विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः

जिज्ञासान्यायवर्णनम्

विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः।

समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्‌॥

ॐ अथातो ब्रह्मजिज्ञासा ॐ

नन्विदमनुपपन्नम् त्वन्मते सर्वत्र तत्तत्पूर्वपक्षसिद्धान्तानामनुपपन्नत्वात् । तत्र प्रथमाधिकरणपूर्वपक्षस्तावदयुक्तः । तथा हि ब्रह्ममीमांसाशास्त्रमिदमनारम्भणीयम्, निर्विषयत्वात् । न तावदस्य सविशेषं ब्रह्म विषयः, तत्र मानाभावात् । वेदान्तानां निर्विशेषजीवस्वरूपमात्रपरत्वात् । न च जीव एव ब्रह्मेति स एव विषयः, तस्य स्वप्रकाशत्वेन अहमिति सर्वानुभवसिद्धत्वात् । निर्विशेषे च तत्र निरूपणीयधर्माणामभावादिति । तत्र निर्विशेषजीवरूपस्य ब्रह्मणः श्रुत्यन्तनिरूप्यत्वमङ्गीकृत्य शास्त्रनिरूप्यत्वासंभवपूर्वपक्षी गुरूणां प्रणतिपरम्पराया विषये महापुरुषे तच्छिष्योचितस्वप्रमाणानर्हत्ववादमनुकरोति ।

प्रमाणशिखामणयो हि वेदान्ताः नितान्तमनधिगतमर्थमन्विच्छन्ति । पौरुषेयाणि तु शास्त्राणि उपायान्तरेणावगन्तुं शक्येष्वर्थेषु श्रोतृबुद्धिसौकर्यार्थं प्रवृत्तानि स्वोक्तमप्यर्थमविस्मरणार्थमाम्रेडयन्ति न तथाऽनधिगतार्थमन्विच्छन्ति । यदि वेदान्ता अपि स्वप्रकाशजीवस्वरूपमात्रे कर्तृत्वभोक्तृत्वरहिते अकर्मकशेषे स्वातन्त्र्येण पर्यवस्यन्ति तदा शास्त्रस्य पर्यवसाने काऽनुपपत्तिरिति चेन्न, अस्मद्ग्रन्थार्थानवबोधात् । न ह्यस्मत्पूर्वपक्षिणा वेदान्तानामनधिगतार्थकत्वं स्वीकृत्य मीमांसानारम्भ उच्यते । किन्त्वज्ञातविषयाभावादनुवादका वेदान्ता जपार्था वा पूर्वकाण्डस्य तु कर्मबोधकत्वमित्यनारभ्याब्रह्ममीमांसेत्युच्यते । न च "स्वाध्यायोऽध्येतव्यः" इति स्वाध्यायविधेर्निरर्थक वेदान्तांशे वैयर्थ्यमिति वाच्यम् ; विषनिर्हरणमन्त्रवद्वेदान्ताध्ययनस्यापि सार्थक्यात् ।

उक्तं हि चन्द्रिकायाम् — "सिद्धचैतन्यबोधने श्रुतेरनुवादकत्वं वायुक्षेपिष्ठादिवाक्यवाद्विद्वद्वाक्यवच्च न्यायप्राप्तत्वात्सत्यं वेदान्ताध्ययनं तु जपार्थमस्तु ।

एवं च यथा-अर्थवादाधिकरणेऽपौरुषेयत्वेऽप्यर्थवादानामक्रियार्थत्वेन विध्येकवाक्यत्वाभावादानर्थक्यमिति भाटटमते पूर्वपक्षः, प्रभाकरमते चार्थवादानां विध्येकवाक्यत्वात् । यतो वायुदेवताकं कर्म शीघ्रफलदमतोऽप्यनुष्ठेयमित्यादिहेतो:वायुर्वै क्षेपिष्ठा" इत्याद्यर्थवाद बोधितस्यार्थस्य रक्तपटन्यायेनोत्थाप्याकाङ्क्षया विधीनामपेक्षितत्वान्न निरपेक्षबोधकत्व रूपप्रामाण्यं चोदनानामिति पूर्वपक्षः । यथा च परमते शास्त्रयोनिसूत्रे कारणवाक्यमनुमानप्राप्तकारणत्वानुवादि, ईक्षत्यधिकरणे च सांख्यस्मृतिप्राप्तकारणत्वानुवादीति पूर्वपक्ष: । तथेहापि स्वतः सिद्धप्रत्यगात्मानुवादका वेदान्ता न विचार्या इति पूर्वपक्ष इति । वेदान्तानामनधिगतार्थकत्वमङ्गीकृत्य त्वदीयपूर्वपक्षस्याप्यसंभव एव । कर्तृत्वभोक्तृत्वादिरहितं कर्माशेषभूतं चैतन्यं तु अस्मत्पूर्वपक्षिणा नोपेयत एव । प्रमाणशिखामणित्वं तु वेदान्तानामधिगतार्थपरत्वेऽपि यथार्थज्ञानजनकत्वेनाप्युपपन्नम् ।

ननु त्वन्मते मीमांसारम्भात्प्रागेव वेदान्तानां प्रामाण्यं सिद्धम् । तथा हि-विष्णुना नारायणरूपेण विस्तरेण कृतं पुनर्व्यासरूपेण च संक्षिप्तं ब्रह्मतर्काभिधानं शास्त्रम् । तच्च तर्कशास्त्रं मीमांसाशास्त्रस्याङ्गम् । इदं हि सर्वेषां कर्म ब्रह्मकाण्डरूपवेदानां सकलगुणपूर्णो भगवानेव मुख्यार्थ इति निर्णयाय प्रवृत्तम् । तत्वेतन्निर्णेयार्थानां वेदानां तदर्थनिर्णायकानां प्रत्यक्षादीनामुपक्रमादीनां श्रुतिलिङ्गादीनां च स्वरूपप्रामाण्यतद्बलाबलनिर्णायकत्वेनैवैतस्यापेक्षितमिति तदुक्तमनुव्याख्याने-

प्रमाणन्यायमीमांसा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसामेयशोधनम् ॥

ब्रह्म तर्कं च भगवान् स एव कृतवान्प्रभुः । पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥

उद्धृत्य पञ्चसाहस्रं कृतवान्बादरायणः ॥ इति ।

एवं च यदि वेदान्तानामखण्डजीवस्वरूपपरत्वे मानान्तरसिद्धतत्स्वरूपानुवादमात्र पर्यवसायित्वेन प्रामाण्यं न निर्वहेत्तदा तन्निर्वाहाय तेषामुपक्रमादिस्वारस्यावगतमपि तद्विषयकत्वं परित्यज्य मानान्तरानधिगतसगुणब्रह्मविषयतैव पूर्वपक्षिणापथंगीकर्तव्या स्यात् । न हि सिद्धप्रामाण्यानां वेदवाक्यानामनधिगतार्थपर्यवसानविरोधे क्वचिदपि वाक्यस्वारस्यानुरोधोऽस्ति । " त्रेधा तण्डुलान् विभजेत्", "सृष्टीरुपद्धाति" "कपालेषु श्रपयति" इत्यादिषु तत्तत्स्वारस्योपस्थितानप्यन्यतः प्राप्तिमतोऽर्थान्परित्यज्य लक्षणया प्रत्यक्षविध्यन्तरद्वाराकल्प्यविध्यन्तरद्वारा वाऽनधिगत एवार्थे पर्यवसानस्याङ्गीकृतत्वादिति चेन्न, अनवबोधात् तथा हि अज्ञातमेयाभावात्प्रधानभूतस्य मीमांसाशास्त्रस्यानारम्भं बुवता पूर्वपक्षिणैतदङ्गतर्कशास्त्रानारम्भस्य सुतरां वाच्यत्वात् । न हि मेयशोधकमीमांसानैरपेक्ष्येणैतदपक्षितन्यायादिसमर्पकतर्कशास्त्रेणानधिगतार्थकत्वरूपं प्रामाण्यं वेदान्तानां सिद्धम् । किंच ब्रह्मतर्केण वेदान्तानां याथार्थ्यादिलक्षणप्रामाण्यस्य सिद्धावपि मीमांसारंभबीजस्यानधिगतार्थकत्वरूपप्रामाण्यस्यासिद्धेः । एवं चेत्याद्ययुक्तम्, अस्मत्पूर्वपक्षिणा वेदान्तानामनधिगतार्थकत्वरूपप्रामाण्यानङ्गीकारात् । सगुणे ब्रह्मणि मानाभावेन तत्परतया सार्थक्यासंभवात् । वस्तुतस्तु शब्दमात्रतात्पर्यनिर्णयस्य ब्रह्ममीमांसाधीनत्वान्न ब्रह्म तर्केण वेदान्तानां किमपि प्रामाण्यं मीमांसारम्भात्प्राक् सिद्धम् । मीमांसाङ्गत्वं च तदपेक्षितयत्किंचिन्न्यायादिव्युत्पादकत्वेनाप्युपपन्नम् । किंचानधिगतार्थकत्वरूपप्रामाण्यं ह्यज्ञातविषयबोधकेनैव वेदान्तानां प्रतिपाद्यम् । अज्ञातो विषयस्त्वनन्तगुणालयो हरिरेव । न च स ब्रह्मतर्केण बोध्यते । न वा मीमांसां विना तदुपबृंहित वेदान्तैर्बोध्यते । बोधने च मीमांसा वैयर्थ्यापत्तिः । अत एव न हीत्याद्यपि निरस्तम् | "अयमात्मा ब्रह्म" इत्यादिवाक्यस्वारस्यानुरोधस्यैव सिद्धप्रामाण्यानामपि वेदवाक्यानामनधिगतार्थपर्यवसाने विरोधिनः सत्त्वात् । "त्रेधा तण्डुलान्" इत्यादिषु स्वरसोपस्थितमानान्तरप्राप्तं परित्यज्य लक्षणादिनानधिगतार्थपर्यवसाने विरोधिनोऽसत्वात् ।

ननु त्वन्मते साक्षी सर्वप्रमाणाधिकः, नित्यत्वेनाप्रामाण्यहेतुदोषजन्यत्वाभावात् । साक्षिविषये सुख-दुःखेच्छाद्वेषादौ संशयविपर्यययोरदर्शनाच्च । दूरसंजात-जलादिज्ञानप्रामाण्यपरीक्षाधारायामन्ततो जलावगाहनादिप्रयुक्तसुखादिग्राहकं साक्षिणमासाद्यैव विश्रान्तेश्च । अतः साक्ष्यनुभवविरुद्धेऽर्थे श्रुतिरपि न प्रमाणम् । साक्षिणो बलवत्त्वं च तव ब्रह्मतर्क एव सिद्धम् । अतोऽत्र साक्ष्यनुभवविरुद्धं वेदान्तानां सुखदुःखादिरहित निर्विशेषजीवस्वरूपमात्रपरत्वमपेक्ष्य पूर्वपक्षो न युज्यते इति चेन्न अनवबोधात् । तथा हि-साक्षिणा सुख-दुःखादिविशिष्टं गृह्यते, श्रुत्या च धर्मिमात्रमित्यविरोधमवलम्ब्य पूर्वपक्षप्रवृत्तेः । न हि घटवद्भूतलमिदं भूतलमित्यनयोर्विरोधोऽस्ति । न वा वेदान्तानां दुःखादिनिखिलाभावविशिष्टजीवस्वरूपपरत्वमुपेत्यास्मत्पूर्वपक्ष: प्रवृत्तः । निखिलाभावस्याप्रत्यक्षत्वेन पूर्वपक्षासंभवात् । वस्तुतस्तु प्रत्यक्षसिद्धविशेषातिरिक्त विशेषाभाव एव निर्विशेषपदार्थ इति न कोऽपि दोषः । ननु त्वदिष्टं प्रमाणबलाबलं ब्रह्मतर्क एव सिद्धम्, अतो वाक्यार्थनिर्णये प्रमाणानामुपक्रमादीनामुपक्रमादुपसंहारो बलीयानित्यादिरूपत्वदिष्टो मतान्तरविलक्षणबलाबलविभागोऽपि तत्रैव सिद्धः ।

उपक्रमादिलिङ्गानां बलीयो ह्यत्तरोत्तरम् ।

श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् ॥

इत्यनुव्याख्यानोक्तेः । त्वदभिमतोपक्रमादिबलाबलानुसारी सर्ववेदानामर्थश्च त्वन्मते विचारात्प्रागेव गुरुमुखादवगन्तव्यः । यावच्छक्तिसकलवेदाध्ययनपूर्वकं प्रतिवाक्यमस्यायमर्थ इति सर्वेषां वेदवाक्यानां गुरुमुखादर्थग्रहणं श्रवणम्, तच्च यावदज्ञाननिवृत्ति सम्यगावर्तनीयम् । एवं श्रवणावृत्तिलब्धस्य वाक्यार्थग्रहणस्य स्थैयार्थ न्यायविचारात्मकं युक्तयनुसंधानं मननम् । विचारशास्त्रं च मननविधिमूलकं न श्रवणविधिमूलकमिति हि त्वन्मतम्, तथा च निर्विशेषनिःप्रपञ्चजीवाभेदवाक्यानामपि सगुणसप्रपञ्चजीवभिन्नस्वाभिमतब्रह्मपरत्वमवबोधयतां स्वगुरूणां सकाशात् बहुधावर्तितश्रवणलब्धवाक्यार्थनिर्धारणस्तदनुगुणप्रमाणस्वरूपतद्बलाबलव्यवस्थापकब्रह्मविचारशास्त्रेतिकर्तव्यतर्कशास्त्राभ्यासेन लब्धश्रवणसंवाद्स्तदनन्तरं तदर्थमननात्मके विचारे प्रवर्तमानः शिष्यः प्रत्यक्षादेः तर्कशास्त्राभ्यासलब्धप्रमाणबलाबलस्याप्यनुगुणमर्थं त्यक्त्वा सर्ववेदान्तानां निर्विशेषजीवस्वरूपमात्रमेवार्थ इति सर्वविरुद्धं कथमाशङ्केत । आशङ्काभावे वा कथं पूर्वपक्ष इति चेदुच्यते; यथाश्रुतवाक्यार्थ ग्रहणरूपश्रवणेन धर्म्यज्ञाननिवृत्तावपि मनननिवर्तनीयायुक्तत्वादि शङ्काप्रयुक्तनिः प्रपञ्चत्वादि कोटिकसंशयसंभवेन पूर्वपक्षसंभवात् । निर्विशेषादिवाक्यानां सविशेषादिपरत्वस्य गुरुभिर्विचारं विना बोधयितुमशक्यत्वात् । विचारात्प्राक् श्रवणमात्रेण वाक्यार्थनिर्णयो ह्यसिद्धः । मीमांसानारम्भे तदङ्गब्रह्मतर्काभ्यासस्यैवासंभवेन श्रवणसंवादोक्तेरयुक्तत्वात् । एतेन शिष्यस्य प्राक् अवगतार्थेन प्रतिबंधुमशक्यतयोदेतुं योग्याशंकैव हि वादकथारूपे शास्त्रे पूर्वपक्षो नाम अतो-अत्र प्राक् संजातेन श्रवणेनाङ्गविद्याभ्यासेन च प्रतिबन्धुम् शक्या शङ्का नोदेतुमर्हतीति निरस्तम् ।

विचारात्प्राक् श्रवणवृत्तिजन्यधर्मिज्ञानस्य निःप्रपञ्चत्वादि शङ्का विरोधित्वाभावात् । न्यायानुसन्धानरूपमननात् प्राक् निर्णये मननवैयर्थ्यापत्तेश्च । न च संशयसाधारणज्ञानस्य साङ्गाध्ययनकाल एव संभवेन श्रवणवैयर्थ्यम् साङ्गाध्ययनेनापि तत्तद्वेदैः पदर्णस्वरादिना ब्रह्मापातप्रतीत्यनुद्येन तदर्थे श्रवणस्यावश्यकत्वात् तदुक्तं न्यायामृते- " न हि कर्मकाण्डादिना ब्रह्मकाण्डेऽप्यवान्तर कारणादिवाक्येन पदवाक्यरूपाणां ब्रह्मधीरस्ती" ति श्रवणेन सर्ववेदानां वर्णस्वरपदवाक्यरूपाणां ब्रह्मपरत्वमापाततोऽवगतं न्यायानुसंधानरूपमनननामकविचारेण च निर्णय इति तत्त्वम् । ननु तथापि त्वत्पूर्वपक्षोऽनुपपन्नः । तथा हि सर्वेषां वेदान्तवाक्यानां निर्विशेषजीवस्वरूपपरत्वं प्रबलन्यायैः प्रतिष्ठापयच्छास्त्रमिष्यते न वा ? न चेत् प्रत्यक्षादिविरुद्धं सविशेषत्वादिविषयानेकावान्तरवाक्यकृतान्तःकलहप्रतिरुद्धं च तेषां तत्परत्वं न सिद्धेदिति तत्सिद्धिसापेक्षानारम्भपूर्वपक्षोत्थानं न स्यात् । इष्यते चेत्तदारंभमपेक्ष्य विषयाभावेन तदनारंभः समर्थ्यत इति व्याघातः स्यादिति चेन्न । अनारम्भे हि निर्विशेषजीवस्वरूपमात्रपरत्वं न हेतुर्येन शास्त्रारम्भानारंभाभ्यां व्याघातासिद्धी स्याताम् । किन्तु निर्विषयत्वमेव तत्र हेतुः । निर्विषयत्वं तु जीवस्य प्रत्यक्षसिद्धत्वात्, तद्भिन्नेश्वरे, प्रत्यक्षासिद्धजीवधर्मे च मानाभावात् । उक्तं हि न्यायसुधायां न तावदनात्मविषयेयं जिज्ञासा तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः आत्मा तु शरीरेन्द्रियादिसंघातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिभिर्निर्णीतं नन्वात्मा शरीराद्यतिरिक्तो ऽहमित्यसंदिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चयिते इति चेत्, तर्हि तत एव न जिज्ञास्यः ।

अत एवानादितः तदीयतत्वज्ञाने विद्यमानेऽपीष्टानिष्टप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्ठे ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न तस्यैवाभावात् न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसंग इति वाच्यम् । तेषां कथंचिज्जीवविषयत्वोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्ट इति । एको लाघवाख्यो न्यायोऽस्मत्पूर्वपक्षिणाऽपि स्वीक्रियते । तेन प्रत्यक्षसिद्धजीवातिरिक्त चैतन्याभावसिद्धया ईश्वरादिपदानां यथाकथंचिज्जीव एव पर्यवसानम् । उक्तं हि न्यायसुधायाम्-"प्रतीतार्थत्वोपपत्तावप्रतीतार्थकल्पनायां गौरवप्रसंगात्" इति । प्रत्युत त्वदीयवाचस्पतिविवरण पूर्वपक्षयोरेव व्याघातः । वाचस्पतिमते हि प्रत्यगात्मन एव ब्रह्मत्वात्तस्य चाहमिति प्रकाशमानत्वात्तज्ज्ञानाय न शास्त्रमारंभणीयमिति पूर्वपक्ष: । विवरणमते तु प्रत्यग्ब्रह्मैक्यस्य विषयत्वेनाभिमतत्वात्प्रत्यब्रह्मणोश्च विरुद्धस्वभावयोरैक्या सिद्धेस्तद्विचारार्थ शास्त्रं नारम्भणीयमिति पूर्वपक्ष: । न च प्रत्यगात्मन एव ब्रह्मत्वं प्रत्यग्ब्रह्मणोरैक्यं च शास्त्रं विना सिद्धयति, येन व्याघातो न स्यात् ।

ननु प्रत्यगात्मन एव ब्रह्मतया विषयत्वं प्रत्यक् ब्रह्मणोरैक्यस्य च विषयत्वं च सिद्धान्त्यभिमतमेवानूद्य तयोरेकस्य सिद्धत्वेनान्यस्यासिद्धत्वेन विषयत्वासंभवः इति तौ पूर्वपक्षौ प्रवृत्तौ तत्र कुतः प्रत्यगात्मैव ब्रह्मेति वा कुतः प्रत्यग्ब्रह्मणोरैक्यमिति वा पूर्वपक्षिणं प्रति सिद्धान्तिनो हेत्वाकाङ्क्षा न भवति । सिद्धान्त्यभिमतस्यैव तयोर्विषयत्वस्य पूर्वपक्षिणाऽनूदितत्वात् ततस्तत्र विषयोपपादकशास्त्रारम्भमनपेक्ष्य तदनारम्भपूर्वपक्षप्रवृत्तेर्न व्याघात इति चेन्न, यदि शास्त्रं प्रत्यक्षसिद्धजीवब्रहमैक्यादिपरं स्यात्तर्ह्यनारम्भणीयं स्यात् । अनारम्भणीयं तु न भवति, अत उक्तैक्यादिपरं न भवतीति हि त्वदीयपूर्वपक्ष: स्यात् । तथा चापाद्यव्यतिरेकनिर्णयस्यापत्तिं प्रति हेतुत्वेन शास्त्रारम्भः पूर्वपक्षिणोऽप्यावश्यकः । तथा चासंगत एव पूर्वपक्ष: । न ह्युक्तैक्यादिप्रतिपादनायेदमधिकरणं प्रवृत्तं येन तत्खण्डनाय पूर्वपक्षः प्रवर्तेत ।

