सोमानं स्वरणङ्कृणुहि ब्रह्मणस्पते ॥ कक्षीवन्तं य औशिजः

मण्डलम्–१.अध्यायः–१.अनुवाकः-५. सूक्तम् –१८.

सोमानं नवर्चम्, मेधातिथिः काण्वः ऋषिः, छन्दः– गायत्री,१ विरा,३-६-८ पिपीलिकामध्या निचृत्, ४ निचृत्,,५ पादनिचृत्, छन्दः । देवता–१-३ ब्रह्मणस्पतिः, ४ (सोमः) ब्रह्मणस्पतिरिन्द्रश्च, ५ बृहस्पतिः दक्षिणः, ६-८ सदसस्पतिः, ९ सदसस्पतिः नाराशंसो वा देवताः

विरा गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता

सोमानं स्वरणङ्कृणुहि ब्रह्मणस्पते ॥ कक्षीवन्तं य औशिजः ॥ १ ॥

(सोमानम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते ॥ कक्षीवन्तम् । यः । औशिजः ॥ १ ॥)

सौम्यं शब्दं कृणु त्वं नो विष्णो वायो सुवाक्पते । कक्षीवन्तं प्रति हि यो दत्तो यः स उशिक्सुतः । विवक्षितो मुनिः सोऽपि तस्मादर्थोऽपि मां प्रति ॥३१९ ॥ १ ॥

विरा गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता

यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ॥ सनस्सिषक्तु यस्तुरः ॥ २ ॥

(यः । रेवान् । यः । अमीवऽहा । वसुऽवित् । पुष्टिऽवर्धनः ॥ सः । नः । सिषक्तु । यः । तुरः ॥ २ ॥)

वित्तवान् रोेगहा ज्ञानवेत्ताऽस्माभिः सयुग् भवेत् । तुरो वेगाद्धरिर्वायुः ..................... ॥ २ ॥

पिपीलिकामध्या निचृद् गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता

मानश्शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ॥ रक्षाणो ब्रह्मणस्पते ॥ ३ ॥

(मा । नः । शंसः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ॥ रक्ष । नः । ब्रह्मणः । पते ॥ ३ ॥)

..................अररुचातिरोषणात् । तस्य धूर्तिर्वचो नोऽस्मान् पूरयेद्रक्ष नो हरे ॥३॥

निचृद् गायत्री - ब्रह्मणस्पतिः इन्द्रः सोमश्च देवताः

सघा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ॥ सोमो हिनोति मर्त्यम् ॥ ४ ॥

(सः । घ । वीरः । न । रिष्यति । यम् । इन्द्रः । ब्रह्मणः । पतिः ॥ सोमः । हिनोति । मर्त्यम् ॥ ४ ॥)

घेति हावधृतिश्चैव सोमः सौम्यत्वतो हरिः । उना मया च युक्तत्वादूमैर्युक्तत्वतोऽपि वा ॥३२१ ॥ अमः स इति वा ....................... ॥ ४ ॥

पादनिचृद् गायत्री - ब्रह्मणस्पतिः, सोमः, इन्द्रः, दक्षिणा च देवताः

त्वन्तम्ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ॥ दक्षिणा पात्वंहसः ॥ ५, ३४ ॥

(त्वम् । तम् । ब्रह्मणः । पते । सोमः । इन्द्रः । च । मर्त्यम् ॥ दक्षिणा । पातु । अंहसः ॥ ५, ३४ ॥)

.................साक्षाच्छ्रीर्दक्षेनेति तु दक्षिणा । दक्षिणा चतुरत्वाद्वा स्वयमेव जनार्दनः ॥ ५, ३४ ॥

पिपीलिकामध्या निचृद् गायत्री - सदसस्पतिः( विष्णुर्वायुः अग्निर्वा) देवता

सदसस्पतिमद्भुतम्प्रियमिन्द्रस्य काम्यम् ॥ सनिम्मेधामयासिषम् ॥ ६ ॥

(सदसः । पतिम् । अद्भुतम् । प्रियम् । इन्द्रस्य । काम्यम् ॥ सनिम् । मेधाम् । अयासिषम् ॥ ६ ॥)

सदसस्पतिर्हरिस्साक्षाद् वायुरग्निरथापि वा । लाभज्ञानस्वरूपोऽसौ शरणं तमयासिषम् ॥३२३॥६॥

यस्मादृतेन सिध्यति यज्ञो विपश्चितश्चन ॥ सधीनां योगमिन्वति ॥ ७ ॥

(यस्मात् । ऋते । न । सिध्यति । यज्ञः । विपःऽचितः । चन ॥ सः । धीनाम् । योगम् । इन्वति ॥ ७ ॥)

धीप्रेरकः स ध्येयश्च धीभिर्योगं तदाऽप्नुते ॥ ७ ॥

आदृध्नोति हविष्कृतिम्प्राञ्चङ्कृणोत्यध्वरम् ॥ होत्रा देवेषु गच्छति ॥ ८ ॥

(आत् । ऋध्नोति । हविःऽकृतिम् । प्राञ्चम् । कृणोति । अध्वरम् ॥ होत्रा । देवेषु । गच्छति ॥ ८ ॥)

तस्माद्धविष्कृतः स्वृद्धिं करोति यजतो विभुः । करोति चोत्तमं यज्ञं देवाह्वानानि गच्छति ॥ ३२४॥८ ॥

सदसस्पतिः(वायुः), नराशंसो (विष्णुः,अग्निः - वा देवता)

नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ॥ दिवो न सद्ममखसम् ॥ ९, ३५, १९ ॥

(नराशंसम् । सुऽधृष्टमम् । अपश्यम् । सप्रथःऽतमम् ॥ दिवः । न । सद्मऽमखसम् ॥ ९, ३५, १८ ॥)

नराशंसो विष्णुः

नरैः स्तुत्यो नराशंसो हरिर्धृष्टतमश्च सः । गुणानां प्रथिमाधिक्यात् सप्रथस्तम ईरितः । यस्य स्वर्गादपि गृहं मखः प्रियमिवेयते ॥ ३२५॥९, ३५, १८ ॥