किं च भक्तिः प्रपत्तिश्चेति मोक्षसाधनं द्विविधमित्यनुपपन्नम्

पराभिमतप्रपत्तेः मोक्षसाधनत्वभङ्गः

विजयीन्द्र... विवेचनम् :

किं च भक्तिः प्रपत्तिश्चेति मोक्षसाधनं द्विविधमित्यनुपपन्नम् । प्रपत्तेः मोक्षसाधनत्वे प्रमाणाभावात् । प्रपद्ये इत्य- स्यापि भक्तिरूपज्ञानपरत्वात् । ब्रह्मज्ञानस्य छागपशुन्यायेन त्वया भक्तिरूपज्ञानत्वाभ्युपगमात् । ज्ञानविशेषवाचित्वेन प्रपत्तेरुपायान्तरत्वे मननेऽपि तथाभावाभ्युपगमप्रसङ्गात् ।

परकालयतिः :

प्रपत्तौ औपनिषदविद्यात्वस्य 'तस्यैवं विदुषः' इत्यादिश्रुति-सिद्धत्वेऽपि भक्तिविद्यात्वं नोपेयते । 'आत्मानं युञ्जीत' इति विहिता आत्मार्पणरूपा प्रपत्तिर्न भक्तिः ।अस्याः क्षणमात्रसाध्यत्वेन आवृत्तिमद्भक्तिभिन्नत्वस्य वाच्यत्वात् इति ।

खण्डनम् :

तन्न । प्रपत्तौ औपनिषदविद्यात्वाङ्गीकारे त्रैवर्णिकेतरेषां तत्र त्वदभिमताधिकाराभावापातात् । 'भक्त्यादौ शक्त्यभावः प्रमिति- रहितता शास्त्रतः पर्युदासः । कालक्षेपाक्षमत्वं' इति श्लोकेन शक्तिः, ज्ञानं, शास्त्रापर्युदस्तत्वं, कालक्षेपक्षमत्वं इति चतुर्णां अभावात्मकः पञ्चदशविधाधिकारः खलु त्वया प्रपत्तौ कथितः । प्रमितिरहितस्य प्रपत्तौ अधिकारं ब्रुवन् पुनः तस्या औपनिषदविद्यात्वं व्याचक्षाणः कथं न व्याहतभाषी भवेः । 'ब्रह्मणे त्वा महसे ओमित्यात्मानं युञ्जीत' इति त्वदुदाहृतमन्त्रप्रतिपाद्यप्रणवानुसन्धानपूर्वकन्यासवि- द्यायां प्रपत्तौ स्त्रीशूद्रादिसर्ववर्णसाधारणाधिकारो नैव जाघटीति । 'द्वे विद्ये वेदितव्ये' इत्यत्र विद्याशब्दस्त्वया ज्ञानपरतयैव व्याख्यातः ।

'तस्यैवं विदुषो' इत्युत्तरानुवाके प्रतिपाद्यमाना पुरुषविद्या प्रकृतब्रह्मविद्याङ्गभूतैवेति श्रुतप्रकाशिकायां तदर्थचिन्ताप्रदर्शन- पूर्वकं सिद्धान्तितम् । अवश्यं च त्वयाऽपि प्रपत्तेर्भक्त्यङ्गत्वमेष्ट- व्यम् । अन्यथातमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते' इत्यत्र वेदनशब्दस्य छागपशुन्यायेन भक्तिरूपज्ञानविशेषे विश्रान्तिरिति त्वयाऽङ्गीकृतत्वेन तत्रान्यनिषेधोऽसङ्गतः स्यात् ।

यदुक्तं 'तस्यैवं विदुष' इति पुरुषविद्या न्यासविद्याङ्गं स्तुति- परेति तदसत् । गुणोपसंहारपादे तस्या भेदाभेदचिन्तनस्यासङ्गत- त्वापातात् ।आत्मानं युञ्जीत' इति त्वदभिमतन्यासविद्याया अधिकरणसारावल्यां पाक्षिकतया भक्तिविधित्वस्योपपादित- त्वाच्च ।तदुपपादनं मदेकदेशिनं प्रत्येव न परं प्रति' इति त्वदुक्तेः दुराग्रहमात्रमूलत्वात् ।