एतेन त्वन्मते तु निर्विशेषजीवचिन्मात्ररूपं ब्रह्मेति सिद्धान्त्यनभिमत एवार्थे विषयत्वमापाद्य पूर्वपक्षप्रवृत्तिरिति तस्मिन्नर्थे सिद्धान्तिनो हेत्वाकाङ्क्षोदयेन तदुपपाकशास्त्रारम्भस्य त्वत्पूर्वपक्षिणापेक्षणीयत्वाद्याघात इति निरस्तम्, निर्विशेषजीवचिन्मात्रपरत्वबोधकशुक्रशास्त्राभ्युपगमेन प्रेक्षावदनुपादेयत्वरूपानारम्भपूर्वपक्षप्रवृत्तेः । किन्त्वनारम्भे विषयाभावस्यैव हेतुत्वेनोक्तेः । निर्विशेषजीवस्वरूपमात्रपरत्वस्य तत्र हेतुत्वानुक्तेश्च । किं च सिद्धान्त्यनभिमतमर्थं स्वीकृत्य शास्त्रानारम्भपूर्वपक्षे तदुपपादनाय शास्त्रारम्भोऽपेक्षित इति व्याघातश्चेत्पूर्वमीमांसाद्यधिकरणपूर्वपक्षेऽपि व्याघातः स्यात् । स खल्वेवं प्रवृत्तः -अध्ययनविधिना विश्वजिन्न्यायाद्वेदाध्ययनस्य स्वर्गार्थताऽवबोधकेनार्थज्ञानेतरफलार्थं नीयमानानां वेदानां विषनिर्हरणमन्त्राणामिवार्थविवक्षाग्राहकं प्रमाणं नास्तीति वेदवाक्यान्यापाततो परिपूर्णानुपपन्नार्थानि लक्षणानुषङ्गाध्याहारव्यवधारणकल्पनार्थिकार्थकल्पनादिभिरवश्यमुपपादनीयानीत्यत्र नियामकाभावादनुपपत्तिशङ्काकलुषितं वेदार्थविचारात्मकं शास्त्रं नारम्भणीयमिति तत्रापि स्वाध्यायाध्ययनस्य स्वर्गाद्यर्थत्वं सिद्धान्त्यनभिमतमेव पूर्वपक्षिणोपपाद्यमिति तदुपपादकविश्वजिन्न्यायादिप्रतिपादकशास्त्रारंभापेक्षास्त्येव ।

नतु धर्मजिज्ञासा सूत्रेऽध्ययनवाक्यमेकमेव विचार्यम् तस्य सिद्धान्त्यभिमतदृष्टफलरूपार्थज्ञानार्थत्वे वैयर्थ्यप्रसंगात्सर्वापेक्षितस्वर्गार्थत्वं वाच्यमिति शंक्यम् पूर्वपक्षे एव किंचिन्न्यायोपपादनमिति तदर्थं न शास्त्रारम्भापेक्षेति चेन्न, अध्ययनविधिद्वारा तदुपात्तानां सर्वेषामेव वाक्यानां विचार्यत्वेन शास्त्रारम्भापेक्षावश्यकत्वात् । ननु तेषां वाक्यानामविवक्षितार्थत्वे पूर्वपक्षिणोपपादनीये विषनिर्हरणादिमन्त्रवदन्यार्थे नीयमानत्वमेक एव न्यायः । सोऽपि पूर्वपक्ष एव व्युत्पादयितुं शक्य इति तदर्थमपि न शास्त्रारम्भापेक्षा । न हि कियन्तमपि न्यायमप्रदर्श्य पूर्वपक्षः क्रियत इति चेन्न, अत्माकमपि लाघवाख्यन्यायेनेश्वराभावसिद्धया जीव एव शास्त्रपर्यवसानेन तस्य प्रत्यक्षसिद्धत्वादनारभ्यं शास्त्रमिति पूर्वपक्षसंभवात् ।

एतेन त्वन्मते नैकमेव वेदान्तवाक्यं विषयः, तस्यैकस्य केनचिन्न्यायेन पूर्वपक्ष एव व्युत्पादितेन निर्विशेषचिन्मात्रपरत्वसिद्धावपि वाक्यान्तराणां सगुणब्रह्मपरत्वानिवारणेन तद्विचारार्थं शास्त्रस्यारभ्यत्वप्रसंगात् । अतः पूर्वपक्षिणा सर्वेषामेव वेदान्तानां निर्विशेषचिन्मात्रपरत्वव्यवस्थापनेन सिद्धान्त्यभिमते सगुणब्रह्मणि प्रमाणाभावात्तद्विचारार्थमपि शास्त्रं नारभ्यमिति वाच्यम् । त्वदभिमतं च न सर्वेषां वेदान्तानां निर्विशेषजीवचिन्मात्रपरत्वे सार्वत्रिक एको न्यायोऽस्ति, उपक्रमादीनां श्रुतिलिङ्गादीनां च परस्परबाध्यबाधक भाव प्रकारशालिनां तत्र व्यवस्थापितत्वात् । न च तेषां सर्वेषामेकस्मिन्नेवात्र पूर्वपक्षे व्युत्पादनं युक्तम्, तथा सति सर्वस्यापि शास्त्रस्यैकाधिकरण्यकल्पनाप्रसंगात् । तस्मात्तावतां न्यायानां व्युत्पादकमेकं शास्त्रमिहापेक्षितमित्यत्रैव व्याघातो न धर्ममीमांसारम्भपूर्वपक्ष इति निरस्तम् । प्रत्यक्षाद्यप्रतीतेश्वराभावसाधकलाघवादि

यत्किश्चिन्न्यायस्यास्मत्पूर्वपक्षिणाऽप्यारभ्यत्वेन तेनेश्वरपरवाक्यानां यथा कथंचित्प्रत्यक्षसिद्धजीवपरत्वोपपत्तौ शास्त्रस्यारभ्यत्वात् । वेदान्तानां निर्विशेषचिन्मात्रपरत्वे एकस्य न्यायस्यासत्त्वेऽपीश्वराभावसिद्धौ जीव एव हि पर्यवसानम् ।

न च त्वत्पूर्वपक्षिणोऽतीन्द्रियधर्मादिकमपि न सिद्धयेदिति वाच्यम्, जीवभिन्नेश्वरे "अयमात्मा ब्रह्म" इत्यादीनां विरोधिनां वाक्यानामिव धर्मबोधकवाक्ये विरोधिनोऽसत्त्वात् । प्रत्युत त्वदीये वाचस्पतिपूर्वपक्षे प्रत्यगात्मन इदानीमहमिति प्रकाशमानरूपमध्यास परिनिष्पन्नं तदिह न विचार्यम् । किं तु संसारदशायामनाविर्भूतं निर्विशेषं तस्य तात्त्विकरूपमस्ति श्रुतिप्रसिद्धम्, तद्विचारणाय च बहूनां निर्विशेषवाक्यानामभेदवाक्यानां चान्यपरत्वं वाच्यमिति तदुपपादकशास्त्रारम्भावश्यकत्वेन व्याघातः । न चैकयैव प्रत्यक्षादिविरोधयुक्तया तेषामन्यपरत्वकल्पनेति वाच्यम्, अखण्डार्थकानामैक्यादिवाक्यानां धर्मिमात्रपरत्वेन प्रत्यक्षाद्यविरोधित्वात् । न हि धर्मिमात्रग्राहकमानस्य तत्राधिकधर्मादिबोधकेन मानेन न बाधोऽस्ति । अत ऐक्यादिवाक्यानां गत्यर्थं त्वत्पूर्वपक्षिणः शास्त्रारम्भापेक्षाऽस्त्येवेति सुस्थो व्याघातः ।

ननु स्वप्रकाशस्यापि जीवस्य शास्त्रविषयत्वे च न काऽप्यनुपपत्तिः । सिद्धान्तेऽपि सत्यस्यानादेर्जीवाश्रितस्य तं प्रति तदीयानन्दादिकं ब्रह्मस्वरूपं तद्गुणगणादिकं चावृण्वतो मायाविद्याप्रकृत्यादिशब्दवाच्यद्रव्यरूपस्य ज्ञानविरोधिनो भावरूपस्याज्ञानस्य ''अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" "विश्वमायानिवृत्ति" रित्यादिवाक्य सिद्धस्येष्यमाणत्वात् । अन्यथा मुक्तिसंसारयोरविशेषः स्यात् । सिद्धान्ते हि नित्यज्ञानानन्दस्वरूप एव जीवः । विकाररूपाणां धर्माणां मुक्तावभावान्मुक्तौ पुरुषार्थरूपस्य नित्यानन्दप्रकाशस्येदानीमपि सत्त्वात् । अत ईश्वरापरोक्षज्ञानेनाज्ञाननिवृत्तौ प्राक् सत एवानन्दस्य बाल्येऽपि सतः पुंस्त्वादेर्योवन इव मुक्तावभिव्यक्तिः । सुषुप्त्यादौ तत्सत्त्वेऽपि कामकर्मादिवृत्त्यभावादभिव्यक्तिः । तस्यानादित्वेन स्वोपादानगतोत्तरावस्थारूपनिवृत्त्यसंभवेऽपि प्रमाणसिद्धनिवर्तकोपनिपातबलात् स्वरूपप्रध्वंसरूपा निवृत्तिरिति सर्वोऽप्ययमर्थः पुंस्त्वाद्यधिकरणे स्थितः । अनिर्वचनीयत्वादिकं परं तस्य नेष्यते । तथा च यस्त्वया संसारदशायां प्रकाशमानस्यैव जीवस्य स्वरूपभूत आनन्दस्तदानीमावृत इष्यते, स एव श्रुतीनां जीवपरत्वपक्षेऽनधिगतो विषय इति न तस्मिन् पक्षे विषयाभावसिद्धिरिति चेन्न, नाहं पूर्णानन्द इति पूर्णानन्दत्वाभावग्राहकप्रत्यक्षेणायोग्यतानिर्णयादागमेन जीवे पूर्णानन्दत्वादिकस्य बोधयितुमशक्यत्वात् । यदीश्वराचिन्त्यशक्त्याऽनावृतस्यापि जीवस्यावृतत्वं सिद्धान्तिनोपेयते । तदीश्वरस्यैव लाघवादिना पूर्वपक्षिणा निराकृतत्वात् । प्रकाशमानस्यावरणासंभवाच्च । सुषुप्तावपि सुखरूपत्वमेवानुभूयते न तु पूर्णानन्दत्वादिकमपि पुंस्त्वाद्यधिकरणोक्तन्यायादिकमाच्छाद्य पूर्वपक्षोदयात् । न हि सिद्धान्तीयाः सर्वे न्यायाः पूर्वपक्षिणारभ्यन्ते । तथात्वे हि कुत्रापि शास्त्रे पूर्वपक्षोदयो न स्यात् ।

ननु जीवतदानन्दयोरभेदेऽपि गुणगुणिभावनिर्वाहकस्य भेदप्रतिनिधेर्विशेषस्य सत्त्वात्स्वप्रकाशजीवस्वरूपानावरणेऽप्यानन्दस्यावरणं युक्तम् । अखण्डजीवपक्षे जीवतदानन्दयोर्विशेषाभावादयुक्तमित्यशुद्धम् । अखण्डपक्षे अविद्यामहिम्ना प्रकाशमानस्यैवाप्रकाशोपपत्तेः । सा ह्यघटघटनापटीयसी ब्रह्मशक्तिः, तस्यास्तादृशो महिमा नेष्यते चेत्सविशेषा भेद पक्षेऽप्ययं विरोधो दुष्परिहरः । न हि विशेषोऽस्तीत्येतावता तत्प्रकाशस्याविद्यावरणेन किंचिदपनीयते । घटस्थ कुड्यावरणेन तत्संनिकर्षप्रतिबन्धवत्पटशौक्ल्यस्य महारजनावरणेन तज्ज्ञानप्रतिबन्धवच्चात्रानन्दस्य संनिकृष्टत्वप्रतिबन्धस्य तत्प्रकाशोत्पत्तिप्रतिबन्धस्य च वक्तुमशक्यत्वात् । नित्यस्य जीवचैतन्यस्यैव तत्प्रकाशतया तदुत्पत्तेस्तत्कारणेन्द्रियसंनिकर्षस्य चानपेक्षणात् । छत्राद्यावरणेनालोकस्य विषयसम्बन्धजीवचैतन्यस्यानन्दसंबन्धप्रतिबन्धस्यापि वक्तुमशक्यत्वाच्च तयोर्विषयविषयिभाव संबन्धस्यागन्तुकस्यासत्त्वात् स्वरूपाभिन्नधर्मत्वात् । न चानन्दजीव चैतन्ययोर्विषयविषयीभावः सदा शक्त्यात्मना स्थितोऽपि मुक्तौ व्यक्तात्मतापद्यत इति तदानीमेवानन्दप्रकाशो न प्रागिति वाच्यम् । व्यक्तेरपि नित्यत्वाभ्युपगमे मुक्तौ जीवस्य सविकारत्वापत्तेर्नित्यानित्ययोः शक्तिव्यक्तयोर्भेदप्रसंगाच्चेति-

"न विशेषात्मता चेयमनित्या शक्तिरूपता ।

सैव यत्सविशेषा स्याद्विशेषोऽन्यो न चाप्ययम् ।

इत्यनुव्याख्याने व्यक्तेः शक्त्यभिन्नत्वेनानित्यत्वनिषेधाच्च इदानीमप्यानन्दप्रकाशप्रयुक्तस्य स्वात्मनि प्रेम्णोऽनुभवाच्च । तस्मात्त्वद्रीत्या लोकानुभवेन जीवानन्दे प्रकाशमान एवाप्रकाशत्वं वाच्यम् । तच्चाविद्यामहिम्नैवोपपादनीयम् । तथैवोपपादितं च सुधायाम् – “अतः परमेश्वर एव सत्त्वादिगुणमय्याविद्याविरोधित्वेनाविद्यया स्वाधीनप्रकृत्याख्ययाऽचिन्त्ययाऽद्भुतया स्वशक्त्या जीवस्य स्वप्रकाशमपि स्वरूप चैतन्यमाच्छाद्यतीति युक्तम्" इति । तत्र विशेषोऽकिंचित्कर इति चेन्न, विशेषो हि वस्तु-स्वभावरूपः, अतो न तेनाविद्याया अविद्यया वा तस्यान्यथासिद्धिः । अविद्या च सिद्धान्ते स्वीक्रियत एव । तामादाय त्वयाऽस्मत्पूर्वपक्षो दूष्यते, सिद्धान्तो वा ? नाद्यः, प्रत्यक्षगृहीतातिरिक्तधर्मान् लाघवादनङ्गीकुर्वताSस्मत्पूर्वपक्षिणा जीवे आवरणनिरासात् । सिद्धान्त-न्यायानामनाच्छादने कुत्रापि पूर्वपक्षासंभवाच्च । अस्मत्सिद्धान्तयुक्तया पूर्वपक्षखण्डनस्य त्वया वक्तुमनर्हत्वाच्च । जीवभिन्नमीश्वरमनङ्गीकुर्वाणमस्मत्पूर्वपक्षिणं प्रति प्रकाशमानेऽपीश्वराचिन्त्यशक्तयावरणोक्तेर्मोह मूलकत्वाच्च । नान्त्यः, सिद्धान्तोपपत्तेर्वक्ष्यमाणत्वात् ।

यत्तु जीवस्य ब्रह्मणः सकाशान्मुख्यो भेदः सन्नपि ब्रह्मदर्शनं यदा निरोद्धुं न शक्नोति तदा जीवस्य स्वानन्दाद्विशेषो भेदप्रतिनिधिः तद्दर्शनं निरोद्धुं न शक्नोतीति किं वाच्यम् ? न चाव्यक्तखभावत्वाद्ब्रह्मणस्तदप्रकाशोपपत्तिरिति वाच्यम्, तथा सति ब्रह्मणः प्रकाशप्रसत्त्यभावेन जीवाश्रितमज्ञानं ब्रह्मतद्धर्मविषयमानन्दपारतन्त्र्यादिस्वधर्मविषयं चेति कल्पना वैयर्थ्यप्रसं गात् । उपासनान्तरभावेऽप्यप्रकाशापातेन मोक्षशास्त्रवैयर्थ्यप्रसंगाच्च । न चाव्यक्तस्वभावमपि ब्रह्मोपासनया प्रसन्नं सत् स्वशक्त्यैवापरोक्षीभवति । तचापरोक्षज्ञानमन्तःकरणवृत्तिरूपमिति तेनैव मोक्षः, अतः स्वरूपचैतन्यस्य कदाचिदपि ब्रह्म न विषय इति वाच्यम्, त्वया तदेव मे"यः पुत्रात्स यो वित्तात्इति श्रुत्या ब्रह्म परमप्रेमास्पदतयोक्तमिति मुक्तौ स्वरूपानन्दानुभववत्तदनुभवस्यापि पुरुषार्थतयाङ्गीकारात् । मुक्तौ माहात्म्यग्रहणपूर्वकस्नेहरूपाया भक्तेरुपासनायाश्च त्वयाङ्गीकृतत्वाच । तस्मान्मुक्तौ स्वरूपचैतन्यातिरिक्तज्ञानाभावात्स्वरूपचैतन्यस्य च तदानीमागन्तुकविषविषयीभावासंभवादनादिकालमारभ्यैव ब्रह्मणस्तद्गुणगणस्य च मुक्तियोग्यानां स्वरूपचैतन्यप्रकाशनं वक्तव्यमेव । स्वीकृतं च तथा त्वया "स्थानविशेषात्प्रकाशादिवत्" इति सूत्रे । तत्र हि चतुर्मुखादिजीवानन्दानां ब्रह्मानन्दप्रतिबिम्बत्वेऽपि बिम्बावैचित्र्याद्वैचित्र्यानुपपत्तिमाशङ्कय तत्तज्जीवगतानादिभक्त्यादिगुणवैचित्र्यात्तदानन्दानामनादिवैचित्र्यमुपपद्यते इत्युक्तम् । उदाहृतं च त्वया-

ऐश्वर्यात्परमा विष्णोर्भक्त्यादीनामनादितः ।

ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता ॥ इति ।

युक्तं चातीतानागतपदार्थानां तत्तत्कालानामव्याकृताकाशस्य तदंशानां व्यवहितानां प्राच्यादीनां दिशां मनसः परमाणूनां तदन्वयपरंपराणां च साक्षिप्रत्यक्षविषयत्वमङ्गीकुर्वतः तव ब्रह्मणस्तद्विषयत्वं न्याय्यम् । एवं ब्रह्मणस्तद्गुणानां च प्रकाशमानत्वेऽपि त्वयाऽस्य शास्त्रस्य निर्विषयत्वनिरासायाप्रकाशमानत्वमप्यविद्यामहिम्नैवोपपादनीयम्, तथैवोपपादितं च सुधायाम्-" यद्यपि जीवचैतन्यं ब्रह्मस्वधर्मप्रकाशात्मकं तथापि परमेश्वराचिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयतीति तत्तुच्छम्, ईश्वरतद्धर्मस्वपूर्णानन्दत्वादिविषयकज्ञानरूपो हि जीवः संसारदशायां न तत् प्रकाशयति संबन्धाभावात् । न हि स्वासंबद्धं ज्ञानं प्रकाशयति । न च स्वरूपातिरिक्तो विषयतादिसम्बंधी नास्त्येवेति वाच्यम्, नियमोपगृहीतवेदान्तश्रवणमनननिदिध्यासनादिजन्यस्वयोग्याशेषभगवद्विशेषविषयका परोक्षान्त: करणवृत्तिप्रागभावध्वंसस्यैव वृत्तितदुध्वंसान्यतररूपस्येश्वरतद्धर्मजीवरूपज्ञानयोः संबन्धत्वस्वीकारात् । उक्तप्रागभावध्वंस एव हि नित्यस्येश्वरज्ञानादिविशेषस्य जीवपूर्णानन्दाच्छादकाविद्यानिवर्तकस्येश्वर महाप्रसादस्य जीवे सम्बन्धः । ईश्वरमहाप्रसादेनैव जीवपूर्णानन्दत्वाच्छादकाविद्यानिवृत्तिः । सैव च जीवपूर्णानन्दत्वस्वरूपभूतज्ञानयोः सम्बन्धः यथा मायिनां वृत्तिश्चिदुपरागार्थेति मते व्यापकस्यापि चैतन्यस्य वृत्तिद्वारैव सम्बन्धः, यथा च तार्किकाणां सर्वगतस्य गोत्वादेः सास्नादिमत्येव सम्बन्धो न केशरादिमद्यक्तौ तथाऽस्माकमपि जीवस्वरूपज्ञानस्येश्वरप्रसादस्य चेश्वरे जीवे चोक्तवृत्तिप्रागभावध्वंसादिरेव सम्बन्धघटकः सम्बन्ध एव वास्तु; ईश्वरमहाप्रसाद एव जीवस्य मोक्षे हेतु: । "यमेवैष वृणुते तेन लभ्यः" इत्यादिश्रुतेः । "मत्प्रसादादवाप्नोति शाश्वतं पद्मव्ययम् । तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःश्रेयसं पक्वफलं प्रयातएवं ज्ञातोहि भगवाननादिः पुरुषोत्तमः ।

