तदेवं श्रुतिस्मृतियुक्तिज्ञानिप्रत्यक्षैः प्रमितस्य ..
जीवस्वरूपतारतम्यकृतानन्दतारतम्यसमर्थनम्
तदेवं श्रुतिस्मृतियुक्तिज्ञानिप्रत्यक्षैः प्रमितस्य मुक्ततारतम्यस्यापलापदुर्व्यसनेन प्रमितमपि तारतम्यं जीवस्वरूपमात्रे, विकल्प्य यस्तवतस्य दूषणोपक्रमः, स केन चिद्भूतेन विकल्प्य कृतः द्विरद- स्वरूपापलाप इवोपेक्षणीयः । तदुक्तं ह्यात्मतत्त्वविवेके 'विकल्पदूषणाभ्यां स्वरूपं नैव हीयते । प्रमाणसिद्धं तत्कर्तोपेक्ष्यते भूतवज्जनैरिति ।
परिमाणतारतम्यनिबन्धनं स्वरूपतारतम्यमिति स्वयमेव . प्रकल्प्य तत्पक्षे विकल्प्य यः दूषणाडम्बरः, सा छलोक्तिरित्युप- हसनीया । सर्वेषां जीवानामविशेषतयाऽणुपरिमाणाङ्गीकारात् । ‘उत्क्रान्तिगत्यागतीनामि’ति सूत्रेण तथैव व्यवस्थापितत्वात् । अणोरपि सावयवत्वमेव । न चाणुत्वव्याघातः । 'अविभागः पराणुते 'ति तल्लक्षणात् । ते चावयवाः सविशेषाभिन्नाः । अत एवावयवानामारम्भकत्वप्रयुक्तदोषाप्रसक्तिः । शिशुपालाद्येक- स्मिन्देहे सज्जीवदुर्जीवसङ्कलनमयुक्तमिति यदुक्तं तदप्यसारम् । प्रमाणसिद्धेऽर्थेऽनुपपत्त्यनवकाशात् । भूताविष्टदेह इवोपपत्तेः । दुर्जीवसंपर्कप्रयुक्ता ईषद्दोषप्रसक्तिः सज्जीवेऽस्त्येव । अत एव 'न तत्र तत्परिहारोपायप्रसक्तिरिति त्वदाक्षेपानवकाशः ।
यच्चात्रोक्तं मुक्तानां प्रतिबिम्बताप्रयोजकोपाधिर्नेति तदपि दुर्ज्ञानविलसितम् । मुक्तौ बाह्योपाधिलयेऽपि स्वरूपाधिस्थितेः ।
तथा हि भगवद्वचनं (गी.भाष्यं अध्यायः २ श्लोकः १८)
'प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया ।
चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः ॥' इति ।
यच्चोक्तं मुक्तजीवानामंशत्वे कृष्णरामादिवत् न आनन्दतारतम्यप्रसक्तिरिति तत्
'प्रतिबिम्बांशका जीवाः प्रादुर्भावा हरेः स्मृताः । प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु ॥'
इति श्रुत्यैव निराकृतम् । अत एव स्वरूपांशकत्वादेव भगवतः प्रादुर्भावाणां न संख्याबहुत्वनिमित्ताऽन्योन्यं त्वदुक्ता भेदप्रसक्तिः । अन्यथा भगवति स्वगतभेदनिषेधकश्रुतिस्मृतिव्याकोपप्रसङ्गः ।