मह्यं प्रदद्यादनिशं मुकुन्दस्तत्वावबोधं सकलार्थदर्शी

सर्वसिद्धान्तसारासारविवेचनम् 

॥ श्रीः ॥

श्रीमद्विजयीन्द्र तीर्थ विरचितं सर्वसिद्धान्तसारासारविवेचनम्

मङ्गलम्

मह्यं प्रदद्यादनिशं मुकुन्दस्तत्वावबोधं सकलार्थदर्शी ।

सङ्कल्पतो यस्य जगत्यनेके मिथोविरुद्धाः समयाः प्रवृत्ताः ॥ १ ॥

सर्वतन्त्रखतन्त्रेण विजयीन्द्राख्यभिक्षुणा ।

क्रियते सर्वसिद्धान्तसारासारविवेचनम् ॥ २ ॥

मिथ्याज्ञाननिमित्तोऽयं बन्धस्तत्त्वधियं विना ।

न शाम्यतीति युक्तं तत्सारासारविवेचनम् ॥ ३ ॥

यस्य यस्य मते या या प्रक्रियास्मद्विरोधिनी ।

तस्य तस्य मते सा सा पुष्कलानूद्य दूष्यते || ||

तत्र रामानुजश्रीकण्ठमतनिरासो नाम दशमः परिच्छेदः ॥

(रामानुजमतप्रक्रियानुवादः )

इदानीं रामानुजमतं निराक्रियते । रामानुजमतानुवर्तिनो ह्येवमाहु: । प्रमाविषयः प्रमेयम् । प्रमाणस्यापि प्रमेयत्वान्न पृथक् परिगणनम् । तच्च द्विविधम् । द्रव्यमद्रव्यश्चेति । द्रव्यं च द्विविधम् । जडमजडं चेति । जडं च द्विविधम् । प्रकृतिः कालश्चेति । अजडमपि द्विविधम् । प्रत्यक् पराक् चेति । प्रत्यक् द्विविधः । जीव ईश्वरश्चेति । पराक् च द्विविधम् ' ।धर्मभूतज्ञानं नित्यविभूतिश्चेति । एवञ्च प्रकृतिः, काल:, जीवः, ईश्वरः, धर्मभूतज्ञानं, नित्यविभूतिरिति द्रव्यं षडिधम् । तत्र द्रव्यत्वमवस्थायोगित्वम् । अवस्था च आगन्तुको धर्मः । सत्वादिगुणोपेता प्रकृतिः । सा च महदहङ्कारे- कादशेन्द्रियपञ्चतन्मात्रपञ्चमहाभूताद्यवस्थायोगितया प्रकृतित्वावस्थायोगितया च चतुर्विंशतिधा । तत्र क्षणलवमुहूर्तसंवत्सराद्यवस्थायुक्तः कालः । अणुत्वे सति ज्ञातृत्वं जीवत्वम् । जीवान्यचेतनत्वं ईश्वरत्वम् । ज्ञातुर्ज्ञेयविषयावभासो धर्मभूतज्ञानम् । त्रिगुणद्रव्यभिन्ना सत्वगुणोपेता नित्यविभूतिरिति ॥ यथाहुः ॥

(रामानुजमतसम्मतद्रव्याद्रव्यविभागनिरासारम्भः गुणिनोरत्यन्त भेदनिराकरणपूर्वकं नीलोघटइत्यादिप्रतीते- रभेदावगाहित्वसमर्थनम् । )

द्रव्याद्रव्यप्रभेदान्मतमुभयविधं तद्विदस्तत्त्वमाहुः

द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ ।

अन्त्यं प्रत्यक् पराक् च प्रथममुभयथा तत्र जीवेशभेदात्

नित्या भूतिर्मतिश्चेत्यपरमपि जडामादिमां केचिदाहुः || (तत्त्वमुक्ताकलापे जडद्रव्यसरे ६ श्लोकः )

तत्र द्रव्यं दशावत् प्रकृतिरिहगुणैः सत्त्वपूर्वैरुपेता

कालोऽब्दाद्याकृतिस्स्यात् अणुरवगतिमान् जीवईशोऽन्य आत्मा ।

संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव

ज्ञातुर्ज्ञेयावभासो मतिरितिकथितं संग्रहाद्दव्यलक्ष्म ॥ ( तत्त्वमुक्ताकलापे जडद्रव्यसरे ७ श्लोकः ) इति ॥

संयोगरहितमद्रव्यमनुपादानं वा । तच्च दशविधम् । सत्वरजस्तमांसि शब्दस्पर्शरूपरसगन्धाः संयोगः शक्तिरिति । एवं सिद्धेष्वेवाद्रव्येषु गुरुत्व-द्रवत्वस्नेहसंस्कारसंरव्यापरिमाणपृथक्त्वविभागपरत्वापरत्वसामान्यसादृश्यविशेषसम- वायाभाववैशिष्ट्यादीनां यथासम्भवमन्तर्भावः । स च न्यायसिद्धाञ्जने सर्वार्थसिद्धौ च द्रष्टव्यः ॥ तत्रापि कारणस्यैव अवस्थान्तरयोगित्वेन कार्यत्वम्, न तु कारणात् कार्यद्रव्यं भिन्नम् । तदनन्यत्वाधिकरणे तयोरनन्यत्वसमर्थनात् । न चैवं कारकव्यापारवैयर्थ्यम् । अवस्थायाः आगन्तुकत्वाभ्युपगमेन तदर्थतया कारकव्यापारावश्यंभावात् । नचैवमसत्कार्यवादापत्तिः । सतो विद्यमानस्य उपादानस्यैव अवस्थायोगित्वेन कार्यत्वमिति सत्कार्यवाद-शब्दार्थत्वात् । अविद्यमानद्रव्यान्तरोत्पत्तिवादस्यैव असत्कार्यवादशब्दार्थत्वात् । तस्यैव मया निषेधात् । सांख्याभिमतसत्कार्यवादस्य अस्माभिरनभ्युपगमाच्च । जगद्रूपकार्योपादानं च ब्रह्मैव । तत्र कर्तृत्ववदुपादानत्वस्यापि प्रमाणसिद्धत्वात् । जीवब्रह्मणोश्चात्यन्तभेदः । तदभेदश्रुतयस्तु शरीरशरीरिभावनिबन्धनाः । ब्रह्मज्ञानमेव मोक्षोपायः । तच्च द्विविधम् । भक्तिरूपं प्रपत्तिरूपं चेति, तत्र भक्तिर्नाम तैलधारावदविच्छिन्ना दर्शनसमानाकारा निरतिशयप्रीतिरूपा आप्रा- यणमनुवर्तमाना स्मृतिसन्ततिः । तद्यथा

प्रारब्धेतरपूर्वपापमखिलं प्रामादिकं चोत्तर-

न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः ।

धीपूर्वोत्तरपाप्मनामजननाज्जातेऽपि तन्निष्कृतेः

कौटिल्ये सति शिक्षयन्ननघयन् क्रोडीकरोति प्रभुः ॥ इति ॥

प्रपत्तिस्तु ईश्वरं प्रति त्वमेवोपायभूतो भवेति प्रार्थनारूपो ज्ञानविशेषः । सा च सकृदनुष्ठितैव मोक्षसाधनम् । न चैवं सद्यो मोक्षप्रसङ्गः । प्रपत्त्या प्रारब्धस्यापि विनाश इत्यभ्युपगमादिति वाच्यम् । अनभ्युपगतप्रारब्धस्य नाशाभ्युप- गमेऽपि अभ्युपगतप्रारब्धस्य प्रपत्त्यविनाश्यस्य सत्त्वेन तदभावोपपत्तेः ॥

यथाहुः ॥ प्रारब्धेतरेत्यादिना । मोक्षश्च नित्यनिरतिशयब्रह्मानन्दावाप्ति-रूपः, न तु दुःखहेतूच्छेदरूपः, तावन्मात्रस्य अपुरुषार्थत्वादिति ॥

अत्रोच्यते ॥ न तावद्द्द्रव्याद्रव्यविभागो युक्तः । अद्रव्यत्वेनाभिमतानां रूपादीनां तदाश्रयद्रव्याणां च अभिन्नत्वात् । नीलो घट इत्यादिप्रतीत्या तदभेदस्यावश्याङ्गीकर्तव्यत्वात् । न हि भेदे सामानाधिकरण्यप्रतीतिः दृष्टचरी । सिंहो माणवक इति सामानाधिकरण्यं दृश्यत इति चेन्न । तत्र तथा प्रयोगस्य गौणत्वात् । नीलो घटः इत्यादौ गौणत्वव्यवहाराभावात् । न च नीलादिशब्दस्य नीलादिमत्परत्वं, प्रतीतिव्याख्यानापातात् । नियमेन तथा प्रयोगदर्शनेन अभेद-परत्वस्यैव युक्तत्वाच्च । किञ्च द्रव्यं षडिधमित्ययुक्तम् । वर्णात्मकशब्दादेः द्रव्यान्तरस्य सत्वात् । यस्य वेदाः शरीरमिति वेदानां ब्रह्मशरीरत्वोक्त्या द्रव्यत्वसिद्धेः । त्वन्मते अद्रव्यस्य शरीरत्वायोगात् । न च तेषां शरीरत्वं गौणम् । पृथिव्यादीनामपि तथात्वापातात् । तस्य प्रकृतिलीनस्येत्यत्र सर्ववेद-प्रकृतिरोङ्कारः, तस्य च प्रकृतिरकार इत्याद्यर्थं वदता त्वया वर्णेष्वपि द्रव्यत्वस्या-भ्युपगन्तव्यत्वाच्च । न च तत्र प्रकृतिशब्दितोपादानत्वं गौणमिति वाच्यम् । मायान्त्वित्यादावपि तथात्वापातात् ॥

(वर्णात्मकशब्दस्य नित्यत्वे, सर्वगतत्वे द्रव्यत्वे च प्रमाणोप-न्यासः।अव्याकृताकाशस्य द्रव्यान्तरत्वे प्रमाणप्रदर्शनम् ।)

वस्तुतस्तु ॥ वर्णात्मकशब्दानां नित्यसर्वगतत्वेन द्रव्यत्वं दुर्वारम् । वाचा विरूपनित्यया, यावद्ब्रह्मविष्ठितं तावती वाक् इत्यादिश्रुतेः ॥ किञ्चाव्या-कृताकाशस्य द्रव्यान्तरस्य सत्वात्त्वदुक्तसंख्याऽयोगः । न च तत्र मानाभावः । यावान्वायमाकाशः तावानेषोऽन्तर्हृदय आकाशः । आकाशवंत् सर्वगतश्च नित्यः । स यथानन्तरोऽयमाकाशः एवमनन्त आत्मा वेदितव्यः इत्यादिश्रुतीनां सत्वात् । न च तत्राकाशशब्दः परमात्मपरः । उपमानोपमेयभावस्य भेद-नियतत्वात् । न च गगनं गगनाकारमित्यादौ व्यभिचारः । तत्र सदृशान्तर- व्यवच्छेदपरत्वेन सादृश्यपरत्वासिद्धेः । नचात्रापि तथास्त्विति युक्तम् । स्वरस- सिद्ध सादृश्यपरत्वत्यागायोगात् । न चैवं त्वन्मते आकाशाधिकरणे अनन्तत्वादि- लिङ्गेन आकाशादेवेति वाक्यस्य विष्णुपरत्वसाधनमयुक्तं स्यात् । अनन्तत्वस्या-व्याकृताकाशेऽपि सत्वादिति वाच्यम् । गुणतोऽप्यानन्त्यस्य अनन्तशब्दार्थत्वेन तेन तस्य विष्णुपरत्वनिर्णयसम्भवात् । परोवरीयस्त्वादिधर्मान्तरेणास्य विष्णु-परत्वसिद्धेश्चेति यत्किञ्चिदेतत् ॥

(अन्धकारस्य द्रव्यान्तरत्वसाधनम् ।)

किञ्च त्वया अन्धकारस्य द्रव्यस्योपगमात्कथं प्रकृतिकालजीवेश्वरधर्म-भूतज्ञाननित्यविभूतिभेदेन द्रव्यं षडिधमित्युक्तिः । न तावत्त्वन्मतेऽन्धकारस्य प्रकृतिद्रव्यरूपत्वम् । साम्यावस्थायां त्वया प्रकृतिद्रव्यस्य अचाक्षुषत्वोपगमात् । अन्धकारस्य चाक्षुषत्वोपगमाच्च ॥ नापि प्रकृत्यवस्था रूपत्वम् । महदहङ्का-रेन्द्रियतन्मात्रभूतानामेत्र प्रकृत्यवस्थारूपत्वोपगमात् । अन्धकारस्य प्रकृत्य-वस्थान्तरत्वे चतुर्विंशतिसंख्यातमव्यक्तं व्यक्तमुच्यते ' इति श्रुतिविरोधः । महदहङ्कारेन्द्रियतन्मात्रेषु अन्तर्भावे चाक्षुषत्वमनुपपन्नम् । त्वन्मते तेषाम- चाक्षुषत्वोपगमात् । 'स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिः । नाध्यक्षेणाप्रतीतेः न पुनरनुमया, व्याप्तिलिङ्गाद्यसिद्धे 'रिति त्वदुक्तेः । त. मु. क. ११. । नचाकाशेऽन्तर्भावः । आकाशे विद्यमान एव सौरा- लोकादिनान्धकारस्य नाशदर्शनेन तद्रूपत्वायोगात् । नापि वायुरूपत्वम् । चाक्षुषत्वात् । नापि तेजोरूपत्वम् । तद्विरुद्धखभावत्वात् । नापि जल- रूपत्वम् । नीलरूपाश्रयत्वात् । न च पृथिवीरूपत्वम् । निस्स्पर्शत्वात् । न च नीलप्रभासहचरितनीलभागादिवन्निःस्पर्शत्वेऽप्यन्धकारस्य पृथिवीस्वरूपत्वं युक्तमिति वाच्यम् । प्रभायामेव नैल्यसम्भवेन तादृशनीलभागानां अकल्पनीयत्वात् । न चैवं यत्कृष्णं तदन्नस्येति श्रुतिविरोधः । अन्धकारे पृथिवीवैलक्षण्यस्य प्रबलप्रमाणसिद्धत्वेन तच्छ्रुतेरन्धकारव्यतिरिक्तविषयत्वेन सङ्कोचनीयत्वात् । तस्मादन्धकारस्य द्रव्यान्तरत्वं अवश्यमभ्युपेयम् ॥

(क्षणलव मुहूर्ताहोरात्र पक्षमासाद्यतिरिक्ततदुपादानभूताखण्ड- कालस्य तदभिमतस्याप्रामाणिकत्वोपपादनम् । )

किञ्च क्षणलव मुहूर्ताहोरात्रपक्षमासर्तुसंवत्सरादि सूक्ष्मकालव्यतिरेकेण तदुपादान भूतोऽखण्डः कालः नाभ्युपेयः प्रमाणाभावात् । न च 'कालस्वभावो नियति'रित्यादिश्रुत्या तत्सिद्धिः । सूक्ष्मकालविषयत्वेनापि तदुपपत्तेः । न च नदीवप्रभवात् काचित् अक्षय्यात्स्यन्दते यथा । तां नद्योऽभिसमायन्ति सोरुस्ती न निवर्तते ॥ एवं नानासमुत्थानाः कालाः संवत्सरं श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रितम् ॥ स तैस्सर्वैः समाविष्टः उरुस्सन्न निवर्तते ॥ ' इत्यादिश्रुत्या क्षणलवाद्युपादान भूताखण्ड कालसिद्धिरिति वाच्यम् । तच्छ्रुतेः कालप्रवाहाविच्छेदपरत्वेन त्वदभिमतेऽखण्डकाले प्रमाणत्वायोगात् ॥

