गीता

अस्वातन्त्र्यज्ञानेन संहारे न दोषलेपः

गीता

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।

हत्वापि स इमाल्लोकान्न हन्ति न निबध्यते ।। १७ ।।

तात्पर्यम्

स्वातन्त्र्यमीश्वरे वेत्ति नैवाऽत्मनि कदाचन ।

ईश्वराधीनमेवाऽत्मन् स्वातन्त्र्यं तु जडान् प्रति ।

तारतम्येन लक्ष्म्यादेर्जीवान् प्रति च सर्वशः ।

यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः ।

हत्वाऽपि स इमान् लोकान् न हन्ति न निबद्ध्यते ।

अज्ञस्तदर्थं जातोऽपि बद्ध्यते दैत्यवद् ध्रुवम् ।

अपरोक्षदृङ् न जातो यस्तदर्थं मुक्तिगं सुखम् ।

ह्रसेत् तस्य परोक्षज्ञः किञ्चिद् दोषेण लिप्यते’ इति च ।

अस्वातन्त्र्यज्ञानाद्धन्मीति भावोऽप्यस्य नास्तीति न हन्ति । अन्यस्य भावोऽस्तीति विशेषः । ‘बुद्धिर्यस्य न लिप्यते’ इति । रागान्न हन्ति, किन्तु धर्मबुद्ध्या ।

स्वातन्त्र्यं मन्यमानस्य रागाद् धर्मं च कुर्वतः ।

तन्निमित्तस्तु दोषः स्याद् गुणश्च स्यात् सुकर्मजः’ इति च ।। १७ ।।

प्रकाशिका

‘‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।।

 हत्वापि स इमान् लोकान् न हन्ति न निबध्यत’’

इत्यस्यार्थमाह ।। स्वातन्त्र्यमित्यादिना ।। लक्ष्म्यादेः स्वातन्त्र्यं वेत्तीत्यनुषञ्जनीयम् ।। अपरोक्षदृक् लोकहननार्थं न प्रजातो यो लोकान् हन्ति तस्य मुक्तिगं सुखं ह्रसेत् परोक्षज्ञः लोकहननार्थमजातोऽपि लोकान् यो हन्ति सः किञ्चिद्दोषेण लिप्यत इत्यर्थः ।। १७ ।।

न्यायदीपिका

तज्ज्ञानं स्तूयते ।। यस्येति । एतच्च सर्वानहंकारादिमतां सममित्यन्यथाप्रतीतिनिरासाय वचनान्तरेणैव व्याचष्टे ।। स्वातन्त्र्यमिति ।। आत्मन् आत्मनि । लक्ष्म्यादेश्च स्वातन्त्र्यं वेत्तीत्यनुषज्यते । तदर्थं लोकहननार्थम् । तदर्थं जातत्वेनैवालं किमीश्वरस्वातन्त्र्यादिज्ञानेनेत्यत आह ।। अज्ञ इति ।। लोकान्हन्ति चेदिति शेषः । तर्हि ज्ञानेनैवालं, किं तदर्थं जातत्वेनेत्यतः परोक्षापरोक्षज्ञानिनोरपि तदर्थमजातयोर्लोकहनने विभागेन बाधकमाह ।। अपरोक्षेति ।। परोक्षज्ञस्तदर्थमजातो यदि लोकान्हन्ति तर्हि किंचिद्दोषेण लिप्यत इत्यर्थः । अपरोक्षेत्युक्तया ज्ञानं चापरोक्षमपेक्षितमिति सूचितम् । परोक्षज्ञानेन तदर्थं जातत्वेनैवालं किमपरोक्षज्ञानेनेत्यतो वाऽऽह ।। परोक्षेति ।। अत्र तदर्थं जात इति ग्राह्यम् । ननु सर्वेषामप्यस्वतन्त्रत्वेनाहंतृत्वादस्यैव न हन्तीति किं विशिष्योच्यत इत्यत आह ।। अस्वातन्त्र्येति ।। भावोऽस्य नास्तीत्यन्यस्य भावोऽस्तीति हेतोर्न हन्तीति विशेषो युक्त इति योज्यम् । न हन्तीत्युच्यत इत्यतो न पौनरुक्तयम् । ननु बुद्धेरलोपो नाम स्वातन्त्र्याभिमानपरित्यागः । अतः पुनरुक्तिरित्यत आह ।। बुद्धिरिति ।। भवेदेवम् । यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यत इत्यनयोरर्थभेदो यदि स्वातन्त्र्याभिमानफलरागयोरुभयोरपि बन्धकत्वं स्यात् । तदेव कुत इत्यत आह ।। स्वातन्त्र्यमिति ।। १७ ।।

