न तावद् द्रव्याद्रव्यविभागो युक्तः

द्रव्याद्रव्यभेदवादभङ्गः

विजयीन्द्रतीर्थकृतसर्वसिद्धान्तसारासारविवेचनम्

न तावद् द्रव्याद्रव्यविभागो युक्तः । अद्रव्यत्वेनाभि- मतानां रूपादीनां तदाश्रयद्रव्याणां चाभिन्नत्वात् । नीलो घट इत्यादि प्रतीत्या तदभेदस्यावश्याङ्गीकार्यत्वात् । न हि भेदे सामानाधिकरण्यप्रतीतिर्दृष्टचरी ॥

परकालयतिः:

नैल्यघटयोर्विशेष्यविशेषणभावावगाहनेन भेदावलम्बिन्यैव तया नीलघटयोरभेदस्य दुरुपपादत्वात् । इति ॥

खंडनम् :

तदसारम् । नेयं प्रतीतिः चैत्रस्य दण्ड इत्यत्रेव विशेष्यविशे- षणभावमवगाहते किं नाम 'आनन्दं ब्रह्म' इत्यत्रेव स्वरूपाभेदमेव ।

किं च सामानाधिकरण्यप्रतीतिः अवश्यं अभेदविषयेत्युक्ते विशेष्य- विशेषणभावावगाहनेन तया अभेदस्य दुरुपपादत्वादित्युक्तेः व्यधिकरणत्वात् । सामानाधिकरण्ये अभेदपरत्वस्यैव निरसनीय- त्वात् । सामानाधिकरण्यस्य चाभेदपरत्वानङ्गीकारे अभेदः कुत्रापि वाक्यार्थो न स्यात् । न हि घटः द्रव्यं इत्यत्रापि अस्त्यभेदबोधक- मन्यत्सामानाधिकरण्यात् । एवं त्वदभिमते 'आनन्दं ब्रह्मणः' इति श्रुतिबोधितधर्मभूतानन्दाद्विलक्षणे 'आनन्दं ब्रह्म' इति श्रुतिबोधित- दिव्यात्मस्वरूपलक्षणनिरतिशयानन्दे त्वयाऽपि सामानाधिकरण्य- मेवाभेदे प्रमाणमेष्टव्यम् । घटस्य नैल्यं इति विशेषणविशेष्यभावोऽपि प्रतीयते इति चेत् प्रतीयताम् । किं तावता । सा प्रतीतिः भेदावलम्बिन्येवेति तु दुरुक्तम् । सा हि खलु संबन्धमात्रमवगाहते । नत्वेव भेदम् । षष्ठ्यर्थस्य संबन्धताऽनति- रेकात्। संबन्धव्यवहारो भेदव्याप्त इति तु दुराशां अग्रे विशेष- समर्थनेनापाकरिष्यामः । अभेदेऽपि अस्येदमिति संबन्धितया अवभासस्य विशेषबलेनैवोपपादयिष्यमाणत्वात् । एतेन भेद- विषयेयदग्ने रोहितं रूपं' इत्यादि श्रुत्युदाहरणमपि निरस्तम् । न हि तद्वाक्ये भेदः पदार्थो वाक्यार्थो वा । संबन्धमात्रं त्वनुमतमेवे- त्युक्तम् ।

परकालयतिः :

शुक्ल एव घटे पाकेन नैल्यमुत्पन्नमित्यनन्यथासिद्धप्रत्यक्षं च तत्र भेदे प्रमाणम् । इति ॥

खण्डनम् :

तदप्यसारम् । किं अस्य प्रत्यक्षस्य विशिष्टयोः शुक्लघट- नीलघटयोः भेदे प्रामाण्यमित्याशयः । उत विशेष्यस्य घटस्य वि शेषणाभ्यां शौक्ल्यनैल्याभ्यामिति । नाद्यः । इष्टापत्तेः । विशिष्टयोः पदार्थान्तरत्वेन तयोर्भेदोपगमात् । न द्वितीयः । शौक्ल्यं नैल्यं वा न घट इति प्रत्यक्षेणाविषयीकरणात् । प्रत्युत पूर्वं शुक्लो घट इति, इदानीं च पाकानन्तरं नीलो घट इति च, उभयत्रापि गुणगुणिनोः, चैत्रस्य दण्डः चैत्रस्य कुण्डलमिति प्रतीतिविलक्षणतया, अभेदस्यैव स्फुटं विषयीकरणात् । प्रत्यक्षोपस्थापितविरुद्धधर्माधिकरणत्वेन भेदोऽनुमीयते चेदेवं तर्हि न प्रत्यक्षं भेदे प्रमाणयितव्यम् । किं त्वनुमानमेव । तच्च न प्रत्यक्षसिद्धाभेदापलापस्येष्टे ।