(अन्तःकरणपरिणामातिरिक्तस्य जीवेश्वरस्वरूपविलक्षणस्य धर्मभूतज्ञानस्य सद्भावे मानाभावप्रतिपादनम् ।)

किश्च धर्मभूतज्ञानशब्देन अन्तःकरणपरिणामरूपवृत्तिज्ञानोक्तौ तस्य प्राकृतत्वेन द्रव्यान्तरत्वायोगः । तद्व्यतिरिक्त जीवेश्वरस्वरूपातिरिक्तं नित्यज्ञानं च नास्त्येव मानाभावात् । यथा चैतत् तथाग्रे प्रतिपादयिष्यते । किञ्च

नित्यविभूतिद्रव्यमप्रामाणिकम् । देशमात्रस्य मूलप्रकृतिव्याप्यत्वात् । ' तमसः परस्ता 'दित्यादेश्च ब्रह्मणः प्रकृत्यवश्यत्वप्रतिपादनपरत्वादित्युक्तम् । किञ्च सत्त्वं खल्वीरितं विषमत्वं प्रयाति । रजः खल्वीरितं विषमत्वं प्रयाति । तमः खल्वीरितं विषमत्वं प्रयातीति सत्त्वरजस्तमसामपीश्वरप्रेर्यत्वावस्थायोगित्वयोः प्रतिपादनेन द्रव्यत्वं दुर्वारम् ॥ किश्च सत्वरजस्तमसामद्रव्यत्वमयुक्तम् । उदाहृतश्रुत्यनु-सारेण तेषामपीश्वरप्रेर्यत्वेन द्रव्यत्त्वावश्यंभावात् । ससर्ज भगवानादौ त्रीन् गुणान् प्रकृतेः परः । इत्युक्तप्रकारेण तेषां प्राथमिकप्रकृतिकार्यत्वस्याङ्गी-कर्तव्यत्वाच्च ॥ किञ्च रूपादीनामद्रव्यत्वोक्तिरयुक्ता । तेषां द्रव्याभिन्नत्वस्य उक्तत्वात् । ध्वन्यात्मकशब्दानां अद्रव्यत्वेऽपि वर्णात्मकशब्दानां द्रव्यत्व-स्योपपादिततया तेषामद्रव्येषु परिगणनायोगाश्चेति दिक् ॥

(नित्यविभूतिद्रव्यस्य तन्मतोदाहृतस्याप्रामाणिकत्वव्यवस्थाप- नम् । सत्त्वरजस्तमसामद्रव्यत्वनिराकरणम् । तथा रूपादीनामद्रव्यत्वप्रत्याख्यानम् । उपादानातिरिक्तो-पादेयद्रव्यं नास्तीत्यस्यायुक्तत्वसाधनम् ।)

किञ्च उपादानातिरिक्तं उपादेयद्रव्यं नास्तीत्ययुक्तम् । तथाहि । न तावदुपादानातिरिक्तोपादेयद्रव्यसद्भावे मानाभावः । प्रत्यक्षस्यैव प्रमाणत्वात् । अस्ति तावत् स्थूलं नीलमेकं घटं साक्षात्करोमीति प्रतीतिः । न चैवंभूतसूक्ष्मेषु अनुद्भूतरूपेषु अनेकेषु अतीन्द्रियेषु भवितुमर्हति । न वा नीरूपायामतीन्द्रियायां प्रकृतौ । न च घटादिकं प्रति कपालादीनामेवोपादानत्वेन तेषां च स्थूलत्वाद्रूप- वत्त्वाद्योग्यत्वाच्च घटादेः न साक्षात्कारानुपपत्तिरिति वाच्यम् । कपालादीनामपि कार्यतया तेषामपि मूलकारणप्रकृतिरूपत्वाभ्युपगमेन उक्तदोषानिस्तारात् । परिणामवादे कपालादीनां घटाद्युपादानत्वाभ्युपगमायोगाच्च । एकत्वप्रतीत्यनुप-पादनाश्च । न च सूक्ष्माणामेव हिमादीनां सङ्घातत्त्वावस्थायां ऐन्द्रियकत्वं दृश्यत इति वाच्यम् । तत्र सङ्घातस्य द्रव्यान्तरत्वोपगमात् । अन्यथा तत्राप्युक्तदोषप्रसञ्जनात् ॥

(घटाद्यवयविगतैकत्वपरीक्षा ।)

किञ्च घटादिषु वनसेनादिष्विव नैकत्वमौपाधिकम् । एकदेशस्थत्वप्रतीतिं विनापि घटादावेकत्वानुभवात् । त्वन्मते प्रकृतिपरमात्म- कालाद्यतिरिक्तपृथिव्यादिदेशानामप्यनेकत्वेन तदेकत्वेन वनाद्येकत्वोपपादना- योगाच्च । न च प्रकृतिगतैकत्वोपाधिकं घटाद्येकत्वमिति वाच्यम् । त्वन्मते घटादीनां प्रकृत्यनतिरिक्तत्वेन प्रकृतेश्चातीन्द्रियत्वेन साक्षात्क्रियमाणघटादिगतैक-त्वस्य प्रकृतिगतैकत्वोपाधिकत्वायोगात् । एतेन परमात्मकालाद्युपाधिकं घटादि- गतमेकत्वमिति निरस्तम् । तयोरप्यतीन्द्रियत्वात् । न च कालस्य प्रत्यक्षत्वोप-गमेन तदेकत्वोपाधिकं घटाद्येकत्वमिति वाच्यम् । कालप्रतीतिं विनापि घटादावेकत्वप्रतीतेः सर्वानुभवसिद्धत्वात् । किञ्च त्वन्मते प्रकृतेः एकत्वेन महदहङ्कारेन्द्रियतन्मात्रभूतादीनां प्रकृतिकार्यभूतानां अनेकेषां प्रकृतेः परस्परं च भिन्नत्वावश्यंभावेन उपादेयद्रव्यान्तरं दुर्वारम् । न च एकस्याः एव प्रकृतेः अनेकत्वमभ्युपगम्यत इति न द्रव्यान्तरसिद्धिरिति वाच्यम् । तथात्वे प्रकृतेरेकत्वाभावप्रसङ्गात् । त्वया एकत्वानेकत्वयोः विरोधाभ्युपगमाच्च । न च तयोरेककाल एव विरोधः । न तु कालान्तरेऽपि । एकस्यैव मृत्कूटस्य 1 घटशरावाद्यवस्थायां अनेकत्वदर्शनादिति वाच्यम् । मृत्कूटस्यांशप्रयुक्तानेकत्व- स्यापि सत्वेन तस्य अनेकात्मकत्वस्य युक्तत्वेऽपि त्वन्मते प्रकृतेः निरंशत्वेन महदाद्यनेकात्मकत्वस्यायुक्तत्वात् । न हि निरंशस्य एकस्यानेकत्वं कचिद्दृष्टचरम् ।

(प्रकृते रूपादिशून्यत्वप्रक्रियापरीक्षा ।)

किञ्च वियदनिलतेजोबन्नादिषु भूतेषु घटशरीरादिभौतिकेषु च परस्परसंयोगादीनां अवच्छेदकभेदादीनां च दृष्टत्वेन निरंशैकप्रकृतौ तदयोगेन वियदादिकार्यद्रव्यान्तरं दुर्वारम् । नन्वेतदोषा' भावाय प्रकृतेः सांशत्वमभ्युपगम्यत । इति चेत्तकोपादानवादत्यागप्रसङ्गात् । परमाणुकारणवादाविशेषप्रसङ्गाच्च । न च सङ्घातोपाधिकमेकत्वमनेकेष्वपि युज्यते । प्रकृत्यंशानां रूपादिशून्यत्वेन अत्यन्तविजातीयत्वाभावेन च परमाणुकारणवादाद्विशेषश्चेति वाच्यम् । अजामेकां लोहितशुक्लकृष्णां, अजाह्येका भोक्तृभोगार्थयुक्तेति प्रकृतेः साक्षादेकत्व-प्रतिपादकश्रुतिविरोधात् । मायान्तु प्रकृतिं विद्यात्, गौरनाद्यन्तवती सा, क्षरं प्रधानममृताक्षरं हर इत्यादिश्रुतिगतैकवचनविरोधाच्च । अन्यथा एकमेवाद्वितीयं, द्यावाभूमी जनयन् देव एकः, इत्यादावपि सङ्घातोपाधिकमेकत्वमिति स्यात् । " ननु ' चतुर्विंशतिसंख्याकमव्यक्तं व्यक्तमुच्यते । अष्टौ प्रकृतयः । षोडश विकाराः । 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं (1. एतद्दोषपरिजिहीर्षयेति पाठः ) मे भिन्ना प्रकृतिरष्टधा ॥ महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते ॥ प्रोच्यते प्रकृतिः सूक्ष्मा नित्या सदसदात्मिका ॥ ' इत्यादिश्रुतिस्मृतिभिः प्रकृतेरनेकात्मत्वप्रतिपादना-तदेकत्वप्रतिपादकश्रुतेः सङ्घातैकत्वप्रतिपादनपरत्वमेव युक्तम् । एकमेवाद्वितीय- मित्यादेस्तु बाधकाभावेन न तत्समश्चेत्यादिश्रुत्यन्तरानुसारेण च व्यक्तयैक्य- परत्वमेव अभ्युपगम्यत " इति चेदेवमपि प्रकृत्यंशानां त्वन्मते नीरूपत्वेन सूक्ष्मत्वेन च प्रत्यक्षाविषयतया साक्षात्क्रियमाणानां भूतानां भौतिकानां च उपादान भूतप्रकृतेः भिन्नत्वस्य दुर्वारत्वात् । ननु प्रकृत्यंशानां तेजोऽबन्नशरीर-घटादिभूत भौतिकाद्यवस्थायां तत्तत्प्राण्यदृष्टवशात् रूपाद्यत्पत्तेः तेषामेवावस्थान्तरे रूपादिमत्त्वेन प्रत्यक्षत्वं युक्तमिति न द्रव्यान्तरोत्पत्तिः युक्तेति चेन्न । तथा सति जीवब्रह्मणोरपि विरुद्धधर्मयोगित्वेन भेदसिव्यभावप्रसङ्गात् ॥ किञ्च त्वन्मते प्राकृततमः प्रकाशादावपि धर्ममात्रप्रयुक्त एव विरोधः स्यान्नतु परस्परा-नात्मकतालक्षणो विरोधः । न च प्रकृतावंशभेदाभ्युपगमात् तत्र धर्मिप्रयुक्तो विरोधोऽस्तीति वाच्यम् । तथा सति प्रकृतेः प्राकृतानां तेजोऽवन्नादीनां च नीरूपत्वरूपवत्त्वाभ्यां भेदावश्यंभावेन तेषां धर्मिप्रयुक्तो विरोधः आवश्यक इति द्रव्यान्तरत्वस्य वज्रलेपत्वात् । न च प्रकृते रूपवत्त्वं त्वया अभ्युपगम्यते । शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् । प्रधानं तज्जगद्योनिरनादिप्रभवा-प्ययम् " ॥ इत्यादिस्मृत्यनुसारेण प्रकृतेः त्वया रूपादिशून्यत्वापगमात् । प्रकृत्यंशानां रूपादिशून्यत्वेनैवाणु कारणवाद वैलक्षण्योपगमाञ्च । अजामेकां लोहित शुक्लकृष्णां, गौरनाद्यनन्तवती सा जनित्री भूतभाविनी । सिताऽसिता च रक्ताचेत्यादिश्रुतेश्च तेजोऽवन्नादिरूपेण परिणता लोहित शुक्लकृष्णाकारावतिष्ठते इति त्वयैवार्थान्तराभ्युपगमेन तया प्रकृते रूपवत्त्वासिद्धेश्च ॥

(अवयवातिरिक्तावयव्यनङ्गीकारे बाधकोपन्यासः ।)

किञ्च अवयवातिरिक्तावयव्यनङ्गीकारे घटोऽयं पटोऽयं वृक्षोऽयमित्यादि-प्रत्यक्षप्रत्ययाः निरालम्बनाः स्युः । त्वन्मते तत्तदवयवानां सर्वेषामपि संहतत्वा-वस्थायामपि न घटपटवृक्षादिप्रतीतिः । कपालतन्तुरूपत्वोपगमात् । तावता-मवयवानां इन्द्रियसन्निकर्षाभावात् । तथाच घटपटवृक्षाद्येक देशप्रत्यक्षप्रतीतिरेव स्यान्न घटपटवृक्षादिप्रतीतिः । नहि कपालतन्तुशाखाद्येकदेशमात्रं घटः पटो वृक्ष इत्यङ्गीकर्तुं युक्तम् । तथा व्यवहाराभावात् । न चार्वाग्भागावस्थितानां अवयवानां उपनये घटोऽयमित्यादिप्रत्यक्षमिति वाच्यम् । नियमेनोपनायक-सामग्रयभावात्, एकदेशसन्निकर्षरूपप्रत्यक्षसामग्रया बलवत्त्वाच्च । अतिरिक्ता-वयव्यभ्युपगमे तु तत्तदवयवावच्छेदेन तत्तदवयविनः सन्निकृष्टत्वेन घटपटादि-प्रत्यक्षप्रतीत्युपपत्तिः ॥

नन्ववयवातिरिक्तावयव्यभ्युपगमे अवयवगतगुरुत्वातिरेकेण अवयविन्यपि गुरुत्वान्तरं स्यात् । कारणगुणा हि कार्ये गुणानारभन्त इत्यभ्युपगमात् । अन्यथा अवयविष्वपि रूपादिकमन्यन्नोत्पद्येत । अवयविन: प्रत्यक्षत्वेन तत्र रूपाद्युत्पत्त्यङ्गीकारे तत्र पतनादिकार्यदर्शनेन गुरुत्वान्तरमपि स्यात् । तत्रावयविनोऽवयवगतगुरुत्वादेव पतनं चेदवयवगतरूपादिनैव अवयविन: प्रत्यक्षत्वेन रूपादिकमपि तत्र नाङ्गीकार्य स्यात् । न च यद्विषयो यस्साक्षात्कारः तद्गतरूपादिरेव तत्साक्षात्कारे प्रयोजक इति वाच्यम् । तर्हि पतनसमानाधिकरणमत्रयविगुरुत्वमपि तथा स्यात् । अन्यनिष्टगुरुत्वस्य अन्यदीयपतनाहेतुत्वात् । न चावयवानामेव गुरुत्वात् पतनं, अवयविनस्तु शिलाद्याबद्ध तृणादिपतनवत्तत्सम्बन्धिप्रयुक्तमिति वाच्यम् । अवयवपतनमपि स्वावयवगुरुत्वात्, तद्गुरुत्वमपि तथेति परमाणुमात्रगुरुत्वपरिशेषप्रसङ्गः । तथाच कार्यगुरुत्वात् कारणगुरुत्वमिति त्वदभ्युपगमविरोधः । अवयविगतगुरुत्वोपलम्भ-नाद्यर्थमेव तोलनादौ प्रवृत्तिदर्शनात् तद्विरोधश्च स्यात् ।

