अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते
जन्मादिन्यायवर्णनम्
ॐ जन्माद्यस्य यतः ॐ
अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते
श्रीवेदव्यासायनमः । जन्माद्यस्य यतः । पूर्वाधिकरणे ब्रह्मशब्देन जीवब्रह्मभेदमुपपाद्य शास्त्रारंभः समर्थितः । अत्र प्रकारान्तरेण तदेवाक्षिप्य समाधत्ते । यदुक्तं 'तद्विजिज्ञासस्व तद्ब्रह्मेति विचारविधिवाक्ये ब्रह्मपदेनात्र जीवविलक्षणस्य ब्रह्मणोविचार्यस्य समर्पणात्सविषयमिदं शास्त्रमिति । तन्नयुक्तम् तत्र ब्रह्मशब्दस्य जीवपरत्वात् । तथा हि ब्रह्मशब्दस्तावज्जीवस्यापि वाचकः । बृहि बृंहि वृद्धावितिधातोरिव जातिजीवबोधकत्वं रूढ्यैव जीवे गुणपूर्त्यादियोगासंभवात् । परब्रह्मवाचकत्वं तु योगेन, ततश्च रूढेर्योगतो बलवत्त्वादिह ब्रह्मशब्दस्य जीवपरत्वमेव युक्तमिति प्राप्ते सत्यम् रूढिर्बलीयसी इह त्वस्या योगो बाधकः । 'यतो वा इमानिभूतानि जायन्त' इत्यादिश्रुतौ हि ब्रह्मपदं निर्दोषस्य वस्तुनो जगज्जन्मादिकारणत्वं बोधयति तद्विष्ण्वेकनिष्ठं तल्लक्षणमिति श्रुतिस्मृतिपुराणादिभ्योऽवगतम् । अतः तदनुसारेण योगतः परिपूर्णगुणविष्णुपर एवायं ब्रह्मशब्द इति ।
वेदे भूरि प्रयोगाच्च गुणायोगाच्च शार्ङ्गिणि ।
तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥
यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः ।
तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥
इति गारुडे | ब्रह्मशब्दस्य हरौ मुख्यत्वमन्यत्रामुख्यत्वं स्पष्टम् । ननु ब्रह्मशब्दस्य जीवे रूढिरसिद्धा ।
शरीर वृंहकत्वादिक्लृप्तयोगेनैव तत्र प्रवृत्त्युपत्ति: धात्वंतरस्य चाप्रामाणिकत्वादिति चेत् । किमेवं वदता ब्रह्मशब्दस्य जीवे रूढौ प्रमाणमेव नास्तीत्यभिप्रेतम्, किंवा क्लृप्तावयवशक्त्यैव तत्र प्रवृत्युपपत्तौ रूढिनगीकार्येति ? नाद्यः "बृहि बृंहि वृद्धावित्यादिना योगस्येव बृहज्जातिजीवकमलासनशब्दराशिष्वित्यभिधानेन तत्र जीवेऽपि रूढिसिद्धेः । न च बृंहि वृद्धावित्यादेरिव बृहजातिजीवेत्यादेर्न प्रसिद्धिः । शक्तिग्राहकाभिधानानामनेकत्वेनार्वाचीनानां तदभावनिर्धारणासंभवात् । अन्यथा 'बृहि बृंहि वृद्धावित्यादेरप्यप्रामाणिकत्वापत्तेः । अभियुक्तप्रदर्शितत्वेन तेषां प्रामाणिकत्वे च किमनेनापराद्धम् ? तस्याप्यभियुक्ततमोदाहृतत्वात् । त्वदद्भिमता एवाभियुक्ततमा नास्मदभिमता इत्युक्तेर्द्वेषमात्रमूलत्वात् । अन्यथा बृंहवृहेत्यादिरप्याधुनिकेन प्रक्षिप्त इत्युक्तौ का प्रत्याशा । न द्वितीयः । देहबृंहकत्वादिमात्रस्य तदनवयवार्थत्वात् । श्रुतिस्मृत्याद्यनुसारेण गुणपूतैरेव तदवयवार्थत्वाच ।