परकालयतिः :

रूपादि स्वाधिकरणाद्भिन्नं स्वाश्रये स्थिरेऽप्यागमापायिधर्मत्वात् असकृन्निरुद्धगतिकविषयसंयुक्तालोकवत् । इति ॥

खण्डनम्

तत्तुच्छम् । अद्रव्यस्य रूपादेस्त्वया संयोगानङ्गीकारात्, साध्ये अधिकरणपदेन, साधने आश्रयपदेन च संयोगसंबन्धेन तथात्त्वं विवक्षितं चेद् बाधः असिद्धिश्च । संबन्धान्तरेण चेद् दृष्टान्तस्य साध्यसाधनवैकल्ये । किं चात्र किं यावद्द्रव्यभावि रूपादि पक्षः । अनेवंविधं वा । नाद्यः। हेतोरसिद्ध्यापत्तेः । द्वितीयेऽपि किं भिन्नत्वमात्रं साध्यं उतात्यन्तभिन्नत्वम् । नाद्यः सिद्धसाधनत्वात् । खण्डितानां गुणानां गुणिना भेदाभेदाभ्युपगमात् । न द्वितीयः । हेतोः अभेदनिराकरणेऽसामर्थ्येन अप्रयोजकत्वात् । न खलु काला- न्तरभाविन्यौ संबन्धविनाशोत्पत्ती सामानाधिकरण्यगोचरप्र- त्यक्षसिद्धाभेदापलाप- स्येशाते ।

सामानाधिकरण्येनाप्रमीयमानत्वं उपाधिश्च । न अस्य साध्याव्यापकता । विषयीभूतस्य घटादेः आलोकेन, घटः आलोक इति, सामानाधिकरण्याप्रतीतेः ॥ नापि साधनाव्यापकता शुक्लः पट इत्याद्यबाधितप्रतीतेः ।

यच्चात्र पृथक्सिद्धत्वं नाम पृथगुत्पत्तिज्ञप्तिमत्त्वं इति कथयित्वा पुनः अपृथक्सिद्धत्वं इत्यस्य स्वसत्ताकाले धर्मिण- मन्तरेणान्यत्र नेतुमशक्यत्वमेवेति अर्थकथनं तदन्योन्यासङ्गतम् । अपृथक्सिद्धत्वं नाम पूर्वोक्तप्रतियोगितया पृथगुत्पत्तिज्ञप्तिराहि- त्यमेव निरूपणीयम् । एतच्चाभेदपर्यवसितमेवेत्यतिरोहितम् । एवंभूतस्यान्यत्र नयनप्रसक्तिरेव न संभवति येन तत्र निषेधोक्तिः सङ्गच्छेत ।

यदपि धर्मिभिन्नप्रवृत्तिनिमित्तकयोः समानविभक्तिकयोः शब्दयोः एकार्थबोधकत्वमिति सामानाधिकरण्यप्रत्ययपरिष्करणं तदप्यसारम् । प्रवृत्तिनिमित्तधर्माणां धर्मिणा सर्वत्र भिन्नत्वमेवेति कल्पनाया निर्मूलत्वात् । धर्माणां यावद्द्रव्यभावित्वे अभेदाङ्गी- कारस्यैवौचित्यात् । न च तत्रापि विवादः । नीलमुत्पलमित्यत्र नैल्यं हि यावदुत्पलभावि । न च तयोरङ्गुलीद्वयवद्भेदेन उपलम्भोऽस्ति । त्वयाऽपि तदनङ्गीकारात् । नापि कुण्डमिवोत्पलमधिकरणत्वेन, बदराणीव नैल्यमाधेयत्वेन, परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । नैल्योत्पलयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् । अनुमानादीनामभेदप्रत्यक्षरोधे- नोत्थानस्यैवासंभवात् । न च भेदावगाहिनी प्रत्यक्षप्रतीतिरस्ति । तेन प्रत्यक्षत एव सिद्धो नैल्योत्पलयोरभेदः । अपर्यायशब्दवाच्य- त्वादिभेदव्यवहाराः विशेषबलेनैव निर्वाह्याः ।

अतः साधूक्तं न हि भेदे सामानाधिकरण्यप्रतीतिर्दृष्टचरीति ॥

न च नीलो घट इत्यत्र नीलादिशब्दस्य नीलादिमत्परत्वम् । प्रतीतिव्याख्यानापातात् । नीलरूपमित्यत्र यन्नीलं तस्यैवेह प्रतीतेः । अन्यथा इहापि नीली घटः इति धीः स्यात् । मतुब्लोपादि- कल्पनं तु व्यवहारे न तु प्रतीतौ । नियमेन तथा प्रयोगदर्शनेन तयोरभेदपरत्वस्यैव वक्तुं युक्तत्वाच्चेति ।

