सुसमिद्धो न आवह देवा अग्ने हविष्मते ॥ होतः पावक यक्षि च

मण्डलम्—१. अध्यायः–१- अनुवाकः–४.सूक्तम्—१३

(सुसमिद्धो द्वादशर्चम्, मेधातिथः काण्वः, गायत्री, आप्रीदेवताः) (इध्मः- सुसमिद्धः अग्निर्देवता)

सुसमिद्धो न आवह देवा अग्ने हविष्मते ॥ होतः पावक यक्षि च ॥ १ ॥

(सुऽसमिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते ॥ होतरिति । पावक । यक्षि । च ॥ १ ॥)

अस्मद्धविष्मते देवानाहूय यज चादरात् ॥२७६ ॥ १ ॥

तनूनपात् अग्निर्देवता

मधुमन्तन्तनूनपाद्यज्ञन्देवेषु नः कवे ॥ अद्या कृणुहि वीतये ॥ २ ॥

(मधुऽमन्तम् । तनूऽनपात् । यज्ञम् । देवेषु । नः । कवे ॥ अद्य । कृणुहि । वीतये ॥ २ ॥)

तनूभ्यो वाक् ततो देवो व्यक्तस्तेन तनूनपात् ॥ २ ॥

नराशंसः अग्निर्देवता

नराशंसमिह प्रियमस्मिन् यज्ञ उपह्वये ॥ मधुजिह्वं हविष्कृतम् ॥ ३ ॥

(नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये ॥ मधुऽजिह्वम् । हविःऽकृतम् ॥ ३ ॥)

नरैः स्तुत्यो नराशंसो वह्नेरन्याऽथवा तनूः ॥२७७॥३॥

इः-ईतिः अग्निर्देवता

अग्ने सुखतमे रथे देवा ईति आवह ॥ असि होता मनुर्हितः ॥ ४ ॥

(अग्ने । सुखऽतमे । रथे । देवान् । र्इतिः । आ । वह ॥ असि । होता । मनुःऽहितः ॥ ४ ॥)

मनूनां च हितत्वेन मनुर्हित इतीरितः ॥ ४ ॥

बर्हिर्देवता

स्तृणीत बर्हिरानुषग्घृतपृष्ठम्मनीषिणः ॥ यत्रामृतस्य चक्षणम् ॥ ५ ॥

(स्तृणीत । बर्हिः । आनुषक् । घृतऽपृष्ठम् । मनीषिणः ॥ यत्र । अमृतस्य । चक्षणम् ॥ ५ ॥)

आनुषक् सर्वतो देवस्थानं बर्हिः स्तृणीत च ॥२७८॥

शुद्धस्य विष्णोर्यत् स्थानं घृतपृष्ठं हि तन्मनः । यत्र स्याद् दर्शनं विष्णोर्नित्यामरणधर्मिणः ॥ २७९॥५॥

विश्रयन्तामृतावृधो द्वारो देवीरसश्चतः ॥ अद्या नूनञ्च यष्टवे ॥ ६, २४ ॥

(वि । श्रयन्ताम् । ऋतऽवृधः । द्वारः । देवीः । असश्चतः ॥ अद्य । नूनम् । च । यष्टवे ॥ ६, २४ ॥)

ऋतरूपेण हरिणा समृद्धाया ऋतावृधः । द्वारो देव्यः श्रियो दास्यः श्रयन्तामिह नो मखे ॥ २८०॥

मानसे बाह्ययज्ञे वा ह्यसङ्गत्वादसश्चतः । अद्याहनि तथा नूनमद्यैव यजनार्थतः ॥ २८१॥

द्वारभूतः स भगवानपि साक्षान्मुमुक्षतः । स्त्रीरूपश्च सः ............... ॥ ॥ ६,२४॥

पिपीलिका मध्या निचृद् गायत्री - नक्ता, उषाश्च देवते

नक्तोषासा सुपेशसाऽस्मिन् यज्ञ उपह्वये ॥ इदन्नो बर्हिरासदे ॥ ७ ॥

(नक्तोषसा । सुऽपेशसा । अस्मिन् । यज्ञे । उप । ह्वये ॥ इदम् । नः । बर्हिः । आऽसदे ॥ ७ ॥)

........नक्ता स्यान्नाक्तो यस्मात् स सर्वतः । उषाः प्रकाशरूपत्वात् सुभद्रे ते उपह्वये ॥ २८२ ॥

अस्मिन् बर्हिषि संस्थित्यै ......... ॥ ७ ॥

पिपीलिका मध्या निचृद् गायत्री - दैव्यौ होतारौ गार्हपत्याहवनीयौ देवते

ता सुजिह्वा उपह्वये होतारा दैव्या कवी ॥ यज्ञन्नो यक्षतामिमम् ॥ ८ ॥

(ता । सुऽजिह्वौ । उप । ह्वये । होतारा । दैव्या । कवी इति ॥ यज्ञम् । नः । यक्षताम् । इमम् ॥ ८ ॥)

......................होतारौ देवगावपि । मथ्यमानोऽपरश्चैव वह्नी तद्गोऽथ वा हरिः ॥ २८३॥

आत्माऽन्तरात्मरूपेण द्विरूपो वा व्यवस्थितः । देवेषु यजतां यज्ञमस्मदीयमिमं सदा ॥ २८४॥८॥

निचृद् गायत्री - इा (श्रीः) महीः (भूः भारती च सरस्वती च देवताः

इा सरस्वती मही तिस्रो देवीर्मयोभुवः ॥ बर्हिस्सीदन्त्वस्रिधः ॥ ९ ॥

(इा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ॥ बर्हिः । सीदन्तु । अस्रिधः ॥ ९ ॥)

ईेड्यत्वाद्धरिः श्रीर्वा भूरूपा सैव चापरा ।

मही तु भारती नाम वायव्या ब्रह्मणोऽपरा । तद्गतस्तादृशै रूपैः पृथक्स्थो वा हरिस्तथा ॥२८५ ॥९ ॥

त्वष्टा देवता

इह त्वष्टारमग्रियं विश्वरूपमुपह्वये ॥ अस्माकमस्तु केवलः ॥ १० ॥

(इह । त्वष्टारम् । अग्रियम् । विश्वऽरूपम् । उप । ह्वये ॥ अस्माकम् । अस्तु । केवलः ॥ १० ॥)

त्वष्टा तेजस्त्वतो विष्णुर्बलत्वाद्वा समीरितः । विश्वरूपकरत्वाच्च विश्वरूपोऽथ पूर्तितः ॥ २८६ ॥ १० ॥

पिपीलिका मध्या निचृद् गायत्री - वनस्पतिर्देवता

अवसृजा वनस्पते देव देवेभ्यो हविः ॥ प्रदातुरस्तु चेतनम् ॥ ११ ॥

(अव । सृज । वनस्पते । देव । देवेभ्यः । हविः ॥ प्र । दातुः । अस्तु । चेतनम् ॥ ११ ॥)

वननीयपतित्वेन वनस्पतिरितीरितः । ज्ञानं तु चेतनम् ................. ॥ ११ ॥

पिपीलिका मध्या निचृद् गायत्री - स्वाहादेवी देवता

स्वाहा यज्ञङ्कृणोतनेन्द्राय यज्वनो गृहे ॥ तत्र देवा उपह्वये ॥ १२, १५, १३ ॥

(स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे ॥ तत्र । देवान् । उप । ह्वये ॥ १२, २५, १३ ॥)

.......स्वाहा स्वभागगतिमान् स्मृतः ॥ २८७ ॥

अव्ययत्वाद् अमोषश्च ॥ ॥ १२, २५, १३ ॥