इन्द्र सोमम्पिब ऋतुना त्वा विशन्त्विन्दवः ॥ मत्सरासस्तदोकसः
ऋतुसूक्तम्
मण्डलम् -१अध्यायः–१.अनुवाकः–४. सूक्तम्–१५
(इन्द्रसोमं द्वादशर्चम्, मेधातिथिः काण्वः, गायत्री) (पिपीलिकामध्या निचृद् गायत्री) ऋतवः(कालाभिमानिदेवताः, इन्द्रश्च देवताः
इन्द्र सोमम्पिब ऋतुना त्वा विशन्त्विन्दवः ॥ मत्सरासस्तदोकसः ॥ १ ॥
(इन्द्र । सोमम् । पिब । ऋतुना । आ । त्वा । विशन्तु । इन्दवः ॥ मत्सरासः । तत्ऽओकसः ॥ १ ॥)
ऋतुर्मार्गस्तु नेतृत्वान्नेष्टाऽग्निर्हरिरेव वा । ईष्टे न कश्चिदस्येति ग्ना नद्यश्च समीरिताः ॥ गतिशीलत्वतो ग्नास्ता ज्ञातृनेतृत्वतो हरिः ॥२९९॥
गमनान्नयनाद्वा ग्ना ..............
....................ऋतुपात्रमृतुस्तथा । सोमास्तदोकसः प्रोक्ता ऋतुपात्रस्थिता यतः ॥३००॥
पत्नीनेतृत्वतो नेष्टा नेष्टर्त्विक् सम्प्रकीर्तितः ।
ज्ञापयन्ति स्वलिङ्गानीत्यृतवः ष प्रकीर्तिताः ॥३०१॥
पावनाच्चैव पोतारो मरुतः पोतृदेवताः । अग्निस्तु देवतानेष्ठुस्त्वष्टेन्द्रो विष्णुरेव वा ॥ ३०२॥१,२,३ ॥
(भुरिक् गायत्री) ऋतवः, मरुतश्च देवताः
मरुतः पिबत ऋतुना पोत्राद्यज्ञम्पुनीतन ॥ यूयं हिष्ठा सुदानवः ॥ २ ॥
(मरुतः । पिबत । ऋतुना । पोत्रात् । यज्ञम् । पुनीतन ॥ यूयम् । हि । स्थ । सुऽदानवः ॥ २ ॥)
ऋतवः, नेष्टा च (विष्णुः, इन्द्रः, अग्निः, त्वष्टा च)देवताः
अभि यज्ञङ्गृृणीहि नोऽग्नावो नेष्टः पिब ऋतुना ॥ त्वं हि रत्नधा असि ॥ ३ ॥
(अभि । यज्ञम् । गृणीहि । नः । ग्नावः । नेष्टरिति । पिब । ऋतुना ॥ त्वम् । हि । रत्नऽधाः । असि ॥)
(भुरिग् गायत्री) ऋतवः, अग्निश्च देवताः
अग्ने देवा इहावह सादया योनिषु त्रिषु ॥ परि भूष पिब ऋतुना ॥ ४ ॥
(अग्ने । देवान् । इह । आ । वह । सादय । योनिषु । त्रिषु ॥ परि । भूष । पिब । ऋतुना ॥ ४ ॥)
वेद्युत्तरासदश्चैव प्राग्वंशो योनयः स्मृताः । भूष भूषय नो यज्ञम् ........ ॥ ४ ॥
ऋतवः, इन्द्रश्च देवताः
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूरनु ॥ तवेद्धि सख्यमस्तृतम् ॥ ५ ॥
(ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इत् । हि । सख्यम् । अस्तृतम् ॥ ५ ॥)
..................ब्राह्मणाच्छंसिपात्रतः । पिबेन्द्र नो राधसोऽर्थे त्वामनु त्वृतुदेवताः ॥३०३॥
स्तृतं छिन्नमिति प्रोक्तम् .......... ॥ ५ ॥
ऋतवः, मित्रावरुणौ च देवताः
युवन्दक्षन्धृतव्रतमित्रावरुणदूभम् ॥ ऋतुना यज्ञमाशाथे ॥ ६, २८ ॥
(युवम् । दक्षम् । धृतऽव्रता । मित्रावरुणा । दुःऽदभम् ॥ ऋतुना । यज्ञम् । अशाथे इति ॥ ६, २८ ॥)
.............अस्तभ्यं दुर्दभं स्मृतम् । दक्षाख्यं यजमानं चापीशाथे यज्ञमेव च । सोमं पीत्वर्तुपात्रेण सहवा तेन चर्तुना ॥ ६, २८ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥ यज्ञेषु देवमीते ॥ ७ ॥
(द्रविणःऽदाः । द्रविणसः । ग्रावऽहस्तासः । अध्वरे ॥ यज्ञेषु । देवम् । र्इते ॥ ७ ॥)
होता च होतृकाश्चैव द्रविणोदा द्रवीणसः । अग्निश्चैवाग्नयस्तेषां देवता विष्णुमीते ॥३०५॥ ७ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ॥ देवेषु ता वनामहे ॥ ८ ॥
(द्रविणःऽदाः । ददातु । नः । वसूनि । यानि । शृण्विरे ॥ देवेषु । ता । वनामहे ॥ ८ ॥)
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ॥ नेष्ट्रादृतुभिरिष्यत ॥ ९ ॥
(द्रविणःऽदाः । पिपीषति । जुहोत । प्र । च । तिष्ठत ॥ नेष्ट्रात् । ऋतुऽभिः । इष्यत ॥ ९ ॥)
पातुमिच्छति सोमं स सोमास्तस्मै प्रतिष्ठिताः । ऋतुपात्रैर्देवताभिः सहैवैनमभीप्सत ॥३०६॥ ९ ॥
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ॥ अध स्मानो ददिर्भव ॥ १० ॥
(यत् । त्वा । तुरीयम् । ऋतुऽभिः । द्रविणःऽदः । यजामहे ॥ अध । स्म । नः । ददिः । भव ॥ १० ॥)
चतुर्थवारमपि यत्त्वां यजामो ददिर्भव ॥ १० ॥
(पिपीलिकामध्या निचृद् गायत्री) - ऋतवः, अश्विनौ च देवते
अश्विना पिबतम्मधु दीद्यग्नी शुचिव्रता ॥ ऋतुना यज्ञवाहसा ॥ ११ ॥
(अश्विना । पिबतम् । मधु । दीद्यग्नी इति दीदिऽअग्नी । शुचिऽव्रता ॥ ऋतुना । यज्ञऽवाहसा ॥ ११ ॥)
.................दीद्यग्नी इति दीप्ताग्नी ॥ ११ ॥
(पिपीलिकामध्या निचृद् गायत्री) - ऋतवः, विष्णुः अग्निश्च देवताः
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ॥ देवान्देवय ते यज ॥ १२, २९, १५ ॥
(गार्हऽपत्येन । सन्त्य । ऋतुना । यज्ञऽनीः । असि ॥ देवान् । देवऽयते । यज ॥ १२, २९, १५ ॥)
...............सन्त्योऽग्निः सन्ततत्वतः ॥३०७॥
विष्णुर्वर्त्वधिपो विष्णुः केशवादिस्वरूपतः । ‘ग्रहान् सोमस्य मिमते’ इति तस्यैव कथ्यते ॥ गार्हपत्येन पात्रेण यजमानस्तु देवयन् ॥ ३०८॥
देवान्पातीति ............. ॥ १२, २९, १५ ॥
इति एकोनविंशो वर्गः – पञ्चदशं सूक्तम्