एतेन यदुक्तम्, एवं शाब्दी प्रतीतिर्भेदावगाहिनी चेत् इन्द्रिय- जन्याऽपि तथैवेति, तदपि निरस्तम् ।

सामानाधिकरण्यप्रतीतेः नीलघटभेदावगाहित्वस्य दूषित- त्वात् । प्रत्युत प्रत्यक्षत एव तदभेदस्योपपादितत्वात् । शब्दानु- मानयोरभेदप्रत्यक्षरोधेन भेदविषयकत्वासंभवस्य चोक्तत्वात् ।इन्द्रियजन्यप्रतीतेः शाब्दप्रतीत्यनुरोधित्वोक्तेरसारत्वात् । प्रत्युत वैपरीत्यस्यैवोचितत्वात् ।

परकालयतिः :

एवं च प्रतीतिव्याख्यानाप्रसक्त्या न तत्प्रसञ्जनाव- काशोऽपि । न हि द्वौ घटाविति प्रतीतेर्घटद्वयविषयकत्वं व्याख्येयम् इति ।

खण्डनम् :

तदसारम् । नीलो घट इति प्रतीतेः नीलवान्घटः इति व्याख्याने खलु स्फुटप्रतीतेरपलपापत्त्या प्रतीतिव्याख्यानदोषः आपादितः । न ह्येवं सति द्वौ घटौ इति प्रतीतिमादाय प्रतिबन्दीग्रहणावकाशः । न हि तत्रेव अत्र द्वौ नीलघटौ इति प्रतीतिरस्ति । न च तत्र नीलवान् घट इतिवत् घटवान् घटः इति व्याख्यानं येन त्वदुक्तप्रतिबन्दी सङ्गच्छेत । परकालयतिः :

न हि प्रतीतिस्वभाववित्कश्चित् विशिष्टप्रतीतेर्विशेषणविशेष्याभेदविषयकतां ब्रूते ।

खण्डनम् :

तदतीव मन्दम् । न ह्यत्र दण्डी चैत्र इतिवत् नीलवान् घट इति विशिष्टप्रतीतिरुदाहृता । किं तु नीलो घट इति सामानाधिकरण्य- प्रतीतिरेव । नात्र विशेषणविशेष्ययोरभेदप्रसक्तिः । येन तन्निषेधः सङ्गच्छेत । किं तु विशेष्ययोरेव नीलघटयोः परस्परम् । वस्तुतो यावद्द्रव्यभाविनां गुणादीनामाश्रयेण परस्परं चाभेदः । विशेषाङ्गी- कारात् भेदव्यवहारोपपत्तिः । अतो यत्किचिदेतत् ।

यच्चात्राप्रस्तुतमेव बहु प्रजल्पितं तत्सर्वमप्यसारम् । तथाहि । ब्रह्मैव परस्य निर्विशेषमित्युक्तिः परमताज्ञानविजृम्भिता । अस्माभिः ब्रह्मणोऽपि सविशेषत्वाङ्गीकारात् । यदपि भेदस्य धर्मि- स्वरूपत्वे संशयाद्यनुपपत्तिः सप्रतियोगिकत्वाप्रतियोगिकत्व- विरोधः इत्यादिदोषाभासव्युत्पादनं तत्सर्वं विशेषसमर्थनेन परिहरिष्यते ॥ कुतश्चिद्व्यावृत्तस्य वस्तुनः प्रतीतावपि व्यावृत्ति- विशेषाग्रहणादेव संशयाद्युपपत्तेः ।

देहदेहिनोर्जीवेश्वरयोः न तथा प्रत्यक्षसिद्धो भेद इति वचनं प्राणिमात्रानुभवपराहतम् । मम देहः नाहं निर्दुःख इति भेदस्य सार्व- जनीनानुभवसिद्धत्वात् ।

अस्मदभिमतविशेषस्य मायावाद्यभिमताविद्यासालक्षण्यं परिकल्प्य ब्रह्मादिसर्वेषां यत् भ्रान्तत्वापादनं तत्स्वस्यैव महा- भ्रान्तत्वं संस्थापयति । यत्राभेदः प्रमितः भेदव्यवहाराश्च अनौपचा- रिकाः प्रमिताः तत्रैव तन्निर्वाहकः स्वनिर्वाहकश्च प्रमाणप्रमितो विशेषोऽस्माभिरुररीकृतः । मायावादिनस्तु मानाघातासहिष्णुत्व- लक्षणामविद्यां स्वीकुर्वन्ति । तदेवं सुस्फुटं विलक्षणयोः सालक्ष- ण्यवादः कथमुन्मत्तप्रजल्पो न भवेत् ॥ अतः साध्वेवोक्तं रामानुजमते द्रव्याद्रव्यविभागो न युक्तः इति ।