वेदैश्च सर्वैरहमेव वेद्य:

अथ समन्वयन्यायनिरूपणम्

श्रीकृष्णाय नमः ॥

तन्तु समन्वयात् 

ननु कारणत्वस्य शास्त्रयोनित्वेऽप्यतिव्याप्तिः । शैवाद्यागमाद्वेदव्याख्यानरूपामुद्रादेरपि तत्सम्भवादिति प्राप्ते, व्याख्यातृवचनानां यैर्लिङ्गैरुपक्रमादिभिस्तात्पर्यनिर्णयस्तैरेव श्रुतीनामपि । ननु यद्यप्युपक्रमाद्यो विष्णौ व्यवस्थापिताः स्युस्तथापि ते श्रुतीनां विष्णुपरत्वावगमनमेव कुर्युर्न तु शिवविरिंचपरतानिवारणमपि । अनेकार्थसहिष्णोस्तव मते विरोधाभावेन शिवविरिंच परत्वस्यापि संभवात् । नहि प्रबलं प्रबलमित्येव दुर्बलस्य बाधकमपि तु सति विरोध इति चेन्न । "वेदैश्च सर्वैरहमेव वेद्य" इस्याद्यनुसारेणान्यपरतया लोके प्रतीयमानानां शब्दानां विष्णुपरस्यवर्णनेऽपि सृष्टिवाक्यानां "द्यावाभूमी जनयन्देव एक" इत्येकस्रष्टृमात्रपरतया निश्चितानामनेकार्थकत्वे मानाभावात् । उक्तश्रुतिविरोधाच्च । श्रुतीनां शिवविरिंचादिपरत्वे तदेकवाक्यतापन्नोपक्रमादीनां विष्णौ व्यवस्थितानामन्वयानापत्तेश्च ।

ननु माभूत्तेषां विष्णावन्वयः । नहि त्वन्मते क्वचिदर्थे यावतामेकवाक्यता तावतामर्थान्तरेऽप्येकवाक्यतेतिनियमोऽस्ति । श्येनादिपदानां ब्रह्मपरत्वे प्रसिद्धश्येनसादृश्यप्रतिपादकवाक्यशेषान्वयाभावादिति चेत् । न । असतिबाधक एकान्वयस्य त्यागानौचित्यात् । वाक्यशेषस्यापि ब्रह्मपरत्वेन तदेकवाक्यतासम्भवाच्च । नच कर्मकाण्डस्थपदानां पदविधयैव ब्रह्मणि समन्वयो न वाक्यविधयेति वाक्यान्वयसूत्रे त्वया वर्णितत्वादिति वाच्यम् । पदविधया वाक्यशेषस्य ब्रह्मणि समन्वयेSप्येकार्थकत्वरूपैकवाक्यताया अविघातात् ।

