अन्धकारस्य न पृथिव्यामन्तर्भावः
अन्धकारस्य द्रव्यान्तरत्वसमर्थनम्
विजयीन्द्र.... विवेचनम्
अन्धकारस्य न पृथिव्यामन्तर्भावः । निःस्पर्शत्वात् । न च नीलप्रभासहचरितनीलभागवदेव पृथिवीरूपतेति वाच्यम् । इन्द्रनीलप्रभायामेव नैल्यसंभवेन तादृशनीलभाग-स्याकल्पनीयत्वात् ।
परकालयतिः :
तमो द्रव्यमेव तच्च पृथिव्यामेवान्तर्भवति । न च निःस्पर्श- त्वान्न तदन्तर्भाव इति वाच्यम् । अप्रयोजकत्वात् । परमते परमा- णूनां मन्मतेऽप्यतिसूक्ष्मत्र्यणुकानां पार्थिवानां निःस्पर्शत्वात् इति ।
खण्डनम् :
तत्तुच्छम् । परमते परमाणूनां पार्थिवानां निस्पर्शत्वादित्यय- मसदनुवादः । न हि पार्थिवपरमाणूनां निःस्पर्शतां परोऽभ्युपैति ॥ 'मन्मतेऽपि अतिसूक्ष्मत्र्यणुकानां निःस्पर्शत्वमिति च व्याहतम् । योग्यानुलम्भेन खलु स्पर्शाभावः साधनीयः । न अनुपलम्भमात्रेण । तथा सति परमाण्वादीनामेवासिद्धिप्रसङ्गात् । न चात्रोपलम्भे योग्यता अस्ति । अतिसूक्ष्मत्वादिति त्वयैव तन्निरासात् । समर्थानां तु अस्त्येवोपलम्भः । किं च उपादानोपादेययोरत्यन्ताभेदवादिन-स्तव मते, त्र्यणुकानां निःस्पर्शत्वे तदुपादेयानां पार्थिवमात्राणां निःस्पर्शत्वप्रसङ्गः ।
परकालयतिः :
ममैवं प्रतिभाति सन्तमसस्य निःस्पर्शनत्वं निःस्पर्शाकाशेन संहतिसमागमवत्पृथिव्यंशत्वात् । इति ।
खण्डनम् :
तदप्यसारम् । त्वदुदाहृतसंहतिसमागमप्रक्रिया कारणानां एव मिश्रतामेवावलम्बमाना न कार्याणां अन्योन्यं धर्मसंक्रमणं व्यव-स्थापयति । तथा सति आकाशसमागमेन तमसः निःस्पर्शत्वमिव त्वद्रीत्या पार्थिवतमःसंहतिसमागमेन आकाशस्यैव स्पर्शवत्त्वमिति वैपरीत्यं कुतो न स्यात् ।
परकालयतिः:
अतो बाधकविधुरप्रत्यक्षसहकृतपरिशेषादेव अत्र पृथि- व्यंशोऽ ऽन्धकारः । अत एव इन्द्रनीलमणिप्रभासहचरितनील- भागोऽपि पृथिव्यंश एव इति ।
खण्डनम् :
तदप्यसारम् । प्रत्यक्षं हि तमसः न पृथिवीत्वं आवेदयति । बाधकवैधुर्यं चासिद्धम् । आलोकनाश्यत्वं, प्रलयकालीनाव-स्थितिमत्त्वं, सर्गादौ विरिञ्चिपीतत्वं, गन्धशून्यत्वं, निःस्पर्शत्वं इत्याद्यनेकेषां बाधकानां सत्त्वात् ।
मणिप्रभासहचरितो नीलभाग इति च निर्मूला कल्पना । मणिप्रभायामेव नैल्यसंभवादित्युक्तत्वात् । न च‘यत्कृष्णं तदन्नस्य' इति श्रुतिबलात्तद्भागस्य, तस्य पृथिव्यंशत्वस्य च सिद्धिः । पृथिवी- वैलक्षण्यस्य पूर्वोक्तप्रबलबाधकप्रमाणसिद्धत्वेन श्रुतेरुत्सर्गमात्र- विषयकत्वात्। नैल्यस्य प्रभासहचरितनीलभागगतत्वे न तस्य मण्यनुविधानं संभवति । न वा निःस्पर्शत्वम् ।