प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥" इत्यादिस्मृतेश्च न च "दृष्टैव तं मुच्यतेइत्यादिश्रुत्या ज्ञानस्यैव मोचकत्वमिति वाच्यम्, दण्डेनैव घटः, शंखः पाण्डुर एवेत्यादिवदेवकारेण मोक्षे ज्ञानायोगव्यवच्छेदद्बोधनात् । न च तावता प्रसादस्याहेतुत्वम्, "व्रीहिभिर्यजेत" इत्यादौ पुरोडाशद्वारा व्रीहीणामिव प्रसादद्वारा ज्ञानस्यापि मोक्षहेतुत्वोपपत्तेः । तादृशज्ञानं तु विचारादिति कर्तव्यः शास्त्रविचार इत्यस्मत्सिद्धान्तः । प्रागस्फुरन्तोऽपि षड्जादयो गान्धर्वशास्त्रवासितश्रवणे स्फुरन्ति यथा तथा अव्यक्तस्वभावो भगवान् स्नेहपूर्वक श्रवणमनननिदिध्यासादिना वासिते मनसि प्रसन्नः सन्नपरोक्षो भवति । "आत्मा वाSरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” "मनसैवानुद्रष्टव्यं दृश्यते त्वग्रया बुद्धया इत्यादिश्रुतेः । "यन्मनसा न मनुते" इत्यादिश्रुतिस्त्वसंस्कृतमनोऽभिप्राया । अतो न मोक्षशास्त्र वैयर्थ्यम् । सुखस्वरूपजीवस्य सदा भानेऽपि तन्निष्ठपूर्णत्वम् शास्त्रविचारप्रयोज्य भगवदापरोक्ष्यहेतुकप्रसादजन्याविद्याध्वंसे सत्येव भासते । ततः पूर्वंस्वरूपभूतज्ञानस्य तत्संबन्धाभावात् । पूर्णत्वं च स्वप्रयोजकाविद्यावत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखत्वावच्छिन्नाभाववत्त्वम् । अत एव स्वरूपचैतन्यस्य च तदानीमागन्तुकविषयविषयिभावाभावादित्यादिप्रलापोऽपि निरस्तः । स्वीकृतं चेत्यादिकं शोभते । ब्रह्मादिजीवानन्दानामीश्वरानन्दप्रतिविम्बत्वं हि तदधीनत्वे सति तत्सदृशत्वम् । वैचित्र्यमपि तस्य स्वरूपत एव । स्वस्वयोग्यतानुसारेण साधनसम्पत्तिस्तया तारताम्येनैव स्वयोग्याशेष भगवद्विशेषापरोक्ष्यम्, तेन च तारतम्येनैव जीवेषु हरिप्रसादसम्बन्धस्तेन स्वभावतस्तारतम्ययुक्तानां जीवानन्दानामाविर्भावः । अनादिरपि स्वरूपाभूता भक्तिरुक्तान्तःकरणवृत्त्यैव आविर्भवति । बाह्यतत्तदिन्द्रियहीनानामपि दिक्कालादिव्यवहारेण दिक्कालादेः सदा साक्षिवेद्यत्वेऽपीश्वरस्य संसारदशायां साक्षिवेद्यत्वे मानाभावः । अन्यथा तत्र विप्रतिपत्तिर्न स्यात् । अविद्ययैव जीवस्य स्वपूर्णत्वादिधर्मेश्वरतद्धर्मेषु सम्बन्धविघटकतया संसारदशायामप्रकाशोत्पत्तावपीश्वराचिन्त्यशक्त्युपबृंहितेत्युक्तिस्त्वविद्यादिन्धस्येशाधीनत्वसूचनायैव । एतेन परमते सविशेषानन्दस्येवात्यन्तभिन्नस्य ब्रह्मण इव चात्यन्ताभिन्नस्याखण्डानन्दस्य प्रकाशमानस्याप्यप्रकाशमानत्वमविद्यामहिम्नैव ममास्त्विति निरस्तम् । प्रकाशमाने आवरणस्यास्माभिरनङ्गीकारात् । भगवत्प्रसादरहितस्य स्वरूपज्ञानस्याविद्याऽविरोधित्वाच्च । न च मन्मतेऽपि वेदान्तजन्यवृत्तिरेवाज्ञानविरोधिनी । सा चेदानीं नास्तीति वाच्यम्, तस्याप्यधिष्ठानापरोक्षत्वेनैव त्वयाज्ञानादिविरोधित्वस्य स्वीकार्यत्वात् । ब्रह्मणः सर्वप्रत्ययवेद्यत्वमङ्गीकुर्वतस्ते अधिष्ठानज्ञानस्य सदैव सत्त्वात् । वेदान्तजन्यज्ञानत्वेन निवर्तकत्वाङ्गीकारे द्वेषादिनिवत्यैच्छादिवद्न्धस्य सत्यत्वापत्तेः, दृष्टान्तासिद्धेश्च । न हि शुक्तिरूप्यादिकं तद्धेत्वज्ञानं वा वेदान्तजन्यवृत्तिनिवर्त्यम् । न च वेदान्तजन्यवृत्तेर्विशिष्टावगाहिन्या भ्रमरूपत्वेन नाज्ञानादिनिवर्तकत्वम्,भ्रमस्याप्यधिष्ठानांशेऽज्ञानविरोधित्वात् । न च ब्रह्मान्याविषयकं ब्रह्मज्ञानं तदज्ञाननिवर्तकमिति वाच्यम्, घटपटज्ञानेन घटाज्ञानस्य दण्डिपुरुषज्ञानेन पुरुषाज्ञानस्य च निवृत्त्यनापत्तेः (निवर्तकत्वानापत्तेः ) ।

ननु त्वदुक्तोऽर्थः क इति न जानामि दूरे जलमिव भासमानं किमिति न जानामीति प्रत्यक्षतः शब्दतश्चावगतमध्यर्थं साकल्येनानूद्य तत्रैव प्रश्नो ज्ञानानुभवश्च दृश्यते । अतो बाह्येऽपि विषये प्रकाशमानस्याप्रकाशमानत्वं प्रसिद्धमेवेति चेन्न, न जानामीत्यहमर्थनिष्ठतया प्रतीयमानस्य त्वन्मतेऽनादिभावरूपाज्ञानत्वासम्भवादहमर्थस्याज्ञानकल्पितत्वात् । साक्ष्यवेद्ये सुखदुःखाज्ञानादौ प्रातीतिके च भावरूपाज्ञानाभावेन सुखादिकं न जानामि शुक्तिरूप्यं न जानामीत्यादेर्जानाभावविषयत्वे त्वदुक्तमर्थे न जानामीत्यादेरपि तथात्वाच्च । अतः सामान्यतोऽज्ञातस्यापि विशेषत एवाज्ञानप्रश्नादिविषयत्वं वाच्यम् । अन्वयव्यतिरेकाभ्यां विशेषप्रश्ने सामान्यज्ञानमेव तन्त्रम् । विशेषाज्ञानानुभवे च सामान्यमेवावच्छेदकम् । न च सामान्यविशेषभावस्य व्याप्यव्यापकभावातिरिक्तस्याभावेनाज्ञातधूमस्यापि ज्ञातवह्निकस्य धूमप्रश्नप्रसङ्गो धूमाज्ञानस्य वह्निं न जानामीति वहृथवच्छेदेनानुभवप्रसंगश्चेति वाच्यम्, स्वरूपेणैवेरव्यावर्तकयोपरञ्जकतया वोपस्थितयोर्वस्तुतोऽव्याप्यव्यापकयोः सामान्यविशेषत्वात् । वह्निधूमयोस्तु वह्नित्वधूमत्वेनोपस्थितत्वेन सामान्यादिव्यवहाराभावात् । न च न हि घटवान् प्रमेयवानित्यत्र घटप्रमेययोः, घटत्ववान् प्रमेयत्ववानित्यत्र घटत्वप्रमेयत्वयोश्च सामान्यविशेषभावोऽस्ति ।

नन्वनुमितिहेतुज्ञानविषयव्याप्तिप्रश्नादिस्थले विशिब्य त्वदभिमतसकलविशेषणविशिष्टं व्याप्यादिकं जानत एव प्रश्नार्थं तदप्रकाशस्त्वयाऽवश्यं वाच्यः, अन्यथा प्रष्टुस्तदवगमाभावे तस्य प्राक्तन वह्नयाद्यनुमानविलोपः स्यात्तदवगमं विनापि तदा तस्यानुमित्यङ्गीकारे तत्रैव व्यभिचारेण त्वदभिमतव्याप्तिज्ञानस्यानुमितिकरणत्वं न स्यादिति चेन्न, अशेषं जानतः प्रश्नस्यालीकत्वात् । लक्ष्यविशेषनिष्ठतया व्याप्त्यादिकं जानतोऽपि लक्ष्यान्तरनिष्ठत्वस्यैवाज्ञातस्य हि प्रश्नविषयत्वं यन्निष्ठतया सकलविशेषणविशिष्टं व्याप्त्यादिकं गृह्णाति । तत्र प्रश्नस्यालीकत्वाच्च । एवं दूरे जलमिवाभासमानं किमिति न जानामीत्यत्रापि न ज्ञातस्याज्ञानविषयत्वं पुरोवर्तिनि जलस्वरूपे भासमाने हिनाज्ञानप्रश्नादिकं तन्निष्टफेन बुदबुदतरंगाद्यसाधारणधर्माज्ञानेन प्रश्नाद्युपपतिः । एतेनास्मिन् ज्योतिर्मण्डले कश्चन्द्र इत्यादिश्चक्षुषा चन्द्रमण्डलादिकं पश्यत एव प्रश्नोऽपि चतुर्गम्य चन्द्रत्वधर्मस्योपदेशात् प्राक्चन्द्रनिष्ठत्वेनाज्ञानात् । किं चास्मन्मते अज्ञानस्य सत्यत्वात्तेनेशतद्धर्मजीव पूर्णानन्दत्वाभानं जीवस्य युक्तम्। त्वन्मते ज्ञानस्य मृषात्वान्न युक्तम् । न चापवरके प्रविशता पुंसा तदानीं कल्पितस्य तमसस्तदप्रकाशोपपादकत्वं दृष्टमिति वाच्यम्, विद्युदादितेजसेव सौरादितेजसा चक्षुषः प्रतिहतत्वात्पुनः समाधानात्प्रागप्रकाशोपपत्त्या मृषान्धकारे मानाभावात् । न हि रोगाद्युपहतचक्षुषा रूपाद्यदर्शने कल्पितोऽन्धकारोऽस्ति । यत्त्वेवं निर्गुणस्यानधिगतत्वेन विचार्यत्वेऽपि यदि तत्र विचिकित्सा तर्हि सगुणब्रह्मविषयतयैव त्वत्पूर्वपक्षिणा शास्त्रमारभ्यमिति, तन्न, जीवातिरिक्ते ब्रह्मणि मानाभावस्योक्तत्वात् । एवं हि जीवस्यैव ब्रह्मत्वे जीवब्रह्मणोरैक्ये वा प्रत्यक्षसिद्धे शास्त्रारम्भासम्भवे जीवभिन्नानन्तगुणेश्वरविषयतया त्वत्पूर्वपक्षिणाऽपि शास्त्रमारभ्यं स्यात् ।

जीवभिन्नेश्वरे मानं पूर्वपक्षे च नास्ति नः ।

अज्ञातविषयाभावान्नारभ्यं मननं ततः ॥

अतोऽज्ञातविषयाभावादनारम्यं शास्त्रमिति प्राप्ते तद्विजिज्ञासस्व तद्ब्रह्मेति जिज्ञास्ये वस्तुनि श्रूयमाणो ब्रह्मशब्द: प्रत्यक्षसिद्धादल्पगुणाजीवात्पूर्णानन्तगुणं विषयं बोधयति । सार्वज्ञाद्यनन्तगुणबोधकवाक्यानां जीवेऽन्वयासंभवेन तैरपि जीवभिन्नेश्वरसिद्धिः ।

अत्र वदन्ति-सर्वेषां वेदान्तानां सजातीयविजातीयस्वगतभेदशून्ये निर्विशेषे जीवरूपे ब्रह्मणि तात्पर्यं स्वीकृत्य प्रवृत्तस्य पूर्वपक्षस्य निरासाय सर्ववेदान्तप्रतिभटत्वेन विचारविधिवाक्यगतब्रह्मशब्दस्त्वयास्थापितः । न चायं गुणपूर्तिनिमित्तः सन्नपि सर्वानपि वेदान्तानुपक्रमादिन्यायनिर्णीता द्वैततात्पर्यात्प्रच्यावयितुं शक्तः,प्रत्युत स्वयमेव तद्गुणभूतत्वात्तदनुगुणमेवाद्वैतवाद्यभिमतत्रिविधपरिच्छेदराहित्यरूपमर्थमावेदयेत् । दर्शितश्चायं न्यायस्त्वयाऽपि "न स्थानतोऽपि " इति सूत्रे तत्र हि-

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौप्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः ॥ इत्यादिश्रुतिवाक्याद्विश्वतैजसप्राज्ञादिरूपस्येशस्यापि बद्धत्वादिदोषोऽस्त्वित्याशङ्क्योक्तमनुव्याख्याने

सर्वत्राशेषदोषोज्झ पूर्णकल्याणचिद्गुणः । तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् ।

महातात्पर्यरोधे तु कथं तन्मानमत्र तु ॥ इति । सुधायां चोक्तम्-सकलश्रुतिस्मृतीतिहासपुराणानां परमेश्वरस्याशेष दोषविधुरत्वे समस्तगुणपरिपूर्णत्वे च यत् महातात्पर्यं तद्विरोधेन तद्वाक्यमत्र भगवतो दोषित्वादौ कथं मानं भवेत् ? दृष्टं हि निर्णीत महावाक्यविरुद्धस्य तदद्वान्तरवाक्यस्य तत्राप्रामाण्यं यथा स्वर्ग प्रयोजनाग्निहोत्र पर महावाक्यार्थविरुद्धस्य "यद्यमुष्मिन् लोकेऽस्ति वा न वा" इत्यादेस्तदवान्तरवाक्यस्य 'महावाक्यं हि प्रधानमनन्यार्थत्वात्, अप्रधानं त्ववान्तरवाक्यं तदर्थप्रतिपत्तिहेतुत्वात्' इति । तस्मादिहाद्वैतिदर्शितोपक्रमादिभिर्न्यायैः सर्ववेदान्तानां सगुणे ब्रह्मणि महातात्पर्यं प्रसाध्यते चेदेवं कृतपूर्वपक्षनिरासो भवेत्, न तु ब्रह्मशक्तिप्रदर्शनमात्रेणेति चेत् ?

अत्रोच्यते-सजातीयादिराहित्यपरत्वमाश्रित्य नास्माकं पूर्वपक्ष: प्रवृत्तः, किन्तु लाघवादिसहकृतम् "आत्मा ब्रह्म" इत्यादिकं वाक्यमाश्रित्य । तेन जीवभिन्नेश्वराभावे सिद्धे जीवस्य प्रत्यक्षत्वेनाज्ञातविषयाभावाच्छास्त्रानारम्भः पूर्वपक्षिणोक्तः । द्वितीयाभावादेः स्वरूपभिन्नत्वे तस्य प्रत्यक्षासिद्धत्वेन तत्परशास्त्रस्यानारम्भोक्त्ययोगः स्वरूपाभिन्नत्वे गुणपूर्तिबोधकब्रह्मशब्दस्य सर्ववेदान्तप्रति भटत्वोक्तिर्निरर्थिकैव । न हि धर्मिमात्रबोधकमानस्य तन्निष्ठधर्मबोधकमानेन सह मात्रयाऽपि विरोधोऽस्ति । मुमुक्षुज्ञेयगुणपूर्तिवाचकब्रह्मादिशब्दानां गौणत्वासंभवात् । तस्मादिति शोभते । प्रबलतरन्यायैरेव सगुणे ब्रह्मणि समन्वयप्रतिपादनात् । किं च जीवातिरिक्ते ब्रह्मणि प्रमाणं नास्तीति प्रत्यवतिष्ठमानं पूर्वपक्षिणं प्रति तत्र प्रमाणतयोपन्यस्तं ब्रह्मपदं तस्याज्ञातस्य ज्ञापकमुत्पत्तिवाक्यस्थानीयमिति तत्प्रतिपादितं गुणपूर्णत्वविशिष्टं तेन जीवातिरिक्ते ब्रह्मणिसिद्धे वेदान्तेषु सर्वैरपि ब्रह्मप्रकरणैस्तत्रैव वर्तितव्यमिति तत्प्रतिपादितानि निर्गुणत्वजीवाभिन्नत्वादीन्युत्पन्नशिष्टानि अत उत्पत्तिशिष्टप्राबल्यमर्यादया ब्रह्मादिपदस्य सर्ववेदान्तेभ्यः प्राबल्यम् |

ननु स्यादेवं यदितद्ब्रह्म" इत्यत्रत्यं ब्रह्मपदज्ञातस्य ब्रह्मणो ज्ञापकं स्यात्; नत्वेवम्, तस्य "यतो वा इमानि" इति यदुपबन्धबलेन जगत्कारणतया सहप्राप्तस्य धर्मिणोऽनुवादकत्वोपगमात् । ततश्च "सदेव सौम्येदमग्र आसीत्" "आत्मा वा इदमेक एवाग्रआसीत्" इत्यादि कारणवाक्यमेव तत्प्रापकं वक्तव्यम् । तत्र च सजातीयविजातीय स्वगतभेदनिषेधः स्वरसतः प्रतीयत इति स एवोत्पत्तिशिष्टो न तु गुणपूर्णत्वमिति विपरीतमेव बलाबलमिति चेन्न, जिज्ञास्यत्वज्ञेयत्वाद्यर्थं ब्रह्मपदेन गुणपूर्तिविधानात् । अन्यथा "यतो वा" इत्यादिवाक्यस्य वैयर्थ्यापत्तेः, "दुपबन्धलेन" इत्युक्तिस्तु तुच्छेव, "अधीहि भगवो ब्रह्म" इति ब्रह्मप्रश्नोत्तरस्य "यतो वा" इत्यादिवाक्यस्य यदुपन्धेऽप्यज्ञातब्रह्मबोधकत्वावश्यकत्वेनयदाग्नेयोऽष्टाकपालो भवति" इत्यादिवदुत्पत्तिशिष्टत्वात् । किंच "यतो वा" इत्यादौ विश्वोदयादिकर्तुरेव हि यत्पदेन तत्कर्तृत्वप्रसिद्धिरेव द्योत्यते । न तु ब्रह्मपदार्थस्य ब्रह्मपदसमभिव्याहाराभावात् । न हि त्रितयकर्तृत्वमात्रं ब्रह्मपदार्थः । किंतु गुणपूर्तिरेव । न च त्रितयकर्तृत्वान्यथानुपपत्या गुणपूर्तिराक्षेप्तव्या, सार्वज्ञ्यचिकीर्षाकृतिमत्वादेरेव तदुपपादकस्याक्षेपात् सजातीयादिभेदनिषेधस्य ब्रह्माभिन्नत्वे गुणपूर्तिबोधविरोधाभावात् । भिन्नत्वे तेनैव सद्वितीयत्वापत्तेः । वेदान्तानामखण्डार्थकत्वहानेश्च अद्वितीयपदेनैव द्वितीयमात्रस्य निषेधकेन भेदत्रयनिषेधोपपत्तौ पदान्तरवैयर्थ्याच्च, कालादिद्वैत बोधकाग्रादिपदविरोधाच्च । अग्रे सृष्टेः प्रागिदं सर्वं सदेव निर्विकारमेवासीत्, एकं मुख्यमद्वितीयमसहायम् । एवकारो मुख्यत्वासहायत्वाद्ययोगव्यच्छेदपरः, विशेषणसंगतत्वात्; शंखः पाण्डुर एवेतिवत्, न हि विशेष्यब्रह्मसंगतोऽत्रैवकारोऽस्ति । येन पार्थ एव धनुर्धरः इतिवदन्ययोगो व्यवच्छिद्येत । किंच ब्रह्मपदं लक्ष्यार्थकमपि न लक्षणीभूतविश्वोदयादिहेतुत्ववद्व्यक्तिपरम्, किंतु लक्षणीभूतजगत्कारणत्वादिधर्मशून्यपरमित्यस्य व्याहतत्वेन यौगिकत्वेन प्रापकापेक्षाया असत्त्वेन भिन्नप्रकरणस्थं सदेवेत्यादिप्रापकं तत्र प्रतीतमहितीयत्वादिकं चोत्पत्तिशिष्टमित्यस्य व्याहतत्वात् ।