ननु तथापि सिद्धान्तोऽनुपपन्नः । तथा हि यदि जगत्कर्तृत्वानुवादस्य जीवे पर्यवसानायोगाद्विचारविधिवाक्यगतस्य ब्रह्मशब्दस्य रूढार्थोऽपि जीवः परित्यज्यते । तदा अन्नप्राणमनोविज्ञानानन्देषु ब्रह्मशब्दस्य वृत्तिस्त्वया त्यक्ता स्यात् । जीव इव जगत्कारणत्वादेः पर्यवसानासंभवस्य तेष्वपि तुल्यत्वात् त्वया "एतन्नानावताराणां निधानं वीजमव्ययम्” इत्यादिस्मृत्यनुसारेण मूलरूपेणैव हरेश्चतुर्मुखादिसकलजगत्कारणत्वमुपेयते । न तु प्रतिशरीरं तत्तत्कोशमात्राधिष्ठानतयाऽभिव्यक्तैरन्नादिरूपैरिति तेष्वप्यनुवादयुक्तिस्तुल्यैव । यद्यपि त्वन्मते सर्वाणि भगवद्रूपाणि सविशेषाभिन्नानि तथापि तत्तत्कृत्यानि व्यवस्थितान्येव । न हि रावणवधादिकं शिशुपालवधादिवत्कृष्णचरित्रमध्ये वर्ण्यत इति चेन्न । रूढ्या मूलाभेददृष्ट्याऽन्नमयादिष्वपि जगत्कर्तृत्ववर्णने बाधकाभावात् । रावणवधादीनां तत्तद्रूपपुरस्कारेण प्रवृत्त्या मूलरूपेणा प्रवृत्त्या च युक्तं श्रीकृष्णचरित्रप्रस्तावे रावणवधाद्यवर्णनम्, मूलाभेददृष्ट्या च रूपान्तराविष्कृतो महिमा रूपान्तरे वर्णयितुं युक्त एव ।
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते ॥
इति श्रीकृष्णवाक्यात् । रावणवधादेः कृष्णरूपाविष्कृत चरित्रमात्र संग्रह प्रस्तावेष्ववर्णनेऽपि सर्वरूपाभिन्नपरब्रह्मस्वरूपतया कृष्णवर्णनप्रस्तावेषु कृष्णेऽपि वर्णनदर्शनाच्च । अतो मूलाभेददृष्ट्याऽन्नमयादिष्वपि जगत्कर्तृत्वानुवादो युक्त एव ।
नन्वेवं जीववर्गेऽपि विश्वकर्तृत्वानुवादो युक्त एव । ज्ञानानंदादिब्रह्मगुणशालितया ब्रह्माभिन्नो जीव इति त्वयाऽङ्गीकारात् । "तत्त्वमसि” इति जीवे प्रकृतजगत्कर्तृभावपरामार्शितत्पदोक्तब्रह्माभेदप्रतिपादनस्य, ज्ञानानंदादिगुणैकरूप्यप्रयुक्ता भेदविषयतया "सर्वं खल्विदं ब्रह्म" इति ब्रह्मणि सर्वप्रपंचाभेदप्रतिपादनस्य, सर्वभूतगुणैयुक्तम्” इतिस्मृतेः "पृथिव्यादिगताऽऽधारत्वादिगुणा ब्रह्मणि सन्तीति तद्गुणैकरूप्य