ननूपक्रमादीनां विष्णौ व्यवस्थितस्वमप्यसिद्धम् । शैवादयोपि ह्युपक्रमादीनेवालम्ब्य श्रुतीनां शिवादिपरत्वं वर्णयन्ति । उपपादयन्ति चोपक्रमादीनां शिवादिविषयत्वं तद्गतपदशक्त्यादिप्रदर्शनेनेतिचेत् । उच्यते । शैवाः शिव एवोपक्रमो न विरिंचे चेति वर्णयन्ति । एवं वैष्णवादयः परपक्षप्रतिक्षेपेण वदन्ति । नचैतानिमतानि परस्परविरुद्धानि सर्वाण्यपि ग्राह्याणि । अतोऽत्रबलाबलविचारावश्यंभावाद्बलवद्भिर्न्यायैरुपक्रमादीनां विष्णौ व्यवस्थितत्वसिद्धिः । यत्तु यथा भूमशब्दस्तवाsशेषविशेषसहित ब्रह्मानंदवाचकोऽपि तत्तदधिकारिणं प्रति योग्यतानुसारेण किंचित्किंचिद्ब्रह्मानन्दांशमेव बोधयति । तथा सृष्ट्यादिश्रुतयस्तदुपक्रमादयश्च नैककर्तृपरा अपि तत्तद्योग्यतानुसारेणैकैकमेव कर्तारं बोधयन्ति, श्रुतिवाक्येभ्यस्तेषां कर्त्रन्तरबोधानुद्यात्तु श्रुतिवाक्यानां कर्त्रन्तरपरत्वाभावाभिमान इत्युपपत्तेः । तस्मादुपक्रमादिलान्न सृष्टिवाक्यानां विष्णौ व्यवस्थितत्वमिति । ततुच्छम् । भूमशब्दो हि सर्वोत्कृष्टत्वापरपर्याय पूर्णत्ववाचकः पूर्णत्वेनैव सर्वान्प्रत्यानन्दान्बोधयति । यस्य स्वयोग्यतानुसारेणानन्दादयो भासन्ते तस्योत्कृष्टत्वेनैव नत्वपकृष्टत्वेन, भगवद्गुणस्यानन्दादेरैक्येनोत्कर्षापकर्षासम्भवात् । किञ्च वैष्णवशैवादिपुराणादौ शिवादीनां परस्परसृज्यत्वसंहार्यत्वाऽऽराध्यत्वाऽऽराधकत्वादिना भूयसी निकर्षोक्तिर्दृश्यमाना सर्वेषां समानकक्षतया जगत्कर्तृत्वानुपपत्या बलाबलविचारं विना न व्यवतिष्ठते । तद्विचारे च वैष्णव-पुराणादेः सात्विकत्वाद्लवत्वात्तदनुसारेणोपक्रमादिसहितानां सृष्टिस्थित्यादीनां विष्णौ व्यवस्थितत्वं सिद्ध्येत ।

ननु परस्परनिंदावचनानि "नहि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु स्तुत्यं स्तोतुम्इतिन्यायेनोदितानुदितहो मनिन्दादिषु दृष्टेन तत्तदेवताविषयनिश्चलभक्तिसिद्धिप्रयोजने स्तुतिविरचने द्वारमात्रत्वेनोपपन्नानि

अथैककालिको वाहमेकैकस्मिन्दिनक्षये । चरम्भैक्ष्यं मुहुर्मुहुः क्षपयिष्ये कलेवरम् ॥

इत्युक्तवन्तं ज्ञातिवधनिर्वेदात्संन्यासोद्यमं कुर्वन्तं युधिष्ठिरं प्रति तद्भ्रातॄणां मुनीनां श्रीकृष्णस्य च संन्यासनिन्दावचनानि गार्हस्थ्यत्कर्षवचनानि च भारते दृश्यन्ते । त्वया तु गार्हस्थ्यात्संन्यासस्यैवोत्कर्षः स्वीक्रियते । अतो युधिष्ठिरं संन्यासोद्योगान्निवारयितुमेव तानि वचनानि गार्हस्थ्यप्ररोचनापराणि । एवं पुराणादिषु तत्तदेवताराधनोपासनाद्यनुष्ठापनार्थं प्रवृत्तेषु तत्प्ररोचनार्थदेवतान्तरनिकर्षो वर्ण्यते । अङ्गीकृतं च त्वयापि 'द्वेषाच्चैद्यादयो नृपा' इत्यादौ भगवतः कृपालुत्वातिशयतात्पर्येण द्वेषान्मुक्तिवर्णनं नतु नरकसाधनेन भगवद्वेषेण मुक्तिरस्तीति वदता पुराणेष्वन्यार्थतात्पर्येणासदर्थकथनमिति चेन्न । स्यादेवं विष्णुं शिवं विरिचं च प्रतिपादयितुमसाधारण्येन प्रवृत्तानां पुराणानां गतिः । साधारणतया प्रवृत्तस्य सर्वेश्वरं बोधयितुं कः सर्वेश्वर इति सामान्यतः प्रश्नो विशिष्योत्तरमितिरीत्या प्रवृत्तस्य भारतस्य तथागत्यसंभवात् । तथाहि-

गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः । यदीच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् । विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः । स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥

देवतानां च को देवः पितॄणां च पिता तथा । तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥

इति सामान्यतः प्रश्नानन्तरं विष्णुरेव सर्वेश्वर इति निर्धारणेन नारायणीयाख्यानप्रवृत्तेः । तथाहि-

सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन् । तमोरजोभिर्निमुक्ता मां प्रवेश्यन्त्यसंशयम् ॥

न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च । न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥

सत्वं रजस्तमश्चैव न गुणास्तं भजंति वै । यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥

पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते । यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः ॥

स वासुदेवो विज्ञेयः परमात्मा सनातनः । नच जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत ॥

स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः । यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये ॥

स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते । तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च ॥

तस्मात्सर्वं सम्भवति जगत्स्थावरजंगमम् । सोऽनिरुद्धः स ईशानोव्यक्तः सर्वेषु कर्मसु ॥

यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः । ज्ञेयः स एवं राजेन्द्र जीवः संकर्षणः प्रभुः ॥

सकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते । प्रद्युम्न्नाच्चानिरुद्धः स ईश्वरः परिकथ्यते ॥

ललाटाचैव मे रुद्रो देवः क्रोधाद्विनिःसृतः । मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम् ॥

ततस्तस्मिन्वरान्प्रीतो दत्तवानस्म्यनुत्तमान् । त्वया कृतां च मर्यादां नातिक्रस्यति कश्चन ॥

त्वं चैव वरदो ब्रह्मन्वरेच्छूनां भविष्यसि । विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥

प्रादुर्भावगतञ्चाहं सुरकार्येषु नित्यदा । अनुशास्यस्त्वया ब्रह्मन् नियोज्यश्च सुतो यथा ॥

एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे । अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥

अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम् । स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥ प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः । अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः ॥

इत्यादिवचनैर्नारदं प्रति श्रीनारायणेन स्वस्य सर्वोत्तमत्वं स्वयमुक्तम् ।

अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः । ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥

प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षणात् । ब्रह्मा समभवद्वत्स स तस्यैव प्रसादजः ॥

अन्ह: क्षये ललाटाच्च सुतो देवस्य वै तदा । क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥

एतौ दौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ । तदादेशितपन्थानौ सृष्टिसंहारकारकौ ॥

निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ||

तथा रूद्रं प्रति ब्रह्मोक्तिः-

अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे । त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥

मया च सार्धं वरदं विबुधैश्च महर्षिभिः । प्रसादयाशु लोकानां शान्तिर्भवतु मा चिरम् ||

ब्रह्मणा चैवमुक्तस्तु रूद्रः क्रोधाग्निमुत्सृजन् । प्रसादयामास ततो देवं नारायणं प्रभुम् ॥

शरणं च जगामाद्यं वरेण्यं वरदं प्रभुम् । अहो नारायणं तेजो दुर्दर्श द्विजसत्तमाः ।

यत्राविशति कल्पान्ते सर्वे ब्रह्मादयः सुराः ॥

मुक्तानां हरिरेव प्राप्य इत्याह--

ये हि निष्कलुषा लोके पुण्यपापविवर्जिताः । तेषां वै क्षेममध्वानं गच्छतां द्विज सत्तम ।

सर्वलोकत्तमो हन्ता आदित्यो द्वारमुच्यते ॥ श्रादित्यदग्ध सर्वांगा अदृश्याः केन चित् क्वचित् ।

परमाणुभूता भूत्वा तं देवं प्रविशन्त्युत ॥ तस्मादापि विनिर्मुक्ता अनिरूद्धतनौ स्थिताः ।

मनोभूतास्ततो गत्वा प्रद्युम्नं प्रविशत्युत ॥ प्रद्युम्नादपि निर्मुक्ता जीवं संकर्षणं ततः ।

विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥ ततस्त्रैगुण्यहीनास्ते परमात्मानमंजसा ।

प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम् ॥ सर्वावासं वासुदेव क्षेत्रज्ञं विद्धि तत्वतः ।

समाहितमनस्काश्च नियताः प्रयतेंद्रियाः ॥ एकान्तभावोपगता वासुदेवं विशंति ते ।

इति ॥ सात्विकस्यैव मुमुक्षोर्विष्णोराराधने मतिर्न तामसादेरित्याह जनमेजय उवाच --

एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् । न कुर्वन्ति कथं विप्रा अन्यनानाव्रते स्थिताः ॥

वैशंपायन उवाच --

तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः । सात्विकी राजसी चैव तामसी चैव भारत ।

देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह । सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः ॥

अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् । नारायणपरो मोक्षस्ततो वै सात्विकः स्मृतः ॥

