एन्द्र सानसिं रयिं सजत्वानं सदा सहम् ॥ वर्षिष्ठमूतये भर
ऐन्द्रसूक्तम्
मण्डलम्—१.अध्यायः–१ .अनुवाकः–३. सूक्तम्– ८.
‘एन्द्रम्’ दशर्चम्, वैश्वामित्रो मधुच्छन्दाः ऋषिः, गायत्री च्छन्दः (१,५,८ निचृत्, २ प्रतिष्ठा, १० वर्धमाना) इन्द्रोदेवता
निचृद् गायत्री
एन्द्र सानसिं रयिं सजत्वानं सदा सहम् ॥ वर्षिष्ठमूतये भर ॥ १ ॥
(आ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् । सदाऽसहम् ॥ वर्षिष्ठम् । ऊतये । भर ॥ १ ॥)
जयिना सहितं लाभयुक्तं वित्तं सदाबलम् । वर्षिष्ठं सुमहद्रक्षानिमित्तं नित्यदा भर ॥ २१६ ॥ १ ॥
विराड् गायत्री
नियेन मुष्टिहत्यया नि वृत्रा रुणधामहै ॥ त्वोतासो न्यर्वता ॥ २ ॥
(नि । येन । मुष्टिऽहत्यया । नि । वृत्रा । रुणधामहै ॥ त्वाऽऊतासः । नि । अर्वता ॥ २ ॥)
येनारीन् मुष्टियुद्धेन तमांसि ज्ञानयुद्धतः । त्वत्प्रेरिता निरुन्धामः कांश्चिद्वा तुरगादिभिः ॥
आवृत्त्यैवोपसर्गस्य क्रियाऽऽवृत्तिर्भविष्यति ॥२१७॥२ ॥
इन्द्र त्वोतास आ वयं वज्रङ्घना ददीमहि ॥ जयेम संयुधि स्पृधः ॥ ३ ॥
(इन्द्र । त्वाऽऊतासः । आ । वयम् । वज्रम् । घना । ददीमहि ॥ जयेम । सम् । युधि । स्पृधः ॥ ३ ॥)
त्वत्प्रेरिता ज्ञानरतिं दृढत्वेनाऽददीमहि ॥ ३ ॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ॥ सासह्याम पृतन्यतः ॥ ४ ॥
(वयम् । शूरेभिः । अस्तृऽभिः । इन्द्र । त्वया । युजा । वयम् ॥ ससह्याम । पृतन्यतः ॥ ४ ॥)
त्वया पृतन्यतः शत्रूनभिष्याम सुयोद्धृभिः ॥२१८॥४ ॥
महा इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ॥ द्यौर्न प्रथिना शवः ॥ ५, १५ ॥
(महान् । इन्द्रः । पर । च । नु । महिऽत्वम् । अस्तु । वज्रिणे ॥ द्यौः । न । प्रथिना । शवः ॥ ५, १५ ॥)
यस्मान्महाननादिश्च विष्णुर्जीवोऽवरस्तथा । तस्यैवास्तु महत्त्वं तन्न जीवब्रह्मतां स्मरेत् ।
आकाशवत् प्रथिम्नाऽसौ शवः सुखबले तथा ॥ २१९॥५॥
(७६) समोहे वाय आशत नरस्तोकस्य सनितौ ॥ विप्रासो वा धियायवः ॥ ६ ॥
अन्यसंवहनेनापि ये तं प्राप्ता जनार्दनम् । ज्ञानलाभेन तु नरस्त एव पशवो परे । विप्राश्चैव धिया युक्ता मूर्खाः शूद्रसमा मताः॥२२०॥६॥
यः कुक्षिस्सोमपातमस्समुद्र इव पिन्वते ॥ उर्वीरापो न काकुदः ॥ ७ ॥
(यः । कुक्षिः । सोमऽपातमः । समुद्रःऽइव । पिन्वते ॥ उर्वीः । आपः । न । काकुदः ॥ ७ ॥)
यः कुक्षिस्तस्य देवस्य समुद्र इव सोऽखिलान् । कामान् क्षरति भक्ताय महाप इव तर्पकाः ॥ काकुदस्तस्य जिह्वास्तु बह्व्यो बहुमुखेषु याः ॥२२१॥७ ॥
निचृद् गायत्री
एवा ह्यस्य सूनृता विरप्शी गोमती मही ॥ पक्वा शाखा न दाशुषे ॥ ८ ॥
(एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही ॥ पक्वा । शाखा । न । दाशुषे ॥ ८ ॥)
एवमेवास्य वाणी च वेदेता महती तथा । पक्वा शाखेव यजते वरदात्री विरप्शिनः ॥ २२२॥ बलिष्ठस्य हि ते ................. ॥ ८ ॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ॥ सद्यश्चित् सन्ति दाशुषे ॥ ९ ॥
(एव । हि । ते । विऽभूतयः । ऊतयः । इन्द्र । मावते ॥ सद्यः । चित् । सन्ति । दाशुषे ॥ ९ ॥)
............सन्ति सद्योऽपि यजते हि ते । मावते ज्ञानिने नित्यमूतयश्च विभूतयः ॥ २२३॥९ ॥
एवा ह्यस्य काम्यास्तोम उक्थं च शंस्या ॥ इन्द्राय सोमपीतये ॥ १०, १६, ८ ॥
(एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥ १०, १६, ८ ॥)
स्तोमा उक्थानि चैवास्य तस्मै काम्यानि सर्वदा । गेयाः शंस्यानि सोमस्य पीतये नान्यथा पिबेत् ॥ २२४ ॥ १० ॥
॥ इति अष्टमं सूक्तम् ॥