरुध्या" इत्याद्याः खिलश्रुतय एवोदाहृताः। शंकरभाष्ये "अत एव चोपमासूर्यकादिवत्" इति सूत्रे "यथा ह्ययं ज्योतिरात्मा विवस्वान्" इत्यादिखिलश्रुतिरुदाहृता । तथा रामानुजभाष्येऽपि "ज्योतिश्चरणाभिधानात्" इति सूत्रे " इन्द्रः शचीपतिर्बलेन पीडितः । दुश्च्यवनो वृषा समुत्ससासहि" इति खिलैव चतुष्पात् गायत्र्युदाहृता । तथा
श्रीकण्ठभाष्येऽपि--"यश्च शिव इति वाचं वदेत् तेन सह संवसेत् तेन सह संवदेत् तेन सह भुञ्जीत" इत्यादिखिलश्रुतिरुदाहृता । स्वल्पखिलश्रुत्युदाहरणवद्बहुखिलश्रुत्युदाहरणस्याप्यदोषत्वात् । न ह्यस्मदाचार्यैः खिलश्रुतिभिरेव प्रक्रिया कल्पिता; किन्तु प्रसिद्धश्रुत्यनुसारिप्रक्रियायां स्वबहुज्ञत्वज्ञापनाय प्रसिद्धश्रुतिसमानार्थकखिलश्रुत्युदाहरणं कृतम् । एतेन संहितोदाहरणमपि व्याख्यातम् । एतेनाप्रसिद्धश्रुत्युदाहरणप्रसक्तानाप्तत्वशङ्कानिरासाय स्वयं वायोस्तृतीयोऽवतार इत्युद्घोष इत्यादिकं निरस्तम् । पुराणवचनैरेव परमाप्तताया अस्मदाचार्यस्योक्तत्वात् । शिष्यानुग्रहेच्छया स्वेन स्वमाहात्म्य वर्णनस्य न्याय्यत्वात् । अन्यथा-को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् । इत्यादी भारत कर्तुर्व्यासस्य नारायणांशत्वं न सिद्धयेत् ।
श्रीमध्वाचार्याणां वाय्ववतारत्वं तु ब्राह्मे क्षेत्रकाण्डे बेङ्कटमाहात्म्ये तृतीयेऽध्याये-
त्वं चापि गच्छ शैलेन्द्रं पूर्व स्वर्णमुखीतटम् । यत्र ब्रह्मशिला नाम सर्वमध्येऽवतिष्ठते ॥
अगस्त्यतपसः पश्चात् गयासांनिध्यमत्र वै । पादा ईशानविष्ण्वादिदेवानां तत्र सन्ति हि ॥
यतिरूपो मातरिश्वा अष्टाविंशतिमे कलौ । अवतीर्य वसत्यत्र मध्वनामा वरे विभो ॥
स वायुस्तपसा पुण्यप्रीत्या चागस्त्ययोगिनः ।
(१ सरिन्मध्ये इत्यपि पाठः । २ यजन् स्वयंभुवंस्तत्र मध्वनामापरं विभुमित्यपि पाठः ।)
तत्स्थापितालये पुण्ये चातुर्मास्यं करिष्यति ॥ शुकः श्रोष्यति सच्छास्त्रं पद्मतीर्थादिहागतः ।
इति प्रसिद्धपुराणवचनानुसारेण ऋग्वेदमन्त्रस्य तत्परत्वं युक्तम् ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
इति स्मृतेः । एतेन प्रायेण हि तन्मते स्वमात्रहृदयारूढानि वचनान्येवोपजीवितानि न तु न्यायाः प्रदर्शिता इत्यादिकं निरस्तम् । पुराणवचनोपबृंहणतया तदनुसारेण वेदस्य व्याख्येयत्वात् । अत एव ब्रह्ममीमांसायां तत्र तत्र स्मृतेश्च 'अपि स्मर्यते' इत्यादिवचनान्युदाह्रियन्ते । अस्मदाचार्योदाहृतवचनानि स्वमात्र हृदयारूढानि इति वदन् कूपमण्डूक एव । अस्मदाचार्योदाहृतन्यायदाढर्यम् पूर्वमीमांसास्वारस्यं च तात्पर्यचन्द्रिकावलोकिनां स्पष्टम् । एतेनासाधुभिरेव शब्दैर्व्यवहारः, श्लोकरचनायामन्वयासंभवो वृत्तान्यथाभावश्चेति निरस्तम्, श्रुतिस्मृतिपुराणाभ्यासपाठवेनाचार्यैः कचिदार्षप्रयोगैर्व्यवहृतत्वात्। श्रुतिस्मृतिगतच्छान्दसशब्दानुकरणेनादोषत्वाच्च । “त्रियंबकं संयमिनं ददर्श" इत्यादिषु कालिदासादेरपि तथा व्यवहारदर्शनाच्च । “न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्" इत्यादिश्रुत्या वृत्तान्यथा भावस्यादोषत्वोक्तेः । अन्वयासंभवोक्तिश्चाज्ञानादेव | सूत्रेष्विव भाष्येऽप्यनुषङ्गाध्याहारादिना विवक्षितान्वयस्य वक्तव्यत्वादिति ।
(इति वनमालिदासकृते मध्वमुखालङ्कारे सदसच्छास्त्रतत्प्रवर्तक निर्णयः ।)