एतेन सांशजीवानां देवादीनां सांशत्वादेव संसार इव मुक्ता-वप्यधिक्य ..
सांशजीवस्वरूपतारतम्यकृतानन्दतारतम्यसमर्थनम्
एतेन सांशजीवानां देवादीनां सांशत्वादेव संसार इव मुक्ता-वप्यधिक्य उक्ते यः तदाक्षेपः कृतः सोऽपि निरस्तः । तथा हि :-
अंशिनैव शरीरधारणसंभवादंशाभ्युपगमो निरर्थक इति यदुक्तं तदयुक्तम् । अणोर्जीवस्य अंशिदेहे सम्यगवस्थितस्य शरीरान्तरेष्वप्यवस्थानायांशाभ्युपगमस्यावश्यकत्वात् ।
'अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः । आत्मानं बहुधा कृत्वा क्रीडते योगसंपदा ॥'
इत्यादिप्रमाणसिद्धस्य अंशरूपैः पृथगवस्थानस्य प्रयोजना- भावेनापलापस्य बालिशत्वात् । यदुक्तं अंशानां परस्परं अभेदः ईश्वरसङ्कल्पमात्रनिबन्धनश्चेत्किं विशेषेणेति तत्तुच्छम् । न ह्यस्माभि- र्विशेषःअभेदस्य प्रतिनिधिरित्युक्तम् येनैवं पर्यनुयोज्येमहि किं नाम भेदस्यैवेति ।
त्वया विकल्पितः अंशानां भेदाभेदपक्षस्तु अनङ्गीकार- परास्तः । भेदस्यानङ्गीकारादेव ।
यदुक्तं निरवयवत्वेन प्रमितस्य कथं सावयवत्वकल्पनमिति तदप्यसारम् । उदाहृतप्रमाणेन सावयवत्वस्यापि प्रमितत्वेन न तत्कल्पनाऽवकाशः । यदप्युक्तं भेदप्रयुक्तव्यवहारमात्रसंपादकतया त्वयेष्यमाणो विशेष एकत्वानेकत्वरूपार्थसंपादकः कथं स्यादिति तदपि स्थूलम् । भेदप्रतिनिधित्वेन विशेषः सामान्यतो भेदकार्य- निर्वाहक इत्येवाभ्युपगमात् ।
यदुक्तं गुणगुणिनोरवयवावयविनोः संबन्धस्त्वन्मते नाङ्गी- क्रियत इति तत्तुच्छम् । अभिन्नयोरपि संबन्धस्य विशेषबलेन मन्मतेऽङ्गीकृतत्वात् ।‘ब्रह्मण आनन्दः' इति गुणगुणिनोः संबन्धस्य, 'तस्य प्रियमेव शिरः' इति अवयवावयविनोः संबन्धस्य च प्रमित- त्वेन तत्राभेदेऽपि संबन्धितया व्यवहारनिर्वाहाय विशेषः समा- श्रितः । 'भेदसंबन्धकार्यकरो हि विशेष' इति सुधयाऽभिन्नयोर्भेदसंबन्धः एव प्रत्याख्यातः । न तु संबन्धमात्रम् । गुणगुणिनोः संबन्धस्यैवाभावे गुणस्यान्यसंबन्धित्वापातात् । मेरु-मन्दरादिवत्स्वातन्त्र्येण प्रतीतिप्रसङ्गात् । भेदसंबन्ध एव हि दण्डी चैत्र इत्यादौ विशिष्टप्रतीतिनिर्वाहको दृष्टः । 'अयं पट एतत्संबद्ध' इत्यत्रापि न्यायसुधायां आधाराधेयभावव्यवहारनिर्वाहको भेद- संबन्धः संयोगादिरेव निराकृतः । अयावद्द्रव्यभाविस्थले गुण- गुण्यादीनां भेदस्यापि सत्त्वेन तत्प्रतिनिधिर्विशेषो नोपेयते इत्येव विशदीकृतम् । अत एव जन्मादिनये सुधायां विशेषसमर्थनावसरे अभेदेऽपि विशेषनिर्वाह्याणि सर्वाणि भेदकार्याणि, अर्थक्रियाभेदः हानोपादानादिकं, विरुद्धयोर्भेदाभेदयोरेकत्र समावेशः इत्यादिकानि उदाहृतानि ।
एतेन, विशेषस्य जीवेषु अंशभूयस्त्वव्यवहारमात्रकल्पकत्वं न तु तद्भूयस्त्वकल्पकत्वमिति यदुक्तं तत्प्रत्युक्तं वेदितव्यम् । भेदा- भावे सकलभेदकार्यकरत्वेनैव विशेषस्य सिद्धत्वात् । तस्य च स्वनिर्वाहकत्वेन विशेषभेदपरम्परयाऽनवस्थानाभावात् । अतो विशेषबलेन योगिष्वंशभूयस्त्वं अविकलमेवेति निरंशजीवेभ्यो देवानां सांशानां मुक्तावप्यानन्दातिशयवत्त्वं निराबाधमिति स्थितम् ।