किरणावली

तज्ज्ञानं स्तूयत इति ।। स्वातन्त्र्येण जीवस्य कर्तृत्वनिन्दार्थवादपरे वाक्ये केवलं स्वातन्त्र्येण क्रियारहितमिति यत्स्वातन्त्र्येण क्रियाराहित्यमुक्तं तज्ज्ञानं स्तूयत इत्यर्थः ।। एतच्चेति ।। न हन्ति न निबध्यत इति क्रियमाणं स्तवनमित्यर्थः । अनहंकारादीत्यादिपदेन बुद्धिलेपाभावो गृह्यते । सर्वेच तेऽनहंकारादिमन्तश्चेति विग्रहः । स्वातन्त्र्यमित्यादिमूले यस्य नाहं कृतो भाव इत्यत्र क्वचिद्भावो मनः स्मृत इत्युक्तत्वाद्यस्य भावो नाहं कृतः स्वातन्त्र्याभिमानात्मना न परिणतम् । यद्वा भावो ज्ञानं भवतेरनुभवार्थत्वान्न भावोऽनुपलब्धेरिति प्रयोगाच्च नाहंकृतः । अहं स्वतन्त्र इत्यविद्यमानस्वातन्त्र्यविषयकं न भवतीत्यर्थमभिप्रेत्य स्वातन्त्र्यमीश्वरे वेतीत्याद्युक्तम् । तत्र यो भीमार्जुनादिरीश्वरे स्वातन्त्र्यं वेत्ति नैवात्मनि स्वातन्त्र्यं वेत्ति । आत्मनीश्वराधीनं स्वातन्त्र्यं वेत्ति लक्ष्म्यादेश्च स्वातन्त्र्यं वेत्ति । तदर्थं समुत्पन्नश्च स हत्वापीत्यर्थः । तत्र दृष्टान्तमाह । यथारुद्रो यथायम इति । जीवस्य स्वातन्त्र्याभावे कथं घटादिकर्तृत्वं स्वतन्त्रः खलु कर्तेत्यतः उक्तमीश्वराधीनमेवेति स्वातन्त्र्यमीश्वराधीनमिति व्याहतं परानपेक्षत्वस्यैव स्वातन्त्र्यपदार्थत्वादिति चेन्न । स्वेच्छानुसारित्वस्य स्वातन्त्र्यपदार्थत्वादिच्छाया भगवन्नियतत्वेऽपि जीवानां जडान्प्रति स्वेच्छानुसारेण प्रवृत्त्यविरोधात् । क्रियाज्ञाने प्रति कारकान्तराप्रकरणादिकारकान्तरा प्रयोज्यतया तत्प्रेरकतया योज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं चेश्वरायत्तमात्मनि स्वतो विद्यत एवेति सुधोक्तेर्नैवात्मनीति निषिद्धं स्वातन्त्र्यं तु अपरायत्तत्वरूपमित्यवगन्तव्यम् । सर्वशः सर्वान् । अज्ञस्तदर्थं जात इत्यस्याज्ञो दुर्योधनादिस्तदर्थं जातोऽपि लोकान्हन्ति चेद्दैत्यवत्प्रलयकाले जगत्संहारार्थमुत्पन्नक्रोधवशादिदैत्यवद्वध्यत इत्यर्थः । तथा च भागवते अन्ते त्वधर्महरमन्युवशा सुराद्या मायाविभूतय इमाः पुरुशक्तिभाज इति । परोक्षज्ञस्तदर्थमजातोऽपि यदि लोकान्हन्ति अपरोक्षदृङ्न जातो यस्तदर्थमित्यत्रापि लोकान्हन्तीति पदद्वयाध्याहारेण परोक्षदृक् तदर्थमजातोपि लोकान्हन्ति तस्येति योजनां सिद्धवत्कृत्यपरोक्षज्ञ इत्यत्र बहूनां पदानामपेक्षितत्वात्तत्संयोजनेन व्याख्याति ।। परोक्षज्ञ इति ।। प्रकारान्तरेणावतारयितुं तदपेक्षकमाह ।। अपरोक्षेत्युक्त्येति ।। अपरोक्षदृगित्यत्रापरोक्षे इत्युक्त्येत्यर्थः।। ज्ञानंचेति ।। स्वातन्त्र्यमीश्वरे वेत्तीत्यादिनोक्तस्वातन्त्र्यादिज्ञानमित्यर्थः ।। परोक्षज्ञानेन तदर्थं जातत्वेनैवालमिति ।। हत्वापि स इमां ल्लोकान्न हन्ति न निबध्यत इत्युक्ताबन्धायेति शेषः ।।