प्रयुक्त पृथिव्याद्यभेदविषयतया च त्वया "तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवदिति सूत्रे व्यवस्थापितत्वाच्चेति चेन्न । सिंहो देवदत्त इत्यादि गौणाभेदस्यैव तद्गुणेत्यादिसूत्रे स्वीकारात् । प्रत्यक्षादिविरोधेन तत्र गौणार्थस्वीकारेऽपि ब्रह्मशब्दस्य मुख्यार्थे बाधकाभावेन गौणार्थकत्वानङ्गीकारात् । नह्यन्नमयादिषु मूलरूपस्य गौणोऽभेदः मुख्याऽभेदे बाधकाभावात् । "अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते" इत्यादिश्रुत्याऽन्नादिरूपेष्वपि जगत्कर्तृत्वोक्तेश्च । अन्नप्राणमनोविज्ञानानन्देषु पंचस्वपि ब्रह्मशब्दस्य जगत्कर्तृत्वलक्षणस्य च दर्शनात्पंचापि भगवद्रूपाण्येव । एकं रूपं श्रुत्वा मत्वा साक्षात्कृत्य च रूपान्तराऽऽपरोदार्थं भृगोर्वरुणनिकटे पुनः पुनरुपसत्तिः ।
ननु साक्षादेव जीवे विश्वकर्तृत्वानुवादो युक्तः । इत्थं ते मतं स्वप्नध्यानमनोराज्येष्वनुभूयमानाः सरित्समुद्रगिरिनरतुरगादयो न बहिः सन्तः, नापि भ्रान्तिमात्रविषयाः किन्तु स्वप्नादिद्रष्टुपुरुषान्तःकरणगतानादिकालप्रवृत्ततद्विषयानुभवजन्यवासनोपादानास्तदानीमेवान्तरुत्पन्नाः । तत्र ध्यानमनोरथविषयाः पुरुषप्रयत्ननिर्वर्त्या न तु स्वप्नविषयाः । इयांस्तु विशेषः मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः स्वप्ने पुनरीश्वरेच्छाधीनैवेति । एवं ध्यानमनोरथयोर संभावित विषयः कोऽपि नास्तीति तद्विषय सर्वस्रष्टरि जीवे साक्षादप्यनुवादो युक्त एवेति चेन्न । स्थूलबाह्यप्रपंचस्रष्टृत्वस्य जीवेष्वसत्त्वेन सर्वस्रष्टृत्वानुवादानुपपत्तेः । ध्यानादिहेत्वन्तःकरणादेर्जीवे कर्तृत्वासंभवाच्च । सर्वजगद्विषयकध्यानादेरसर्वज्ञे जीवे एकस्मिन्कुत्राप्यसंभवाच्च ।
ननु स्थूलप्रपंचस्रष्टृत्वमपि जीवस्य संभवति तस्य चिरन्तनहिरण्यगर्भादिजीवध्यानमनोरथप्रभवत्वोपपत्तेरिति चेन्न । सर्वध्यानमनोरथादिनाप्यान्तरपदार्थानामेव सर्जनात् । अन्यध्यानादिनोत्पादितानां पदार्थानामन्यस्याऽऽपरोक्ष्याऽसंभवात् । अर्थक्रियाकारित्वाऽसंभवाच्च । एतेनातिसूक्ष्मवासनोपादानत्वेऽपि स्वप्नध्यानमनोरथविषयाणां भूगोल महार्णवादीनामतिमहत्त्वं तेषां च स्वल्पशरीरान्तःस्थानं मूहूर्तमात्रावस्थितेषु स्वप्नध्यानमनोराज्येषु नैकशतवर्षावस्थानमित्यादेरतिदुर्घटस्य दर्शनेन तद्वदेव