गीता

परमात्मनो रूपेषु मुग्धदृष्ट्या परावरविभेदः

गीता

संजय उवाच—

इत्यर्जुनं वासुदेवस्तथोक्त्वा

  स्वकं रूपं दर्शयामास भूयः ।

आश्वासयामास च भीतमेनं

  भूत्वा पुनः सौम्यवपुर्महात्मा ।। ५० ।।

तात्पर्यम्

स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । एतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा ‘द्रष्टुमिच्छामि ते रूपम्’ इति विरुद्धं स्यात् ।

परावरविभेदस्तु मुग्धदृष्टिमपेक्ष्य तु ।

प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः ।

अन्यथा न विशेषोऽस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया’ इति च ।। ५० ।।

प्रकाशिका

स्वकं रूपं दर्शयेत्यत्र स्वकशब्दं व्याचष्टे ।। स्वकमिति ।। ५० ।।

न्यायदीपिका

स्वकं रूपं दर्शयामासेति कृष्णरूपस्य विशिष्य स्वीयत्वोक्तेः यदुक्तं विश्वरूपस्य साक्षादीश्वरस्वरूपत्वं तदयुक्तमित्यत आह ।। स्ववदिति ।। नात्र स्वकशब्देन कृष्णरूपस्य स्वकीयत्वमुच्यते । येन विश्वरूपस्य स्वकीयत्वं न स्यात् । किं तु स्ववत् स्वकीयवत्क्रियते प्रदर्श्यत इति व्युत्पत्त्या स्वकीयतया प्रदर्शनीयत्वमेवेत्यर्थः । ननूभयोरपि भगवदीयतया प्रदर्श्यमानत्वात्कृष्णरूपस्यैव कुतो विशेषोक्तिरित्यत आह ।। विश्वरूपमिति ।। सत्यमुभयं रूपं भगवदीयतया प्रदर्श्यत इति किं तु ज्ञानिनामेव । अज्ञानिनां तु कृष्णरूपमेव भगवदीयतया प्रदर्श्यते । न तु विश्वरूपमतोऽज्ञविवक्षया विशेषोक्तिर्युक्तेति भावः । अत एवाल्पज्ञानिविवक्षया स्ववदित्युक्तम् । किमर्थमेवं व्याख्येयं विश्वरूपं भगवदीयमेव किं न स्यादित्यत आह ।। अन्यथेति ।। कृष्णरूपविश्वरूपयोः स्वकीयत्वास्वकीयत्वप्रतीतिनिराकरणप्रसङ्गेन परमं रूपं दर्शयामासेति विश्वरूपस्य परत्वोक्तया कृष्णरूपस्यापरत्वं स्मृत्यैव निराकरोति ।। परेति ।। अन्यथा स्वभावतः ।। तर्हि विश्वरूप एव परत्वं विदुषामपि कथं दृश्यत इत्यत आह ।। व्यक्तिरिति ।। विश्वरूपे परत्वव्यक्तिर्नावताररूपेषु । अतस्तथा दृष्टिर्युक्तेति भावः । इयं च व्यक्तिरल्पज्ञानिविवक्षयोच्यते । न तु ब्रह्मादिमहाज्ञानिविवक्षया । तेषां कृष्णादावपि परत्वस्य प्रतीतेरित्याह ।। अज्ञेति ।। ५० ।।

किरणावली

यदुक्तं विश्वरूपस्येति ।। अध्यायोपक्रमे भगवत्पादैरुक्तमित्यर्थः । नन्वेतदज्ञानामपि तथैव दर्शयतीत्यत्रैतत्कृष्णरूपमेवाज्ञानां तथैव स्वकीयरूपवन्मूलभूतस्वरूपवल्लक्षणयुक्ततया प्रदर्शयतीत्ययुक्तमज्ञानां प्रदर्शयतीत्यस्य व्याहतत्वादित्यत आह ।। अत एवेति ।। प्रदर्शयतीत्युक्तत्वादेवेत्यर्थः । यद्वा कृष्णरूपमात्रं तथा प्रदर्शयतीत्युक्तत्वादेवाल्पस्वे निःस्वप्रयोगदर्शनादनुदरा कन्येतिवच्चाज्ञशब्दस्याल्पज्ञानिविवक्षया प्रवृत्तत्वावगमादल्पज्ञानिविवक्षया स्ववत्क्रियते । प्रदर्श्यत इत्युक्तमिति भावः । अन्यथा ‘‘द्रष्टुमिच्छामि ते रूपमि’’त्यादिविरुद्धं स्यादिति मूलस्य विश्वरूपस्याभगवदीयत्वे द्रष्टुमिच्छामि ते रूपमिति भगवन्तं प्रत्युक्तिर्न स्यादैश्वरमिति साक्षादीश्वरीयत्वाद्युक्तययोगाच्चेत्यर्थः ।

ननु स्वकं रूपमिति ग्रन्थापेक्षया परं रूपमिति ग्रन्थस्य पूर्वभावित्वात्स्वकमित्यतः परं व्याख्याने किं निमित्तमित्याशङ्कां परिहरन्नन्यथा प्रतीतिं दर्शयन्नवतारयति ।। कृष्णरूपविश्वरूपयोरिति ।। विश्वरूपस्याभगवदीयत्वे मे परं रूपं दर्शितमिति पूर्वग्रन्थोऽयुक्तः स्यादिति सूचनाय तत्प्रसङ्गेनेत्यर्थः ।। स्मृत्यैवेति ।। विश्वरूपं (प्रथमत) भगवत इति पूर्वोदाहृतब्रह्माण्डपुराणवचनेनेत्यर्थः । मूले परापरविभेदस्त्वित्यस्य परापरविभेदोऽपीत्यर्थः । न केवलं स्वकीयत्वास्वकीयत्वविभेदोऽज्ञदृष्टिमपेक्ष्य परापरविभेदोऽपीति तद्ग्रन्थे प्रकृते न समुच्चय इति भावः । मुग्धा मूढा अज्ञास्तद्दृष्टिमपेक्ष्य तु । अपेक्ष्यैवेत्यर्थः ।। विश्वरूप एव परत्वं विदुषामपीति ।। रूपं महत्ते बहुवक्त्रनेत्रमित्यादिनोक्तं कृष्णरूपात्परत्वमित्यर्थः । व्यक्तिर्हीति मूले हिशब्दो यस्मादित्यर्थः । विश्वरूपे परत्वस्येति शेषः । अत इति लभ्यत इति भावेनाह ।। विश्वरूप इति ।। इयं च व्यक्तिरिति ।। विश्वरूप एव परत्वस्य व्यक्तिर्नावताररूपेष्वित्यन्यत्र व्यावृत्ताव्यक्तिश्चेत्यर्थः ।। ५० ।।

भावप्रकाशः

यदुक्तमिति । आत्मानमव्ययमित्यादि चैतदध्यायस्यादावेत्यर्थः ।। भगवदीयमेव किं न स्यादिति । यद्यपि एषा शङ्केतदध्यायादावेव परिहृता तथापि स्वकमिति विशेषणबलादत्रापि प्राप्ता प्रागुक्तबाधककथनेनैव परिह्रीयत इत्यदोषः । अल्पज्ञानिविवक्षयेति । अनुदरा कन्येति दर्शनात् यथाऽल्पस्वो निस्व इत्युच्यते जनैरित्यभिधानाच्चाज्ञेत्यत्रत्यनञोऽल्पत्वमेवार्थ इति भावः ।। ५० ।।