गीता

गीता

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ।। ३३ ।।

तात्पर्यम्

सर्वं कर्माखिलमासमन्तादल्पं ज्ञाने परिसमाप्यते । ज्ञाने जाते पूर्यते ।

समाप्तविद्यान्धनुषि श्रेष्ठान् यान् सप्त मन्यसे ।’

इतिवत्समाप्तिशब्दोऽत्र पूर्तिवाची । ज्ञानासिनाऽऽत्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठेति’ पुनर्योगकथनात् ।। ३३ ।।

प्रकाशिका

दैवमित्यादेरेव बहुविधा यज्ञा वितता इत्यस्यार्थमाह ।। दैवं विष्णुमित्यादिना ।। न च ‘‘सर्वं कर्मे’’त्येतत् ज्ञानिनः कर्मनिवृत्तिं वक्ति । ज्ञाने परिसमाप्यते इति ज्ञाने सति कर्म संपूर्यन्त इत्यर्थोपपत्तेः । सर्व बहुलं खिलमल्पं वा कर्म ज्ञानेन सम्पूर्णफलं भवति इत्यर्थः ।। समाप्तिशब्दश्च सम्पूर्तौ दृष्ट इत्याह ।। समाप्तेति ।। धनुषि धनुर्विषये समाप्तविद्यान् कृष्णयुधिष्ठिरभीमार्जुननकुलसहदेवसात्यकीन् यान् सप्त मन्यसे इति धृतराष्ट्रं प्रति सञ्जयवचनमुद्योगपर्वगतम् ।। ज्ञानिना कर्मानुष्ठेयमित्येतदध्यायशेषेण दर्शयति ।। ज्ञानासिनेति

‘‘तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः ।

छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ।’’

इति ज्ञानिनः पुनः कर्म विधीयते । न हि ज्ञानाभावे ज्ञानासिना संशयच्छेदो युज्यत इत्यर्थः

।। ३३ ।।

न्यायदीपिका

द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञस्योत्तमत्वे हेतुरुच्यते ।। सर्वमिति ।। तत्र सर्वाखिलशब्दयोरेकार्थत्वप्रतीतेर्ज्ञानानन्तरं कर्म नास्तीत्यन्यथाप्रतीतेश्च निरासायाह ।। सर्वमिति ।। पूर्यते सफलं भवतीत्याशयः । समाप्तिशब्दस्य पूर्तिवाचित्वादर्शनात्कथमत्र पूर्तिवाचित्वमित्यत आह ।। समाप्तेति ।। धनुर्विद्याविषये संपूर्णविद्यान् कृष्णसात्यकियुक्तपञ्चपाण्डवान् सप्त श्रेष्ठान् मन्यस इत्युद्योगपर्वणि धृतराष्ट्रं प्रति सञ्जयवचनम् । अस्तु पूर्तावपि समाप्तिशब्दप्रयोगः । तथाप्यत्र पूर्तिवाचित्वं कुतः प्रतीतार्थ एव किं न स्यादित्यत आह ।। ज्ञानेति ।। पुनर्योगकथनाज्ज्ञानानन्तरमपि कर्मानुष्ठानकथनात् ।। ३३ ।।

किरणावली

पूर्यत इत्यस्यालंबुद्धिविषयो भवति ततः परं कर्म न कर्तव्यमिति प्रतीयते । सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचका इत्यभिधानस्य पठितत्वादत आह ।। सफलं भवतीत्याशय इति ।। ३३ ।।

भावदीपः

धनुषीत्येतद्विषयसप्तमी विद्योपलक्षणमिति भावेनाह ।। धनुर्विद्याविषय इति ।। प्रतीत एवार्थ इति ।। ज्ञानानन्तरं कर्म नैवेत्येवं रूपः ।। ३३ ।।

भावप्रकाशः

प्रागल्पस्य कर्मणो ज्ञानानन्तरं पूर्त्यभावादाह । सफलं भवतीति ।। पूर्तिशब्दस्य सफलत्ववाचकत्वादित्याशय इत्युक्तमिति भावः । संपूर्णविद्यानिति । अत्र समाप्तिशब्दस्य निवृत्तिवाचित्वस्य बाधितत्वादिति भावः ।। ३३ ।।

Load More