यदुक्तं प्रपत्तिः भक्तिवत् भगवद्वशीकरणसमर्था तथा मोक्षो- पायतया विहिता साक्षात्तदुपायभावार्हा च । 'भक्त्या परमया वाऽपि प्रपत्त्या वा महामते । प्राप्योऽहं' इति भगवद्वचनात्सुधाया- मपि भगवत्प्रसादस्य गुणोत्कर्षादिज्ञानसाध्यत्वोक्तेः 'मुमुक्षुर्वै शरणमहं प्रपद्ये' इति मोक्षोपायतया विहितत्वात् फलसंयोग- श्रवणेन भक्त्या तुल्यविकल्पदर्शनाच्चेति तदप्यसारम् । त्वदु- दाहृतवाक्ये भगवत्प्राप्तिहेतुतया कथिता प्रपत्तिः परमभक्त्यङ्गभूतोपासनाङ्गयरा न तु त्वकल्पितसकृदनुष्ठेयशुष्क- शरणागतिपरा । रामानुजाचार्यैरपि 'मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते' इति श्लोकव्याख्याने तथा 'न मां दुष्कृतिनो मूढाः प्रपद्यन्ते' इति श्लोकावतारिकायां तथा 'सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज' इति चरमश्लोकावतारिकायां च प्रपत्तेर्भक्त्यङ्गत्वमेवो-क्तम् । श्रीन्यायसुधा तु त्वत्प्रतिकूलैव । तत्र परमभक्तिरेव परम- प्रसादद्वारा मोक्षजननीति समर्थनात् । विकल्पोक्तिस्तु 'ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा कार्तिके मासि दिनत्रयनिषेव- णात्' इत्यत्रेव अङ्गाङ्गिभावं बोधयति । तेन उपायानां नैव तुल्यता-सिद्धिः । अन्यथा 'भक्त्यैव तुष्टिमभ्येति हरिर्नान्येन केनचित् ' 'नान्यः पन्था अयनाय विद्यते' 'प्रीयतेऽमलया भक्त्या हरिरन्य- द्विडम्बनम्' 'एकभक्तिर्विशिष्यते' 'सुदृढः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा' 'भक्त्येकलभ्यः पुरुषोत्तमोऽसि ' इत्येवमादीनि भक्तीतरसाधनानां मोक्षोपायत्वनिषेधपराणि निरवकाशप्रमाणानि परःसहस्राणि व्याकुप्येयुः ॥ एतेन 'शरणमहं प्रपद्ये' इत्यपि व्याख्यातम्। त्वदीयभाष्यकारैरेव शरणागतेः भक्त्यङ्गत्वमेवोक्तमित्यवोचाम ।

न च सा तेषामुक्तिरधिकारिविशेषविषयैवेति कल्प्यम् । निर्मूलत्वात्कल्पनायाः। एवमपि भक्तिप्रपत्त्योस्तुल्यफलताहाने- रनिस्तारात् ।

यदपि गुरुलघ्वोर्भक्तिप्रपत्त्योस्तुल्यविकल्पायोगमाक्षिप्यं शक्ताशक्ताधिकारेण समाहितं तदप्यपहसनीयम् । किं शक्तोऽपि प्रेक्षावान् गिर्युद्धरणशक्तिं तृणोद्धरणे जातु प्रयुङ्क्ते । 'अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्' 'मूललब्धफलो नैव शाखाऽयं गन्तु- मिच्छति' इति न्यायविरोधस्य कः तर्हि परिहारः । शक्ततरादीनां अशक्ततरादीनां च भक्तिप्रपत्त्यतिरिक्तान्युपायान्तराणि च कुतः प्रमाणाभासान्वेषणेनायुष्मता भवता न कल्पितानि ।अथ चित्तं समाधातुं न शक्नोषि मयि स्थिराम् । अभ्यासयोगेन ततो मामि- च्छाप्तुं धनञ्जय ॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥इति भक्त्यङ्गबोधनपरगीतावाक्ये त्वत्प्रक्रियामारोप्य चित्तसमा- धानं, अभ्यासयोगः, भगवत्कर्मपरत्वं, सर्वकर्मफलत्यागः इत्येतेषां प्रपत्तिवदेव शक्तितारतम्यमनुरुद्ध्य मोक्षे स्वतन्त्रोपायत्वं कुतो न भाषितम् । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' इति प्रपदनपरं प्रियमर्जुनं कुतो वा गीताचार्यः क्लिष्टे घोरे युद्धकर्मणि न्ययुङ्क्त । एवं प्रपन्नं लक्ष्मणं दयालू रामचन्द्रः कुतो वनवासेनायासमास । किं तादृशानामपि महाविश्वासभासुराणां पञ्चदशसु प्रपत्तिविधासु कासुचिदपि प्रवेशो नासीदिति तव दुराशयः । त्वद्रीत्या मुक्तिफले तारतम्याभावेऽपि विषमसाधनेष्वेवं भृत्यान्व्यापारयन्तं भगवन्तं कुतो वा वैषम्यनैर्घृण्ये दोषौ न प्रादुष्येयाताम् ।