किञ्च संयोगवेगप्रयत्नाभावे गुरुत्वात् पतनम्, आद्यपतनासमवायिकारणं गुरुत्वमिति त्वदभ्युपगमविरोधः । एवं गुरुत्वान्तरवद्रूपरसगन्धाद्यन्तरमपि स्यादित्युपादानातिरिक्तमुपादेयं द्रव्यान्तरं नाभ्युपेयमिति । मैवम् । तन्तवः पट इत्यपर्यायशब्द भेदैरेकत्वद्वित्वादिसंख्याभेदैः तत्तदर्थक्रियाभेदैः वृत्तचतुरश्रत्वाद्या-कारभेदैः पूर्वोत्तरकालभेदैः कारणभेदैश्च कार्यकारणयोः भेदसिद्धौ गुरुत्वान्तराभावस्य कार्यगुरुत्वेन कारणगतगुरुत्वस्य नाशः, प्रतिबन्धो वेति यथाकथञ्चित् उपपादनीयत्वात् । अन्यथा जीवेश्वराव्यक्तकालादीनामपि विरुद्धगुणयोगित्वेन भेदो न स्यादित्युक्तम् । न च मृदेव घटः, आतानवितानात्मकास्तन्तव एव पट इति सामानाधिकरण्येन कार्यकारणयोः ऐक्यमेवानुभूयत इति वाच्यम् । चन्दनं सुखमित्यादिसामानाधिकरण्यवत् तस्यौपचारिकत्वात् । न च पत्रताटङ्कयोः अप्यभेदाभ्युपगमः । परिणामभेदे द्रव्यभेदावश्यंभावात् । अन्यथा योऽहं बाल्ये पितरावन्वभूवम् सएवाहमिदानीं स्थाविरे प्रणप्तननुभवामीति प्रत्यभिज्ञायाः युवस्थविराभेदविषयकत्वेन तया देहातिरिक्तात्मसिध्यभावप्रसङ्गात् । न च श्रुत्यैव देहातिरिक्तात्मसिद्धिरिति वाच्यम् । तस्या अपि प्रामाणिकग्रन्थेषु प्रमाणत्वेन उपन्यासात् । विप्रतिपन्नं प्रति प्रमाणान्तरस्यैव उपन्यसनीयत्वाच्च । न च पत्रस्य एकत्वेन ताटङ्कानारम्भः शङ्कनीयः । अंशभेदेन तस्यैवारम्भकत्वोपपत्तेः । न चावयवातिरिक्तावयव्यभ्युपगमे कपालाद्येकैकावयवसंयुक्त एव भूतले अवयविनो घटादेरप्यवस्थितिर्वाच्या । अन्यथा भूतले घट इति प्रतीतिः निरालम्बा स्यात् । नचासौ युक्ता, कपालघटयोः कठिनद्रव्ययोः समानदेशत्वायोगात् । कठिनद्रव्याणां समान देशताविरोधाभ्युपगमादिति वाच्यम् । अपृथसिद्धयोः कठिनद्रव्यत्वेऽपि समानदेशत्वाभ्युपगमे विरोधाभावात् । यथादर्शनं विरोधाविरोधयोरभ्युपगन्तव्यत्वात् । अन्यथा क्रयाणामेव समानदेशतामङ्गीकृत्य सर्वमपि द्रव्यं नियतैकदेशवृत्तीति अभ्युपगन्तव्यं स्यात् । न चैतद्यक्तं, व्यापकद्रव्याणामपि केषाञ्चित्प्रमाणप्रतिपन्नत्वात्, एवं अपृथसिद्धयोः अपि कठिनद्रव्ययोः समानदेशत्वं प्रमाणप्रतिपन्नमिति पृथसिद्धयोरेव कठिनद्रव्ययोः समानदेशत्वविरोधोऽभ्युपगन्तव्य इति न कश्चिद्दोषः ॥

(अवयवातिरिक्तावयव्यभ्युपगमे बाधकाभावप्रतिपादनम् )

ननु कार्यकारणद्रव्ययोः गवाश्वयोरिव भेदबुध्यभावात् सम्बन्धाभावा-वैकत्वमङ्गीकर्तव्यम् । तथाहि, न तावत्कार्यकारणयोः संयोगः सम्बन्धः अनभ्युपगमात् । नापि समवायः । प्रमाणाभावात् । तस्य विशिष्टधीकल्प्य- त्वात् । मृद्घटादीनां च भेदबुद्धयभावात् । न च मृदि घटः, इह तन्तुषु पटः इति च तद्भेदबुद्धिरिति युक्तम् । एतादृशबुद्धेः त्वदेककल्पितत्वेनासार्वत्रि- कत्वात् । किञ्च समवायस्य समवायिभिः सम्बन्धान्तरं कल्प्यम् । एवं तत्र तत्रेत्यनवस्था । अथ समवायस्य समवायिभिः न सम्बन्धान्तरं, तर्हि कार्य-कारणयोः अपि तथास्तु । एवं कार्यकारणयोः विशिष्टबुद्धयभावात् अभेदबुद्धेश्च-एकत्वमङ्गीकर्तव्यम् । मैवम् । मृदा घट उत्पन्नः, तन्तुभिः पट उत्पन्न इति तत्रापि भेदबुद्धेस्सत्वात् । पटस्य तन्तव इति विशिष्टधीसत्वाच्च । एवं च कार्यकारणयोः सम्बन्धो दुर्वारः । स च संयोगो न भवति चेदन्योऽस्तु, अन्यथा घटादीनां तद्गतरूपादीनां च सम्बन्धाभावादेकत्वमेव स्यात् । तथाच घटादि-द्रव्यातिरिक्तं रूपादिकं न सिध्येत् । तस्मात् रूपादिकमिव अवयविद्रव्यमभ्युपगन्तव्यम् ॥ नन्ववयविद्रव्यं सर्वेष्ववयवेषु वर्तते उत प्रत्यवयवम् । नाद्यः, अवयव्यनुपलब्धिप्रसङ्गात् । समस्तावयवसन्निकर्षाभावात् । न ह्यनेकेषु वर्तमानं बहुत्वमेकमात्रग्रहणेन गृह्यते । न द्वितीयः । एकस्य एकदाऽनेकत्र वृत्त्यनुपपत्तेः । तत्तदवयवेषु विद्यमानस्यावयविनोऽनेकत्वापत्तेश्च । न च गोत्वादेखि एकस्यानेकत्र वृत्तिर्युक्तेति वाच्यम् । गोत्वादेरपि व्यक्तिप्रत्यक्षेण ग्रहणवदवय- विनोऽपि प्रत्यवयवप्रत्यक्षेण ग्रहणापातात् । न चैवं गृह्यते । गोत्वादेरपि प्रतिव्यक्तिभिन्नभिन्नत्वेन तदवयविनानात्वस्य दुर्वारत्वाच्चेति चेन्न । गोत्वादेरिव अवयविन: प्रत्यवयवं वृत्त्यभ्युपगमात् । गोत्वादिवदेवैकत्वोपगमाच्च । न च गोत्वादेरनेकत्वम् । अनुगतप्रतीतिव्यवहारयोः निरालम्बनत्वापातात् । अनुगत-प्रतीतिव्यवहारालम्बनस्य गोत्वादिस्थानीयस्य सादृश्यादिधर्मस्य सर्वैरपि अभ्युप- गन्तव्यत्वाच्च । तस्मादवयव्यभ्युपगमे न किञ्चिद्वाधकम् ॥

ननु अवयविनोऽसत्वात् कारकव्यापारो निर्विषयः स्यात् । अभावस्य विषयत्वानुपपत्तेः । न च समवायिकारणविषयः कारकव्यापार इति वाच्यम् । अन्यविषयेण कारकव्यापारेण अन्यनिष्पत्तावतिप्रसङ्गात् । तस्मान्मृत्तन्त्वादीन्येव

कारकव्यापारविषयतया घटपटादिभावेन अवतिष्ठन्त इति नावयविद्रव्यान्तरमभ्यु-पगन्तव्यम् । न हि विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति, अन्यथा सङ्कुचित-हस्तपादस्य प्रसारितहस्तपादस्य च देवदत्तस्य भेदप्रसङ्गात् । गच्छतः तिष्ठतः शयानस्य च भेदप्रसङ्गात् । तथा संवेष्टितस्य प्रसारितस्य च पटादेः भेद-प्रसङ्गाच्चेति चेन्न । अवस्थारूपोत्पत्त्यङ्गीकारिणा त्वयापि कारकव्यापारो विद्यमान-विषय इत्यङ्गीकर्तव्यत्वात् । त्वन्मते कारकव्यापारस्य अवस्थाश्रयविषयत्व-वदतिरिक्तावयत्रिवादेऽपि तस्य समवायिकारणविषयत्वोपपत्त्यातिप्रसङ्गाभावाच्च । यत्तु अन्यथा सङ्कचितहस्तपादस्य प्रसारितहस्तपादस्य च देवदत्तस्य भेदप्रसङ्ग इत्यादि । तन्न । इष्टापत्तेः । परिमाणभेदे द्रव्यभेदावश्यंभावात् । अन्यथा देहातिरिक्तऽऽत्मासिद्धिप्रसङ्गः स्यादित्युक्तम् । न च प्रत्यभिज्ञया तत्र देवदत्तैक्यसिद्धिः । केशनखादिष्विव तत्र तस्याः जात्यैक्यविषयत्वात् । न चैवं प्रतिक्षणं सर्वत्र किञ्चिद्विशेषसम्भवेन क्षणवादप्रसङ्गः इति वाच्यम् । सर्वत्र प्रतिक्षणं विशेषसद्भावे मानाभावात् । क्वचित् प्रतिक्षणं तादृशविशेषसद्भावेऽपि पराभिमतक्षणिकत्वानापत्त्या वैषम्याच्च । स्वोत्पत्तिक्षणवृत्तिध्वंसप्रतियोगित्वलक्षणक्षणिकत्वस्य पराभिमतत्वात् । शब्दबुद्धिकर्मदीपज्वालादिषु तृतीयक्षणवृत्तिध्वंस-प्रतियोगित्वलक्षणस्य क्षणिकत्वस्याभ्युपगमेन, अन्यत्रापि तादृशक्षणिकत्वाभ्युपगमे विरोधाभावाच्च । तस्मात्, अवयविद्रव्यान्तराभ्युपगमे न किश्चिद्बाधकम्

(परब्रह्मणोऽभिन्ननिमित्तोपादानत्वप्रक्रियापरीक्षा )

किञ्च त्वन्मते ब्रह्मण एव वियदादिजगदुपादानत्वेन वियदादिद्रव्यस्य ब्रह्मभिन्नस्य सत्त्वेन, उपादानातिरिक्तं उपादेयद्रव्यं नास्तीत्यपार्थकं वचनम् । ननु अस्मन्मते न केवलं ब्रह्म जगदुपादानं किन्तु सूक्ष्मचिदचिद्विशिष्टं न, ब्रह्मैवोपादानम्, तदेव च स्थूलकार्येण रूपेण कार्यमिति उपादानोपादेययोः अनन्यत्वमिति चेत् । किमेवंवदता विशिष्टं पदार्थान्तरमित्यभिप्रतम्, उत विशेषणविशेष्यतत्सम्बन्धरूपम् । नाद्यः, जगत्कर्तृभूतस्य ब्रह्मणः उपादानत्वानु- पपादनात् । त्वया ब्रह्मणोऽभिन्ननिमित्तोपादानत्वाभ्युपगमात् । द्वितीयेऽपि चिदचिच्छन्दितजीवाव्यक्तादेः किं ब्रह्मशब्दान्तर्भावोऽभिप्रेतः, उत तद्बहिर्भावः । न द्वितीयः । ब्रह्मशब्दार्थस्य जगदुपादानत्वालाभात् । ब्रह्मस्वरूपस्य विकार-मात्रशून्यत्वेन सन्ततैकरूपत्वात् । विकाराश्रयत्वेनैव उपादानत्वस्य वक्तव्यत्वात् । अन्यथा परिभाषामात्रत्वापत्तेः । नाद्यः । त्वन्मते तेजोऽव्यक्तकालादीनां ब्रह्मणोऽत्यन्तभिन्नत्वेन तेषां तदन्तर्भावायोगात् । त्वया ब्रह्मणो हेयप्रत्यनीकत्वा-भ्युपगमेन तेषां ब्रह्मशब्दार्थबहिर्भावस्यैवयुक्तत्वाच । न च ब्रह्म प्रति शरीरतया प्रकारत्वेन ब्रह्मशब्दान्तर्भावो युक्तः । देवदत्ताद्यात्मनः प्रति तच्छरीराणां प्रकारतया देवदत्तादिशब्दार्थान्तर्भावस्याभ्युपगमादितिवाच्यम् । जीवाव्यक्त-कालादीनां ब्रह्म प्रति मुख्यशरीरत्वाभावेन, तेषां ब्रह्मशब्दार्थान्तर्भावायोगात् । यस्यात्मा शरीरम्, यस्याव्यक्तं शरीरम् इत्यादिना जीवाव्यक्तादीनां परमात्म- शरीरव्यपदेशस्य तदधीनत्वमात्रेण गौणत्वाच्च । नचान्तर्यामिब्राह्मणे सर्वेष्वपि पृथिव्यादीनां ब्रह्मशरीरतया व्यपदेशात् ब्रह्म प्रति तेषां मुख्यमेव शरीरत्वमिति वाच्यम् । तथा सति यः पृथिव्यां तिष्ठन्नित्यादिना प्रतिपर्यायं ब्रह्मणः पृथिव्याद्यवस्थितत्वप्रतिपादनेन तस्यापि मुख्यत्वप्रसङ्गात् । न च तद्युक्तम् । " स्वे महिम्नि प्रतिष्ठितः " " मायाधारो निराधारः " " न चाहं तेष्ववस्थितः " इत्यादिश्रुतिस्मृतिभिः तस्यानन्याधारत्वप्रतिपादनात् ।

किञ्चान्तर्यामिब्राह्मणे यस्य वेदाः शरीरमिति त्वयाऽद्रव्यत्वेनाङ्गीकृतानां वेदादीनामपि परमात्मशरीरत्वस्य व्यपदेशदर्शनात् " जगत्सर्वं शरीरं ते " इत्यादिस्मृतौ द्रव्याद्रव्यप्रभेदभिन्नस्य जगन्मात्रस्य तच्छरीरत्वव्यपदेशदर्शनाच द्रव्येष्वपि तच्छरीरत्वव्यपदेशो गौण एव । न चाद्रव्याणां शरीरत्वं त्वयोच्यते । ' न च यस्य वेदाः शरीरमित्यत्र वेदशब्दस्य वेदाभिमानि देवतापरत्वात् तस्याश्च द्रव्यत्वात् नोक्तदोष इति वाच्यम् । तथा सति पृथिव्यादीनामपि परमात्म-शरीरत्वासिद्धिप्रसङ्गात् । पृथिव्यादिशब्दानामपि तदभिमानिदेवतापरत्वस्य वक्तुं शक्यत्वात् । न च कचिद्वाधकवशादभिमानि देवतापर्यन्तधावनेऽपि, अन्यत्र तदभावात् यथाश्रुतार्थपरत्वमिति वाच्यम् । 'यं पृथिवी न वेद' इत्यादौ (1. त्वयोपेयते इति पाठान्तरम् ।) अप्रसक्तप्रतिषेधपरिहाराय तत्राप्यभिमानि देवतापर्यन्तत्वस्य न्याय्यत्वात् । किञ्च परमात्मनः शरीरनिषेधश्रुतीनां प्राकृतशरीरविषयत्वं वदता कथं पृथिव्यादीनां मुख्यं परमात्मशरीरत्वमुच्यत इति न जानीमः । अस्तु वा जीवाव्यक्तकाला- दीनां परमात्मानं प्रति मुख्यशरीरत्वम् । तथापि ब्रह्मणोऽनुपादानत्वं तदवस्थम् । ब्रह्मणो निर्विकारत्वात् । विकाराश्रयत्वस्यैवोपादानत्वात् ।

(ब्रह्मणः जगदुपादानत्वे साधकप्रमाणाभावप्रतिपादनम् । )

