यदपि विशेषे साधकानुमाननिराकरणं, तदसंबद्धम्
विशेषसाधकानुमानसमर्थनम्
यदपि विशेषे साधकानुमाननिराकरणं, तदसंबद्धम् । प्रागुक्तप्रत्यक्षागमानुगृहीतानां तेषां निराकरणायोगात् । ब्रह्मस्वरूप- भूतयोः विज्ञानानन्दयोः एकतरपरिशेषाभावः भेदान्यनियम्यः भेदानियम्यत्वे सति नियम्यत्वात् इति प्रयोगे विज्ञानानन्दयोः ब्रह्मसंबन्धानङ्गीकारादाश्रयासिद्धिः स्वरूपत्वाङ्गीकारे द्विवचनानुप- पत्तिरिति यो दोष उक्तः सः अपहसनीयः । धर्मिभिन्नसंबन्ध- स्यानङ्गीकारेऽपि विशेषणताऽऽख्यस्वरूपसंबन्धाभ्युपगमेन द्विवचनोपपत्तेः ।
एकतरपरिशेषाभावशब्दार्थं विकल्प्य या दोषोक्तिः तच्छब्दाडम्बरमात्रम् । विज्ञानान्दयोर्मध्य एकस्य आनन्दस्यैव वा ज्ञानस्यैव वा परिशेषः नेतरस्येत्यर्थस्य सुस्फुटत्वात् । स च घटपटस्थले भेदेन निर्वाह्यः । भेदहीने तु तत्प्रतिनिधिनैव । न च अत्र साध्यकोटौ भेदान्यपदेन विशेषत्वेन तद्विवक्षणे साध्याप्रसिद्विरिति वाच्यम् । सत्यां व्याप्तौ तस्या अदोषत्वात् । वादिवाक्यात्प्रतिवादिनस्तत्प्रसिद्ध्युपपत्तेः । सामान्यव्याप्तेः सर्वथाऽक्षुण्णत्वात् ।
किं च भेदान्यत्वेनैव तस्य विशेषस्य साध्ये प्रवेशात् नाप्रसि- द्धिशङ्काऽपि । भेदकार्यविशेषस्य अपरिशेषादेः सामान्यकारणेन अदृष्टादिमात्रेणानिर्वाहान्न त्वदुक्तं सिद्धसाधनम् । पक्षधर्मताबलात् भेदप्रतिनिधेर्विशेषस्य सिद्धिश्च । विपक्षे हेतूच्छित्तिर्बाधिका ।भेदान्यानिर्वाह्यस्य भेदकार्यस्य भेदहीने वस्तुनि भेदप्रति- निधिनाऽप्यनिर्वाहे तस्य निर्वाह्यत्वमेव न स्यादिति ।
यदपि पूर्वोक्तानुमान एव प्रमेयत्वादेः स्वाश्रितत्वं इति पक्षी- कारे, किं प्रमेयत्वमात्रं एकं उत भिन्नं इति विकल्प्य दूषणाभिधानं तदपि तुच्छम् । एकमेवेत्यङ्गीकारात् । न च तथा सति स्वाश्रितत्वस्य गौणत्वेन आश्रयासिद्धिरिति वाच्यम् । प्रमेयत्वे न प्रमेयत्वं इति कदाऽपि बाधज्ञानाभावेन गौणत्वकल्पनाऽयोगात् ।
स्वाश्रितत्वव्यवहारस्य पक्षत्वेऽपि न त्वदुक्ते बाधासिद्धी प्रसरतः । शब्दप्रवृत्तिनिमित्तयोरेकत्वेन तद्भेदनियम्यत्वोक्त्य- संभवात् ।