अत्रेति ।। तदर्थं जात इत्येतावन्मात्रं ग्राह्यमित्यर्थः । अस्यां योजनायां परोक्षज्ञस्तदर्थं जातः किञ्चिद्दोषेण लिप्यतेऽतः परोक्षज्ञानित्वमात्रं नालमिति वाक्यपर्यवसानान्न पदान्तराध्याहार इति भावः ।। भावोऽस्य नास्तीत्यन्यस्य भावोऽस्तीति हेतोरिति ।। नास्तीति हेतोरस्तीति हेतोरिति प्रत्येकं सम्बन्धः । अस्तीत्यतः परं न हन्तीतिपदं सम्बध्येति शब्दानुवृत्त्या व्याचष्टे ।। न हन्तीति विशेषो युक्त इति योज्यमिति ।। ननु नहन्तीत्यस्य हन्तीति भावं न करोतीत्यर्थकत्वे यस्य नाहं कृतोभाव इत्यनेन पुनरुक्तिरित्यत आह ।। न हन्तीत्युच्यत इत्यतो न पौनरुक्तयमिति ।। ननु बुद्धेरलोपो नामेति ।। मनोबुद्धिरहङ्कार इत्युक्तान्तःकरणविशेषबुद्धेरित्यर्थः । निश्चयरूपज्ञानस्येति च । बुद्धिर्यस्य न लिप्यत इति रागान्न हन्ति किन्तु धर्मबुद्ध्येति मूले इतीत्यतः परं वाक्यस्येति शेषः । धर्मबुद्ध्येत्यतः परं हन्तीति भाव इति शेषः । तथा च बुद्धिर्यस्य न लिप्यते हत्वापि स इमाल्लोकान्न हन्तीति वाक्यस्य यस्य बुद्धिः फलरागान्न लिप्यते स इमां लोकान्हत्वापि नहन्त्यतो न निबध्यते । न च व्याहतिः । न हन्तीत्यस्य रागान्न हन्तीति हत्वापीत्यस्य धर्मबुद्ध्येत्यर्थस्य विवक्षितत्वादित्यर्थः । स्वातन्त्र्यं मन्यमानस्येति मूलवाक्यस्य धर्मकरणे स्वस्य स्वातन्त्र्यं मन्यमानस्य फलरागाच्च धर्मं कुर्वतस्तन्निमित्तः स्वातन्त्र्याभिमान रागनिमित्तको दोषः स्यात् । स्वातन्त्र्याभिमाननिमित्तको नरकादि रागनिमित्तको गतागतादिश्च दोषः स्यात् । गतागतं कामकामा लभन्त इति वचनात् । स्वकर्मजः स्ववर्णाश्रमविहितकर्मजो गुणः स्वर्गादिश्च स्यादित्यर्थः । ननु स्वातन्त्र्याभिमानिनः कर्तुः कथं गुणप्राप्तिर्मिथ्याज्ञानस्य सर्वगुणोपमर्दकत्वादिति चेन्न । राजादेरिव भगवत उत्कर्षं ज्ञात्वाऽऽद्यन्तकाले सङ्कल्पसमर्पणपूर्वकं कर्मकर्तृत्वेपि स्वस्य स्वातन्त्र्याभिमानिनोऽत्र विवक्षितत्वात् । न हि राज्ञ उत्कर्षं जानन्नपि स्वस्य सत्ताप्रतीतिप्रवृत्त्यादौ राजाधीनत्वं मन्यते ।। १७ ।।

भावदीपः

तज्ज्ञानं स्तूयत इति ।। स्वात्मनोक्तकर्तृत्वज्ञानमित्यर्थः । मूले इत्यन्तेन न हन्तीत्यस्य हन्मीति भावं न करोतीत्यर्थमुपेत्य पौनरुक्तयमाशङ्क्योच्यत इति शेषपूरणेन तन्निराह ।। न हन्तीत्युच्यत इत्यत इति ।। पुनरुक्तिरिति ।। नाहंकृतो भाव इत्यनेनेति योज्यम् ।। १७ ।।

भावप्रकाशः

तद्ज्ञानं स्तूयत इति । स्वात्मनो निष्क्रियत्वज्ञानं स्तूयत इत्यर्थः ।। इति योज्यमिति ।। नहंतीत्येतत्पदं भावोस्तीत्यनन्तरं सम्बन्ध्येति शब्दाध्याहारेण योज्यमित्यर्थः ।। ननु नहन्तीत्यस्यहन्मीति भावं न करोतीत्यर्थकत्वे यस्य नाहंकृतो भाव इत्यनेन पुनरुक्तिः स्यादित्यत आह । नहन्तीत्युच्यत इतीति ।। १७ ।।

वाक्यविवेक

ननु यस्य नाहंकृतो भाव इत्यनेनहन्मीति भावो नास्तीत्यभिधानात् न हन्तीत्यस्यापि तदर्थकत्वे पौनरुक्तयं स्यादित्यत आह । न हन्तीत्युच्यत इति । न पुनरुक्तिरिति । यस्य नाहङ्कृतो भाव इत्यनेन न पुनरुक्तिरित्यर्थः ।। १७ ।।