नन्वस्तु ब्रह्मपद्मज्ञातज्ञापकम् तथापि नात्रोत्पत्तिशिष्टन्यायावतारः उत्पत्तिशिष्टमपि हि न भूरिबाधाय प्रभवति । अत एव "अग्नीषोमीयं पशुमालभेत" इत्युत्पत्तिवाक्ये देवतासंबन्धेन ज्ञातं पशोर्हविष्टंपशुं विशास्ति हृदयस्याग्रेऽवयती "त्यादि हृदयादिहविष्टबोधकानेकवाक्यविरोधात्यक्तम्, इह "बृहतोह्यस्मिन्गुणा: " इति श्रुत्यन्तरं सहायमस्तीति तेन पशोर्हविष्टेऽपि "जुष्टं देवानामिदमस्तु हव्यंइति तदुपाकरणमन्त्रसहायकमस्ति । तथापि बह्ववदानवाक्यविरोधात्तद्धविष्टं त्यक्तं चेद्गुणपूर्णत्वमप्यनेकाद्वैतवाक्यविरोधांत्किमिति नत्याज्यमितिचेन्न, बहुतर सगुणसप्रपञ्चवाक्यान्तर्गतस्याद्वितीयादिपदस्यैवोपांशुयाजन्यायेन विष्ण्वादिवाक्यवत्पूर्वोत्तरानुसारेण व्याख्येयत्वात् । उक्तोदाहरणे अवदानवाक्यादेव हि पशोर्हविष्टुंत्यक्तं न तु बहुत्वात् । वेदत्वेनैवोभयोः प्रामाण्येन बहुत्वस्याकिञ्चित्करत्वात् । यद्यवदानबोधकमेकमेव वाक्यं स्यात्तथापि परम्परया सावकाशस्य पशुपदस्यार्थाद्धविष्टुंत्यक्तमेव स्यात्; अन्यथाऽवदानवाक्यवैय्यर्थ्यापत्तेः ।

योगेऽपि यत्पदस्य स्याद्यदाग्नेयकपालवत् ।

श्रुतित्वतो बलीयांसः प्रणवाद्याश्च वाक्यतः ॥ २४ ॥

किश्च ब्रह्मपदस्य श्रुतिरूपत्वेन निर्गुणत्वादि प्रतिपादकवाक्येभ्यः प्राबल्यम् । न च प्रथमोपस्थितिप्रयुक्तबलाद्बबहुत्वप्रयुक्तबलस्यैवाधिक्यं विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्स्वधर्मत्वमिति न्यायादिति वाच्यम्, बहुत्वस्य वैपरीत्यात् । न हि ब्रह्मपदमात्रमेवास्मिन्नुपन्यस्यते, किन्तु गुणानन्त्यबोधका यावन्तः शब्दास्तदेकवाक्यतापन्नमेव ब्रह्मपदं तथात्वेनोपन्यस्यते । न च गुणब्रहत्त्वस्य गुणिशब्दप्रवृत्तिनिमित्तत्त्वं न युक्तम्; अन्यथा रूपत्वरसत्वादीनि निमित्तीकृत्य घटेऽपि रूपादिशब्दप्रयोग इति वाच्यम्, बृहंतो ह्यस्मिन् गुणा इत्यादिना बृहद्गुणवत्त्वस्यैव ब्रह्मपदप्रवृत्तिनिमित्तताया बोधनात् । एतेनोक्तदोषाद्ब्रह्मशब्दो न गुणबृहत्वनिमित्तः, किन्तु परब्रह्मण्यद्वैत्यभिमतत्रिविध परिच्छेदाहित्यनिमित्त एव । बृहंतो ह्यस्मिन्गुणा इत्यादिकं व्यावहारिकगुणविशिष्टसगुणब्रह्मणि कथं चित्स्तुतिपरतया नेयम् । अद्वैतिभिरपि "स्याच्चैकस्य ब्रह्मशब्दवत्इति सूत्रे ब्रह्मशब्दस्य निर्गुण इव सगुणेऽपि वृत्तेरङ्गीकारादिति निरस्तम् । त्रिविधपरिच्छेदराहित्यस्य स्वरूपभिन्नत्वे वेदान्तानो सखण्डार्थकत्वापत्तेः । अभिन्नत्वे स्वरूपस्याज्ञानाद्यधिष्ठानतयावान्तरवाक्येन च ज्ञानान्महावाक्यवैयर्थ्यापत्तेः त्रिविधपरिच्छेदराहित्ये ब्रह्मपदयोगरूढ्योरभावाच्च । सगुणनिर्गुणवाक्ययोर्व्यावहारिकपारमार्थिकनिषेधपरतयागतिकरणे हि ग्रहणं व्यावहारिकं अग्रहणं परिमार्थिकमिति षोडशिग्रहणाग्रहणवाक्ययोरपि गतिः स्यात्, किन्तु ।

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । इत्यादिस्मृत्यनुसारान्निर्गुणवाक्यं प्राकृतगुणनिषेधपरम् अप्राकृतालौकिकगुणविधानपरं सगुणवाक्यम् ।

वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि ।

तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥

यस्मिन्प्रयुज्यमाने तु गुणयोगः सुपुष्कलः ।

तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥

इति गारुडोक्तिविरोधेन निर्गुणब्रह्म वृत्युक्तेस्तुच्छत्वात् । नन्वीश्वरस्य गुणबृहत्वं नाम तद्गुणानामानन्दादीनां भूमानिरतिशयत्वरूप उत्कर्ष इति जीवब्रह्माभेदे तादृशगुणवत्त्वं जीवे स्यात्तथैवानुभवश्च स्यात्तथा चाल्पगुणतानुभवो न स्यात् इति हि विरोध उच्यते; स चायुक्तः, जीवानांमुक्तिसमय भोग्यानन्दज्ञानबलाद्युत्कर्षमङ्गीकृत्य त्वया तस्य संसारे किञ्चित्प्रकाशमानस्यापि सर्वात्मना प्रकाशे मुक्ति संसारयोरविशेषः स्यादिति तत्परिहारार्थमविद्यावरणस्योपपादितत्वेन तत एवतस्मिन्परमेश्वरगुणपूर्तिसत्त्वेपि तदननुभवस्याल्पगुणत्वानुभवस्य च सम्भवात्स्वकीयमुक्तियोग्यानन्दाद्युत्कर्ष एव पारमेश्वरगुणभूमेति वक्तुं शक्यत्वाच्च । अविद्यावरणनिवृत्तिरूपमुक्त्यनन्तरमपि हि केषाञ्चिपरमेश्वरापरोक्षज्ञानानन्तरं सत्कर्माननुष्ठानविकर्मानुष्ठानदोषेण परमेश्वरेच्छावशात्स्वरूपानन्दस्य किश्चिदनभिव्यक्तिमङ्गीकुरुषे स्तुतयेऽनुमतिर्वेत्यधिकरणे निरूपितत्वात् । पारमेश्वरस्यचानन्दादिभूम्नो निरतिशयस्वरूपस्याप्यतीतलक्षणानन्त्यवन्न्यूनाधिक भाववदसङ्ख्य नानाविशेषशालिनः कश्चिद्-कश्चिद्विशेषएव मुक्तान्प्रति यथाधिकारंभासते इति विशेषान्तराणां पुरुष भेदेनानभिव्यक्ति भङ्गीकुरुष नानाशब्दादिभेदादितिसूत्रे तथानिरूपितत्वात् पारमश्वेरस्य आनन्दादिभूम्नो जीवेऽपि सत्त्वे तस्य संसारदशायां विद्यमानेनाविद्यावरणेनाप्रकाशे काऽनुपपत्तिरितिचेन्न,नित्यानावृतपूर्णानन्दादिगुणकेश्वरात् वास्तव भेदेनैव संसारदशायां जीवस्य पूर्णानन्दाद्यावरणोपपत्तावपि श्रुतिप्रतिपादितनित्यासंकुचित सार्वज्ञकेश्वराभेदस्वीकारे गुण पूर्त्यननुभवाल्पगुणतानुभवयोरनुपपत्तेः। न ह्यस्माभिः सदाऽनावृतपूर्णानन्देश्वराभेदं जीवे स्वीकृत्य पूर्णानन्दावरणं स्वीक्रियते, येन तद्वन्नित्य सर्वज्ञेश्वराभिन्नजीवे आवृतं सार्वज्ञ्यमापाद्येत । न च नाऽहं पूर्णानन्द इतिवन्नाहं सर्वज्ञो नाहमीश्वर इत्यादिप्रतीतेरपि भ्रान्तित्वेन नेश्वर भेदसाधकत्वमिति वाच्यम्, स्वरूपभूतज्ञानस्य संसारदशायां पूर्णानन्दादिविषयकत्वाभावात् । न च सार्वज्ञमपि नेदानीं सर्वविषयकम् एवं सति नाहं सर्वज्ञ इत्यादिज्ञानस्य भ्रान्तित्वोक्त्ययोगात् । ईश्वरज्ञानादौ भूमत्वं निरतिशयनित्य सर्वविषयकत्वादिकमेवेश्वरस्य बन्ध-मोक्षयोः शास्त्रविरुद्धत्वेन स्वीयेत्युक्तेस्तुच्छत्वात् । कर्माधिकारिणो दुष्कर्मादिना नन्दानभिव्यक्तिसंभवेऽपि नित्यनिवृत्त सर्वकर्माधिकारतया श्रुतिसिद्धस्य स्वतन्त्रस्येश्वरस्यानन्दानभिव्यक्तेरसंभवात् । ईश्वरीयविशेषस्य तदयोग्यं जीवं प्रतिभानसामग्यभावेनाभानेपि निरतिशय सार्वज्ञस्य जीवे भानासंभवात् । अतो नाहं सर्वज्ञ इति प्रत्यक्षेणापि जीवेश्वर भेदसिद्धिः । अस्त्यन्यो भूतात्मा स ए वा एषोऽभिभूतः प्राकृतैर्गुणैरित्यथाभिभूतत्वात्संमूढः संमूढत्वादात्मस्थं प्रभुम् । भगवन्तं कारयितारं नापश्यदिति मैत्रायणीयश्रुतिविरोधापत्तेश्च । न चेयं भेदश्रुतिरनुवादिका, प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेन श्रुत्या

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम्

इत्यादिस्मृत्युपबृंहितया त्रैकालिकभेद बोधनेनाननुवादकत्वात् । नन्वल्पगुणबहुगुणत्वरूपविरुद्धधर्मसमावेशेन जीवेश्वरभेदसिद्धिरिति त्वया वक्तुं न युक्तम्, त्वन्मते भगवत एकत्वानेकत्वशरीरित्वाशरीरित्वावयवत्वावयवित्वादिविरुद्धानेकधर्मसमावेशस्वीकारेण तद्वदज्ञत्वादे रप्यचिन्त्येश्वरशक्त्या समावेशोपपत्त्या विरुद्धधर्मेण भेदासिद्धेरिति चेन्न अवतार्यवतारादिनैकत्वानेकत्वयोर प्राकृतशरीर प्राकृतशरीराभावयोरवयवावयिनोरभेदेनावयवित्वावयवत्वयोरेकत्र सर्वज्ञत्वासर्वज्ञत्ववदविरुद्धत्वात्, असार्वज्ञयवदविरोधोपपादकैश्वर्याविरोधित्वाच्च ।

एतेन "नेह नाना" इत्यादि स्वगतभेदनिषेधश्रुतिवलादेव हरोवकत्वानेकत्वादि विरुद्धधर्मसमावेशाय विशेषणमङ्गीकृत्यस्वयमेकोपिपरमेश्वरो विशेषबलादनेकमित्यादिकं कल्पयसि त्वंयथा, तथाजीवब्रह्मभेदनिषेधश्रुतिलात्तयोर्विरुद्धधर्म समावेशाय भेदस्थाने विशेषमङ्गीकृत्य परमेश्वर एव विशेषबलाद्विविध जीवभावेन संसरतीति किमिति न कल्पयसि ? ईश्वरभेद जीवेश्वरभेदनिषेध श्रुत्योर्विशेषाभावादिति निरस्तम् ।

यत्र ह्यभेदे भेदनिषेधे बोध्यमानेन प्रबल प्रमाणविरोधो  भेदव्यवहारश्च भवति, तत्र भेदप्रतिनिधिविशेषोऽङ्गीक्रियते । यत्र तु भेदनिषेधादिबोधे प्रबलमान विरोधस्तत्र भेद एव न तु विशेषः । अस्ति हि जीवभेदनिषेधादिबोधेनाहं सर्वज्ञो नाहमीश्वर इति साक्षिप्रत्यक्ष विरोधः । ननु त्वदङ्गीकृतो विशेषो व्यर्थः, ईश्वरशक्तेरेवविरोधभञ्जकत्वेनावश्यमङ्गीकार्यत्वात् । अन्यथा जीवस्य स्वतन्त्रकर्तृत्वे कृत्स्नप्रसक्तिर्निरवयवत्वशब्द कोपोवास्यादिति त्वदुक्तदूषणमलग्नं स्यात् । तथा हि यदि जीवः स्वतन्त्रकर्ता स्यात्तदा तस्य सिद्धान्ते तत्स्वरूपातिरिक्त कार्यानुसारितारतम्यवत्कृतिरूपगुणानङ्गीकारात्स्वयमेव प्रवृत्तिशक्तिरूपस्य तस्य तृणादानादिष्वपि कृत्स्न न चैकशक्त्या प्रवृत्तिः प्रसज्येतेत्यनुभवविरोधः । देशेन प्रवृत्तिः, तस्य निरंशत्वात्; अन्यथा निरवयवत्वशब्दव्याकोपात् । न च व्यतिरेकोगन्धवदितिसूत्रेण सांशताया वक्ष्यमाणत्वेनांशानां बहुत्वेनांशविशेषैः । कार्यानुसारितारतम्येन तस्य कर्तृत्वोपपत्तिः । बहुत्वस्य भेदव्यासत्वेन भेदस्यापि प्रसक्त्याभिन्नांशराहित्यरूपनिरवयवत्वशब्दव्याकोपतादवस्थ्यात् । न च विशेषबलेन बहुत्वोपपत्तिः । भेदेनोपपादनीयस्यांशांशिबहुत्वस्य चेतने विशेषेणोपपादने घटायचेतनेऽपि तस्य तेनैवोपपादनप्रसङ्गादिति दूषणान्तरं प्रदर्श्य तस्मादचिन्त्यशक्तिरीश्वर एव परस्पर विरुद्धमप्यभेदमंशांशिकृतबहुत्वं च चेतनेषु विशेषेणैव निमित्तेन समावेश्याभेदेन निरवयवत्वशब्दव्याकोपबहुत्वेन कृत्स्नप्रसक्तिं च निराकृत्य कार्यानुरूपं जीवेन कारयतीत्यङ्गीकार्यम् । अत्रेश्वरशक्तिमनपेक्ष्य विशेषेणैवाभेद बहुत्वयोर्विरुदध्योः समावेश समर्थने कृत्स्नप्रसक्त्यादिदूषणंनलगेत् । तदपेक्षायां तु सैव पर्याप्ता किं विशेषेणेति चेन्न, वस्तुस्वभाव पर्यवसन्नस्य विशेषस्य धर्मिग्राहक मानसिद्धस्येश्वरशक्त्या प्रतिक्षेपासंभवात् । न ह्यचिन्त्यशक्तिरपीश्वरः साधनान्तरमनपेक्ष्यैव किंचित्करोति कारयति वा, वैषम्याद्यापत्तेः । साधनान्तरमनपेक्ष्यापि र्वं कर्तुमकर्तुमन्यथाकर्तुं समर्थोऽपि न तत्करोति, कारुणिकत्वात्समत्वाच्च । अन्यथा प्रकृत्यदृष्टाद्यपेक्षापि न स्यात् । न च प्रकृत्यादौ श्रुतिरिव विशेषे मानं नास्ति, अनुपपत्त्यादेरेव मानत्वात् । एतेनैक एव विष्णुजग्रदवस्थानियामकविश्वाख्येन रूपेण समग्रेणैवानेकत्र स्थितः । यथा नाना देशस्थितानशेषपुरुषान्प्रति सतताभिमुखेन समग्रेण रविस्तत्तदूर्ध्व देशे स्थितः । नतु घटसंभृताम्भोवत्तत्तदक्षिस्थानस्थितस्वरूपतः शरीरतो वा भिन्नः, नापि बहुतृणाग्रप्रसारित पटवत्तत्तदधिकरणेष्वेकदेशेन स्थित इति त्वयाङ्गीकृतम् । तथाप्यणुरेव विष्णुः सर्वव्यापकञ्च, सूक्ष्मतया दृश्यमान एव कृष्णस्य मुखे गर्भीकृतब्रह्माण्डत्वस्य यशोदाया दृष्टस्यैकेन दाम्ना बन्धनानुभवाच्च । सूक्ष्म एव तदुदरे बहूनामपि दाम्नां बन्धुमपर्याप्तत्वस्य च महत्वलिङ्गस्य सत्त्वात् । "अणोरणीयान् महतो महीयान्" त्यादिश्रुतेश्चेत्यक्षराधिकरणे स्थापितम् । दहराधिकरणे च दहराकाशान्तःस्थस्य परिच्छिन्नस्यैवब्रह्माकाशस्य यावान्वाअयमाकाशस्तावानिति श्रुत्यर्थतया बहिर्ब्रह्माकाशवद्व्याप्तत्वं त्वयाऽङ्गीकृतम् । तत्रैव परिच्छिन्नस्य व्याप्तत्वासम्भवमाशङ्कयाऽन्यत्राप्येषमआत्माऽन्तर्हृदयेणीयान्त्रीहेर्वा यवाद्वाश्यामाकाद्वाश्यामाकतण्डुलाद्वेत्यणीयस्त्वेन श्रुतस्यैवान्तर्हदयस्थितस्य ब्रह्माकाशस्यैषमआत्माऽन्तर्हृदयेज्यायान्पृथिव्याज्यायानन्तरिक्षाज्ज्यायान् दिवोज्यायानेभ्यो लोकेभ्य इति सर्वतो ज्यायस्त्वश्रवणात्तद्वदिहाप्युपपद्यत इत्युपपादितम् । अत्र सर्वत्रापि केवलं यस्येश्वरस्य स्वशक्त्यैवैकत्वप्रत्येक पर्याप्तानेकवृत्तित्वयोरणुत्व महत्त्वयोश्च समावेश उपपाद्यः । न विशेषस्योपयोगोऽस्ति । विशेषो हि तव भेदप्रतिनिधिरेकस्यवानेकत्वमापाद्य धर्माधर्मावसाङ्कर्येण निवेशयेत् । न चात्र द्विविधेऽपि विरुद्धधर्मसमावेशोदाहरणेनैकत्वापादनमस्ति । अतः एतादृशस्थले त्वयाऽपि केवलमीश्वरशक्तिरेव निर्वाहकत्वेनाश्रिताऽतोऽन्यत्रापि सैवास्तीति विशेषो व्यर्थः । ईश्वर एकः सन्ननेकस्तनुमानवयवोऽवयवी चेत्यादिविरूद्धधर्मसमावेशस्यावश्यकेश्वरशक्त्यैव निर्वाहोपपत्तेरिति निरस्तम् । उक्तोदाहरणेषु विशेषानङ्गीकारे क्षतेरभावेऽपि मानान्तर सिद्धभेदाभावे तत्प्रतिनिध्यनङ्गीकारे च भेदकार्यस्याकस्मिकत्वापत्तेः । न हि दृष्टसामग्र्यभावेऽदृष्टरूपयेश्वरशक्त्यैव कार्योत्पत्तिः । सर्वत्र दृष्टकारणापलापापत्तेः । ईश्वरशक्तिस्तु सविशेषनिर्विशेष साधारण्येन कार्यनिर्वाहिका ।