ध्यानमनोरथप्रभवे प्रपंचेऽपि सर्वापरोक्ष्यानुपपत्तिरिति निरस्तम् । स्वाप्निकादीनामनुभूतगुणकानां महतामप्यन्तः समावेशोपपत्तेः मुहूर्तमात्रस्थितानां बहुकालस्थायित्वबुद्धेर्भ्रमत्वेनाप्युपपत्तेः । अन्यसृष्टानां स्वाप्निकानां मानोरथिकानामन्यं प्रत्यापरोक्षस्यार्थक्रियाकारित्वस्य चादर्शनेनाघटघटना कल्पनायां मानाभावात् । स्वाप्निकादिसृष्ठेस्तवापि सम्मतत्वाच्च । सत्यत्वं परं त्वया नेष्यते "यत्प्रयन्त्यभिसंविशंतीति मुक्तप्राप्तिरूप संवेशस्य सर्वजडजीवात्मकप्रपंचलयस्थ जीवेऽनुवादस्यानुपपत्तेः । स्वयमलीनस्य सर्वलयाधिकरणस्य च जीवत्वासंभवात् । हिरण्यगर्भादीनां नानात्वेन जीवान्तरध्यानविषये जीवान्तरस्यास्त्रष्टृत्वात् ।
किं च ब्रह्मपदस्य जीवपरत्वे जीवपरयोरभेदो महावाक्यार्थः । स च जगज्जन्मादिकारणत्वजीवत्वापन्नयोर्मुख्यः । स न संभवति । ताभ्यां रूपाभ्यां तयोर्भेदाङ्गीकारात् । अभेदस्य प्रत्यक्षादिबाधितत्वाच्च । ज्ञानानंदत्वादिना गौणाभेस्य "तद्गुणेत्यादिसूत्रोक्तस्य त्वयानङ्गीकारात् । ममेष्टापत्तेश्च । तद्ब्रह्मेत्यादौ गौणार्थग्रहणे मानाभावाच्च । एतेनोक्तप्रकारद्वयानङ्गीकारेऽनुवादब्रह्मपदस्वारस्यविषययोर्जीव परयोर्विरुद्धधर्मवत्तयाताभ्यामुपस्थापितयोरपि "यतो वेत्यादि महावाक्यप्रामाण्यादत्यन्ताभेदः संभवति । विरुद्धधर्मवत्त्वस्य तयोरभेदाविरोधिताया आद्याधिरणे समर्थनादिति निरस्तम् । ब्रह्मपदस्य जीवपरेशा भेदे स्वारस्यस्य त्वदाशामात्रत्वात् । सर्वज्ञत्वाल्पज्ञत्वादीनां भेदकानां सत्त्वाच्च । एतेन यदि विरुद्धधर्मस्याभेदविरोधित्वं तदा विधेयानुवाद्यरूपतया जीवब्रह्मसमर्पकस्य भागद्वयस्य महावाक्यार्थभूता भेदे विरोधिधर्मद्वयोपस्थापकतया विरोधे सत्यविरोधाय कस्यचिदुभागस्यार्थबाधेकर्तव्ये विधेयभागस्य तात्पर्यवत्तया प्रबलत्वात्, न विधौ परः शब्दार्थ इत्यनुवादमुख्यत्वाय विधायमुख्यार्थपरिग्रहस्य न्यायविद्भिर्निराकृतत्वाच, अनुवादभागस्यैवार्थबाधः प्राप्नुवन्जीवगतध्यानादिविषयस्रष्टत्वगोचरत्वलक्षणस्य संकोचरूपबाधस्य त्वदसंमततया गत्यन्तराभावादुब्रह्मण्येवानुवाद्ये जीवाभेदविरोधिजगत्कारणत्वोपमर्दात्मा बाधः प्राप्नोति । दृष्टश्च पूर्वतंत्रेऽप्यनुवाद्यधर्मस्य विधेयविरोधेनोपमर्दः । तत्र ह्युक्थ्याग्निष्टोमस्तुतशस्त्रं