न च ब्रह्मणः साक्षाद्विकारानाश्रयत्वेऽपि चिदचिद्रूपशरीरंगतविकारा-श्रयत्वेनोपादानत्वं युक्तमिति वाच्यम् । जीवादीनामपि स्वशरीरेन्द्रियादि-गतविकाराश्रयत्वेनोपादानत्वप्रसङ्गात् । देशकालयोरपि सर्वविकाराश्रयत्वेन सर्वोपादानत्वापाताश्च । न च जगदाधारताप्रयोजकसम्बन्धातिरिक्त सम्बन्धेन तदाश्रयत्वमुपादानताप्रयोजकमिति वाच्यम् । तर्हि जीवदेशकालानामिव ब्रह्मणोऽपि जगदाधारताप्रयोजकसम्बन्धेनैव सर्वविकाराश्रयत्वेनानुपादानत्वता - दवस्थ्यात् । किञ्च प्रकृत्याद्याश्रयविकारेण ब्रह्मणोऽपि विकारवत्त्वे सर्वं सर्वात्मकं स्यात्, विशेष हेत्वभावात् । सर्वस्यापि यथाकथञ्चित् सर्वधर्माश्रयत्वस्योपपादयितुं शक्यत्वात् ।

(ब्रह्मणः जगदुपादानकारणत्वोपपादकतया परप्रदर्शित- प्रमाणानामर्थान्तरपरत्वप्रदर्शनम् ।)

ननु ब्रह्मणो जगदुपादानत्वस्य निर्विकार-त्वस्य च प्रमाणप्रतिपन्नत्वात् स्वरूपेण निर्विकारत्वं चिदचिद्रूपशरीरद्वारा विकाराश्रयत्वेनोपादानत्वं चाङ्गीकरणीयम्, प्रमाणसिद्धार्थत्यागायोगादिति चेन्न । न तावद्द्ब्रह्मण: जगदुपादानत्वे प्रत्यक्षं प्रमाणम् । तत्र तस्याप्रवृत्तेः । नाप्यनुमानम्, तद्व्याप्तलिङ्गाभावात् । प्रत्युत यो यद्दव्यकर्ता सतद्द्रव्य- निमित्तम्, नोपादानम्, यथा कुलालादिरिति व्याप्तेरेव दर्शनाच्च । नापि श्रुतिः, साक्षाद्रह्मण उपादानत्वावेदिकायाः श्रुतेरदर्शनात् । ननु यतो वा इमानि भूतानि जायन्ते, आकाशादेव समुत्पद्यन्ते, आत्मन आकाशः सम्भूतः, आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते, अक्षरात्संभवतीह विश्वम्, एतस्माज्जायते प्राणः, तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते, सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः, नारायणादेव समुत्पद्यन्ते इत्यादिश्रुतिषु विद्यमाना जनिकर्तुः प्रकृतिरिति सूत्रविहिता पञ्चम्येव ब्रह्मणो जगदुपादानत्वे मानमिति चेन्न । अन्नात्प्राणा भवन्ति भूतानां प्राणर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिरित्यादिश्रुतौ, पुत्रात् प्रमोदो जायत इति लोके चानुपादानेऽपि पञ्चमीश्रवणात्, प्रमाणसिद्धोपादानो-पदेयभावस्थल एव जनिकर्तुः प्रकृतिरिति शास्त्रप्रवृत्तेश्च । जनिकर्तुर्या प्रकृतिः उपादानं तदपादानसंज्ञं भवतीति जनिकर्तुः प्रकृतिमनूद्य तत्रापादानसंज्ञाविधानेन तच्छास्त्रस्य प्रमाणसिद्धोपादानोपादाय भावविषयत्वावसायात् । इदंप्रथमतया पञ्चम्या एव त्वया ब्रह्मण उपादानत्वे प्रमाणतया उपन्यासायोगाच्च । प्रमाणान्तरसत्त्वे च तेनैवालं किमनया । न चैवम् उदाहृतश्रुतिषु कर्तरि विहिता तृतीयैव स्यान्न पञ्चमी । तस्याः कर्तरिवा, हेतौवा, अनुशासनाभावादिति वाच्यम् । तदशिष्यं संज्ञाप्रमाणत्वात् 'नत्वादिति' सूत्रभाष्ययोः, धूमवत्त्वादिति लोके हेतावपि बहुलाविगीतप्रयोगसत्त्वेन हेतावपि पञ्चम्यस्तीत्यङ्गीकर्तव्यत्वात् । न चैवं आकाशाद्वायुः इत्यादिना आकाशे वाय्वादिकं प्रत्युपादानत्वं न सिध्येदिति वाच्यम् । पञ्चम्या तत्र उपादानत्वसिध्यनङ्गीकारात् । पर- ब्रह्मणीव तत्र मानान्तर विरोधाभावेन तया तत्र तत्सिध्युपपत्तेश्च । नहि ब्रह्मणीव, आकाशादावपि निर्विकारत्वं प्रमाणप्रतिपन्नम्, येन तद्विरोधः स्यात् । न चैवं प्रायपाठविरोधः । निर्विकारत्वरूपानुपादानत्वलिङ्गापेक्षया सन्निधिरूपस्य तस्य दुर्बलत्वात् । ननु अस्तु तर्हि यद्भूतयोनिमित्यादिश्रुतिगतः भूतयोनिशब्दः परमात्मनः जगदुपादानत्वे प्रमाणमिति चेन्न, 'तस्य धीराः परिजानन्ति योनिम्', 'पिता पुत्रेण पितृमान् योनियोनौ' ममयोनिर्महद्ब्रह्म, 'शास्त्रयोनित्वादित्यादि- श्रुतिस्मृतिसूत्रेषु 'सर्वस्य कलहस्य स्त्रीयोनि'रित्यादिलौकिकप्रयोगे च योनि- शद्वस्यार्थान्तरेष्वपि प्रयोगदर्शनात् । पृथिवीयोनिरोषधिवनस्पतीनामित्यादावपि योनिशब्दस्य हेतुत्वमात्रपरत्वाश्च । पृथिव्या ओषधिवनस्पतीनाञ्च पृथक्- सिद्धत्वात्, तेषां पृथिव्युपादानकत्वेऽपि तत्र हेतुत्वपुरस्कारेणैव निमित्तमात्र- वाचियोनिशब्दप्रयोगोपपत्तेश्च ।

(1. हत्वात् इति पाठः । 2. पृथिव्या ओषधिवनस्पत्यादिकं प्रति उपादानत्वेऽपि इति पाठान्तरम् ।)

योनिशब्दस्योपादानवाचित्वेऽपि निर्विकारे ब्रह्मणि उपादानत्वायोगेन यद्भूतयोनिमित्यत्र तस्या अर्थान्तरपरत्वाश्रयणावश्यं-भावाच्च । यथोर्णनाभिरित्यादिवाक्यशेषगतिश्च वक्ष्यते । एतेन 'कर्तारमीशं पुरुषं ब्रह्मयोनि'मितिश्रुतिगतो योनिशब्दोऽपि व्याख्यातः । न चात्र कर्तृत्वस्य पृथगुपादानात्, योनिशब्दस्योपादानपरत्वं वाच्यमिति युक्तम् । तत्र योनिशब्दस्य स्थानापरपर्यायाश्रयपरत्वेन त्वदभिमतार्थपरत्वायोगात् । 'योनिष्ट इन्द्रसदन' इत्यादौ स्थानेऽपि योनिशब्दप्रयोगदर्शनात्, ब्रह्मणः चतुर्मुखस्य वेदानां ब्राह्मणानां वा योनिः निमित्तमिति निमित्तार्थकत्वाश्रयणेऽपि विरोधाभावाच्च । न चा-संकुचितेन कर्तृशब्देन सर्वहेतुत्वोक्तौ पुनश्चतुर्मुखादिहेतुत्वं न प्रतिपादनीयमिति वाच्यम् । गोबलीवईनयात्तदवैयर्थ्योपपत्तेः । कर्तृत्वनिमित्तत्वयोर्भेदेन पदद्वयावैयर्थ्योपपत्तेश्च । ननु तथापि किंखिद्वनं क उस वृक्ष आस यतो द्यावा पृथिवी निष्टतक्षुरितिद्यपृथिव्यादिकार्याधारप्रश्नं प्रति ब्रह्मवनं ब्रह्म स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः, इति प्रवृत्तं प्रतिवचनमेव ब्रह्मणोऽभिन्न- निमित्तोपादानत्वे प्रमाणम् । अत्र किंस्विद्वनमितिद्युपृथिव्यादिकार्याधारप्रश्ने क उस वृक्ष आसीदिति तदुपादानप्रश्ने च ब्रह्मवनं ब्रह्म स वृक्ष आसीदिति प्रतिवचनेन ब्रह्मण एव पृथिव्यादिकार्याधारतायाः तदुपादानतायाः निमित्तत्वस्य च प्रतिपादनादिति चेन्न । 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते, तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता, ममयोनिर्महद्रह्म' इत्यादिष्विव अत्रापि ब्रह्मशब्दस्य प्रकृतिपरत्वात् । न च परब्रह्मण्येव ब्रह्मशब्दस्यपरममुख्यत्वात्तेन तद्ग्रहणमेव युक्तम्, न तु प्रकृतेः, तत्र तस्य गौणत्वादिति वाच्यम् । अत्रैव प्रश्नप्रतिवचनेषु, 'यतो द्यावापृथिवीनिष्टतक्षुः' ' यदध्यतिष्ठद्भुवनानि धारयन्', ब्रह्माध्यतिष्ठद्भुवनानि धारयन्' इत्यादिना स्रष्टुर्धारयितु विष्ठातुश्च परमात्मनः पृथगुपात्तत्वेन सृज्यत्वेन, अधिष्ठेयत्वेन, साध्यत्वेन चोक्तस्य ब्रह्मशब्दार्थस्य प्रकृतिरूपत्वौचित्यात् । तस्या अपि स्वकार्यमात्रं प्रति आधारतया मुख्योपादानतया च प्रश्नप्रतिवचन- विषयत्वोपपत्तेश्च । (1. गोबलीवर्दन्यायेन इति पाठान्तरम् । ) न च ब्रह्माध्यतिष्ठद्भुवनानि धारयन्निति त्रयाणामपि पदानां सामानाधिकरण्यमिति वाच्यम् ।

(परब्रह्मणः जगदुपादानकारणत्वशंकां प्रदर्श्य तन्निराकरणम् ।)

भुवनानीत्यस्य धारयन्निति क्रियाकर्मप्रतिपादकत्ववत् ब्रह्मेत्यस्याप्यध्य-तिष्ठदिति क्रियाकर्मपरत्वावसायात् । अध्यतिष्ठदिति क्रियायाः सकर्मकत्वात् । न च भुवनान्येव क्रियाद्वयकर्मतयान्वयं यान्तीति वाच्यम् । तथासति भुवनानीत्यस्यावृत्तिप्रसङ्गात् । न च सा युक्ता । तां विनापि यथाश्रुतार्थपरत्वसंभवात् । तस्माद्ब्रह्मणो जगदुपादानत्वे न साक्षाच्छ्रतिः प्रमाणम् । ननु मास्तु ब्रह्मणः साक्षादुपादानत्वावेदिका श्रुतिः । श्रौतार्थान्यथानुपपत्तिस्तु स्यात् । तथाहिसदेव सोम्येदमग्र आसीत् ' बह्म वा इदमग्र आसीत् " " आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिकारणवाक्येषु इदंशब्दार्थ-भूतस्य प्रपञ्चस्य प्रलये सद्द्ब्रह्मात्मशब्दितपरमात्मरूपत्वापत्तिः प्रतिपाद्यते । प्रपञ्चस्य परमात्मरूपत्वं च न मुख्याभेदविवक्षया । ब्रह्मजगतोरत्यन्तभेदाभ्युप-गमात् । नापि गौणाभेदविवक्षया ; गौणार्थत्वप्रसङ्गादेव । अतः उपादानो-पादेयभावविवक्षयैव जगद्ब्रह्मणोर्मुख्यं सामानाधिकरण्यम् । तथाचायमर्थः । इदमिदानीं स्थूलतया परिदृश्यमानं जगत् तत्सृष्टेः पूर्वकाले स्थूलरूपप्रहाणेन सूक्ष्मचिदचिद्विशिष्टब्रह्मात्मकमासीदिति । एवं च ब्रह्मजगदुपादानमिति सिध्यतीति ।

(सदेवसोम्योदमग्र आसीदिति श्रुतेः ब्रह्मणः प्रपञ्चोपादान- त्वार्थकत्वं सम्भवतीति पराभिमतार्थनिरासपुरस्सरं तस्याः श्रुतेरर्थान्तरपरत्वप्रतिपादनम् )

अत्रोच्यते । नेदमुपादानोपादेयभावाभिप्रायं सदेव सोम्येद-मित्यादिसामानाधिकरण्यम् । सद्ब्रह्मादिशद्वितस्य परमात्मनः निर्विकारत्वेन तदनुपादानत्वात् । साक्षाद्विकाराश्रयस्यैवोपादानत्वात् । परम्परया विकारा- श्रयस्योपादानत्वेचातिप्रसङ्गात् । परिभाषामात्रत्वापत्तेश्चेत्युक्तम् । सदादि –शदधिते परमात्मनि चिदचितोः प्रवेशसद्भावे मानाभावाच्च । किंच स्थूलोऽहम्, वाच्यम् । (1. न तावत् इति पाठान्तरम् । 2. सब्रह्मादिशब्दार्थे इति पाठान्तरम् । ) तत्त्वमसीत्यादाविव त्वन्मते सदेवसोम्येदमित्यादावपि शरीरशरीरिभावप्रयुक्तमेव सामानाधिकरण्यमस्तु, न तूपादानोपादेयभावनिबन्धनम् । नहि स्थूलोऽहं तत्त्वमसीत्यादौ उपादानोपादेयभावनिबन्धनं सामानाधिकारण्यमिति त्वयाङ्गी-कृतम् । न चात्र सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वेऽग्रपदवैयर्थ्यम् । तस्य नित्यत्वात्' । अतः प्रलयकालविशेषनिबन्धनं प्रपञ्चस्य सब्रह्मात्मकत्वं प्रतीयमानं सब्रह्मादिशब्दितस्य प्रपञ्चोपादानत्वमवगमयति । कार्यस्योपादानकारणात्मनाऽवस्थानस्यैव लयशब्दार्थत्वादिति वाच्यम् । तथापि इदं स्थूलरूपं जगत् अग्रे सृष्टेः प्राक्काले सूक्ष्मरूपेण परमात्माधीनमेवासीत् इत्यर्थपरत्वेन त्वदभिमतार्थासिद्धितादवस्थ्यात् । तथा च स्मृति:- यदधीना यस्य सत्ता तत्तदित्येव भण्यत इति । एवं सच्च त्यच्चाभवदि-त्यादिसामानाधिकरण्यवाक्यमपि व्याख्येयम् । यद्वा इदमिति ब्रह्मविशेषणम् । नचेदंशब्दस्य प्रकृतपरामर्शितयाऽप्रकृतब्रह्मपरामर्शित्वमयुक्तमिति प्रपञ्चस्याप्यप्रकृतत्वेन तत्परामर्शित्वं न युज्यत इति साम्यात् । तस्य बुद्धिस्थ ब्रह्मपरामर्शित्वे बाधकाभावाच्च । आत्मा वा इदमेक एवेत्यत्र अयं चासावेकरचे- त्यर्याश्रयणेन विरोधाभावाच । एवं बहु स्यामिति बहुभावसंकल्पोऽपि व्याख्यातः । तस्य तत्तन्नियामकरूपविशेषविषयत्वात् । न च ब्रह्मणः नियामकरूपान्तराण्यपि सर्वदा विद्यमानानीति न संकल्पविषयत्वं तेषां युज्यते इति वाच्यम् । संकल्पस्य तदभिव्यक्तिविषयत्वोपपत्तेः । नचैकेनैव रूपेण सर्व-नियमनसम्भवेन तदर्थं न ब्रह्मणो रूपान्तराण्यभ्युपेयानीति वाच्यम् । एकस्सन्बहुधाविचार इत्यादिश्रुति-सिद्धत्वेन तेषामवश्याभ्युपेयत्वात् । न च नियामकरूपबहुत्वं संकल्प्य तेज:- प्रभृतिसर्जनं विरुद्धमिति वाच्यम् । गुरुः स्यामिति संकल्प्य शिष्यसंपादनवत् तस्याप्यविरुद्धत्वात् ।