नन्वयं विशेषो नार्थसाधकत्वेन त्वयाऽङ्गीकार्यः, किन्तु यत्र भेदाभावेऽपि भेदाधीनो व्यवहारो दृश्यते, यथा लोके 'सुगन्धि महदुत्पलं' इत्यादौ, वेदे "सत्यं ज्ञानमनन्तं ब्रह्मे" त्यादौ च नीलगन्धादीनां ज्ञानानन्दादीनां च धर्मिणः परस्पराच्च भेदाभावेऽप्यपर्याय-शब्दैरुक्तिरित्यादिस्तन्मात्रं निर्वोढुं कल्प्यते । भेदाभावेऽपि तत्प्रतिनिधिना विशेषेणापर्यायशब्दप्रयोगादिकं निवर्त्यतेऽतो नाऽनेकत्वैकत्वादिविरुद्धधर्म समावेशरूपार्थनिर्वाह: । यदि व्यवहारस्येव भेदाधीनस्यार्थस्यापि निर्वाहकोऽयमङ्गीक्रियते तदा गुणगुणिनां घटस्य नीलवर्णो ब्रह्मण आनन्द इत्यादि धर्मधर्मिभावव्यवहारमूलप्रतीतिगोचरसंन्धोऽपि तदुविरोधिनि सत्यप्यभेदे विशेषबलात्कल्पयेत सत्सु तन्तुषु पटाद्यसत्वनिर्वाहाय भेदश्च न कल्येत तन्तूनामवयवानां पटाद्यवयविनां चाभेदेऽपि विशेषबलादेव सत्वासत्वविरुद्धधर्मसमावेशोपपत्तेः । न चोभयत्रेष्टापत्तिः ।

अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।

अनन्यत्वान्नानवस्थाभेदो नाशे भवेत्तथा ॥

इत्यनुव्याख्यानविरोधात् । अत्र हि "तद्वन्तो हि विशेषतःइत्यस्य व्याख्यानसमये 'भेदसम्बन्धकार्यकरो हि विशेषः' इति न्यायसुधायां तदभिप्रायो वर्णितः । तेन विशेषो यथा भेदस्य प्रतिनिधिः पटः शुक्ल इति सामानाधिकरण्यं भेदनिर्वाह्यं निर्वर्तयति तथा पटः शुक्ल गुणवानित्यादौ सम्बन्धप्रतिनिधिः सम्बन्धव्यवहारं निर्वर्तयतीति गुणगुण्यादिषु सम्बन्धानङ्गीकारः स्पष्टीकृतः । अत एव समवायनिराकरणस्थलेऽपि गुणगुण्यादीनां सम्बन्धो नास्तीति व्यवस्थापितम्, स्वाभिमतसम्बन्धान्तरं च नोक्तम् । ब्रह्मतद्धर्माणामभेदे धर्मधर्मिभावो न युक्त इत्याशङ्कापरिहाराय अहिकुण्डलाधिकरणे विशेष एव समर्थितो न तु तदधीनः कश्चन संबंध इति चेन्न, गुणगुणिनोः समवायानङ्गीकारेण संयोगासंभवेन च स्वरूपाभिन्नविशेषस्यैव तत्र सम्बन्धत्वात् । सति सोमे पूतीकानामिव सत्सु तन्तुषु पटासत्त्वोपपादकभेदे सति प्रतिनिधिविशेषस्यानङ्गीकारात् । न हि संभवति मुख्ये प्रतिनिधिरुपादातुमुचितः । आश्रयाश्रयिभाव एव धर्मधर्मिभावात्मा गुणगुण्यादीनां सम्बन्धः । न तस्याद्विष्ठत्वात् सम्बन्धत्वानुपपत्तिः । अस्मन्मते संयोगस्याप्यद्दिष्ठत्वात् । ननु त्वन्मते ययोरभेदस्तयोर्धर्मधर्मित्वव्यवहारे सत्यपि वस्तुतः आश्रयाश्रयित्वं नोपेयते, अत एव अयं पटः एतत्तन्तुसंबद्धः एतदाश्रितत्वादेतदाश्रितरूपवदिति । समवायसाधकानुमानस्य तन्तुष्टयोराश्रयाश्रयिभावासिद्धेरिति सुधायां स्वरूपासिद्धिरुक्ता; एवं च गुणगुण्यादीनां विशेषाधीन सम्बन्धान्तर सिद्धिप्रसंगोऽनिष्ट इति स्थितम्, तथा तन्तुपटादीनां भेदासिद्धिप्रसंगोप्यनिष्ट एवेति चेन्न, स्वरूपातिरिक्ताश्रयाश्रयित्वस्यैव सुधायामसिद्धेरुक्तत्वात् विशेषेणैव गुणगुण्यादि भावनिर्वाहे तदधीनसम्बन्धाङ्गीकारस्य निरर्थकत्वात् । प्रमाणेन भेदसिद्धौ विशेषानङ्गीकाराच्च । सत्सु तन्तुषु विनश्यतां पटादीनामभेदद्भेदोऽप्यस्त्येव ।स्यादेतद्यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयणेनैवान्यथासिद्धिरुक्ता । तथा सति तस्मिन्नसत्वस्यापि विशेषेणैव निर्वाहः क्रियतां किं भेदाभ्युपगमेनेति चेन्न, विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेनासत्त्वं प्रत्यनिर्वाहकत्वात् । सकलभेदकार्यकारित्वे विशेषो भेद एव न तु तत्प्रतिनिधिरित्याशङ्का समाधानाभ्यां सुधायां स्पष्टम् । अतो यत्र भेदः सम्बन्धश्च प्रमाणसिद्धस्तत्र विशेषो नोपेयते । यत्र च तयोरभाव एव प्रमाणसिद्धस्तन्निमित्तककार्यं च जायते तत्र विशेष उपेयते । ईश्वरे च जीवस्य न सविशेषाभेदो न वा निर्विशेषाभेदः दुःखादिकलुषितत्वापत्ते:

ननु दुःखादेरन्तःकरणोपादेयत्वेन जीवे दुःखाद्यभावात्कथं तदभिन्न ईश्वरो दुःखादिकलुषितः स्थात् ? न च वृक्षोत्पन्नदण्डेन संयोगादिना पुरुषस्य दण्डित्वं क्षेत्रोत्पन्नधनेन स्वस्वामित्व संबन्धेन पुरुषस्य धनित्वं यथा,तथाऽन्तःकरणोत्पन्नदुःखेन स्वस्वामित्वसंबन्धेन जीवस्य दुःखित्वम् ईश्वरश्च तदभिन्नः स्यात्तर्हि दुःखी स्यादेवेति युक्तम् परमेश्वरएवान्तःकरणस्येन्द्रियवर्गस्य च स्वामी नान्य इति त्वयोपेयतेऽतस्तस्यैव दुःखादिकं स्यात् । ज्योतिराद्यधिष्ठानं तु तदामननादित्यधिकरणे करणानामीश्वरस्यैव स्वामित्वमङ्गीकृतं जीवकरणत्वव्यवहारस्तथाभिमानश्च खामिनः कुठारैस्तत्प्रेरितेषु भृत्येषु छिन्दस्सु- तत्तद्भृत्यकुठारत्वव्यवहारदर्शनात्परकीयेऽपि बहुकालसंबंधिनि तदीयतोपचारदर्शनात्तथाभिमान दर्शनाच्चेति व्यवस्थापितत्वात् । खामिनः फलश्रुतेरित्यात्रेय इत्यधिकरणे मनुष्यादीनां स्वस्वेन्द्रियजन्यज्ञानकर्मास्वामित्वमुररीकृत्यैव सिद्धान्तप्रदर्शनाच्च ।

इत्थं हि तदधिकरणं ज्ञानकर्मादिफलमिन्द्रियप्रेरकदेवानामेव, तेषां हरिप्रसादलब्धतत्तदिन्द्रियजन्यज्ञानकर्मादिस्वामित्वात् लोके स्वामिन एव फलदर्शनाच्च । कर्मादेः क्षेत्रफलादर्शनात् । "यदु किं चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति । यदु किंचेमाः प्रजा विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः" इति प्राप्ते अयजमानानामप्यृत्विजां सत्रयागफलमिवास्वामिनामपि कर्तॄणां ज्ञानकर्मफलमुपपद्यते; देवैस्तदर्थं कर्मादेः क्रियमाणत्वात् । यथा च गुरुणा शिष्यार्थमेव क्रियमाणस्य व्याख्यानस्य फलं गुरोरेव, शिष्याणां त्वल्पम् । यथा राज्ञा प्रजार्थ क्रियमाणस्य तत्पालनस्य राज्ञ एव प्रजावतो मुख्यं फलम्, प्रजानां तु तत्सहकारित्वमात्रत्वादल्पम् । अल्पफलत्वादेव प्रजानामफलत्वश्रुतिरिति चेन्न, अविद्या सहकृतस्वामित्वस्यैवाहं दुःखीत्यादिप्रतीतिनियामकत्वेनाविद्यावतो जीवस्यैवाहं दुःखीत्यनुभव इति सिद्धान्ते त्वत्प्रलापस्य निरर्थकत्वात् । ईश्वरस्य जीवन्मुक्तस्य च दुःखादिस्वामित्वेऽप्यविद्याभावान्न दुःखाद्यनुभवः । ईश्वरस्य देवानां च स्वामित्वेऽपि जीवस्यापि स्वामित्वमस्त्येव अस्वामित्वोक्तिस्त्वल्पस्वामित्वाभिप्रायात् । देवानां च प्रजाज्ञानफलमाविर्भूतस्वसुखमेव, न तु जन्यम्, तत्संबन्धनियामकाविद्याया निवृत्तत्वात् । अत एव तेषां न प्रजाकर्मादिनिमित्तकदुःखानुभवः । अविद्यासह कृतस्वाश्रयसंयुक्तत्वं चाऽन्तःकरणोत्पन्नस्य दुःखादेर्जीवे संबन्धः । तथा चेश्वरस्याविद्यावतो जीवाभेदे स्यादेव दुःखादिकलुषितत्वम् । न चाविद्यानिवृत्त्युत्तरमभेदः शङ्क्यः, निर्विकारस्य द्रव्यस्यान्यस्यान्यात्मत्वासंभवात् । यथा सत्रे ऋत्विजां यजमानत्वेऽपि यक्तिंचिद्यजमानक्रियाकर्तृत्वाभावादयजमानता तथा स्वामिनामपि कर्तॄणां मनुष्याणामस्वामिता न्याय्येति दृष्टान्तार्थं अयजमानानां फलमित्युक्तिः साधुतमा । आर्त्विज्याधिकरणे स्वामित्वसामान्यं निषिध्यत इति ते भ्रमः, स्वातन्त्र्यस्यैव निषेधात् । श्रवणगुरुप्रदानयोः प्रधानेतिकर्तव्यतारूपयो गुरुप्रदानं प्रबलं नचेतिकर्तव्यतात्वेन दौर्बल्यं यज्ञियहिंसायामितिकर्तव्यतायाः प्राबल्यदर्शनादित्यत्र प्राबल्यमवश्यानुष्ठेयत्वम् ।द्वादशाहवदुभयविधंबादरायणोऽत" इति सूत्रे द्वादशाहः क्रत्वात्मकः सत्रात्मकश्चेति भाष्यम् । तत्र क्रतुपदहीने लाक्षणिकम् । भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयतीति सूत्रे यथा दीक्षणीयोदयनीयसवनश्रयावभृथात्मकस्य क्रतोः सर्वाङ्गेष्वनुवर्तत एव साफल्यमन्यथा वैफल्यं ततो ज्यायस्त्वं ततश्च सर्वैः कर्तव्यत्वं तथा भूमत्वस्यापि सर्वत्रानन्दादिषु सहभावेनोपासन एवेष्टसिद्धेः । उपास्थानन्दादिविशेषणतया भूमत्वस्याज्यायस्त्वेऽपि सर्वोपासनामुगतत्वाद्युक्तं ज्यायस्त्वम् । दृश्यते हि । प्रायणीयादीनां ज्योतिष्टोमविकृतियागानुगतत्वेन ज्यायस्त्वमित्यर्थः । जिज्ञासासूत्रावयवस्याप्योंकारस्यासंहिततया पाठ उत्तरसूत्रेषूहार्थः । न चाग्रिमसूत्रेषु स्थानिनोभावादग्निस्थाने सूर्यस्येवात्रोहासंभवः । उह्यते इत्यूहस्तर्कः अनुषंगादिरिति हि तदर्थः । सुधायां ज्योतिषां स्तोमो हि ज्योतिष्टोम इत्यत्र ज्योतिषां स्तोमो यत्रेति शेषः । वृत्तिपदार्थमात्रप्रदर्शन परतयान्यपदार्थाप्रदर्शनस्यादोषत्वात् । न च त्वद्ग्रन्थेषु सर्वत्रैवाऽन्यथाभावः । काचित्कान्यथाभावे हि समाधानमुचितं न सार्वत्रिकान्यथाभावे । चन्द्रिकादौ सर्वत्र मीमांसकमर्यादयैव सम्यग्भाष्याभिप्रायस्य वर्णितत्वात् । तदुदाहृतविरोधस्य काचित्कत्वेन समाधातुमुचितत्वात् ।

ननु तन्मतमित्यन्यथाऽनुवाद:, यथा-

अङ्गीकृतत्वादपि तैः पदार्थानां पृथक् पृथक् ।

क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥ इति सत्यज्ञातादिवाक्येषु ब्रह्मानुवादेन सत्यत्वाद्यनेकविधाने वाक्यभेदः स्यादिति शङ्काम्-

पृथगेव च वाक्यत्वं पृथगेवान्वयो भवेत् ।

अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ इत्यभ्युपगमेन परिहृत्य मीमांसकमतेपीदं समानमित्यनेन श्लोकेनोच्यत इति न्यायसुधायां व्याख्यातम् । तैमीमांसकैरपि "अरुणयैकहायन्या पिङ्गाक्ष्या गवा सांमं क्रीणाति" इत्यादावरुणादिपदानां क्रियापदेन पृथक्पृथगन्वयस्याङ्गीकृतत्वात्तेषामपि वाक्यभेदो दूषणं प्रसज्येत। तत्रैतावद्वक्तव्यम् ; महावाक्यभेद एव दूषणं न त्ववान्तरवाक्यभेद् इति तदस्माकमपि समानमिति तत्र न प्रसिद्धमीमांसकमतेऽवान्तर भेदः, क्रयभावनाया रुण्याद्यनेकविशेषणविशिष्टाया विधेयत्वेनैकवाक्यताया एव तैः स्वीकृतत्वादिति चेन्न, विशिष्टविधिपक्षेऽपि भामत्युक्तरीत्या वाक्यभेदरूपदोषस्य दुर्वारतया मीमांसकैरपि पृथगन्वयस्याङ्गीकृतत्वादित्युक्तेस्तैरपि तथाङ्गीकर्तव्यमित्येतत्परत्वात् । इत्थं हि भामत्यां देवताधिकरणे विशिष्टविधिप्रतिबन्द्या देवताविग्रहादिसिद्धिरुपपादिता, तथा सति नधिगतविग्रहादिप्रतिपादकवाक्यं भिद्येतेति चेत् ? अथ भिन्नमेवैतद्वाक्यम् । तथा सति तात्पर्य भेदोऽपि इति चेन्न, द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनाया अयोगात् । न च यत्र यस्य न तात्पर्य तत्र तस्याप्रामाण्यम्, तथा सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात्, विशेषणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम्, आक्षेपाद्विशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वम्, विशिष्टविषयत्वाच्च तदाक्षेप इति । तस्माद्विशिष्टप्रत्यय परेभ्योऽपि यदेभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तराविरोधेन युक्ता अङ्गीकर्तुमिति । एतावांस्तु विशेषः-भामत्यां विशिष्टविधिस्थले तात्पर्य भेदाभावेऽपि वाक्यभेदादितरोऽङ्गीकारितः । सुधायां तु तात्पर्य भेदमङ्गीकृत्यैव तद्भेदोऽङ्गीकारितः ।

वस्तुतस्तु न भवान् प्रति वाक्यभेद आपाद्यते, किन्तु प्राभाकरान्प्रति; तैरन्वयभेदे वाक्यभेदाभ्युपगमात् । यथाऽऽहुः-अन्वितपदात्मकं हि वाक्यं तच्च कथं नान्वये भिन्ने भिद्येतेति । अतो जीवस्यावान्तरस्वामित्वेऽपि न दोषः । किञ्चान्तःकरणोत्पन्नदुःखादेरविद्यासहकृतस्वामित्वमेव सम्बन्धः । न च जपानिष्ठलौहित्यस्य स्फटिकादाविवान्तःकरणनिष्ठदुःखादेराध्यासिक एव सम्बन्धोऽस्त्विति वाच्यम्, सोपाधिकाध्यासत्वे जपास्फटिकयोलौहित्यस्येवात्ममनसोरुभयत्र युगपदुःखादिप्रतीत्यापत्ते:। निरुपाधिकाध्यासस्य ज्ञाताज्ञातविभागहीने निर्विशेषेऽसंभवात् । सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्याधिष्ठानत्वे तन्त्रस्य निर्विशेषवादेऽसंभवाच्च । अत एव मिथ्यात्वमाकरे दूषितम् । सुखदुःखादिग्राहिसाक्षिणो निर्दोषत्वादिना याथार्थ्यानियमश्च प्रतिपादितः । जीवस्य तत्स्वामित्वमीश्वरदत्तमविद्यासह कृतमित्यपकृष्टामित्येव विशेषः । अत एव सांख्याधिकरणेऽनुव्याख्याने ।

द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः ।

साक्षादनुभवारूढं शक्यतेऽपाहितुं क्वचित् ॥ इति कामादिस्वामित्वस्याप्रत्याख्येयत्वमुक्त्वा तद्नन्तरश्लोके तस्यापकृष्टत्वमुक्तम् । न्यायसुधायां चात्यन्तवश्यत्वरहितगवादिस्वामित्वदृष्टान्तेन तस्यापकर्षः समर्थितः ।

ननु निर्विशेषवादेऽध्यासासंभवेपि त्वन्मते दुःखाद्यनुभवस्याध्यासरूपत्वमावश्यकम् । उक्तं ह्यानन्दमयाधिकरणे त्वद्भाष्ये "प्रमादात्मकत्वाद्बन्धस्य विभुक्तत्वमुच्यते" इति संसारिणोऽपि विमुक्तत्वश्रवणात्तदन्यथाऽनुपपत्त्या तस्य परब्रह्मत्वसिद्धेस्तद्विरोधो भेदव्यपदेशस्येति शङ्कानिराकरणार्थत्वेनोदाहृतं भाष्यमवतार्य तस्यार्थो वर्णितः । जीवस्य परब्रह्मत्वाभावेऽपि विमुक्तत्वोक्तिर्युज्यते, बन्धस्याज्ञानमूलत्वेनास्वाभाविकत्वादिति । यत्वनुव्याख्याने बन्धस्याध्यासात्मकत्वनिरसनं तदभिप्रायो र्णितो न्यायसुधायाम्-सर्वोऽपि बंधो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणोऽस्माभिरप्यात्मन्यारोपित एवाङ्गीक्रियते । यथोक्तं भाष्यकृता "प्रमादात्मकत्वाद्बंधस्य" इति । अतः किं निन्धनो बन्धमिथ्यात्वनिरसननिर्बन्ध इत्याशङ्कां कृत्वा, सत्यम् बुद्धीन्द्रियविषयाः स्वरूपसन्त एवेश्वरपरवशा अन्य विद्यादिवशादात्मीयतयाऽध्यस्यन्ते, तांश्चात्मनोऽपि विविक्तानपि विस्पष्टतयानुपलभमानस्तद्धर्मान् दुःखादीन् सत्यानेवात्मत्वेन पश्यंस्तत्कृते नीचोचत्वलक्षणे विकृती सत्ये एव प्रतिपद्यन्ते इत्यादिवाक्यैः स्वमतस्थितिप्रतिपादनेन मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते । तन्निराकरणनिर्बन्धो युक्त इत्यद्वैतिमतनिराकार्यांशनिष्कर्षेण च स्पष्टीकृतः ।