स्यात्सति हि संस्थान्यत्वमित्यधिकरणे, 'अप्यग्निष्टोमेराजन्यस्य गृह्णीयादप्युक्थ इति राजकर्तृकयोरुक्थ्याग्निष्टोमयोर्विधीयमानः षोडशिग्रहः स्तुतशस्त्ररहितः स्यात्तद्वत्त्वे षोडशिसंस्थतयोक्थ्याग्निष्टोमसंस्था भंगप्रसंगेनोक्थ्यस्याग्निष्टोमस्य च सतः षोडशिग्रहविध्ययोगादिति प्राप्ते सिद्धान्तितम्, स्तुतशस्त्रवत्त्वेन निर्ज्ञातषोडशिग्रहोऽत्र विधीयमानस्तथैव प्राप्नोति । न च संस्था भंगो दोषः । पूर्वसंस्थोपमर्देन संस्थान्तरविध्युपपत्तेः ।
उक्थ्यसंस्थो हि यः प्राप्तस्तथाग्निष्टोमसंस्थकः । राजन्यस्य तथा नासौ किंतु षोडशसंस्थकः ॥
इत्येव विधेः पर्यवसानादिति । एवं षोडशिग्रहविध्यर्थं प्राप्तेनापि स्तोत्रशस्त्रेण यदा तद्विरोधिनोरनुवा द्ययोरुक्थ्याग्निष्टोमसंस्थयोरुपमर्दस्तदा किमु वक्तव्यं तद्विरुद्धस्यानुवाद्यस्य साक्षाद्विधीयमानेन जीवत्वेन जगत्कारणत्वस्योपमर्द इति । एवं च पूर्वोक्तप्रकारद्वयानंगीकारे जीवपरयोरत्यन्ताभेदप्रसक्त्या त्वदभिमतभेदहानाद्विरुद्धधर्मवतोरत्यन्ताभेदो न संभवतीत्यनुशये ब्रह्मणो जगत्कारणत्वस्यापि हानाच त्वन्मतस्य हानिरेवेति निरस्तम् । विरुद्धधर्मवतोरभेदासंभवात् । उक्तः न्यायवैषम्याच्च । तथा हि राजन्ये प्राप्तयोरुक्थ्याग्निष्टोमसंस्थयोर्बाधेऽपि न तदनुबंधिविधीनामत्यन्तबाधो धर्म्यन्तरे चरितार्थत्वात् । ब्रह्मणि जगत्कारणत्वबाधे तु सृष्टिप्रलयादिवाक्यानामत्यन्तबाधः स्याद्विषयान्तराभावात् तस्मात् "आनर्थक्यप्रतिहतानां विपरीतमेव बलाबलमिति न्यायाद्विरोधे परस्यापि ब्रह्मशब्दस्य रूढित्यागात् । ब्रह्मपदस्य पूर्णानन्दगुणवत्परत्वेन ब्रह्मपदार्थत्व सर्वजगत्कारणत्वयोरविरोधोपपत्तौ ब्रह्मपदस्य जीवे रूढ़िमंगीकृत्यानेकश्रुतिविरुद्धस्येश्वराकार णत्वस्यांगीकारानौचित्यात् । यथा हि हृदो वह्निमान् इत्यादिशब्दार्थस्य वह्निहृदसंसर्गस्य बाधेन वह्निहृदान्यतरपदलक्षणया वाक्यार्थोपपत्तिस्तथात्रान्यतरपदस्य मुख्यार्थं विहायोपपत्तिः कार्या । तत्र जगत्कारणादिशब्दार्थत्यागे उपदेशो व्यर्थः । जगत्कारणान्यज्ञानस्य मोक्षाहेतुत्वात् । "तमेव विदित्वातिमृत्युमेतीत्यादिश्रुतेः । अतो ब्रह्मपद्स्य रूढिं त्यक्त्वा यौगिकार्थमादाय वाक्यार्थोपपत्तिः कार्या ।
