नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्
ऋग्भाष्यम्
प्रथमोध्यायः
मङ्गलमाचरणम्
नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम् ।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १ ॥
ओमशेषगुणाधार इति नारायणोऽप्यसौ ।
पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः ॥ २ ॥
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः ।
भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः ॥
प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः ॥ ३ ॥
स पूर्णत्वात् पुमान्नाम पौरुषे सूक्त ईरितः ।
स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ॥ ४ ॥
स एव सर्वशब्दार्थः इत्याहोपनिषत् परा ।
‘ता वा एता ऋचः’ इति विशेषेणाप्यृगर्थताम् ॥ ५ ॥
‘यो देवानाम्’ इति श्रुत्या देवनाम्नां विशेषतः । स्पष्टत्वात् तद्गतत्वेन
तत्राहाग्रेऽग्निनामकम् ॥ ६॥
अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् ।
एवमेवाह भगवान्निरुक्तिं बादरायणः ॥ ७ ॥
(ऋग्भाष्यम्) यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने ।
तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ॥ ८ ॥