यत्तु साक्षिणो याथार्थ्यनियमान्न साक्षिरूपस्य दुःखित्वाद्यनुभवस्याध्यासत्वं युक्तमिति, तन्न, ईश्वरपरतन्त्रस्य जीवस्य स्वातन्त्र्यग्रहणे प्रमाणाप्रमाणज्ञानयोरप्रामाण्यग्रहे च तस्य याथार्थ्यपरित्यागात् । यदि [मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शन] इति यत्किञ्चिद्व्यभिचारि स्याद्दर्शनं मानसं हि तदिति चानुव्याख्यानदर्शनात्स्वातन्त्र्यादिग्रहणं मनोवृत्तिरूपं न तु साक्षिरूपमितीष्यते, तदा दुःखित्वानुभवोऽपि त्वत्सिद्धान्तसिद्धाध्यासत्वनिर्वाहाय मनोवृत्तिरूप एव । यदि चैवं सति दुःखाद्यंशेऽपि मनोवृत्तिविषयतैव स्यात्, - दुःखित्वाद्यनुभवव्यतिरेकेण दुःखादिमात्रविषयानुभवाभावात् । ततश्च दुःखादेः साक्षिविषयत्वं न सिद्धयेदित्याशयः तदा दुःखित्वाद्यनुभवरूपसाक्षिणः आत्मीयत्वांशेऽध्यासरूपत्वं स्वीकार्यम् त्वयाऽपि सर्वेषां साक्ष्यनुभवानां याथार्थ्यनियमो नेष्यते । असुराणां साक्षिणो यथार्थत्वाभावस्य मनुष्याणां साक्षिणो मिश्रत्वस्य चाङ्गीकारात् । एवं त्वत्सिद्धान्तिना तेषां सुनिश्चितेऽध्यासरूपत्वे यदन्यत्र प्रपञ्चमिथ्यात्वनिराकरणप्रस्तावे-
'सत्यत्वं गगनादेश्व साक्षिप्रत्यक्षसाधितम् ।

साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥

इत्यादि साक्षिणो याथार्थ्यकथनम्, च्च सांख्यमतदूषणप्रस्तावे कामादिस्वामित्वकथनं तत्र न त्वयाभिनिवेष्टव्यम् । किन्तु परमतदूषणलोभेन दुराग्रहकृतमौट्येन वा स्वसिद्धान्तविरुद्वभाषिणः स्वीया इत्येव शोचनीयाः ।
याननुसृत्याधुनिका अपि त्वदीयाः परमतसिद्धाविद्यादूषणादिप्रस्तावेष्वनादिभावस्य निवर्त्यत्वमयुक्तमित्यादिस्वसिद्धान्तविरुद्धमेव जल्पन्ति त्वन्मतेऽनादिभावरूपमज्ञानं ज्ञाननिवर्त्यं च तथा च परमेश्वरस्याप्यध्यस्तदुःखित्वादिरूप जीवत्वं युक्तमिति ।
अत्रोच्यते-जीवे दुःखित्वाद्यारोपः सोपाधिको निरुपाधिको वा ? नाद्यः, लौहित्यस्य पुष्पस्फटिकयोरिव जीवमनसोरुभयत्र प्रतीत्यापत्तेः । नान्त्यः, शास्त्रीयनिर्दुःखित्वादिज्ञानेन सद्यो निवृत्त्यापत्तेः । जीवे दुःखित्वादिधीस्त्वविद्यासह कृतस्वामित्वादिसम्बन्धेन प्रमेव । दुःखादौ पारतन्त्र्याभावस्वातन्त्र्ययोर्भ्रमः शास्त्रीयपारतन्त्र्यज्ञानान्निवर्त्यत एव । बाध एव हि भ्रमत्वे मानम् । न हि दुःखादौ विद्यमाने उपदेशसहस्त्रेणापि 'नाहं दुःखी' 'मयिदुःखं नास्ति' इत्यादिधीर्भवति । शास्त्रीयोक्तपारतन्त्र्यविषयकयत्किंचिज्ज्ञानप्रागभावनाश एव हि साक्षिदुःखादिनिष्ठपारतन्त्र्यादिषु विषयतानियामकः । साक्षिरूपज्ञानस्य नित्यत्वेऽपि विषयत्वस्य विशेषणस्याभावेन विशिष्टस्याभाव: 'शिखी ध्वस्तः' इति वदुपपद्यते । बन्धस्य प्रमादात्मकत्वोक्तिः प्रमादोऽविद्यातत्सहितस्वामित्वमेव दुःखित्वादिसंसृतिनियामकमित्यविद्यानियम्यत्वाभिप्रायात् । अविद्याया दुःखित्वादिसम्बन्धघटकत्वादेवाज्ञानमूलत्वोक्तिः । आत्मनो जीवस्य सुखमिच्छतो दुःखमनिच्छतोऽपि सुखाभावदुःखयोरेव दर्शनेन परतन्त्रतया विविक्तान्सुप्रसिद्धानपि विस्पष्टमसंभावनादिरहितमनुपलभमानस्तान् धर्मानात्मीयत्वेन पश्यन्नीचोचत्वे तिर्यग्देवादिसंसारे प्रतिपद्यते । अन्तःकरणोपादेयधर्मेषु स्वयोग्येषु साक्षिणो याथार्थ्यनियमः । दुःखादिस्वातन्त्र्यादिकं च नान्तःकरणोपादेयम् ।

वस्तुतस्तु दुःखादिनिष्टस्वातन्त्र्यादिज्ञानं मनोवृत्तिरेव । न च दुःखित्वाद्यनुभवोऽपि मानसः स्यात् । दुःखित्वाद्यनुभवस्याध्यासत्वाभावेन मानसत्वकल्पनायां मानाभावात् । दोषाजन्यस्य साक्षिणो भ्रमत्वासंभवात् । दोषाजन्यस्यापि भ्रमत्वे ह्यप्रामाण्यस्य स्वतस्त्वं स्यात् । दुःखादीनां मानसवृत्तिवेद्यत्वाङ्गीकारे क्षणमज्ञातत्वापत्तिदोषवत्स्वातन्त्र्यादेर्मानसवृत्तिविषयत्वाङ्गीकारे दोषाभावात् असुर मनुष्ययोरप्यन्तः करणोपादेयधर्मेषु याथार्थ्यमस्त्येव । मुक्तियोग्यानां पूर्णानन्दत्वस्येवासुरादेर्दुःखादिस्वरूपस्याविद्ययाऽऽवृतत्वादेवायाथार्थ्यांक्तेः ।तयाssवरणं तु स्वरूपभूतज्ञानस्य विषयताप्रतिबंध एवेत्युक्तम् । 'मम शरीरम्', 'ममेन्द्रियाणि', 'मम मनः', 'मम दुःखम्' इत्यादिप्रतीतिरप्यात्मीयत्वांशे भ्रमरूपा मनोवृत्तिरेव । अतः प्रपञ्चमिथ्यात्वखण्डन प्रस्तावे साक्षिणो याथार्थ्य वर्णनं साध्वेव । नित्यस्य दोषजन्यस्य भ्रमत्वासंभवात् । त्मनः कामादिस्वामित्वकथने दोषो मूढ़ेन त्वया नोक्त एव । अनादिभावस्य निवर्त्यत्वखण्डनं तु दृष्टविधया निवृत्तिमङ्गीकुर्वतस्तव मत एव । अस्माकं त्वीश्वरप्रसादेनैवादृष्टविधया निवृत्तिमङ्गीकुर्वतां न कोऽपि दोष: । 'तस्मिन्प्रसन्ने क्लेशसंचय' इत्यादि स्मृत्या तथा बोधनात् । अतो न कुत्राप्यस्मदीयानां स्वसिद्धान्तविरुद्धोक्तिः । किन्तु त्वदीयानामेव विरुद्धभाषित्वम् । तथा हि 'आत्मैकत्वविद्याप्रतिपत्तय' इति भाष्यकारेण प्रत्यग्ब्रह्मैक्यं शास्त्रविषय इत्युक्तम् । भामत्यां च ब्रह्मैवशास्त्रविषयमित्युक्तमिति विरोधः । एवं भाष्यकारेणैव समन्वयाधिकरणे वेदान्तेषु विधिरेव नास्तीत्युक्तम् । "सहकार्यन्तरविधिः" इति सूत्रे तु विधिरङ्गीकृतः । एवमन्यत्रापि विरोधो द्रष्टव्यः । तस्मादीश्वरस्य जीवाभेदे दुःखित्वमवर्जनीयमिति तयोर्वास्तव भेद एव युक्तः ।

अस्तु वा केवलं स्वामित्वमेव दुःखित्वम् । तच्चेश्वरस्यैव । तावन्मात्रं च न हेयं किन्तु तत्प्रयुक्तं नीचत्वम् । नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यतेः ।

नीचोच्चता हि दुःखादेर्भोग इत्यनुमीयते

नासौ नीचोच्चतां याति, पश्यत्येव सदा प्रभुः । इति भाष्योदाहृतवचनानुसारात् । दुःखादीन् सत्यानेवात्मीयतया पश्यन् तत्कृते नीचोच्चत्वलक्षणेविकृती सत्ये एव प्रतिपद्यत इति न्यायसुधावाक्यानुसाराच्च ।

ननु दुःखित्वप्रयुक्तनीचत्वमेव हेयमित्ययुक्तम्, नीचत्वस्यैव दुर्वचत्वात् । न च दुःखहेतुकमाक्रन्दादिकमेव तदिति वाच्यम् । तस्यापि देहेन्द्रियविकाररूपतया जीवानाश्रितत्वात् । ईश्वरस्यैव तत्स्वामित्वाच्च । किंचाक्रन्दादिकं न सार्वत्रिकं लोके मानिनो धीरोदात्तस्य तापसादेव महति दुःखेऽपि रोदनाक्रन्दनादेरदर्शनात् । अन्यस्य देहेन्द्रियविकारस्याप्यदर्शनात् । तदपायार्थमितरप्रार्थनादैन्यादेरदर्शनाच्च । कापालिकादिश्च भिक्षुकः स्वाङ्गछेदकंटक कर्दमतवालुकाशयनादिभिः दुःखभनुभवन्नपि न तत्प्रयुक्तं नैच्यमनुभवति । किन्तु याचनाप्रयुक्तमेवेति तस्यापि तद्दुःखं हेयं न स्यात् । न च जगति यावत्किंचित् दुःखादिकार्यं तत्सर्वं नैच्यमेव । धीरादीनामपि दुःखानुभवादिप्रयुक्तविकार निरोधप्रयत्नतदपनयनोपायचिन्तादि यत्किंचित्कार्यमस्त्येवेति वाच्यम् । परमेश्वरेऽपि नानाविधजगद्व्यापारस्य दुःखादिप्रयुक्ततया कल्पयितुं शक्यत्वेन तत्र नैच्याभावासिद्धिप्रसंगात् । त्वया ह्यानन्दमयाधिकरणे चतुर्विधा पुंसां प्रवृत्तिः सुखार्था दुःखनिवृत्त्यर्था सुखोद्रेकप्रयुक्ता दुःखोद्रेकप्रयुक्ता चेति । तत्र प्रवृत्तित्रयस्येश्वरेऽनुपपन्नत्वात्सुखोद्रेकप्रयुक्तैवेतिनिरूपितम् । तत्तदेव शोभेत यदि तस्य दुःखित्वं न स्यात् । तत्सत्त्वे तु जगद्व्यापारो दुःखोद्रेकप्रयुक्तः कुतो न स्यात् । न च तथात्वे पुनरपि दुःखोद्रेकहेतुं जगद्यापारं न कुर्यादिति वाच्यम् । दुःखोद्रेकाद्रोदनादिषु प्रवृत्तेरभिसंधिपूर्वकत्वाभावात् । प्रत्युत शिरोऽक्षिरोगादिदुःखोद्रेकात्पुनरपि तदुद्रेकहेतव एवाक्रन्दशिरस्ताडनाश्रुविमोचनादिप्रवृत्तयो दृश्यन्ते । ईश्वरस्य दुःखित्वादेः श्रुतिविरुद्धत्वात्तद्व्यापाराणां तत्प्रयुक्तत्वं कल्पयितुं न शक्यत इति परिशेषात्सुखोद्रेकप्रयुक्तत्वमिति चेन्न । त्वद्रीत्या श्रुतिविरुद्धस्यापि दुःखित्वस्यापातात् । न च दुःखित्वप्रयुक्तकार्यं तत्र न भवतीति वाच्यम् । तत्र सुखित्वप्रयुक्तकार्याभ्युपगमे तद्वदेव दुःखित्वसत्वेतत्प्रयुक्त कार्यस्यापि दुर्वारत्वात् । अन्यथा सुखोद्रेककार्यमपि न स्यादिति चेन्न । स्वप्रयोजकाविद्यावत्त्व संबन्धेन दुःखानुभवितृत्वस्वरूपस्य दुःखभोक्तृत्वस्य नैच्यस्य हेयत्वात् । सदा निरविद्यस्य दुःखादिस्वामिनोऽपीश्वरस्य तत्स्वामित्वरूपदुःखित्वप्रयुक्तनैच्यस्याभावात् ।

अविद्यया देहतत्कर्मादिष्वहं ममेत्यभिमानस्ततो देहकर्माद्यन्तरं ततो दुःखादिसन्ततिरित्यविद्यायाः दुःखादिप्रयोजकत्वं सुप्रसिद्धम् । 'को ह्येवान्यात्कः प्राण्या द्यदेष आकाश आनन्दो न स्यात्' इत्यादि श्रुत्या जगद्व्यापारस्यानन्दोद्रेकप्रयुक्तत्वसिद्धावपि दुःखप्रयुक्तत्वे मानाभावेनापादयितुमशक्यत्वात् । नित्यदुःखे मानाभावेन सृष्ट्यादावीश्वरस्य दुःखोद्रेकाभावेन प्रवृत्त्यनुपपत्तेः । स्वरूपानन्दनित्यतायास्तवापि सम्मतत्वात् । दुःखोद्रेकस्यापि स्वप्रयोजकाविद्यावत्त्वसम्बन्धेनैव प्रवृत्त्यादिहेतुत्वाच्च । न च सुखोद्रेकोऽपि तेनैव सम्बन्धेन प्रवृत्तिहेतुः स्यात् नित्यनिरवद्यस्येश्वरस्य निवृत्ताविद्यस्य जीवन्मुक्तस्य च प्रवृत्तिदर्शनेन तथा कल्पयितुमशक्यत्वात् । एतेन दुःखकार्यमेव हेयं न दुःखमित्यङ्गीकारे न्यायसाम्यात्सुखकार्यमेवोपादेयं न तु सुखमित्यप्यङ्गीकार्य स्यादिति निरस्तम् । उक्तदुःखानुभवितृस्वरूपस्य दुःखहेतुकनैच्यस्यैव हेयत्वोक्ते:' 'को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् । यदा वै सुखं लभते अथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोतीत्यादिभिरीश्वरव्यापारस्य सुखोद्रेकहेतुकत्वोक्तेः । एतेन सुखदुःखे-निरुपधीच्छाद्वेषविषयतया पुरुषार्थापुरुषार्थरूपे सकलानुभवसिद्धे न तत्कार्ये, एवमनुभवविरोधमविगणय्य सुख-दुःखकार्ययोरेव पुरुषार्थत्वापुरुषार्थत्वे अभ्युपगम्येते चेत् स्वाभ्युपगमानुसारेण त्वदीयसुखादेः पुरुषार्थपर्यवसायितानिर्वाहाय सुखानुभवकालेषु सर्वेषु यत्किंचिनृत्तगीतादिकार्यं कुर्वाणेनैव त्वया स्थातव्यं स्यात् । तच्च-लोकानुभवविरुद्धम् । तदविरोधाय सुखदुःखयोरेव पुरुषार्थापुरुषार्थरूपत्वं स्वीकार्यमिति निरस्तम् । स्वप्रयोजकाविद्यावत्त्व संबन्धेन दुःखस्य स्वप्रयोजकाविद्यावत्वतादात्म्यान्यतरसंबन्धेन च सुखस्यापुरुषार्थत्वपुरुषार्थत्वयोः स्वीकारात् दुःखित्वकार्यशब्देनोक्तसम्बन्धेन दुःखवत्त्वस्यैव व्यवहृतत्वात् । केवलस्वामित्व सम्बन्धेनैव तयोस्तदभावोक्तेः । तस्मादीश्वरात् जीवोऽत्यन्त हेय इति गुणपूर्तिवाचिना ब्रह्मशब्देन जीवेश्वर भेदसाधनं सूपपन्नम् । नन्वेवमुत्तरत्र जीवेश्वर भेदसाधनं न स्यात् । प्रथमाधिकरण एव तत्सिद्धेरिति चेन्न ब्रह्मशब्देनैवान्नभेदस्य प्रतिपादनात् । सकलद्वैतश्रुतिप्राबल्यचिन्तया सर्वप्रकारेणाप्युत्तरत्र जीवेश्वरभेदप्रतिपादनाच्च । स्मन्मते हि प्राधान्येन जीवेश्वर भेदसाधनं पृथगुपदेशादित्याद्यधिकरणकृत्यम् । अप्राधान्येन तत्साधनमपि किंचित्भेदवाक्यमवलम्ब्य तत्र तत्रास्ति । अतएवानन्दमयाधिकरणे जिज्ञासा सूत्रेण भेदव्यपदेशाच्चेति सूत्रस्य पौनरुक्त्यमाशंक्य 'न जीवभेदसूत्राणां शंक्यात्र पुनरुक्ता । वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णते' त्यत्र पूर्णतेत्यनुव्याख्यानश्लोकं व्याचक्षाणेन न्यायसुधाकृतोक्तम् । अत्र शास्त्रे तत्र तत्र प्रकरणे ह्यैक्यविवक्षायां चोदितायां तद्गतभेदवाक्यद्योतनेन हि सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्ताशंका । तथा हि जिज्ञासावाक्ये अभेदशंकायां तद्गतब्रह्मशब्देनैव भेदसमर्थनं जिज्ञास्यस्य जीवत्वे शंकिते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनं एवमेव 'भेदव्यपदेशाच्चान्य' इत्यादावपि पुनरुक्ततादोषः परिहरणीय इति । अत्र वदन्ति । अन्नमपादिशब्दा विकारार्थमयटप्रत्ययानुरोधेनजीवादिवाचिनः तेषु ब्रह्मशब्दप्रयोगस्तु ब्रह्माभेदविवक्षयेति शंकिते तत्प्रकरणगतेन 'सयश्चायं पुरुष' इति भेदव्यपदेशेन प्रत्यवस्थानमित्यादि संगच्छते । इह तु जिज्ञासावाक्येष्वेव जिज्ञास्यब्रह्मनिर्विशेष जीवचैतन्यरूपमितीत्थंशंकाहेतोरभावात्सर्ववेदान्तानामखंडजीवपरत्वेन सगुणे ब्रह्मणि मानं नास्तीत्येव त्वया पूर्वपक्षप्रदर्शनात् । सर्ववेदान्तालंबनेन पूर्वपक्षे जिज्ञासावाक्यगतैनैकेन ब्रह्मशब्देन प्रत्यवस्थानायोगाच्चेहैव सकल द्वैताद्वैतश्रुतिप्राबल्यदौर्बल्यचिन्तया सर्वप्रकारेणापि भेदसाधनं कर्तव्यमिति पृथगुपदेशादित्यधिकरणमन्यत्र तत्साधनं च निष्फलमिति तन्न | 'आत्मावारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिविषयवाक्येषूपक्रमानुसारादात्मपदस्य तदैकार्थकब्रह्मपदस्य च रुढ्या जीवपरत्वे शंकिते योगरूढिभ्यां ब्रह्मपदेन निरासोपपत्तेः । जीवस्याप्यदृष्टद्वारा कथंचिज्जगद्धेतुत्वशंकया ब्रह्माभेदशंकासंभवाच्च । सर्ववेदान्तावलंबनेन कृतस्यापि पूर्वपक्षस्योत्पत्तिशिष्टादिन्यायेन निराकरणस्योक्तत्वात् । 'नाहमीश्वरो नाहं सर्वज्ञ' इत्यादि प्रत्यक्षं च जीवेश्वर भेदे मानम् न चानवगतस्येश्वरस्य भेदो न प्रत्यक्षोऽभावज्ञाने प्रतियोगिप्रत्यक्षस्य हेतुत्वादिति वाच्यम् । पिशाचस्याप्रत्यक्षत्वेऽपि स्तंभः पिशाचो नेति पिशाचभेदस्य स्तम्भे प्रत्यक्षत्वात् ।