यत्तु सृष्ट्यादिवाक्यानां विषयान्तराभावो न दोषः । ब्रह्मणोऽद्वितीयत्वसिध्यर्थमध्यारोपापवादापेक्षितारोपमात्रेण चारितार्थ्यम् । दृष्टं च अग्निचयनेऽग्निहोत्रे च जर्तिलयवाग्वादिविधिषु तद्वदिहापीति । तत्तुच्छम् । अद्वितीयादिशब्दैर्द्वितीयमात्रनिषेधासंभवात् । तथा हि तैर्द्वितीयाभाव उपलक्षणतया विशेषणतया वा बोध्यते चिन्मात्रं वा । आद्ये द्वितीयाभावेनैव सद्वितीयत्वम्, न चाभावोमिथ्या । प्रतियोगिनः सत्यत्वापत्तेः । न चाभावस्यापि द्वितीयत्वान्निषेधः । मे माता वंध्येत्यादिवत्स्वविहितस्य निषेधस्य निषेधे श्रुतेर्व्याघातापत्तेः । न चाभावो भिन्नः स्वीक्रियते अभावत्वाधेयत्वाधिकरणत्वसप्रतियोगिकत्वादेर्भावस्य सत्त्वेनाद्वैतहानेः । अद्वितीयपदस्य संकोचावश्यकत्वे स्वतंत्र द्वैतनिषेधपरत्वेन संकोचापत्तेश्च वेदान्तानामखंडार्थकत्वहानेश्च । न चाभावोऽधिकरणस्वरूप एवास्तु निरपेक्षसापेक्षयोर्भ्रमकालनिश्चितानिश्चितयोर्ब्रह्मद्वितीयाभावयोरैक्यासंभवात् । न चाभावत्वेन सापेक्षत्वादिकं स्वरूपेण निरपेक्षत्वादिकमिति वाच्यम् । स्वरूपातिरिक्ता भावत्वांगीकारे तेनैवाद्वैतहानेः । नान्त्यः चिन्मात्रबोधस्य द्वैताविरोधित्वात् । नहि धर्मिभूतलादिमात्रज्ञानं घटतद्भावान्यतरवत्ताज्ञानविरोधि । अज्ञानाद्यधिष्ठानतया चिन्मात्रस्य सदा भानाच्छास्त्रस्य वैयर्थ्यापत्तेश्च । जर्तिलाद्यर्थवादानां स्तावकानां प्राशस्त्यलक्षणया विध्येकवाक्यत्वेन सार्थक्येऽपि सृष्टिवाक्यादीनां वैयर्थ्यापत्तेः । न हि सगुणसप्रपंचसृष्ट्यादिप्रकरणे नियमेन तन्निषेधकं वाक्यमस्ति । किं चेश्वरनिष्ठस्य व्यावहारिकस्यापि जगत्कर्तृत्वादेरसिद्ध्यापत्तेः । न हि जर्तिलादीनां व्यावहारिकं होमकरणत्वं प्रतीयते । न वा तीर तात्पर्यकगंगापदेन प्रवाहबोधो भवति । किं 'च शास्त्रप्रसक्तस्य न सर्वथा निषेधः । अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीत्यत्रापि षोडशिग्रहणस्य नित्यनिषेधापत्तेः । "न तौ पशौ करोतीत्यत्र विकल्पानुपपत्तेश्च । दर्शपूर्णमासप्रकरणेऽभिहितस्य न तावित्यादिना पशावाज्यभागनिषेधस्य प्रसक्तिरपेक्ष्यते सा च शास्त्रादेव शास्त्रप्राप्तस्य सर्वथा निषेधासंभवादाज्यभागयोर्विकल्प एव पशौ स न स्यादित्यर्थः । अतः प्रसक्तार्थानुमितशास्त्रप्राप्तस्य यदा न सर्वथा बाधस्तदा प्रत्यक्षश्रुतिप्राप्तं न बाध्यते इति किमु वाच्यम् ?