एतेन स्वरूपभूतं विज्ञानानन्दादिकं भेदान्यैकतरापरिशेषादि- निर्वाहकवत् इति द्वितीयानुमानमपि समाहितम् । एकतरपरिशेषा- भावः इत्यस्य ज्ञानानन्दयोर्द्वित्वमित्यर्थं गृहीत्वा भेदान्यस्य द्वित्वनिर्वाहकत्वाभावादिति यत्तत्र बाधदूषणमुक्तं तत्तुच्छम् । अन्योन्याश्रयादेव । न हीतः प्राग्विशेषाभावः सिद्धः । येन त्वदुक्त- बाधदोषप्रसरः । न च प्रवृत्तिनिमित्तभेदेन सिद्धसाधनम् । स्वरूप- भूतयोः प्रवृत्तिनिमित्तभेदस्यापि विशेषं विनाऽनुपपत्तेः ।
एतेनैव स्वाश्रितं प्रमेयत्वादिकं भेदान्याश्रयाश्रयिभाव- निर्वाहकवत्, भेदहीनत्वे सति आश्रयाश्रयिभावरूपनिर्वाह्य- वत्त्वात् । इति तृतीयानुमानमपि निर्दोषमेवेति सिद्धम् । प्रमेयत्वेप्रमेयत्वं इत्यबाधितप्रतीतिबलेन प्रमेयत्वे स्वाश्रितत्वस्यैवाङ्गीकारेण मन्मते त्वदुक्तायाः आश्रयविशेषणासिद्धेः अप्रसक्तेः । यदुक्तं भेदहीनत्वघटितहेतोर्मन्मते स्वरूपासिद्धिरिति तदपि हेयम् । देवदत्तः सिंहो नेतिवत् अत्र प्रमेयत्वं न प्रमेयं इति भेदाप्रतीतेः । भेदाङ्गीकारेऽनवस्थाप्रसङ्गस्योक्तत्वेन च प्रमेयत्वतदाश्रितप्रमेय- त्वयोर्भेदस्याप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च भेदहीनत्वहेतोः स्वरूपासिद्धेरशक्यशङ्कत्वात् ।
स्वाश्रितत्वं निर्वाहकविशेषवदिति प्रतीतेर्विशेषनिर्वाह्यत्वेन न साध्ये त्वदुक्तमतुबर्थानुपपत्तिः । धर्मिग्राहकप्रमाणैर्विशेषस्य स्वनिर्वाहकतयैव सिद्धेर्नानवस्थाऽपि ।
तदेवं विशेषस्य पूर्वोक्तरीत्या प्रत्यक्षेण, 'स्वरूपेऽपि विशेषोऽस्ति स्वरूपत्ववदेव तु । भेदाभावेऽपि तेनैव व्यवहारश्च सर्वतः' इति परमोपनिषदा, 'तस्मादेकमनन्तधा' । व्यवहार्यं विशे- षेण दुस्तर्कबलतो हरेः । विशेषोऽपि स्वरूपं स स्वनिर्वाहकताऽस्य च' इति ब्रह्मतर्केण, 'अभेदेऽपि विशेषोऽस्ति व्यवहारस्ततो भवेदित्यादिस्मृत्या च सिद्धत्वेन विशेषसाधकानां अनुमानानां प्रत्यक्षागमानुगृहीतत्वेन न त्वदुक्तक्षुद्रदोषावकाश इत्यलं निर्दल- कुकल्पनानां निरसनेन ।
एवं च सर्वप्रमाणसिद्धविशेषबलेन स्वरूपात्मकैरेव निर्दोषाशेषसद्गुणैः परिपूर्णो भगवान्विष्णुरिति निराबाधमवस्थितमित्यशेषमतिमङ्गलम् ॥
इति श्रीमद्विजयीन्द्रतीर्थपूज्यचरणविरचित- सर्वसिद्धान्तसारासारविवेचनगतस्य रामानुजमतनिरासपरस्य दशमपरिच्छेदस्य मण्डनात्मकं श्रीमद्विजयीन्द्रविजयवैभवम् श्रीसत्याभिज्ञतीर्थपूज्यपादपद्माराधक-श्रीसत्यप्रमोदतीर्थविरचितं संपूर्णम् ।
श्रीकृष्णार्पणमस्तु ॥