योग्यप्रतियोगिकत्वं संसर्गाभावे योग्यधर्मावच्छिन्नप्रतियोगिताकत्वमन्योन्याभावे योग्यत्वं अतएव न स्तंभे पिशाचत्वान्योन्याभावग्रहः । पिशाचान्यान्याभावग्रहप्रतियोगितावच्छेदकपिशाचत्वजातेर्योग्यत्वात् । महत्त्वोद्भूतरूपवाक्यवृत्तित्वान्न प्रत्यक्षम् । प्रकृते प्रतियोगितावच्छेदकमीश्वरत्वं सर्वविषयकज्ञानवत्त्वं तच्च योग्यमेव । अभावप्रत्यक्षे प्रतियोगितावच्छेदप्रकारकज्ञानं हेतुः । तथा च शास्त्रीयलक्षण ज्ञानसाचिव्येन रत्नतत्त्वसाक्षात्कार इव शास्त्रीयेश्वरज्ञानसाचिव्येन स्वात्मनि तद्भेदसाक्षात्कारः सूपपन्नः । एवं प्रत्यक्षावगतेन जीवेश्वरयोर्विरुद्धगुणवत्त्वेन दहनतुहिनवद्भेदानुमानमपि सुस्थम् । तथा

भिन्नोऽचिंत्यः परमोजीवसंघात् ।

पूर्णः परो जीवसंघोह्यपूर्णः ॥

यतस्त्वसौ नित्य मुक्तोह्ययं च ।

बन्धान्मोक्षं, तत एवाभिगच्छेत् ॥

इति पूर्णापूर्णादिविरुद्धधर्मवत्त्वोपपत्तिमुख प्रवृत्ता श्रुतिरपि मानम् । न चेयमप्रसिद्धा । ज्ञाज्ञौ द्वावजावीशानीशौ' 'तयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीतीत्यादिश्रुतिम् 'य आत्मनि तिष्ठन्नित्यन्तर्यामिब्राह्मणं च प्रसिद्धं गृहाण । न चात्र-भेदबोधकपदाभावः । आमनमस्यामनस्य देवास्तिस्र आहुतीर्जुहोतीत्यत्रेव द्वित्वसंख्याया एव भेदकत्वात् । 'शारीरचोभयेऽपि हि भेदेनैनमधीयत' इति सूत्रकृताऽतर्यामिब्राह्मणस्य भेदपरत्वेन व्याख्यातत्वात् । न च श्रुतिर्व्यावहारिक भेदपरा । 'एतमन्नमयमात्मानमुपसंक्रम्य' 'निरंजनः परमं साम्यमुपैति' 'स एतान् ब्रह्म गमयतीतिश्रुतिषु मुक्तावपि प्राप्यप्राप्तृत्वसादृश्यप्रतियोग्यनुयोगित्वनेतृत्वनेतव्यत्वादिविरुद्धगुणवत्त्ववर्णनेन तद्भेदसिद्धेः । न चाभेदश्रुतिविरोधादन्यथानेयेयं श्रुतिः । भेदश्रुतीनां प्रत्यक्षानुगृहीतत्वेन प्राबल्यादभेदश्रुतेः प्रत्यक्षेण बाधाच्च । किंच तत्त्वमस्याद्यभेदश्रुत्या स्वरूपातिरिक्तोऽभेदो बोध्यते न वा ? आद्ये वाक्यस्याखंडार्थकत्वहानि: द्वितीये स्वरूपमात्रज्ञानस्य भेदज्ञानाविरोधित्वेन भेदस्य पारमार्थिकत्वसिद्धिः । किंच भेदबाधकेन मानेन स्वभिन्नतया विषयीकृतस्यैव भेदस्य बाध्यत्वं वाच्यमतो भेदमात्रबाधकत्वं स्वव्याहतम्, न हि व्यावृत्तिमविषयीकुर्वज्ज्ञानं कस्यचिद्विरोधि ।

नन्वेतावता भेदप्रमाणं सर्वविरुद्धगुणवत्त्वोप जीवकमुपन्यस्तमिति विरुद्धगुणाक्रांतिरेक एव तव भेदसाधको न्यायः पर्यवसितः । सोऽनुपपन्नस्त्वन्मते जीवे सतामपि पूर्णानन्दादीनामावरणेनाल्पानंदत्वाद्यनुभवस्य स्वयांगीकृततया तन्न्यायेन ब्रह्मगुणानां निरतिशय सर्वज्ञत्व सर्वशक्तिकत्वादीनां जीवे सतामेव संसारदशायामावरणेनाल्पज्ञत्वाल्पशक्तित्वाद्यनुभवसंभवाज्जीवे तत्सत्वानभ्युपगमेऽपि ब्रह्मण्यैश्वर्यवशादणुत्वमहत्त्वाद्यविरोधस्य च स्वांगीकृततया तन्न्यायेनाधिकगुणस्यैव ब्रह्मणोऽल्पगुणजीवभावसंभवाज्जीवब्रह्मणोर्विरुद्धगुणवत्वमसिद्धम् । एवं रत्नशास्त्रजलक्षणज्ञानस्य किंचिद्रत्नलक्षणे तदन्यरत्नलक्षणत्वविषयतया भ्रमत्वे तन्मूलस्य रत्ने विशेषप्रत्यक्षस्येव जीवब्रह्मणोर्विरुद्वगुणवत्वासिद्धया तज्ज्ञानस्य भ्रमत्वे तन्मूलस्य भेद् प्रत्यक्षस्य भ्रमत्वावश्यभावान्न प्रत्यक्षं भेदे मानम् । हेत्वसिध्यप्रयोजकत्वादिभिर्नोऽनुमानं मानम् । जीवेऽपूर्णत्वबद्धत्वयोरसिद्ध्या पूर्णा पूर्णत्वयोर्बद्धमुक्तत्वयोश्चाविरोधासिद्धया वा विरुद्धतदुभयवत्त्वोपपत्तिमुखेन भेदप्रतिपादने श्रुतेस्तात्पर्य कल्पयितुं न युक्तमिति श्रुतिरपि तत्र न मानम् 'भिन्नोऽचिन्त्य' इत्यस्याः श्रुतेरभेद एव तात्पर्य सुवचम् । परमो जीवसंघाद्भिन्नो न चिंत्यः किं त्वभिन्न एव चिन्त्य इति । 'अपूर्णः पर' त्याद्यपि भेदे चिन्तननिषेधापेक्षितनिषेध्यप्रसक्तिपरतया योज्यम् । जीवब्रह्मणोर्हि प्रत्यक्षागमाभ्यामपूर्णत्व पूर्णत्वे बद्धनित्यमुक्तत्वे येऽवगम्येते ते च लोकतो विरुद्धत्वेन प्रतीयेते तन्मूलेन भेदभ्रमेण भेदानुचिन्तनं प्रसक्तमिति किंच विरुद्धगुणसमावेशो न भेदसाधकः । विरुद्धगुणशालिनामप्यर्जुनेन्द्रादीनां त्वया भेदाभावस्येष्यमाणत्वात् । त्वया ह्येक आत्मनः शरीरेऽभावादित्यधिकरणे इन्द्रार्जुनादीनामन्योन्यानभिमतखांडवदहनप्रशमनादिकृतवतामाराधकाराध्यत्वादिविषमगुणशालिनामपि निर्भेदत्वंव्यवस्थापितम् । इन्द्राद्यंशिनोऽर्जुनाद्या अंशाः पृथग्भूय संसारदशायामप्यंशिना सहाभिन्नाः पूर्ववत्पुनरपि तेनैक्यं च प्रतिपद्यन्त इति तत्सम्मतम् । एतेन जीवेशयोरभेदे ब्रह्मभोगानां जीवेऽप्यनुसंधानं स्यादिति निरस्तम् । त्वन्मते भेदाभावेऽप्यर्जुनगतेन्द्र भोगाननुसंधान वज्जीवगतब्रह्म भोगाननुसंधानोपपत्तेः ।

इन्द्रभोगादीनामर्जुनादीनां यदननुसंधानं तद्भेदाभावेऽपि भूम्याद्यपकृष्टदेशावस्थानगर्भ प्रवेशमानुषान्नोपभोगादिकं निमित्तीकृत्याचिन्त्याऽप्रतिहतशक्तिकेन परमेश्वरेण क्रियते इति त्वयोक्तम् । एवं देहविशेष प्राप्त्यादिकं निभित्तीकृत्याचिन्त्यशक्तिकेनेश्वरेण जीवे पारमेश्वरस्य जीवान्तरगतस्य च भोगस्याननुसंधानं क्रियत इति किमिति त्वया वक्तुमशक्यम् । यत्तु परमेश्वरस्य जीवाभिन्नत्वे तस्यैश्वर्यमेव न भवेत्, यो जीवाभिन्नो नासावचिन्त्यशक्तिकतारूपैश्वर्यवान्यथा देवदत्त इति व्याप्तेरिति तन्न । योऽसौ जीवभिन्नो नासावैश्वर्यवान्यथा घट इतिवदप्रयोजकत्वादिति । अत्रोच्यते-

अन्योन्यं विरसा गुणा जगति ये निघ्नन्ति नैव प्रभोविष्णोरश्विरता भवेत्सुरसता तेषां सदैश्वर्यतः ॥

अज्ञत्वादिसमागमे प्रतिहतं स्यादीश्वरत्वं हरेर्मानं नास्ति गुणान्तरेष्विव हरेरल्पज्ञतायां स्फुटम् ॥ सदानावृतेश्वर पूर्णानन्दात्तत्त्वतो भिन्नस्यावरणाविरोधिनो जीव पूर्णानन्दस्यावरणेऽपि सर्वार्थप्रकाशात्मकस्य सार्वज्ञस्य सदानावृतेश्वरसार्वज्ञाद्वस्तुतो भिन्नस्याज्ञानविरोधिस्वभावस्यावरणासंभवात् । न च सदानावृतेश्वर सार्वज्ञाद्भिन्नमेवावृतं जीवसार्वज्ञमस्तु सार्वज्ञनानात्वस्यैकमेवाद्वितीयमित्यादि श्रुतिविरुद्धत्वात् । पूर्णत्वस्य च करकघटतडागसमुद्रादीनामिव स्वयोग्यतानुसारेण बहूनामपि संभवात् । ईश्वरेऽज्ञानांगीकारे नित्यनिरवद्यत्वनित्यमुक्तत्वादिश्रुतिविरोधापत्तेश्च । न च मृषाज्ञानसंसारादेर्विद्यमानत्वेऽपि वास्तवतभावाभिप्राया नित्यमुक्तत्वादिश्रुतिः । त्वन्मते वास्तवबंधाऽप्रसिद्धेर्यादृशो बंधो ज्ञानेनोच्छेत्तव्यस्तदभाव एव हि नित्यमुक्तश्रुत्यर्थः । एवं चेत्याद्ययुक्तम् ।

तल्लक्षणं तल्लक्षणतया विषयीकुर्वता शास्त्रजन्येनाप्रमाभूतेन जन्यस्य तत्समानविषयकस्य प्रत्यक्षस्याप्रामाण्येऽपि प्रतियोगिज्ञानविधया शास्त्रीयज्ञानजन्यस्य नाहमीश्वर इत्यादिप्रत्यक्षस्य भ्रमत्वे बीजाभावात् । नह्यत्र जीवे परेशत्वा भावबोधकशास्त्रजन्यज्ञानं भेदप्रत्यक्षे हेतुः । येन त्वदीयक्षुद्राशंका भासः संभाव्येतापि । कल्पितभेदवतो योगिनः कायव्यूहे दुःखाद्यनुसन्धान दर्शनेन वास्तव भेदस्यैवाननुसंधानादिप्रयोजकत्वात् । जीवे अपूर्णत्वादेः प्रत्यक्षसिद्धत्वात् । बद्धत्वमुक्तत्वयोस्त्वंधकारालोकयोरिव सुप्रसिद्ध एव विरोधः । अन्यथोभयोः सदैकत्रावस्थानापत्त्या मुक्तेरपुमर्थत्वापत्तेः । 'भिन्नो चिन्त्य' इत्यादिश्रुतेर्विपरीतयोजनं तु नाहमीश्वर इति प्रत्यक्षविरुद्धम्, 'पृथगात्मानं प्रेरितारं च मत्त्वा जुष्टस्ततस्तेनामृतत्त्वमेतीत्यादिश्रुत्या पृथक्त्वज्ञानस्य मोचकत्वोक्त्या भेदचिन्तननिषेधोक्तिर्वृथाप्रलाप एव । एकत्र लोके विरुद्धयोः पूर्णापूर्णत्वयोर्मुक्तत्वामुक्तत्वयोश्च निर्दुष्टवेद प्रत्यक्षाभ्यां जन्यस्य ज्ञानस्य भ्रमत्वासंभवः ।

भेदादिबोधकश्रुतेरप्रामाण्ये तद्दृष्टान्तेन वेदमात्रस्याप्रामाण्यात्पत्त्या सौगतमतप्रवेशः स्यात् । खांडवदहनशमनयोः कर्तृत्वं युगपद्येकस्य न विरुद्धम् । एकेन हस्तेन दहनानुकूल्यस्यापरेणशमनानुकूल्यस्यैकस्मिन्नपि पुरुषे संभवात् । एकेन हस्तेनान्यस्मिन् हस्ते चन्दनार्चनवदेकस्याराधिकाराध्यत्वाद्युपपत्तिः । सुप्रसिद्धो हि श्रीकृष्ण श्रीव्यासयोरैक्येऽपि पूज्यपूजकभावः । जीवानां केषांचित् सांशत्वं सामर्थ्यविशेषयत्वं व्यवहितविप्रकृष्टदेहेष्वणोरपि सुखदुःखाद्यनुभवितृत्वादिरूपम् । अल्पशक्तेरप्रकृष्टपरिमाणस्य जीवस्यार्जुनदेहावच्छेदेन भूसंनिकर्षादिना स्वर्ग भोगप्रतिबन्धसंभवेऽपि सर्वदाऽप्रतिद्धानन्तशक्तेः नित्याप्रतिबद्धसार्वज्ञस्येश्वरस्य जीवाभेदे जीवदेहावच्छेदेन दुःखानुसंधान सुखाननुसंधानयोरानुकूल्यस्य स्वस्मिन्नेवाचरितत्वापातात् । न हि कोऽपि प्रेक्षावाननुन्मत्तः स्वस्मिन् दुःखानुसंधानं सुखाननुसंधानं चेच्छति । योऽसावित्याद्ययुक्तम् खुखदुःखयोरेकक्षणावच्छेदेनैकाधिकरणवृत्तित्वस्य तदनुसंधानस्य चासंभवेन दुःखानुभवितृजीवाभेदस्येश्वरेंऽगीकारे निर्दुःखत्वस्य दुःखानुभवस्वरूपायोग्यत्वस्य श्रुतिशिखरसिद्धस्य हान्यापत्तेः । दुःख्यभेदस्य निर्दुःखत्वविरोधवज्जीवभेदस्यानैश्वर्याव्याप्तत्वात् । किं चाभेदस्यानुसंधानमात्रं व्यापकं न तु सर्वानुसंधानमर्जुनादीनामाखण्डलादिगताल्पविषय भोगाननुसंधानेऽपि तद्गतोपासनाफलाद्यनुसंधानमस्त्येव । एवं च जीवब्रह्मणोर्जीवानां चाभेदे देवदत्तस्य ब्रह्मगत जीवान्तरगतयत्किंचिद्भोगानुसंधानं दुर्वारम् । ननु यद्यभेदे सत्यप्यननुसंधाने एकस्मिन्नेवाननुसंधानमनुसंधानं च विरुद्धं प्रसज्येतेत्यनुकूलतर्कमुपजीव्यानुसंधानस्याभेदव्यापकत्वं गृह्यते । तदा सर्वानुसंधानमेव व्यापकं कस्यचिदप्यननुसंधाने तद्विरोधसमाधानालाभात् ।

यदि त्वभेदेऽपि कस्यचिदननुसंधानं संभवति तदीयाचिन्त्यशक्तिबलेनानुसंधानाननुसंधानविरोधविधूननादिति सर्वानुसंधानस्य च व्यापकत्वं नेष्यते, तदानुसंधानमात्रमपि न व्यापकं तद्बलेनैव क्वचिन्न कस्याप्यनुसंधानमित्यपि वक्तुं शक्यत्वादिति चेन्न । इन्द्रार्जुनयोरभेदे सर्वसम्मते सत्यपि सर्वानुसंधानाभावेन व्यभिचारात् । सर्वानुसन्धानापादकाभावाच्च । इन्द्रानुसंधेयसर्वानुसंधानस्यार्जुने इष्टापत्तेश्च । न चार्जुनस्य स्वर्गभोगानुसंधाने क्षुद्रे मानुषभोगे प्रवृत्तिर्न स्यात् ।

श्रीरामकृष्णादिवल्लीलया तदुपपत्तेः । मनुष्यानुकरणेनैव स्वर्गभोगादिग्रहणेऽपि तदुपपत्तेश्च । न चैवं जीवेशानुसंधानादिसांकर्येऽपीष्टापत्तिः । 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप इत्यादि स्मृतिविरोधात् ।

जीवस्य स्वतंत्र सर्वज्ञाभेदे स्वहिताकरणाहितकरणादौ प्रवृत्त्यनुपपत्तेश्च सार्वज्ञानुभवापत्तेश्च । ननु 'तयो रन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति, "अन्यश्च परमो राजंस्तथान्यः पंचविंशकः" "भेदव्यपदेशाच्चान्यः' इत्यादिश्रुतिसूत्रेष्वन्यत्वव्यपदेशो भेदसाधक इति न युक्तम् । त्वन्मते ब्रह्मण्यन्यत्वव्यपदेशस्य भेदासाधकत्वात् । त्वयान्नमयादीनां पंचानामपि ब्रह्मत्वमभ्युपगच्छतान्नमयाद्यभिन्नेष्वेव प्राणमयादिष्वन्योन्तर आत्मेति व्यपदेश इतीष्यमाणत्वात् ।

'अनन्योऽप्यन्यशब्देन तथैकोहुरूपवान् । प्रोच्यते भगवान् विष्णुरैश्वर्यात्पुरुषोत्तमः ॥

इति वचनमुदाहृत्य तस्य निर्वहणाञ्च । जीवे ब्रह्मान्यत्ववचनस्यापि तद्वदेवैश्वर्यान्निर्वहणसंभवाच्चेति चेत् । सर्वशब्दानां स्वार्थे वृत्तिरौत्सर्गिकी अन्यशब्दस्य भिन्नत्वमेव मुख्योऽर्थः । तथाप्यानन्दद्वल्ल्यां-अन्नमयादिपर्यायेषु पंचस्वपि 'येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते' 'आनन्दं ब्रह्मणो विद्वान्' 'विज्ञानं ब्रह्म चेद्वेद' 'अस्ति ब्रह्मेति चेद्वेदेति ब्रह्मशब्दाम्नानेन । 'एतमन्नमयमात्मानमुपसंक्रामतीत्यादिपर्यायेषु मुक्तप्राप्यत्वलिङ्गात्मशब्दयोः सत्त्वेन चान्नमयादीनां पंचानामपि ब्रह्मत्वावधारणाब्रह्मणश्चैकमेवाद्वितीयमित्यादिभिरेकत्वावधारणात्प्राणमयादिपर्यायेष्वन्योऽतर आत्मेत्यन्यशब्दानां मुख्योऽर्थः परित्यज्यते । न च जीवब्रह्मणोरन्यत्वव्यपदेशे बाधकमस्ति । ब्रह्मण्यणुत्व महत्त्वादीनां च तदुपपादकैश्वर्यार्विरोधिनां लोके विरुद्धानामपि समावेशोऽस्तु नतु सर्वज्ञत्वाल्पज्ञत्वयोरैश्वर्यविरोधित्वात् । नन्वेकमेवाद्वितीयं नेह नानास्ति किंचनेत्याद्यभेदश्रुतीनां भेदश्रुतितः प्राबल्यं तवापि सम्मतमेव । अन्यथा अन्योन्तर आत्मेति भेदश्रुत्यनुसारेणान्नमयादौ भेदो दुर्वारः । न चाभेदश्रुतीनां ब्रह्मभेदश्रुतिभ्य एव प्रावल्यं न जीवब्रह्मभेदश्रुतिभ्य इत्यत्र विशेषहेतुरस्ति । एकमेवाद्वितीयमित्यादिशब्दस्वारस्यस्यास्मदुक्तषडिधतात्पर्यलिङ्गवत्त्वस्य लाघवस्य च प्राबल्यहेतोरुभयत्र तुल्यत्वादिति चेन्न । भेदाभेदश्रुतित्वादिना प्राबल्यस्यास्माभिरनुक्तत्वात् । मानान्तराद्यविरुद्वेऽर्थे श्रुतेस्तात्पर्यात् । जीवेशयोरभेदो ब्रह्मणो भेदश्च सर्वमानविरुद्ध इति स्यादेव तत्परतयापाततः प्रतीयमानश्रुत्योरन्यार्थकत्वं । किं च नाभेदश्रुतीनां प्राबल्याद्ब्रह्मभेदश्रुतीनां मुख्यार्थत्यागः । किन्तु सर्वश्रुतिमहत्तात्पर्यानुरोधात् । तथा हि सर्वश्रुतिनां मोक्ष एव प्रधानं प्रयोजनम् 'तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते' इति वचनात् ।

