तात्पर्यम्

भगवतः कालपरिमाणगुणानन्त्यम्

तात्पर्यम्

द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । ‘नान्तं न मध्यम्’ इत्युक्तत्वात् पुनः ‘अनादिमध्यान्तम्’ इति गुणानन्त्यापेक्षया । ‘त्वया ततं विश्वमनन्तरूप’ इति कालापेक्षया । स्वयमन्तं विद्यमानमपि न पश्यतीत्याशङ्क्य ‘त्वया ततं विश्वम्’ इत्याह । अन्यत् तात्पर्यज्ञापनायाभ्यासरूपम् । ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति ‘सर्वं खल्विदं ब्रह्म’ इत्यादिषु सर्वशब्दव्याख्यानरूपम् ।