(येनाश्रुतं श्रुतंभवतीति श्रुतिरपि ब्रह्मणः उपादानत्वं प्रति- पादयतीति पराभिमतार्थ निराकृत्य तस्याः प्रधानज्ञानेन अप्रधानं ज्ञातफलं भवतीति समीचीनार्थकथनम् ।)

न च पूर्वत्र 'येनाश्रुतं श्रुतं भवति' इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमिति तदन्यथानुपपत्त्या ब्रह्मण उपादानत्वं सिद्धयतीति वाच्यम् । (1. तस्य सार्वकालिकत्वात् इति पाठान्तरम् । 2. अनेकेति पाठान्तरम् ।) तस्यापि प्रधानज्ञानेन अप्रधानं ज्ञातफलं भवतीत्यर्थपरत्वात् । ब्रह्मज्ञानस्य सर्वविषयज्ञानहेतुत्वप्रतिपादनपरत्वोपपत्तेश्च । धूमादिज्ञानेन वह्न्यादि- ज्ञानेऽपि धूमादेः वह्नयादेश्चानन्यत्वाभावाच्च । एवं 'यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्' इत्यादिदृष्टान्तोऽपि प्रधानज्ञानेनाप्रधानं ज्ञातफलं भवतीत्येवंपरः । अन्यथा मृत्पिण्डादिदृष्टान्तेन साक्षाद्विकाराश्रयतया ब्रह्मोपा- दानं स्यात् । दृष्टान्तेऽद्वारकमुपादानम्, दाष्टन्तिके तु सद्वारकमित्येतच्चा- सङ्गतम् । मृत्पिण्डाद्यपादाने ज्ञातेऽपि घटशरावादीनामज्ञातत्वेन, अस्मद्रीत्यैव तदर्थस्य वर्णनीयत्वाच्च । एवं लोहमणिनखनिकृन्तनदृष्टान्तद्वयं च व्याख्यातम् ।

(यथोर्णनाभिरित्यादिश्रुतौ बहुदृष्टान्तप्रदर्शनपूर्वकं ब्रह्मणः जगदुपादानत्वं प्रतिपाद्यत इति परसम्मतार्थस्याप्रामा- णिकत्वव्यवस्थापनम् । )

एतेन 'यथोर्णनाभिः सृजते गृह्णते च, यथा पृथिव्यामोषधयः सम्भवन्ति । यथा-सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम्' इति श्रुतौ बहुदृष्टान्त- प्रदर्शनपूर्वकं ब्रह्मण उपादानत्वं प्रतिपाद्यत इति निरस्तम् । तत्राप्यूर्णनाभि-पृथिवीपुरुषाणां तन्त्वोषधिकेशलोम्नां च पृथक् सिद्धतया तच्छ्रुतेरपि हेतुत्वमात्रप्रतिपादनपरत्वात् । तन्त्वोषधिकेशलोमादिकं प्रति तत्तदवयवानामेवोपादानत्वाश्च । एतेन तदात्मानं स्वयमकुरुत इत्यादिश्रुतिरपि व्याख्याता । तदात्मानं सृजाम्यहम् इत्याद्युपबृंहणानुसारेण तच्छ्रुतेर्व्याख्येयत्वात् । 'यद्वैतत्सुकृतम् । रसो वै सः' इति कृतिविषयस्य केवलानन्दरूपत्वावेदनेन तदात्मानं स्वयम- कुरुतेति पूर्ववाक्येऽपि निष्कृष्ट स्वरूपमात्र परत्वावश्यं भावाच्च ।

ननु यत्प्रयन्त्यभिसंविशन्ति, आनन्दं ब्रह्मणः, सदायतनाः सत्प्रतिष्ठाः, तज्जलानिति, जीवाः प्रजायन्ते, तत्रचैवापियन्ति, आकाश प्रत्यस्तं यन्ति, नारायणे प्रलीयन्ते, अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा, इत्यादिश्रुति- स्मृतिभिर्ब्रह्मण एव सर्वप्रपञ्चलयाश्रयत्वप्रतिपादनात्, उपादानकारणात्मना अवस्थानस्यैव लयशब्दार्थत्वात्, ब्रह्मणः प्रपञ्चोपादानत्वं दुस्त्यजमिति चेन्न । नासदासीनोसदासीत्तदानीं नासीद्रजो नो व्योमापरो यत् । तमआसीत्तमसा गूढमत्रे, यदा तमस्तन्नदिवा न रात्रिः, तमो वा इदमेकमास तदेदं तर्ह्यव्या- कृतमासीत् । असीदिदं तमोभूतम्, सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञिते ॥ इत्यादिश्रुतिस्मृतिषु तमोऽव्याकृताव्यक्तशब्दितप्रकृतेरेव साक्षात्प्रपञ्चलयाश्रयत्व- प्रतिपादनेन प्रलयस्य प्राकृतत्वप्रसिद्धया च तस्या एव प्रपञ्चोपादानत्वावश्यं- भावात् । ब्रह्मणः सर्वाश्रयतया कालादीनामिव सम्बन्धान्तरेण प्रपञ्चलयाश्रयत्व- सम्भवेन, उदाहृतश्रुतिस्मृतीनामपि तथाविधलयाश्रयत्वप्रतिपादनपरत्वेना- विरोधाच्च । तमः परे, देव एकीभवन्ति, परेऽव्यये सर्व एकीभवन्ति, खह्यपीतो- भवति, वाङ्मनसि सम्पद्यते, प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्यभावे तौ लीयेते परमात्मनि, इत्यादिश्रुतिस्मृतिषु प्रतिपन्नस्य लयस्य त्वयैव गौणत्वोपपादनाच्च । मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । इत्यादिश्रुतिस्मृतिभिः प्रकृतेरेव जगदुपादानत्वप्रतिपादनाश्ञ्च । केवलप्रकृतेरेवोपादानत्वसम्भवे निर्विकारे ब्रह्मणि तच्छरीरकत्वं परिकल्प्य तत्र पारिभाषिकस्य जगदुपादानत्वस्याकल्पनीयत्वाच्च ।

(चिदचिच्छरीरकं ब्रह्म जगदुपादानमित्यस्यायुक्तत्वसाधनम् । )

किञ्च चिदचिच्छरीरकं ब्रह्म जगदुपादानमित्ययुक्तम् । अचितोरव्यक्त-कालयोः साक्षादवस्थायोगित्वेऽपि चिच्छन्दितानां जीवानां ब्रह्मखरूपवन्निर्वि-कारत्वेन तेषामुपादानकोटिप्रवेशाङ्गीकारायोगात् । न च धर्मभूतज्ञानगता- वस्थामादाय तेषामप्यवस्थायोगित्वेन तत्प्रवेशो युक्त एवेति वाच्यम् । परम्परया अवस्थाश्रयत्वमादाय उपादानत्वाङ्गीकारे अतिप्रसङ्गात् । एवंविधोपादानत्वांगी- कारस्य परिभाषामात्रत्वेनाप्रयोजकत्वाच्च ।

(तथा हेयगुणध्वंसादवबोधादयो गुणाः ।

प्रकाश्यन्ते न जायन्ते नित्या एवात्मनो हि ते ॥ "

इत्यादिस्मृतेश्च

साक्षिज्ञानादिनित्यत्वप्रतिपादनपरत्वेन तदतिरिक्तधर्मभूतज्ञानप्रतिपादनपरत्वायोगव्यवस्थाप-

नम्। जीवस्वरूपातिरिक्तस्य धर्मभूतज्ञानस्यानङ्गीकारेऽपि बाधकाभावोपपादनम् ।)

किञ्च त्वन्मते धर्मभूतज्ञानस्य नित्यत्वेनावस्थाश्रयत्वायोगः । न च खरूपेण नित्यस्यापि धर्मभूतज्ञानस्यावस्थान्तरयोगित्वमुपपद्यत इति वाच्यम् । एवंविधकल्पनायां प्रमाणाभावात् । घटज्ञानमुत्पन्नं नष्टश्चेत्यनुभवेन ज्ञान-नित्यत्वाङ्गीकारायोगाच्च ॥ ननु 'नहि द्रष्टुः दृष्टेः विपरिलोपो विद्यते ' ' अविनाशित्वात्' ' तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते' । इत्यादिश्रुतिस्मृतिभिर्ज्ञानख रूप-नित्यत्वप्रतिपादनादुत्पत्तिविनाशावनुभवावस्थामादायोपपादनीयाविति चेन्न । तच्छ्रुत्या ईश्वरज्ञानस्याबाधितार्थविषयत्वप्रतिपादनेन त्वदभिमतार्थस्याप्रति-पादनात् । सर्वद्रष्टुरीश्वरस्य दृष्टेः साक्षात्कारस्य विपरिलोपो बाधो न विद्यते ' अविनाशित्वात् नित्यत्वादिति तदर्थविज्ञानात्, विपरिलोपशब्दस्य नाशार्थत्वे हेतु- साध्ययोः अविशेषप्रसङ्गात् । तथा हेयगुणध्वंसादित्युदाहृतस्मृतेश्च साक्षिज्ञानादि- नित्यत्वप्रतिपादनपरत्वेन तदतिरिक्तधर्मभूतज्ञाननित्यत्वप्रतिपादनपरत्वायोगाश्च । ज्ञानस्वरूपजीवातिरिक्तस्य घटपटादिविषयकानित्यज्ञानातिरिक्तस्य नित्यस्य धर्म- भूतज्ञानस्यानङ्गीकारे बाधकाभावाच्च । न च मोक्षे जीवस्य जन्यज्ञानाभावात् तदानीमपि तस्य ज्ञातृत्वात् ज्ञप्तिमात्रस्वरूपत्वाभावाच्च नित्यज्ञानमादायैव तस्य ज्ञातृत्वमुपपादनीयम् इति वाच्यम् । सुप्ताविव स्वप्रकाशस्वरूपज्ञानमादायैव तस्य तदानीं ज्ञातृत्वोपपत्तेः । न हि त्वन्मतेऽपि सुप्तौ धर्मभूतज्ञानोपयोगोऽस्ति । तदा तस्य निर्विषयत्वोपगमात् । अखप्रकाशत्वोपगमाच्च । न च मुक्तस्य सर्वज्ञत्वात् स्वरूपज्ञानस्य स्वमात्रविषयत्वात् अन्याविषयत्वाच्च तस्य सर्वविषयं नित्यं ज्ञानान्तरं अङ्गीकरणीयमिति वाच्यम् । स्वरूपज्ञानस्य स्वविषयत्वेऽपि अन्यविषयत्वे बाधकाभावात् । अन्यथा धर्मभूतज्ञानस्यापि खविषयत्वेन अन्याविषयत्वप्रसङ्गात् । न चान्यप्रकाशत्वेनैव तस्य सिद्धिरिति वाच्यम् । स्वरूपज्ञानस्यापि तथात्वात् । तस्य स्वप्रकाशत्वोपगमाच्च । न च स्वरूप- ज्ञानस्य संसारदशायां सर्वाविषयस्य कथं मुक्तौ सर्वविषयकतेति वाच्यम् । तर्हि धर्मभूतज्ञानस्यापि मुक्तौ सर्वविषयत्वाभावप्रसङ्गात् । संसारदशायां तस्यापि सर्वविषयत्वाभावात् । तस्मात् खरूपज्ञानेनैव मुक्तौ ज्ञातृत्वसर्वज्ञत्वादिकं सुवचमिति न तदर्थं जीवस्य धर्मभूतज्ञानं अङ्गीकरणीयम्, किंतु संसारदशायां घटपटादिवृत्तिरूपं जन्यं ज्ञानमङ्गीकरणीयमिति ।

(मनसः वृत्तिज्ञानोपादानत्वोपपादनम् । उपादानोपादेययोः केवलमभेद इति वादस्यानुपपन्नत्वसाधनम् । )

ननु वृत्तिरूपज्ञानस्य किमुपादानम्, न तावदात्मा । अनभ्युपगमात् । अणुपरिमाणे जीवात्मनि तदधिकपरिमाणवृत्तिज्ञानोत्पत्ययोगाश्च । न च प्रदीपादेः प्रभाद्युपादानत्ववत् जीवस्यापि स्वाधिक परिमाणज्ञानोपादानत्वं युक्तमिति वाच्यम् । प्रभायाः प्रदीपानुपादेयत्वेन तद्दृष्टान्तायोगात् । न च वृत्तिरूप ज्ञानस्य जीवादधिकपरिमाणाभावेन तदुपादानत्वं युक्तमिति वाच्यम् । सर्वाङ्गीण सुखाद्यनुसंधानबलेन तस्याधिक परिमाणावश्यंभावात् । न च सर्वाङ्गीण- सुखाद्यनुसंधानं साक्षिरूपम् । आगमापायिनस्तस्य साक्षिरूपत्वायोगात् । ह्रीः धीः भीः इत्येतत्सर्वं मन एव इति सावधारणश्रुतिविरोधाश्च । ज्ञानद्वारैवात्मनः सर्वशरीरसंबन्धस्य वक्तव्यत्वाच्च । नापि मनः । जडस्य ज्ञानानुपादानत्वात् । जडोपादेयतया ज्ञानस्य जडत्वप्रसङ्गात् । आत्मधर्मत्वाभावप्रसङ्गाच्च । अत एव न शरीरं, बाह्यमतप्रवेशप्रसङ्गाच्च इति चेत् उच्यते ॥ मन एव वृत्ति-ज्ञानाद्युपादानम् । न चोक्तदोषः । चाखादेरग्न्याद्यपादान भावोपगमात् । उपादानोपादेययोः समस्वभावत्वस्य शतशो व्यभिचारात् । दण्डादे: देवदत्तादि-- धर्मत्वोपलम्भाच्च । न च कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृति-हृींर्धीर्भीरित्येतत्सर्वं मन एव इति श्रुतिः लाङ्गलं जीवनमितिवत् उपचरितार्थ- परेति युक्तम् । मृद्घटइत्यादिवदुपादानोपादेयभावप्रतिपादकत्वे बाधका-भावात् ।

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशकं च पञ्च चेन्द्रियगोचराः ॥

इच्छा द्वेषः सुखं दुखं संङ्घातश्चेतना धृतिः ।

एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥

इति गीतायां ज्ञानेच्छाद्वेषसुखदुःखादीनां क्षेत्रविकारत्वापादानं उदाहृतश्रुत्यनु-सारेण इन्द्रियाणि दशैकं च इत्येकशब्दोत्तमनोविकारत्वमादायैव पर्यवस्यतीति किञ्चिदनुपपन्नम् । अद्वैतिमते च ब्रह्मणोऽनुपादानत्वमन्यत्र प्रपश्ञ्चितमिति नेह प्रस्तूयते । तस्मात् जगत्प्रति कर्तृभूतस्य ब्रह्मणोऽनुपादानत्वात् प्रकृतेरेव च तथात्वात् तस्या वियदादेश्वाभेदवत् भेदस्याप्यावश्यकत्वात् उपादानोपादेययोः केवलमभेद इति वादोऽनुपपन्न इति स्थितम् ।

(केवलप्रपत्तेर्मोक्षसाधनत्वनिराकरणम् । तत्र प्रमाणाभाव- प्रदर्शनम् । सर्वधर्मान् परित्यज्येत्यादिगीता श्लोकस्य रामानुजाचार्यैरङ्गप्रपत्तिपरत्वेन व्याख्यातत्त्वात्प्रपत्ते- भक्तयङ्गत्वाभ्युपगमात्स्वातन्त्र्येण तस्याः मोक्षासाधनत्व- - प्रदर्शनम् । प्रपत्तेर्मोक्षंप्रति सुकरोपायत्वप्रत्याख्यानम् ।)

किञ्च भक्तिः प्रपत्तिश्चेति मोक्षसाधनं द्विविधमित्यनुपपन्नम् । प्रपत्तेः मोक्षसाधनत्वे प्रमाणाभावात् । तथाहि न तावत्मुमुक्षुवै शरणमहं प्रपद्ये इति श्रुतिः तत्र प्रमाणम् । ब्रह्मविदाप्नोति परम्, तरति शोकमात्मवित्, तमेवं विद्वानमृतइहभवति इत्यादाविव प्रपद्ये इत्यस्यापि भक्तिरूपज्ञानपरत्वात् । वेदान्तेषु प्रतिपन्नस्य मोक्षसाधनीभूतब्रह्मज्ञानस्य धातुभेदश्रवणेऽपि छागपशुन्यायेन त्वया भक्तिरूपत्वाभ्युपगमेनप्रपद्य " इत्यस्यापि भक्तिरूपस्यैव अङ्गीकर्तव्यत्वात् । अन्यथान्यत्रापि भक्तिविश्रान्त्यभावप्रसङ्गेन भक्तिवत्प्रपत्तिवच्चोपायान्तरमपि सिध्येत् । न हि ब्रह्मविदामोतीत्यादावेव भक्तिरूपज्ञानविशेषपर्यवसानम् । न तु प्रपद्ये " इत्यत्रेतिविशेषनियामकमस्ति । न च प्रपद्य इत्यस्य साक्षात् ज्ञानविशेषवाचित्वेन प्रपत्तिरूपोपायान्तरसिद्धिरिति युक्तम् । तथा सति मत्वा धीरो न शोचतीत्यादौ मत्वेत्यादीनां मननादिरूपज्ञानविशेषवाचित्वेन मनन रूपोपायान्तराभ्युपगमप्रसङ्गात् । तत्र भक्तौ पर्यवसानं चेत् अत्रापि तथास्तु । न च ब्रह्मविदाप्नोतिपरम् इत्यादौ श्रूयमाणानां विद्यादिधातूनां साक्षादेव भक्तिवाचित्वमिति वाच्यम् । प्रमाणाभावात् । "प्रपद्य" इत्यस्यापि साक्षादेव भक्तिवाचित्वमित्यपि वक्तुं शक्यत्वात् । छागपशुन्यायेन भक्ति- विश्रान्त्यभ्युपगमायोगाच्च । न हि वेदनादिशब्दस्य साक्षादेव भक्तिवाचित्वे छागपशुन्यायावतारः सम्भवति । सामान्यशब्दस्य विशेषे पर्यवसान एव तन्न्यायावतारात् । तस्य " प्रपद्य" इत्यत्रापि वक्तुं शक्यत्वेन कथं प्रपत्ति-रूपोपायान्तरसिद्धिरिति न जानीमः । अस्तु वा प्रपद्ये इत्यस्य प्रपत्तिरूपज्ञान-विशेषवाचित्वं, तथापि न तस्य साक्षान्मोक्षसाधनत्वम् । त्वन्मते कर्मयोग-ज्ञानयोगयोरिव प्रपत्तेरपि भक्त्यङ्गत्वोपपत्तेः । अङ्गेऽप्यङ्गिफलानुवादोपपत्तेश्च । अत एव रामानुजाचार्यैः 'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज' इत्यादि चरमश्लोकः स्वतन्त्रप्रपत्तिपरत्वेन व्याख्यायानन्तरमखारस्यादङ्गप्रपत्तिपरत्वेन व्याख्यातः । इत्थं हि चरमश्लोकोऽवतारितः । अथवा सर्वपापविनिर्मुक्ता-त्यर्थ भगवत्प्रियपुरुषनिर्वर्त्यत्वाद्भक्तियोगस्य तदारम्भविरोधिपापानामानन्त्यात्तत्प्राय-श्चित्तरूपैर्धर्मैरपरिमितकालकृतैः तेषां दुस्तरतयाऽऽत्मनो भक्तियोगारम्भा- नर्हतामालोच्य शोचतोऽर्जुनस्य शोकमपनुदन् श्रीभगवानुवाच ॥ सर्वधर्मा-नित्यादि (रा. गी. भा. अ. १८, श्लो. ६६) तथा दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति श्लोकव्याख्यानावसरे मामेव सत्यसंकल्पं परमकारुणिकम्, अनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति । मायामुत्सृज्य मामेवोपासते इति (रा. गी. भा. अ. ७, श्लो. १४) प्रपत्तेर्भक्त्यङ्गत्वमेवोक्तम् । तथा किमिति भगवदुपासनापादिनीं प्रपत्तिं सर्वे न कुर्वते इत्यत्राह न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ इति श्लोकावतारिकायामपि प्रपत्तेर्भक्त्यङ्गत्वमेवोक्तम् । तस्मात् प्रपत्तेर्नस्वातत्र्येण मोक्षसाधनत्वम् ।

किञ्च कर्माङ्गिका यावज्जीवमनुष्ठेया च भक्तिः, प्रपत्तिस्तु कर्माद्यनपेक्षा सकृदेवानुष्ठेया इति कथमनयोर्विकल्पेन मोक्षसाधनत्वम् । गुरुलघुविकल्पा-योगात् । लघूपाये सति गुरूपाये प्रवृत्त्यभावात् । ' अर्के' चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्' इति न्यायेन लघुनैव फलसिद्धेः । न चाग्निहोत्र-दर्शपूर्णमासज्योतिष्टोमादीनां गुरुलघुभूतानां स्वर्गार्थिप्रवृत्तिविषयत्वं दश्यत इति वाच्यम् । तत्र फलेष्वपि तारतम्यसत्त्वेन तत्तत्फलविशेषार्थिप्रवृत्तिविषयत्व-सम्भवात् । त्वया मोक्षे तारतम्यानभ्युपगमेन तदर्थिनां भक्तिरूपगुरूपाय-प्रहाणेन प्रपत्तिरूपलघूपाय एव प्रवृत्तेरवश्यंभावेन वैषम्यात् । न चात्रव्यवस्थित-विकल्पः । तद्द्व्यवस्थापकप्रमाणादर्शनात् । न च शक्तस्य भक्तावधिकारः, अशक्तस्य तु प्रपत्ताविति व्यवस्था कल्प्यत इति वाच्यम् । शक्तेः सामर्थ्य-रूपतया सामर्थ्यस्य च अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्त इति सामान्यतोऽधिकारप्रविष्टतया प्रपत्तावप्यवश्यंभावेन अशक्तस्य प्रपत्तावधिकार इत्यस्यायोगात् । न च भक्तिप्रपत्त्योः सामर्थ्यं नैकरूपमिति वाच्यम् ।( 1. अत्के चेत्, अक्के चेत् इति च पाठान्तरम् ।)अनुष्ठानौपयिकस्य लौकिक सामर्थ्यस्य सर्वत्रैकरूपत्वात् । अन्यथा भक्तौ या शक्तिः सा प्रपत्तौ नास्ति, प्रपत्तौ च या शक्तिः सा भक्तौ नास्तीति शक्ताशक्ताधिकारे भक्तिप्रपत्ती इति रिक्तं वचनम् । न च भक्तावनधिकारी प्रपत्तावधिकारीति युक्तम् । भक्तावपि शूद्राणामनधिकारितया शूद्राणामेव प्रपत्तावधिकार इत्यापातात् । न च तद्यक्तम् । प्रपत्तौ त्रैवर्णिकाधिकारिक-त्वस्यापि त्वयाङ्गीकृतत्वात् । त्रैवर्णिकानां च भक्तावधिकारस्य पुष्कलत्वात् ।

ननु

भक्त्यादौ शक्त्यभावः प्रमितिरहितता शास्त्रतः पर्युदासः

कालक्षेपाक्षमत्वं त्विति नियतिवशादापतद्भिश्चतुर्भिः ।

एकद्वित्र्यादियोगव्यतिभिदुरनिजाधिक्रियाः संश्रयन्ते

सन्तः श्रीशं स्वतन्त्रप्रपदनविधिना मुक्तये निर्विशङ्काः ॥

इति श्लोकोक्तप्रकारेण भक्तौ शक्तिः, ज्ञानं, शास्त्रापर्युदस्तत्वं, कालक्षेपक्षमत्वं चेति चतुर्णां मिलितानामधिकारिकोटिप्रवेशः । प्रपत्तौ तु चतुर्णामभावोऽधि-कारः । स चैकैकनिवृत्त्या चतुर्धा, द्विकद्विकनिवृत्त्या षोढा, त्रिकत्रिकनिवृत्त्या चतुर्धा, कृत्स्ननिवृत्त्या चैकश्चेति पंचदशविधः । शक्त्यादि मेलननिषेधस्य सर्वत्राप्यविशिष्टत्वात् । तथाचैकैकसद्भावे द्विकद्विकसद्भावे त्रिकत्रिकसद्भावे चतुर्णामपि सद्भावे प्रपत्त्यधिकारो भवति । एवं च भक्तिरूपदुष्करोपायानधि- कारिणो मुमुक्षोः प्रपत्तिरूपसुकरोपायः 'शरणमहं प्रपद्ये' इत्यादौ प्रतिपाद्यत इति ॥

मैवम् । प्रपत्तिरूपसुकरोपाये सति दुष्करोपायभूतायां भक्तौ प्रवृत्त्य-भावस्योक्तत्वात् । प्रपत्तौ शक्त्यादीनामप्यवश्यं भावस्योक्तत्वाच्च । न च भक्तावष्टांगोपेतयोगस्यांगतया, तस्यास्मदादिभिरनुष्ठातुमशक्यतया तदनुष्ठान- शक्तानां ऋष्यादीनामेव तत्राधिकारः, न प्रपत्तौ, अस्मदादीनां तु प्रपत्ता-वेवाधिकारः न भक्ताविति वाच्यम् । तथा सति येषां महाविश्वासो नास्ति तेषां न प्रपत्तावप्यधिकार इति तान् प्रत्युपायान्तरस्यापि स्वीकारापातात् ।

तथाविधमुपायान्तरं नास्तीति चेत्तर्हि भक्त्यनधिकृताधिकारिकं प्रपत्तिरूपो-पायान्तरमपि नांगीकार्यं स्यात् । 'शरणमहं प्रपद्य' इति प्रपत्तिः श्रूयत इति चेत् सत्यम् । तावता तस्याः साक्षान्मोक्षसाधनत्वायोगात् । तत्र तच्छ्रुतेः अङ्गप्रपत्तिविषयत्वेनाप्युपपत्तेरित्युक्तम् । तस्मात्मुमुक्षुर्वे शरणमहं प्रपद्ये " इति श्रुतिः न प्रपत्तेः स्वतन्त्रोपायत्वे' प्रमाणम् । एतेन ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत । इति श्रुतौ प्रपत्तिरूपमुपायान्तरं विधीयत इति निरस्तम् । सत्यतपोदमदानधर्मप्रजननाग्निहोत्रयज्ञमानसाख्यानां भक्तयङ्गभूतानां कर्मणां पूर्वं प्रतिपादितत्वेन 'ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीते' त्या दिश्रुत्यन्तरा- नुसारेण च कर्माङ्गभक्तेरेव अत्र प्रतिपादनीयत्वात् । प्रणवानुसन्धानपूर्विकायाः न्यासविद्यायाः स्त्रीशूद्रादि सर्ववर्णसाधारणप्रपत्तिरूपत्वायोगाच्च । 'ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वानि'ति पूर्ववाक्ये भक्तिरूपं ज्ञानं प्रतिपन्नमिति चेत् । किं तावता, फलसाधनतया उक्तस्य तस्यैव समन्त्रकस्यात्र विधानमित्यस्तु ॥

(अदृश्यत्वाधिकरणे रामानुजभाष्यव्याख्यानभूतश्रुतप्रकाशि- कायां " प्रणवो धनुःशरोह्यात्मा" इत्यादि श्रुतेः भक्ति- परत्वेन व्याख्यातत्वात्प्रपत्तिशङ्कानवकाशप्रदर्शनम् । )

ननु न्यास इति ब्रह्म बह्म हि परः परो हि ब्रह्म तानि वा . एतान्यवराणि च पराँसि न्यास एवात्यरेचयदिति' पूर्वानुवाके तस्मा-न्न्यासमेषां तपसामतिरिक्तमाहुरित्यत्र च सत्यतपःप्रभृतिकर्मणात्मानं युञ्जीतेति विहितन्यासस्य चात्यन्तवैलक्षण्यप्रतिपादनान्न्यासविद्या कथं कर्माङ्गभक्तिरूपेति चेत् । कात्र कता । तच्छ्रुतेस्तेषां स्वतन्त्रफलसाधनत्वावस्थामादाय भक्ति- रूपज्ञानवैलक्षण्यप्रतिपादनपरत्वेन विरोधाभावात् । न चात्मानं युञ्जीतेत्यत्रात्म-समर्पणमात्रप्रतिपादनेन भक्तिवैलक्षण्यात् प्रपत्तिरूपोपायान्तरमेव विधीयत इत्यङ्गीक्रियत इति वाच्यम् । एवंविधवाक्यानां भक्तिविलक्षणोपायविधायकत्वा- भावात् । अन्यथा 'धनुगृहीत्वौपनिषदं महास्त्रं शरं ह्य्पासानिशितं सन्दधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि । प्रणवो धनुश्शरोह्यात्मा (1. उपायान्तरत्वे इति पाठान्तरम् । 2. एवंविधवैलक्षण्यस्याप्रयोजकत्वादिति पा० ।)ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्' इत्यादि- श्रुतिष्वपि वैलक्षण्यसत्त्वेन भक्तिरूपोपायप्रहाणेन तासामप्युपायान्तर विधिपरत्वा- पातात् । ननु तासां प्रपत्तिरूपोपायान्तरपरत्वोपपादन मिष्टम्

1 लक्ष्ये यत्र श्रुतिमितगुणाकृष्टिलब्धावधानैः

प्रत्यग्बाणः प्रणवधनुषा सत्त्ववद्भिः प्रयुक्तः ॥

मध्येवक्षः स्फुरति महंसा पत्रल: कौस्तुभात्मा

पद्माकान्तः प्रभवतु दयादुग्धसिन्धुः श्रियै नः ॥

इत्युदाहृतश्रुतिसमानार्थस्य श्लोकस्याभियुक्तैः प्रपत्तिपरत्वेन प्रवृत्तिरित्यभिधाना-दितिचेत् ।

सत्यं । तदेव न संभवतीति ब्रूमः । तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि । धनुगृहीत्वौपनिषदं इत्यादीनां अङ्गिरसा शौनकं प्रत्युपदिष्टतया त्वदुक्तप्रकारेण शौनकस्य महर्षेः भक्तावेवाधिकारितया तं प्रति प्रपत्तेरनुपदेष्टव्य- त्वात् । अन्यथाऽनाकांक्षाभिधानं स्यात् ।

(ओमित्यात्मानं युञ्जीतेत्यत्र प्रपत्तिर्विधीयतइत्यस्य निराकणम् ।)