मोक्षस्य तत्प्रयोजनत्वं न साक्षात्तत्साध्यतया तस्यानेकश्रुतिस्मृतिभिरीशप्रसादजन्यत्वनिश्चयात् किन्तु यज्ज्ञानेन मोक्षहेतु भगवत्प्रसादः संपद्यते तप्रतिपादनद्वारेति वाच्यम् । तत्प्रसादश्च तदीयनिर्दोषगुणोत्कर्षज्ञानाद्भवतीति लोकतः 'प्रियोऽहं ज्ञानिनोऽत्यर्थ महं स च मम प्रियः' इत्याद्यागमैश्चावधारितम् । अतः सर्व वेदानां भगवतो निर्दोषाशेषगुणत्व एव महातात्पर्यं तद्विरुध्यते । ब्रह्मभेदश्रुतीनां स्वार्थपरत्वे भिन्नानां गुणतारतम्यानुग्राह्यानुग्राहक भावादिदर्शनेन ब्रह्मरूपेष्वपि तत्प्रसक्त्या निर्दोषाशेषगुणवत्त्वासिद्धेः । जीवेश्वर भेदश्रुतिनां स्वार्थपरत्वे तु तन्न विरुध्यते । प्रत्युत तासां तत्परत्व एव विरुध्यते । जीवब्रह्माभेदे जीवदोषेण ब्रह्मणोऽपि सदोषत्वापत्तेः । अतो ब्रह्मभेदश्रुतीनामेव स्वार्थत्यागो न जीवब्रह्मभेदश्रुतीनामिति विशेषो युक्तः । नन्वन्नमयादीनां विश्वतैजसादीनां ब्रह्मरूपाणां भेदश्रुत्यनुसारेण विरुद्धगुणवत्त्वानुसारेण च भेदे सत्यपि भगवदैश्वर्यवदेव निर्दोषाशेषगुणपूर्णतोपपत्तिः । न हि भगवानशेषमपि स्वेच्छया कर्तुमकर्तुमन्यथाकर्तुमपि शक्त इति वदतस्तव लीलया भिन्नो भवन्नप्यहं निर्दोषाशेषगुणपूर्णः स्यामिति स्वसंकल्पेन भेदमास्थाय क्रीडितुं न शक्त इति वक्तुं शक्यमिति चेन्न । ब्रह्मभेदश्रुतीनां सयुक्तिकब्रह्मैक्यश्रुतिविरोधेनातत्परत्वात् । अणुत्वमहत्त्वादिधर्माणां स्वसमावेशोपपादकैश्वर्याविरोधित्वादल्पज्ञत्वादेस्तद्विरोधित्वाच्च । सप्रज्ञस्य स्वानिष्टसंकल्पासंभवाच्च । एतेन भेदश्रुत्या विरुद्धधर्माक्रान्त्या चान्नमयादीनां विश्वादीनां च स्वतः प्राप्तस्य भेदस्यापवादकाभावे तस्यावश्यं तथा संकल्पः कल्प्य इति निरस्तम् । जीवेशाभेदे बाधकस्य प्रत्यक्षादेरुक्तत्वात् । जीवस्य प्रयोजकाविद्यावत्त्वादिसंबन्धेन दुःखित्वम् ईश्वरस्य तत्संबन्धेनैव निर्दुःखित्वमित्युक्तत्वाच । किंच धर्ममीमांसायां व्युत्पादितैः शब्दान्तरादिप्रमाणैर्जीवब्रह्मणोर्भेदः सिध्यति । अस्ति हि 'एष एव जीवं प्रबोधयति । एतस्माज्जीव उत्तिष्ठतीति" विरुद्धार्थकधातुनिष्पन्नाख्यातरूपंशब्दांतरं 'नित्यः परो नित्यो जीव' इत्यप्रत्यभिज्ञायमानपुनःश्रुतिरूपोऽभ्यासः, द्वासुपर्णेत्यादिसंख्या, अनश्नन्नित्यादिभेदको गुणः, यतो वाचो निवर्तन्त इत्यादि-प्रकरणान्तरं जीवेशावितिनामधेय भेदश्चेति ।

ननु तथापि शब्दान्तरादिभिर्न पारमार्थिको भेदः सिद्धयति । कर्ममीमांसकैः शब्दान्तरादीनां मुख्यभेदे प्रमाणतयानुपन्यासात् । न हि तैः शब्दान्तरादिकं प्रदर्शोपपाद्यमानस्तदभावं प्रदर्श्यापोद्यमानश्च कर्मभेदः शास्त्रभेदो वान्योन्याभावरूपो मुख्यो भेदः ।

'सप्तदश प्राजापत्यान्पशूनालभत इत्यत्र 'दधिमधु-घृतपयोधानाः करंभास्तंडुलास्तत्संसृष्टं प्राजापत्यमित्यत्र, 'ऐन्द्रं दध्यमावस्यायामित्यत्र च प्राजापत्यपशूनां प्राजापत्यद्रव्यादीनामैन्द्रदधिपयसोश्च प्रदानयोगपद्येन प्रजापत्याद्युद्देशेन तत्तद्रव्यविषयसंकल्परूपाणां यागानामेकैकत्वेऽपि सप्तदश प्राजापत्ययागाः सप्त ध्यादियागाः द्वौ दधिपयोयागौ इति भेदोपपादनात् । सोमेनयजेतेत्यत्र इन्द्रवाय्वाद्युद्देशेन तत्रस्यात्रस्थित सोमरससंकल्परूपाणां यागानां भिन्नत्वेऽपि, अग्निहोत्रं जुहुयादित्यत्राहवनीयादिषु हविःप्रक्षेपरूपाणां होमानां भिन्नत्वेऽपि भेदनिरासात् । सप्तदश प्राजापत्यानितिवाक्यरूपस्य शास्त्रस्यैकत्वेऽपि भेदोपपादनात् । ब्रीहिभिर्यजेत ब्रीहीनवहंतीत्यादिवाक्यरूपाणां शास्त्राणां भिन्नत्वेऽपि भेदनिरासाच ।

यद्यपि कर्मापि गोत्वादिवदेकमेव नित्यमनेकानुगतं नत्वाश्रयभेदेन तद्भेदोऽस्ति । अयं चलत्ययमपि चलतीत्यादिप्रत्यभिज्ञया तदैक्यसिद्धेः। तद्भेदबुद्धेराश्रयभेदादुपपत्तेः । सन्तताऽनुपलब्धेश्च शब्दवद्व्यंजनाभावेनोपपत्तेः । एवमन्यत्रापि कर्मैक्येऽपि यत्र शब्दान्तरादिभेदकमस्ति तत्र कर्मभेदोऽङ्गीक्रियतेऽतः शब्दान्तरादिप्रमाणषट्कावधिः कर्मभेदः, ततः परन्तु तदभेद इति कौमारिलानां क्वचित्पक्षे 'सोमेन यजेत' 'अग्निहोत्रं जुहुयादित्यत्र शब्दान्तराद्यभावान्न यागहोमभेदः । किंत्वेकस्यैव यागस्य होमस्य च देवताभेदेनाधिकरणभेदेन चाभ्यासमात्रमिति मुख्यो भेद उपपादयितुं शक्यते । तथापि सप्तदश प्राजापत्यानित्यादिषु तस्मिन्नपि मुख्यभेद उपपादयितुं शक्यत एव । अत-एवास्वारस्यात् सर्वलोकसिद्ध भेदप्रत्यक्षतोऽपि बलवती प्रत्यभिज्ञा शब्दान्तरादितः कथं लवती न स्यादित्य स्वारस्याच्च स सर्वत्र कर्मैक्यपक्षे शब्दान्तरादिस्थलेप्यमुख्यभेद एव कौमारिलैराश्रितः । शब्दान्तरे कर्म भे इत्यादिसूत्रस्वारस्याय स्वप्रौढ्या समर्थयितुं परं शब्दान्तरादिस्थले मुख्यः कर्मभेद इति कश्चित्पक्ष उपन्यस्तः । अतोऽनुष्ठानविशेषोपयोग्यपूर्व भेदाद्युपाधिकः काल्पनिको भेदः शब्दान्तराद्यवसेय इत्येव सर्वेषां कर्ममीमांसकानां मतम् । उक्तम् हि तंत्ररत्ने-क्रियाणामाश्रितत्वाद्-द्रव्यान्तरे विभागः स्यादित्यधिकरणे । अथापि नाम सर्वत्रैलोक्यवर्तिन्येकैव कर्मव्यक्तिरनुष्ठानमात्रं तु भिद्यते यावदेकापूर्वानुबंधनमेकेन शास्त्रेण विषयीकृतं तावदेकं कर्म, तदन्यत्तु भिद्यत इति भेदाभेद्व्यवहारसिद्धिरिति । उक्तं च वरदराजीये शब्दान्तराधिकरणे भिन्नापूर्वानुबंधप्रतिपादनयोग्यताज्ञानं यत्तदेव शास्त्रभेदज्ञानमित्युच्यत इति । तत्रैव संख्याधिकरणेऽप्युक्तम् । न च सप्तदश प्राजापत्यानितिवाक्यस्यैकत्वान्न शास्त्रभेदः । न वाक्यभेदः शास्त्रभेदे तत्रम्, निरपेक्षभिन्नालौकिकार्थत्वमेव तत्, तच्चेहाप्यस्तीति। एवं च यथा पूर्व तंत्रे शब्दान्तरादेर्वस्तुतो भेदरहितेऽपि काल्पनिकभेदविषयतयैव चारितार्थ्यमेवमिहापि जीवब्रह्मणोर्वास्तव भेदाभावेऽपि काल्पनिक भेदविषयतया चारितार्थ्यं संभवतीति चेत् ।

अत्रोच्यते । सप्तदशप्राजापत्यादिषु संप्रतिपन्नदेवताकत्वेन कर्म सौकर्याय प्रदानैक्येऽपि तत्तदुद्देशेन तत्तद्द्रव्यविषयकयागापरपर्याय संकल्परूपाणां भेद आवश्यकः । अन्यथाऽपूर्व भेदो न स्यात् । नहि सामग्रीभेदं विनाऽ दृष्टभेदः कल्पयितुं शक्यः । संकल्परूपयागैक्ये सप्तदशत्वादिसंख्यानन्वयः स्यात् । एकत्वभिन्नसंख्यायाः स्वसमसत्ताकेन स्वाश्रयभेदेन सह सामानाधिकरण्यनियमात् । सोमेन यजेताग्निहोत्रं जुहुयादित्यत्र च शब्दान्तराद्यभावान्न भेदः । किंत्वेकस्य सोमस्य देवताभेदेनाधिकरणभेदेन चाभ्यासमात्रम् । न तु संकल्पादिरूपयागभेदः । अतः शास्त्रयागयोर्भेदाभ्यासयोः शब्दान्तरादितदभावावेव मानम्, प्रत्यभिज्ञात्वयं दंडी अयं दंडी घटो रूपी पटो रूपी घटो ध्वस्तः पटो ध्वस्त इत्यादि क्रियाभेदेऽप्युपपद्यते। देशकालकर्त्रादिभेदेन क्रियाव्यक्तयो भि द्यंते । शब्दान्तरादिभिश्चाग्नेयत्वादिजातय एव भिद्यन्ते । जगतीतलवर्त्येकैव क्रियाव्यक्तिः शब्दवत्तस्या एव सामग्र्या अभिव्यक्तिरित्यशुद्धम् । अपूर्वस्यापलापापत्तेः । तस्याभिव्यक्तिजन्यत्वे च यजिपदे लक्षणापत्तेः । घटपटादीनामप्येकैकव्यक्तिकत्वापत्तेः । अयं दंडी अयं दंडीति चायं चलत्ययं चलतीति प्रत्यभिज्ञायाः क्रियाभेदेऽपि सूपपन्नत्वेन तद्विरोधाभावाच्च । शब्दान्तरादितो मुख्यएव भेदः सिद्धयति । सूत्रस्वारस्याच्च शब्दान्तरादिस्थले मुख्यो भेद इतिपक्ष एव मुख्यतयाऽभिप्रेतः । यागाभेदपक्ष एव प्रौढिः तत्पत्तस्यैव तंत्ररत्ने 'अथापि नामेत्यादिना प्रौढित्वोक्तेः । यागैकपक्षस्य मानान्तर विरुद्धस्यैव प्रौढियुक्तेर्न्याय्यत्वाच्च । अतो यत्र शब्दान्तरादिर्भेदकं प्रमाणं तत्र याग भेदस्ततोऽपूर्वभेदः । कार्यभेदस्य सामग्रीभेदाधीनत्वात् । अग्निहोत्रसोमादौ च शब्दान्तराद्यभावाच्च न यागहोमभेदः । किंत्वेकस्यैवाभ्यासोऽतोनापूर्वभेदः । किं च जीवेशभेदस्य काल्पनिकत्वेऽर्जुनादीन्प्रति सर्वज्ञकर्तृकोपदेशानुपपत्तिः । न हि मायिकस्य भेदस्य मायामोहं विना दर्शनं संभवतीति । न वा मायामोहितस्येश्वरत्वे मानमस्ति । न चास्वाप्निकगुरुशिष्यवदुपपत्तिः । स्वाप्निकगुर्वादेः स्वस्य शिष्यस्य च कल्पितत्वमजानतो भ्रान्तस्योपदेशकत्वादिसंभवेऽपि सर्वस्य कल्पितत्वं जानतस्तदसंभवात् । न चैन्द्रजालिकवदीश्वरस्य कल्पितदर्शनोपपत्तिः । स्वमायामोहरहितस्यैन्द्रजालिकस्य कल्पितदर्शनासंभवात् । यथा हि वैद्यः शास्त्रगुरूपदेशादिज्ञातौषधप्रभाव इदमौषधमिमं रोगमाशु नाशयति पश्यन्त्विति वदति तथा गुरूपदेशादिनाऽनेन मंत्रादिप्रयोगेनेत्थं लोको भ्राम्यतीति ज्ञातमंत्रादिप्रभाव इममापश्यंत्विति तदापरोक्ष्याभावेऽपि वदत्यैन्द्रजालिकः । ननु तथापि शब्दान्तरादिना न भेदसिद्धिः । शब्दान्तरादिसत्त्वेऽपि विद्या भेदाऽनंगीकारात् । सर्वविद्यान्नातानां सर्वेषां गुणानामुपसंहारः कार्य इति न विद्याभेदेन गुणानां प्रतिकरणं व्यवस्था किन्तु मानुषाद्या हिरण्यगर्भान्ता मुक्त्यधिकारिणः फलतारतम्येन मुक्तिभाज इत्यधिकारिभेदेनैव तत्र हिरण्यगर्भः सर्वोत्कृष्टमुक्त्त्यर्हतया कर्मकाण्डस्थसकलगुणोपसंहारयोग्या: । अन्ये तु स्वस्वभाविमुक्त्यनुसारिगुणोपसंहारयोग्याः । यद्यप्यस्मदादिभिर्मुक्त्यधिकारिभिरुपासनारम्भसमये स्वस्वभाविमुक्तिखरूपं प्रतिपुरुषमनादियोग्यतानुसारेण व्यवस्थिततारतम्यमजानद्भिः स्वस्वोपासना योग्या गुणा निश्चेतुं न शक्यन्ते तथापि, स्वस्वगुरोरन्यस्माद्वा सर्वज्ञात्तान् गुणान्निर्णीय तदुपसंहारः कार्यः । ब्रह्मणोपसंहर्तव्यानां सर्वगुणानामाम्नानस्यैकस्यां विद्यायामभावादिति शब्दान्तरादीनां भेदकत्वं स्पष्टं त्यक्तमिति चेत्, एकत्र बाधकात्यागेऽपि सर्वत्र त्यागेबीजाभावात् । यत्तु शब्दान्तरादयः कर्मभेदकाः सन्तु न वा ब्रह्मणि तु भेदका न भवन्त्येव । तथा हि 'एषह्येव जीवं प्रबोधयति एतस्माज्जीउत्तिष्ठतीति विरुद्धार्थधातुनिष्पन्नाख्यातरूपस्य शब्दान्तरस्य भेदकत्वं तद्बोकत्वावच्छिन्नस्योद्भोध्यत्वावच्छेदो विरुद्धः इत्यतो विरोधमूलमेव वाच्यम् । न च तद्युक्तम् । त्वया ब्रह्मणि विरुद्धधर्मसमावेशांगीकारात् । 'नित्यः परो नित्यो जीव' इति नित्यत्वाभ्यासस्य परजीवयोरेकत्वे परनित्यत्वश्रुत्यैव जीवस्यापि नित्यत्वसिद्धेस्तत्पुनःश्रुतिरनर्थिका स्यादिति पुनः श्रुत्यानर्थक्यं मूलं वाच्यम् । तदपि न युक्तम् । कार्यकारणाभेदवादिना शक्तिव्यक्त्यभेदवादिना च त्वया नित्यत्वानित्यत्वादिसांकर्यस्य स्वीकारेण तत्तथैव परनित्यत्वेऽपि जीवानित्यत्वशंकावारणेन सार्थकत्वात् । संख्याया गुणस्य च भेदकत्वं यस्मिन् 'पंच पंच जना ' 'अणोरणीयान्महतो महीयान् इत्यादौ त्वयैव प्रतिषिद्धम् । प्रकरणभेदो न भेदक इति स्पष्टमेव । भारतादिषु रामकृष्णादिचरितप्रतिपादक प्रकरणभेदेऽप्यभेदानपायात् । सृष्टिसंहारादिप्रकरण भेदेऽपि त्वया सृष्टिसंहारादिक्रियाणामभेदस्यांगीकाराच्च । एतेन जीवेशाविति नामभेदस्यापि भेदकत्वमिति निरस्तम् । तस्मात्परस्परविरुद्धधर्मादिमतामवतारादीनामिव जीवानामप्यभेदश्रुत्यनुसारेण तदत्यन्ताभिन्नवासुदेवांशत्वं त्वया विचारयितुं न शक्यत इति । तत्तच्छम् । बोध्य-बोधकत्वयोः सामानाधिकरण्यस्यैश्वर्यविरोधिनोऽस्माभिरनंगीकारात् । न हि नित्वाप्रतिहतबोधस्येश्वरस्याबोधादिकं संभवति प्रधानत्वेन नित्यत्वं महत्तत्त्वादिना चानित्यत्वमिति व्यवस्थयैव नित्यत्वादिसांकर्यस्वीकारात् । महत्तत्त्वादयो ह्यवस्थाविशेषाः कारणकलापैरभिव्यज्यन्ते । परनित्यत्वज्ञानेऽपि जीवस्यानित्यत्वशंकायाः परजीवभेदज्ञानं विनाऽनुपपत्तेः । यत्र संख्यान्वयबोधात्प्रागेवाभेदसिद्धिः तत्र संख्या न भेदिका । यथा विराट् संपन्नमग्निहोत्रं जुहोति । एकादश प्रयाजान्यजतीत्यत्राग्निहोत्रैकत्वस्य प्रयाजपंचत्त्वस्य च प्रागेव निर्णयान्न संख्यया भेदः । किन्त्वावृत्त्यैवैकादशत्वादिसम्पादनम् । तथा " प्राणस्य प्राणश्चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनइत्यादिनियामकस्यैकत्वनिश्चयाद्यस्मिन्पंच पंच जना इत्यादि संख्या न भेदिका । किन्तु पाशाधिकरणन्यायेनैकत्रैवान्वयः । ज्ञाज्ञावित्यादौ तु प्राक्तदनिर्णयात्स्यादेव संख्या भेदिका । प्रकरणमप्यसति बाधकएव भेदक रामकृष्णयोर्भेदे बाधकवज्जीवेशयोर्भेदे बाधकं नास्ति जीवेशावितिनाम्नोर्भेदेकत्वं सुस्पष्टमेव । जीवस्य वासुदेवावतारत्वे तं प्रत्युपदेशोऽसंगत एव । न हि रामकृष्णमत्स्यक्रर्मादीनां परस्परमुपदेशोऽस्ति ।

इत्थं जीवब्रह्मभेदे सुसिद्धे

शास्त्रारंभः सार्थको नः सुसिद्ध: ।

जीवब्रह्माभेदवादे समोघो

ज्ञानाभावात्स्यादपार्थो विचारः ॥४३॥

मंडने मध्वतंत्रस्य खंडने च सुरद्रुहाम् । वनमालिकृतं भाति जिज्ञासान्यायवर्णनम् ||||