किञ्च 'असद्वा इदमग्र आसीदित्यादिब्रह्मसत्तानिषेधाय 'तत्सत्यं' 'सदेवसोम्येत्यादिवाक्यमारोपपरं किं न स्यात् । अत एकस्य ब्रह्मपदस्य रूढिपालनाय 'यतो वेत्याद्यनुवादस्यानेकसृष्ट्यादिवाक्यानां चोपमर्दनं न युक्तम् । नन्वेकानुरोधेन बहूनामुपमर्दो न युक्त इति; सत्यम्, परन्तु स न्यायस्त्वया तद्ब्रम्हेत्यत्र ब्रम्हशब्दे त्यक्तः । त्वया हि पूर्वाधिकरणे ब्रह्मशब्दस्य जीवब्रह्मभेदसाधकत्वमंगीकृत्य तेनैकेन पूर्वपक्ष्यभिमतसकलाद्वैतश्रुतीनां बाधो वर्णितः । तद्रीत्यैवात्र वक्तुं शक्यम् । तेनैव शब्देन जीवे रूढ़िन्यायतः प्राप्तेन जगत्कारणब्रह्माभेदबोधनपर्यन्तेन सृष्टिवाक्यादिसर्वद्वैतश्रुतीनामुपमर्द इति न ह्ययं ब्रह्मशब्दो यौगिकत्वे बलवान्न तु रूढत्व इति वक्तुं युक्तमिति चेन्न । भेदग्राहकश्रुति प्रत्यक्षाद्यनुग्रहेणोत्पत्तिशिष्टन्यायादिना ब्रह्मशब्दस्य जीवेशभेदसाधकत्वोक्ते: । पूर्वपक्ष्यभिमतचिन्मात्रपरवाक्यैब्रह्मपदार्थगुणपूर्तेरविरोधाच्च । 'द्वे ब्रह्मणी वेदितव्ये' 'तदेव ब्रह्म परमं कवीनाम्' 'परं ब्रह्म परं धामेत्यत्रोक्तविद्वद्रूढिं भगवति ब्रह्मपदस्यांगीकृत्य सिद्धान्तप्रवृत्तेश्च । मुमुक्षुज्ञेयगुणपूर्तिबोधकत्वेन ब्रह्मपदे यौगिकत्वस्यैवोचितत्वाच्च । अतो यौगिकत्वे ब्रह्मशब्दो बलवान्न तु रूढत्व इत्यपि युक्तम् ।
ननु परमते जीवग्रह्मणोर्विरुद्धधर्मवतोरप्यभेदबोधने लौकिकदृष्टिर्न विरोधिनी तन्मते परमेश्वराचिन्त्याद्भुतशक्तिमहिना विरोधाभावादिति चेन्न । विरोधोपपादकैश्वर्यविरोधिनोऽसर्वज्ञाऽभेदस्यैश्वर्येणोपपायितुमशक्यत्वात् । यत्तु श्रोत्रैकगम्ये शब्दे रसनेंद्रियस्येव वेदैकगम्ये ब्रह्मणि मानान्तरस्य साधकत्ववब्दाधकत्वमपि नास्तीति त्वन्मतं 'श्रुतेस्तु शब्दमूलत्वादित्यधिकरणे दर्शितम् । इत्थं हि तदधिकरणम् – ईश्वरो जगत्कर्ता चेत् क्षुद्रकार्येषु कृत्स्नप्रसक्त्या प्रवर्तते तदेकदेशेन वा, नाद्यः स्वल्पकार्ये कृत्स्नप्रसक्त्या प्रवृत्तौ प्रेक्षावत्वहानिप्रसङ्गात् । न द्वितीयः । तस्य निरवयवत्वात् । तस्माज्जीवस्य स्वतंत्रकर्तृत्वे कृत्स्नप्रसक्त्यादिदूषणं यदुक्तं तदीश्वरेऽपि स्यादिति प्राप्ते, ब्रह्मणि यथाश्रुति यस्य कस्यचिदर्थस्याङ्गीकारे लौकिकाः शुष्कतर्का न प्रतिभटा भवितुमीशते । न हि श्रौत्रैकगम्ये शब्दे चक्षुरादिकं साधकं बाधकं वा भवितुमर्हति । अत एव " योऽसौ विरुद्धोऽविरुद्धो मनुरमनुर्वागवागिंद्रोऽनिंद्रः प्रवृत्तिरप्रवृत्तिरपरः परमात्मेति श्रुतिरेव लोकदृष्ट्या विरुद्धानामपि धर्माणां परमात्मन्यविरोधं बोधयति । तस्मान्मानान्तरगम्यस्य जीवस्य स्वतंत्र कर्तृत्वाङ्गीकार एवं कृत्स्नप्रसत्तत्यादिलौकिकतर्काः प्रसज्येरन् नेश्वरस्येति । यथाश्रुति निरवयवोऽपि परमेश्वरः कार्यानुरूपमेकदेशेन जगन्निर्माणे प्रवर्तते जीवेनापि निरवयवेनैव कार्यानुरूपमेकदेशेन कृत्स्नप्रसक्त्या वा कारयतीत्यभ्युपगतौ न कश्चिद्दोषः । एवमीश्वरस्य तर्कागोचरत्वं विस्मरसीति तन्न । ईश्वरस्य नित्यनिरवद्यत्वादिबोधकनिर्दुष्टागमानुरोधेनैवासर्वज्ञत्वादिगुणकजीवाभेदानङ्गीकारात् । केवलतर्केणैव भेदानङ्गीकाराच्च । नहीश्वरेऽज्ञत्वसमावेशे श्रुत्यादिविरोधवदुक्तधर्मसमावेशे श्रुत्यादिविरोधोऽस्ति ।
ननु जीवब्रह्मभेदश्रुत्यनुग्राहकत्वेन त्वदभिमतानां विरुद्धधर्मवत्त्वादितर्काणामपवादकत्वेन तद्भेदश्रुतिप्राबल्यापादका जीवे प्रत्यक्षसिद्धस्य कर्मकर्तृत्वस्य ब्रह्मणि श्रुतिप्राप्तसृष्टिपालनसंहारादिकत्वस्य च प्रतिक्षेपकतया कर्तृत्वविशेषतदनुबंधिगुणरूपान् जीवब्रह्मणोः सर्वानपि धर्मान् विचाराऽसहान्मिथ्याभूताकुर्वन्तः कृत्स्नप्रसक्त्यादितर्का एव श्रुत्यनुग्राहका इत्युपादेयाः । विरुद्धधर्मवत्व मूलतर्कास्तदपोदिततया श्रुत्यननुग्राहकाः शुष्कतर्का उपेक्षणीया इति चेन्न । त्वदभिमतजीवेशाभेदश्रुतीनां हि स्वरूपातिरिक्ता भेदपरत्वेऽद्वैतहानेः । स्वरूपाभिन्नाभेदपरत्वे स्वरूपस्य नित्यसिद्धत्वेनोपदेशवैयर्थ्यम् । स्वरूपज्ञानस्य भेदज्ञानाविरोधाच्च । कर्तृत्वादिधर्माणां मिथ्यात्वे तद्बोधकश्रुतीनामप्रामाण्यापत्तेः । तर्कहतानां व्यावहारिकत्वस्य व्यावहारिकाणामव्यवस्थायाश्च त्वयानङ्गीकारेण कर्तृत्वादेर्व्यावहारिकत्वस्यापि हान्यापत्तेः श्रुतौ ब्रह्मणोऽवरत्वादिनिर्देशस्तु तस्यावरत्वादोर्नियामकत्वाद्व्यापकत्वाच्चोपपद्यते । 'सर्वं समाप्नोषि ततोऽसि सर्व' इत्यादिस्मृत्यनुसारात् । अतो जीवेश भेदश्रुत्यनुग्राहकाः विरुद्धधर्मवत्वादितर्का: सत्तर्कास्तद्गोचरत्वं ब्रह्मणः स्वीक्रियते । जीवेशा भेदश्रुत्यनुग्राहकास्तर्काः प्रत्यक्षविरुद्धधर्मसमावेशोपपादकैश्वर्यविरुद्धाश्चासत्तर्काः ।
मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम्
वनमालिकृतं भाति जन्मादिन्यायवर्णनम् ॥ १ ॥