रामं दिग्विजयं सुनिर्मलतनुं विभ्राजमानं सदा ..

॥ श्री दिग्विजयरामो विजयतेतराम् ॥

श्रीविजयीन्द्रविजयवैभवम्

मङ्गलाचरणम्

रामं दिग्विजयं सुनिर्मलतनुं विभ्राजमानं सदा

श्रीसीतायुतमूलरामममलं सद्वंशरामं तथा ।

व्यासं विठ्ठलमप्रमेयसुसुखं मध्वं जयीन्द्रं गुरू-

नन्यान्मद्गुरुमानमामि सततं मद्योग्यसौख्याप्तये ॥ १ ॥

राम रामेति रामेति रमे रामे मनोरमे ।

इत्युमायै शिवोक्तं श्रीमूलरामं भजेऽनिशम् ॥२॥

रामनुजमतध्वान्तमञ्जसा येन वारितम् ।

प्रकाशितं च तत्त्वं तं भजे मध्वदिवाकरम् ॥ ३ ॥

यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।

लभन्ते मानुषा नूनं ताञ्जयार्यगुरून्भजे

व्यासमध्वजयीन्द्राध्वसाध्वभ्यासाप्तशुद्धधीः ।

विजयीन्द्रो विद्वदिन्द्रो वीरो विजयते सदा

सारता तत्त्ववादस्यासारता तद्विरोधिनाम् ।

विवेचिता यैर्वन्दे तान्विजयीन्द्रमुनीश्वरान् ॥ ६ ॥

दुर्वादिमतविच्छित्तौ नैजनैपुण्यनिर्भरः ।

संदध्यान्मयि तत्सिद्धिं सत्यध्यानगुरूत्तमः ॥७॥

अस्मद्देशिकपादाब्जे संप्रणम्य यथामति ।

विजयीन्द्रार्यसुकृतेर्वक्ष्ये विजयवैभवम् ॥ ८॥

परकालेन यतिना दोषाभासान् प्रजल्पितान् ।

निष्कृष्यानूद्य संक्षेपात् निराकुर्वे मितैः पदैः ॥ ९॥