इति श्रीनारायणपरायणस्यैव मोक्ष इत्युक्तम् । हरिमोहितानां हरौ भक्तिर्न भवतीत्याह--

इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम । यथैव त्वं तथैवान्ये भवन्तीह विमोहिताः ॥

कृष्ण एव हि लोकानां भावनो मोहनस्तथा । तथा संहारकश्चैव कारणं च विशांपते ॥

इति ॥ तथा स्थलान्तरे सामान्यतः प्रश्नानन्तरं विशिष्य हरेरेव सर्वेश्वरत्ववर्णनम् । तथाहि जनमेजय उवाच-

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । को ह्यत्र पुरुषश्रेष्ठः का वा योनिरिहोच्यते ॥

वैशम्पायन उवाच -

बहूनां पुरुषाणां च यथैका योनिरुच्यते । तथा तं पुरुषव्याघ्र व्याख्यास्यामि गुणाधिकम् ॥

इति प्रतिज्ञाय रुद्रसंवादेन सर्वकारणं निरूपयति । एकदा क्षीरोदमध्ये वैजयन्तपर्वते समाधिं कुर्वाणं ब्रह्माणं प्राप्य रुद्रो नमस्कृत्य तेनाभिनन्दित उवाच --

हवः पुरुषा ब्रह्मस्त्वया सृष्टाः स्वयंभुवा । सृज्यन्ते चापरे ब्रह्मन्स वै कः पुरुषो विराट् ॥

कोऽसौ विचिन्त्यते ब्रह्मस्त्वयैकः पुरुषोत्तमः एतं मे संशयं छिन्धि महत्कौतूहलं हि मे ॥

ब्रह्मोवाच --

बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः । एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥

शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः । अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥

स न शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम । सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥

एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः । एकात्मानं तथात्मानमपरे ज्ञानचिन्तकाः ॥

तत्र यः परमात्मा हि सं नित्यो निर्गुणः स्मृतः । स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा स्वपरो योऽसौ मोक्षबन्धैः स युज्यते ॥

इति निर्गुणत्वं प्राकृत सत्वादिगुणराहित्येन "सत्वादयो न सन्तीशे यत्र च प्राकृता गुणाःइति वैष्णवोक्तेः ।

ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु । पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥

सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च । बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥

इति भगवद्वचनेन ;

वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गयिते ॥

इति हरिवंशवचनेन च वेदादीनामुपक्रमोपसंहारादीनि तात्पर्यलिंगानि विष्णावेवेति सिद्धम् ।

यत्तु श्रीकृष्णेनावतारांतरेण च रुद्रः पूज्यते तत्तु पृथ्वादाविव तत्र जीवविशेषे स्वांशावेशाभिप्रायेण, शिवादेः कचिन्नारायणाभेदोक्तिरपि तदभिप्राया । पुत्रादीनि फलानि कामयमानान्जनान्रुद्रादिपूजायां प्रवर्तयितुं च क्वचित्पूज्यते । एतदेवाह भगवान् --

अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन । तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ॥

यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् | आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ॥

मया प्रमाणं हि कृतं लोकः समनुवर्तते । प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ॥

नहि विष्णुः प्रणमति कस्मैचिद्विबुधाय च । ऋते श्रात्मानमेवेति ततो रुद्रं भजाम्यहम् ॥

सब्रह्मकाः सरुद्राश्च सेंद्रा देवाः सहर्षिभिः । अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥

भविष्यतां वर्ततां च भूतानां चैव भारत । सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥ इति ॥

अतोऽसाधारण्येन प्रवृत्तानां पुराणादीनां नहि निन्देत्यादिन्यायविषयत्वेऽपि साधारणतया सामान्यप्रश्नविशेषोत्तराम्यां प्रवृत्तस्य भारतस्य न तन्न्यायविषयत्वम् । अन्यथा त्वदभिमतनिर्गुणविद्यादेरपि तन्न्यायविषयत्वापत्तेरिति ॥

मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम् । वनमालिकृतं भाति समन्वयनिरूपणम् ॥

इति श्रीमद्वनमालिविरचिते मध्वमुखालंकारे समन्वयनिरूपणं समाप्तम् ।