'तं प्रपद्ये स्वयम्भुवम्' इति प्रपन्ने गजेन्द्रे प्रपत्त्या परितोषमन- भिधाय 'भक्त्या तुतोष भगवान्ननु यूथपाय' इति कुतो भागवता- चार्योऽवादीत् । सिद्धौ तारतम्याभाव इति स्वसिद्धान्तमपि विस्मृत्ययस्य यावांश्च विश्वासः तस्य सिद्धिश्च तादृशी ।' इति नारदादि- परमर्षिनिरुक्तिं समुदाहरन्भवान् कथं स्वाचार्यद्रोहवान् न भवेत् । फलसंयोगश्रवणमात्रेण प्रपत्तेर्भक्तितुल्यत्वं चेत्स्यात्तर्हि 'मत्त्वा धीरो हर्षशोकौ जहाति' इत्यत्र मननस्यापि प्रपत्तिवज्ञानविशेषस्य फल- संयोगश्रवणेन तदपि कुतः भक्तिप्रपत्तितुल्यतया न परिगणितम् । क्वचिन्न्यसनभजनयोः गौरवे को विशेष' इति तयोस्तुल्यफलत्वं वदन् तत्रैव पुनःशरणस्थस्य कलां नार्हन्ति षोडशीमि'ति प्रपत्तिरेव भक्तेर्गुरुभूततरेति भक्तिं कुत्सयन् 'तद्भक्तद्वेष एव च' इति नवविध-द्वेष एव च' इति नवविधद्वेषेषु परिगणितस्य तद्भक्तिद्वेषाख्य- भगवद्द्द्वेषस्य भाजनं भवान्भागवतैर्बहिष्कार्यः कथं न भवेत् ।भक्त्येकलभ्यः पुरुषोत्तमोऽसि' इति भक्तीतरस्य प्रपत्त्यादिकस्यो- पायान्तरस्य पुरुषोत्तमप्राप्तिसाधनत्वं निरवकाशतया विनिवारय- त्पञ्चरात्रवाक्यं धिक्कृत्य भक्तिभिन्नप्रपत्तेर्भगवत्प्राप्तिहेतुतां प्रजल्पन्तं आस्तिकंमन्यं भवन्तं पञ्चरात्रप्रामाण्यापलापरूपमहापापं कथंकारं नाक्रामेत् । तत्र हि 'अहङ्कारार्थकामेषु प्रीतिरद्यैव नश्यतु । त्वां प्रपन्नस्य मे सैव वर्धतां श्रीपते त्वयि' इति प्रपत्तेः भगवति प्रीतिलक्षणभक्तिवृद्धिहेतुत्वमेवाभिहितम् ॥

यदत्रोक्तं 'मामेकं शरणं व्रज' इति गीतावचनेन भक्तिविना-कृतायाः प्रपत्तेर्मोक्षहेतुत्वसिद्धिरिति तदसारम् । तत्रोक्तायाः शरणागतेर्लक्षणं एवं स्मर्यते-

सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुतं सर्वस्यात्र समर्पणम् ॥

अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोऽहमिति स्मृतिः ॥

शरणागतिरेषा स्याद्विष्णौ मोक्षफलप्रदा ॥ इति ।

एषा च भक्तिरूपैवेति सुस्फुटमेव ।

अतः भक्त्यनङ्गा प्रपत्तिर्मोक्षसाधनमिति वचनं असारमेव ।