किञ्च स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठां प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । इत्युपक्रमे अक्षरब्रह्मप्राप्तिसाधनभूतस्य भक्तिरूपज्ञानस्यैव प्रक्रान्तत्वात्, उत्तरत्रापि तदेव प्रतिपादनीयम् । न च तत्र विद्याशब्दः उपनिषत्परः । ज्ञानस्यैव तन्मुख्यार्थत्वात् । द्वे विद्ये वेदितव्ये इत्यत्र विद्याशब्दस्य त्वया परोक्षापरोक्षरूप ब्रह्मज्ञानपरतया व्याख्यातत्वेन अत्र तत्परत्वस्यैव युक्तत्वाच्च । किञ्च अदृश्यत्वाधिकरणे तदेतत्सत्यं तदमृतम् तद्वेद्धव्यं सोम्य विद्धीत्यारभ्य प्रणवो धनुः शरो ह्यात्मा इत्यादिभिः उपासनाप्रकार उक्त इत्यर्थ इति भाष्य- व्याख्यान भूतश्रुतप्रकाशिकावाक्येन तच्छ्रुतेः भक्तिपरत्वमेव स्पष्टमिति न प्रपत्तिपरत्वशङ्कावकाशः । किञ्च 'तस्यैवं विदुष' इत्युत्तरानुवाके प्रतिपाद्य- माना पुरुषविद्या प्रकृतब्रह्मविद्याङ्गभूतेति त्वन्मतम् । एवं च न्यासविद्या कथं प्रपत्तिरूपा ।

(1. वेदान्तदेशिकप्रणीत संकल्प सूर्योदयनाटके प्रथमाङ्के द्वितीयश्लोकः पुट १, काञ्चीमुद्रितम् १९४२ ।)

प्रपत्तेरानुकूल्यसङ्कल्पाद्यतिरिक्ताङ्गानपेक्षत्वस्य त्वदभिमतत्वात् । न च तस्यैवं विदुषः इत्यादिना प्रतिपन्ना पुरुषविद्या प्रकृतब्रह्माविद्याङ्गमेव नेति युक्तम् । किं तैत्तिरीयकपुरुषविद्या प्रकृतब्रह्मविद्याङ्गं उत नेति किं तस्यैवं विदुष इति निर्देशो ब्रह्मविद्याङ्गत्वं गमयति नेति तदर्थचिन्ता' प्रदर्शयता श्रुतप्रकाशिकाचार्येण सिद्धान्ते तस्याः प्रकृतब्रह्मविद्याङ्गत्वस्यैवोपगमात् । न हि पुरुषविद्यायाः प्रकृतब्रह्मविद्याङ्गत्वाभावे गुणोपसंहारपादे तद्भेदा-भेदचिन्तोपपद्यते । स्यादेतत् । न्यासनिष्ठमेव तस्यैवं विदुष इति परामृश्य तत्कर्तव्यत्वेन पुरुषविद्याम्नाता । सा च 'यन्मरणं तदवभृथ' इत्यन्ता यज्ञदृष्टि- रूपा च । अतो यावज्जीवं तदर्थं कर्तव्यस्य विधीयमानत्वात् न प्रयस्येत्तदर्थ- मित्यनुपपन्नम् । मैवम् । तत्रापि हि न्यस्त' भारस्य कर्तव्यान्तरनैरपेक्ष्यमेव विवक्षितम् । यदि तु प्रस्तुतविद्याङ्गतयात्र यज्ञक्लृप्तिर्विधीयते तर्हि दर्शपूर्णमासादीनां क्लृप्तिः न वाच्या तेषां यज्ञोपयोगित्वाभावात् । अश्रुतपूर्वतदन्वितयज्ञान्तर परिकल्पनं अनेकशास्त्रार्थदृष्टिविधिकल्पनं च अत्यन्तगौरवोपहतम् । एकस्यावभृथात्पूर्वं अन्येषां क्लृप्तिश्चानुपपन्ना । तस्मात्एवं शरणमभ्येत्य भगवन्तं सुदर्शनम् । अनुष्ठितक्रतुशतो भवत्येव न संशयः ॥ इत्यादिवद्यज्ञादिकं सर्वमस्य स्वतः सम्पन्नं भवतीति स्तुतिमात्रे तात्पर्यं ग्राह्यम् । शारीरक भाष्यमप्येतदनुगुणतया नेयं, न्यासत्रिंशतिव्याख्याने वेदान्तत्वायैः शङ्कासमाधानयोः कृतत्वेन ओमित्या- त्मानं युञ्जीतेत्यत्र प्रपत्तिरूपोपायान्तरविधाने न कश्चिद्विरोध इति । मैवम् । 'तस्यैवं विदुष' इत्याद्यनुवाकस्याविरोधेन प्रकृतब्रह्मविद्याङ्गपरत्वे सम्भवति स्तुतिपरत्वाङ्गीकारायोगात् । अन्यथा पुरुषविद्या भेदाभेद चिन्तनस्य गुणोप- संहारपादे असङ्गतत्वापातात् । न हि तैत्तिरीये श्रुतपुरुषविद्याया अभावे तत्र तच्चिन्ता उपपद्यते, 'पुरुषविद्यायामपि चेतरेषामनाम्नानात्' इति सूत्रं चासंगतं स्यात् ।

(1. चिन्तापरम्पराम् इति पाठान्तरम् । 2. न्यासविंशतिः सप्तदशः श्लोकः १७ 3. एतदविरोधेनेति पा.)

अत एव

यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे

यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्र तत्र ॥

तस्मात्प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथान्ये

तिष्ठत्वेतद्विधापि प्रकृतसुघटिता सम्प्रदायस्तु चिन्त्यः ॥ " इति अधिकरणसारावल्यां शङ्कासमाधानत्वेनार्थवादत्वपक्षमुपन्यस्यानेकशास्त्रार्थदृष्टि-विधिपरतया पक्षान्तरमुपन्यस्तम् । युक्तं च तथा गौरवस्य प्रामाणिकत्वात् । तस्मादोमित्यात्मानं युञ्जीतेत्यत्र न प्रपत्तिविधानमिति स्थितम् । अस्तु वा तत्र प्रपत्तिविधानम् । तच्चाङ्गप्रपत्तिविषयमिति न कश्चिद्दोषः । न चैवमत्रानुवाके अङ्गिभूतपरब्रह्मविद्यायाः अलाभः । ज्ञात्वा तमेवं मनसा हृदा चेति पूर्ववाक्येंन तल्लाभात् । तस्यैवं विदुष इत्यादिना तदनुवादेन पुरुषविद्यारूपाङ्गविधानो-पपत्तेश्चेति यत्किञ्चिदेतत् । एतेन " वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयो- गाद्यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्व । " इत्यादिश्रुतिरपि व्याख्याता । तत्र सन्न्यासशब्दस्य प्रपत्त्यर्थकत्वे प्रमाणाभावात् । काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः " इति स्मृत्यनुसारेण 'तस्यार्थवर्णनौचित्यात् ।

('श्रीमन्नारायणचरणौ शरणं प्रपद्ये " इत्यादिरूपे तदङ्गीकृत-शरणागतिमन्त्रेऽपि भक्तयङ्गप्रपत्तिरेवोच्यते नतु स्वतंत्र- प्रपत्तिरिति समर्थनम् ।)

एवं श्रीमन्नारायणचरणौ शरणं प्रपद्ये इत्यादिरूपे त्वदङ्गीकृतशरणागतिमन्त्रेऽपि अङ्गभूतप्रपत्तिरेवोच्यते । न तु स्वतन्त्रप्रपत्तिः । किञ्च शरणागतिमन्त्रद्वयाभिधोऽयं मन्त्रः त्वन्मतमात्र सिद्ध इति तेन कथं प्रपत्तिरूपोपायान्तर सिद्धिः । न च कठवल्लीषु " आम्नातं कठवल्लीषु प्रपत्तेर्वाचकं द्वयम् ।इत्यभियुक्तोक्तेरिति वाच्यम् । प्रसिद्धकठवल्लीष्व- । दर्शनात् । कठवल्ल्यन्तरसद्भावे मानाभावात् । विप्रतिपन्नं प्रति त्वदीयाचार्य- वचनस्य प्रामाण्याभावात् । अस्तु वा कठवल्ल्यन्तरमथापि न तवेष्टसिद्धिः ।

(1. अधिकरणसारावलिग्रन्थे ३ अध्याये, ३ पादे, ७ अधिकरणे 2. श्रुतिगतसन्न्यासशब्दार्थस्यानुसरणीयत्वाच्च इति पाठः ।) तथाविधमन्त्रस्याङ्गप्रपत्तिपरत्वेनाप्युपपत्तेरित्यसकृदवोचाम ॥ न चास्मन्मते प्रपत्तेर्भक्त्यङ्गत्वमेव नेतिं शक्यं वक्तुम् । प्रपत्तेर्भक्त्यङ्गत्वज्ञापकस्य त्वदीयगीता- भाष्यवचनस्य दर्शितत्वात् । उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥ इति वदता त्वया साध्या भक्ति: यया सा साध्यभक्तिः प्रपत्तिरित्यर्थ इति तदर्थस्वीकारेण प्रपत्तेः भक्तय- ङ्गत्वस्यापि स्वीकाराच्च । 'प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदम् ' । इति संग्रह श्लोकोक्तेरपि स्वतन्त्राङ्गप्रपत्तिमद्विषयतया व्याख्येयत्वात् ।

(प्रपत्तेः स्वातन्त्र्येण मोक्षसाधनत्वे अनेकबाधकोपन्यासः ।)

अन्यथा भक्तेः प्रपत्तिनैरपेक्ष्येण मोक्षसाधनत्वे मुकुन्दः प्रपन्नादन्येषां मोक्षं न ददातीति निषेधोऽसंगतः स्यात् । तस्यास्तदङ्गत्वे तु तथोक्ति: संगतेति प्रपत्तेर्भक्त्यङ्ग- । त्वमेवोचितम् । नतु स्वातन्त्र्येण मोक्षसाधनत्वम् । किञ्च प्रपत्तेः स्वातन्त्र्येण मोक्षसाधनत्वे ' तमेवं विद्वानमृत इह भवति' इत्यादिनिषेधोऽसङ्गतः स्यात् । तत्र भक्तयतिरिक्तस्य मोक्षसाधनत्वनिषेधात् । तत्रत्यवेदनशब्दस्य त्वया छाग- पशुन्यायेन भक्तिरूपज्ञानविशेषे विश्रान्तिरित्यभ्युपगमात् । न च तत्रत्यविदि- धातोः प्रपत्तिरूपज्ञानविशेषेऽपि विश्रान्तिरङ्गीक्रियत इति वाच्यम् । तथाङ्गीकारस्य प्रपत्तेः स्वतन्त्रोपायान्तरत्वसिद्ध्यधीनत्वेनान्योन्याश्रयात् । न च तत्रत्यविदि-धातोः ज्ञानमात्रमर्थः । एवं च प्रपत्तिश्च ज्ञानमिति न निषेधानुपपत्तिः इति वाच्यम् । तथासति मननरूपज्ञानविशेषस्यापि मोक्षसाधनत्वापातात् । मत्वा धीरो न शोचतीत्यादिश्रुतिदर्शनादित्युक्तम् । न च वाक्यान्तरे प्रपत्तेः साक्षान्मोक्ष- साधनत्वावगमान्नान्यः पन्था इति निषेधः तद्व्यतिरिक्तविषय इति युक्तम् । तथाविधवाक्यान्तरस्यादर्शनात् । 'मुमुक्षुवै शरणमहं प्रपद्ये, ओमित्यात्मानं युञ्जीत' इत्यादिवाक्यार्थस्याद्याप्यनिष्पत्तेरिति । एतेन श्रीमदष्टाक्षरमन्त्रे शरणागतिः प्रतिपाद्यते । इत्थं संघटितः पदैस्त्रिभिरसावेक द्विपञ्चाक्षरैरर्थैस्तत्त्वहितप्रयोजन- मयैरध्यात्मसारैस्त्रिभिरिति' नमसः प्रपत्तिरूपेष्टसाधनपरत्वापगमादिति निरस्तम् । नमस्कारवाचिनः नमसः प्रपत्तिवाचित्वे प्रमाणाभावात् ।

अन्यथा नमो (1. नमसः प्रपत्तिरूपसाक्षान्मोक्षसाधनपरत्वमित्यपि निरस्तमिति पाठान्तरम् ।) हिरण्यबाहवे इत्यादावपि तद्वाचित्वं स्यात् । एतेन

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । .

इत्यादिगीतावचनैः,

सकृदेव प्रपन्नाय तवास्मीति च याचते ।

अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतमम ॥

इत्यादिश्रीमद्रामायणवचनैः,

तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् ।

यावन्नायाति शरणं त्वामशेषाघनाशनम् ॥

इत्यादिपुराणवचनैश्च प्रपत्तिसिद्धिरिति निरस्तम् | तद्वचनैः प्रपत्तिखरूप-सिद्धावपि तत्र साक्षान्मोक्षसाधनत्वे तेषामप्रमाणत्वात् । एवम्

आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।

रक्षिष्यतीति विश्वासः गोप्तृत्वंवरणं तथा ॥

आत्मनिक्षेपकार्पण्ये षडिधा शरणागतिः ।

अनया च प्रपत्त्यामामाकिंचिन्यैकपूर्वकम् ॥

मां माधव इति ज्ञात्वा मां गच्छेच्छरणं नरः ।

एवं मां शरणं गच्छन् कृतकृत्यो भविष्यति ॥

इत्यादीनि श्रीपञ्चरात्रवचनान्यपि व्याख्यातानि । तस्मात्परमते भक्तेरेव मोक्षसाधनत्वमुपेयम् । नतु प्रपत्तेरिति स्थितम् ।

(ध्यानरूपभक्तेः साक्षान्मोक्षसाधनत्वप्रत्याख्यानम् । ब्रह्मसाक्षात्कारजनकपरीक्षा ।)

किंच ध्यानरूपा भक्तिरपि न मोक्षसाधनम् । किन्तु तज्जन्यसाक्षात्कारः । न च ब्रह्मसाक्षात्कारः ब्रह्मध्यानजन्य: ' मोक्षहेतुश्चेत्यत्र प्रमाणाभावः शक्यः । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् । ततस्तु तं पश्यते निष्कलं ध्यायमानः । भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्यकर्माणि तस्मिन् दृष्टे परावरे । इत्यादिश्रुतीनां सत्त्वात् । ननु ब्रह्मसाक्षात्कारः किंजन्यः । न तावद्वे-दान्तजन्यः। (1. ब्रह्मज्ञानजन्यः इति पा,)

मृषावादिनेव त्वया शाब्दापरोक्षानभ्युपगमात् । नापि चक्षुरादिबाह्ये- न्द्रियजन्यः । न चक्षुषा गृह्यते नापि वाचा इत्यादिना चक्षुरादिग्राह्यत्वनिषेधात् । न च निषेधो योगप्रणिधानाद्य सहकृतचक्षुरादिविषय इति युक्तम् । बाह्येन्द्रियोपर- मेsपि योगिनो! ब्रह्मसाक्षात्कारोपगमात् । नापि मनोजन्यः । बहिर्विषये मनसः स्वातन्त्र्याभावात् । अन्यथा धर्मादीनामपि मानससाक्षात्कार विषयत्वापातात् । न च धर्मादीनां नित्यातीन्द्रियतया तदविषयत्वमिति युक्तम् । ब्रह्मणोऽपि संसारकालेऽपि अव्यक्तस्वभावतया तद्विषयत्वायोगात् । मनसः प्रमाण-सहकारित्वेन प्रमाणत्वायोगाच्च । नचैवं 'दृश्यते त्वग्रया बुध्या । मनसैवानु-द्रष्टव्यं' इत्यादिश्रुतिविरोधः शङ्कयः । दृशिधातोः चाक्षुषज्ञानवाचितया मनस- स्तदजनकत्वेन व्याहतार्थतया ' यन्मनसा न मनुते ' इत्यादिश्रुत्यन्तरानुसारेण च तथाविधश्रुतीनां अन्यथाव्याख्येयत्वात् । न च दृशिधातोः साक्षात्कार-मात्रपरत्वान्न व्याहतिरिति युक्तम् । तथा सति ज्ञानमात्रपरत्वेनापि सङ्कोच-प्रसङ्गात् । नापि ध्यानजन्यः । ध्यानेन साक्षात्कारायोगात् । अन्यथा धर्मादिध्यानेनापि तत्साक्षात्कारापातात् । न च विधुरस्य कामिनीध्यानेन तत्साक्षात्कारोऽस्तीति तद्वत् ब्रह्मसाक्षात्कारोऽप्यस्त्विति युक्तम् । नैयायिकमते स्वानज्ञान इव कामिनीध्याने साक्षात्त्वव्यवहारोपपत्तौ विधुरस्य कामिनीविषयकस्य तत्साक्षात्कारस्य अनङ्गीकार्यतया तद्दृष्टान्तेन ब्रह्मसाक्षात्कारसिद्धिरित्यस्या- योगात् । न च ब्रह्मविषयसाक्षात्काराभावे बन्धाविच्छेदः स्यादिति शंक्यम् । ध्यानेन तद्विच्छेदसम्भवत् । तथा च श्रुतिः आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ धवा स्मृतिः । स्मृतिलम्भे' सर्वग्रन्थीनां विप्रमोक्ष इत्यादिका । न चैवं द्रष्टव्य इति श्रवणमननध्यानातिरिक्तं दर्शनं न प्रतिपादनीयमिति वाच्यम् । उक्तरीत्या परमात्मदर्शनस्यायोगेन द्रष्टव्य इत्यस्य ध्याने दर्शनसमानाकारत्वविधिपरत्वात् । ध्याने दर्शनसमानाकारत्वं च वैशद्यरूपमिति न किञ्चिदनुपपन्नमिति । उच्यते । (1. योगस्थस्येति पाठान्तरम् । 2. स्मृतिलाभे इति पाठान्तरम् ।)

(ब्रह्मसाक्षात्कारजनकपरीक्षा ।)

न तावब्रह्मसाक्षात्कारे कारणदौर्घट्यम् । त्वयापि योगजसाक्षात्काराभ्युपगमेन कार्यानुरोधेन कारणस्य कल्पनीयत्वात् ।

ननु योगिप्रत्यक्षं रामानुजाचार्यैः शास्त्रयोन्यधिकरणे निराकृतम् । इत्थं हि तत्र भाषितम् ।ननु शास्त्रयोनित्वं ब्रह्मणो न संभवति, प्रमाणान्तर- वेद्यत्वाद्ब्रह्मणः । अप्राप्ते तु शास्त्रमर्थवत् । किन्तर्हि तत्र प्रमाणम् । नतावत् प्रत्यक्षम् । तद्धि द्विविधम्, इन्द्रियसंभवम् योगसंभवं चेति । इन्द्रियसंभवं च बाह्यसंभवम्, आन्तरसम्भवञ्चेति द्विधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्ष-योग्य स्वविषयबोधजननानीति न सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेष- विषयबोधजननानि । नाप्यान्तरम्, आन्तरसुखदुःखादिव्यतिरिक्तवहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः । नापि योगजन्यम् ; भावनाप्रकर्षपर्यन्त- जन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता; तदतिरिक्तविषयत्वे कारणाभावात् । तथा सति तस्य भ्रम रूपते 'ति । एवं च नास्मत्प्रतिबन्दीति चेत् सत्यम् । तथाविधस्य त्वदीयभाष्य- वाक्यस्य मतान्तरत्वेन निर्वाह्यत्वात् । अत एव वेदान्ताचार्यैः न्यायपरिशुद्धावुक्तम् "अस्मदादिप्रत्यक्षं द्विधा, योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्र योगिप्रत्यक्षं प्रकृष्टादृ- ष्टविशेषजम् । तत् युक्तावस्थायां मनोमात्रजमपि । वियुक्तावस्थायां तु बाह्येन्द्रिय- जन्यमपि । तच्च बुभुत्सादिप्रतिनियतविषयं आगमैकसिद्धं च । भावनाबलजमात्रं जगत्कर्तरि प्रत्यक्षं प्रतिक्षिप्तं शास्त्रयोन्यधिकरणे । 'मत्तः स्मृतिर्ज्ञानमपोहनं चे'त्यादौ भाष्ये 'ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः' इति अन्यत्र भाष्यकारै-रेव साक्षाद्योगिप्रत्यक्षस्य कण्ठोक्तेः, तस्य सम्भवतोऽप्यागमिकेश्वरज्ञानमूलागमानु- चादत्वापादनाशक्त्या तत्रौदासीन्यात्" इति । तथा शतदूषण्यामपि शब्दजन्य-प्रत्यक्षभङ्गे 'यत्त भाष्ये दर्शनसमानाकारत्वमुच्यते तन्मोक्षसाधनीभूतायाः धवानुस्मृतेरेव न पुनर्धर्मफलीभूतयोगिप्रत्यक्षं निषिध्यते । तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यतीत्यादौ तस्यापि श्रुतत्वादिति । एवं च ब्रह्मसाक्षात्कारो योगजधर्मसह कृतमनोजन्यः त्वन्मतेऽप्यस्तीति तस्यैव बन्धनिवर्तकत्वमप्यस्तु, न तु दर्शनसमानाकारस्य ध्यानस्य, परोक्षज्ञानरूपे ध्याने वैशद्यस्य कथमप्य- योगात् । यद्यपि सामीप्यादितारतम्येन अपरोक्षज्ञाने वैशद्यतारतम्यं दृष्टम् । तथापि न परोक्षज्ञाने तद्दृष्टमिति ब्रह्मसाक्षात्कार एव मोक्षसाधनमिति स्थितम्

(ब्रह्मानन्दानुभवो मोक्ष इति परोक्तस्यानुपपन्नत्वव्यवस्था-पनम् ।)

किञ्च ब्रह्मानन्दानुभवो मोक्ष इत्यनुपपन्नम् । स्वानन्दानुभवस्यैव पुरुषार्थत्वात् । ननु ब्रह्मानन्दोऽपि स्वीयानन्द एव । आनन्दस्य स्वीयत्वं च स्वप्राप्यत्वं न तु स्वाभिन्नत्वं, स्वर्गादिसुखस्यापुरुषार्थत्वापातात् । त्वया स्वर्ग-सुखस्य जन्यत्वापगमेन खरूपभिन्नत्वात् । नापि स्ववृत्तित्वम् । स्वरूपसुखस्य अपुरुषार्थत्वापातात् । स्वस्य स्ववृत्तित्वाभावात् । तथा च ब्रह्मानन्द एव पुरुषार्थः । न च ब्रह्मण आनन्दरूपत्वे विवादोऽस्ति । नित्यं विज्ञानमानन्दं ब्रह्म यदेष आकाश आनन्दो न स्यात् इत्यादिश्रुतेः । न च बह्मानन्दस्य मुक्तप्राप्यत्वे प्रमाणाभावः । रसं ह्येवायं लब्ध्वानन्दीभवति इत्यादिश्रुतीनां सत्त्वादिति चेन्न 'एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुप- न सम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति श्रुतौ ब्रह्मप्राप्तिहेतुकस्वरूपानन्दा- विर्भावस्य पुरुषार्थत्वप्रतिपादनेन रसं ह्येवायं लब्ध्वानन्दीभवति इत्यादिश्रुतेरपि तदनुसारेण नेयत्वात् । तथा च पारमर्षं सूत्रंसम्पद्याविहाय स्वेन शब्दादिति" । स्वीयत्वं च स्वसम्बन्धित्वं तच्च मोक्षे अभिन्नतया स्वर्गादौ स्ववृत्तितयेत्यन्यदेतत् । न च स्वसम्बन्धित्वमतिप्रसक्तम् । कार्यानुरोधेन तस्य कल्पनेन तदभावस्थले तस्यासिद्धेः । न च स्वरूपानन्दाविर्भावस्यासाध्यतया अपुरुषार्थत्वम् । दुःखहेतूच्छेदविशिष्टतया स्वरूपानन्दस्य साध्यत्वापगमात् । हेतूच्छेदे पुरुष-व्यापार इत्यभ्युपगमात् । न च यस्य पुरुषार्थत्वं न तस्य साध्यत्वं, यस्य च साध्यत्वं न तस्य पुरुषार्थत्वमिति वाच्यम् । ब्रह्मानन्दस्य पुरुषार्थत्वमभ्युप-गच्छतः तत्रापि एतद्दोषसाम्यात् ।

(दुःखहेतूच्छेदविशिष्टस्वरूपानन्दाविर्भावो मोक्ष इति पक्षे बाधकाभावः साधकसद्भावश्चेति निगमनम् । मोक्षे एकाकारत्वस्यायुक्तत्वसाधनम् । मोक्षे आनन्दतारतम्ये श्रुतिवचनोपन्यासः ।)

कण्टकादिनिवृत्तिवद्दुःखहेतूच्छेदस्यापि पुरुषार्थत्वोपगमाच्च । न चैवं स्वरूपसुखस्य पुरुषार्थत्वाङ्गीकारो व्यर्थ इति वाच्यम् । प्रमाणप्रतिपन्नस्य तस्य त्यागायोगात् । यदि नैयायिकादिवद्वयं यत्किञ्चित्परिकल्पयामः तदा पर्यनुयोज्या भवेम । तस्मात् दुःखहेतूच्छेदविशिष्ट-स्वरूपानन्दाविर्भावो मोक्ष इति पक्षे बाधकाभावात् साधकसद्भावाच्च ब्रह्मा- नन्दानुभवो मोक्ष इति पक्षे साधकाभावात् बाधकसत्त्वाच्च द्वितीयपक्षः सर्वात्मना अनुपपन्न इति स्थितम् ।//

किञ्च आनन्दावाप्तिलक्षणस्य मोक्षस्य एकाकारत्वमित्ययुक्तम् । स्वर्गादि-पुरुषार्थानामित्र मोक्षस्यापि तरतमभावापन्नत्वात् । न चास्तु साधनतारतम्यात् स्वर्गादिफलतारतम्यम् । न तु मोक्षतारतम्यम् । ब्रह्मसाक्षात्काररूपस्य साधनस्य सर्वान् प्रति एकरूपत्वादिति वाच्यम् । नियतगुणकध्यातब्रह्म- विषयक साक्षात्कारस्यापि नियतत्वेन तारतम्यात् । सर्वगुणोपेतं ब्रह्म ध्यातव्यमित्यस्याशक्यत्वात् । मुख्याधिकारिणां शक्यत्वेऽपि सर्वाधिकारिसाधा- रण्यस्यैव वक्तव्यत्वात् । गुणभेदेन विद्याभेदस्य अङ्गीकृतत्वाच्च । त्वन्मते भक्तिप्रपत्त्योः तरतमभावापन्नत्वेन तत्साध्यमोक्षतारतम्यावश्यंभावाश्च । न चैवं ' परमं साम्यमुपैती'ति श्रुतिविरोधः । दुःखाभाववत्त्वेन भगवत्साम्योपपत्तेः । अन्यथा त्वन्मते कारणत्वादिनापि साम्यापत्तेः । जगद्व्यापारवर्जमितिसूत्रानुसारेण तद्व्यतिरिक्तधर्मेण साम्यमित्यङ्गीकारे आनन्दांशेऽपि संकोचोऽस्तु । न च भोगमात्रसाम्यलिङ्गाच्च इति सूत्रे मुक्तस्य सकलभोगसाम्यमुच्यत इति तद्विरोध इति वाच्यम् । तत्र त्वन्मते अस्मन्मते च मात्रशब्दस्यावधारणपरतया कात्स्यथत्वाभावेन विरोधाभावात् ।

किश्च आनन्दवल्ल्यां 'श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः' इति मुक्तानां तरतमभावापन्नमनुष्यगन्धर्वाद्यानन्द- समानानन्दवत्त्वा वेदनान्मुक्तौ तारतम्यं दुर्वारम् । अकामहतः श्रोत्रियो मुक्तः

इति त्वयाभ्युपगमात् । न च सर्वत्र श्रोत्रिय एको ब्रह्मानन्दतुल्यानन्दः, तत्र मनुष्यगन्धर्वाद्यानन्दसमानानन्दप्रतिपादनन्तु एकदेशानुवाद इति वाच्यम् । अपूर्वार्थत्वे सम्भवति अनुवादत्वाङ्गीकारायोगादित्यन्यत्र विस्तरः । तस्मान्मोक्षस्य एकाकारत्वमनुपपन्नम् ॥

(अर्चिरादिप्राप्यो वैकुण्ठलोकोऽण्डाद्वहिर्भूत इति तन्मतस्या-प्रामाणिकत्वोपपादनम् । सुबालोपनिषद्वचनोदाहरणम्।)

किञ्च अर्चिरादिगतिप्राप्यो वैकुण्ठलोकोऽण्डाद्वहिर्भूत इति त्वन्मतम् । तदयुक्तम् । तथात्वे प्रमाणाभावात् । तस्याण्डान्तर्गतेः वक्तव्यत्वाच्च । वैकुण्ठस्याण्डान्तर्गतत्वेऽपि नित्यत्वग्राहकप्रमाणानुसारेण नित्यत्वोपपत्तेश्च ॥ ननु वैकुण्ठलोकस्याण्डाद्बहिर्भूतत्वे श्रुतीतिहासपुराणवचनानि दृश्यन्ते । तथाहि सुबालोपनिषदि तावत् 'षष्ठेऽनुशासनेअथ हैनं रैक्क: पप्रच्छ। भगवन् योऽयं विज्ञानघन उत्क्रामन् स केन कतरद्वाव स्थानं उत्सृज्य प्राक्रामतीति रैक्कप्रश्न- मुपक्षिप्य तस्मै सहोवाच । हृदयस्य मध्ये लोहितं मांसपिण्डं, यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिव अनेकधा विकसितम् । तस्य मध्ये समुद्रः । समुद्रस्य मध्ये कोशः । तस्मिन्नाड्यश्चतरस्रो भवन्ति । रमाडरमेच्छाऽपुनर्भवेति । तत्र रमा पुण्येन पुण्यलोकं नयति । अरमा पापेन पापम् । इच्छया यत् स्मरति तदभिसम्पद्यते इत्यादिना नाडीत्रयोपयोगमुक्त्वा, अपुनर्भवया कोश भित्त्वा शीर्षकपालं भिनत्ति । शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति । पृथिवीं भित्त्वा अपो भिनत्ति । अपो भित्त्वा तेजो भिनत्ति । तेजो भित्त्वा वायुं भिनत्ति । वायुं भित्त्वाकाशं भिनत्ति । आकाशं भित्त्वा मनो भिनत्ति । मनो भित्त्वा भूतादि भिनत्ति । भूतादिं भित्त्वा महान्तं भिनत्ति । महान्तं भित्त्वा व्यक्तं भिनत्ति । अव्यक्तं भित्त्वा अक्षरं भिनत्ति । अक्षरं भित्त्वा मृत्युं भिनत्ति । मृत्युर्वै परे देवे एकीभवती "त्यादिना अपुनर्भवाशब्दितया मूर्धन्यनाड्या निष्क्रान्तस्य ब्रह्मज्ञानिनः पृथिव्यप्तेजोवाय्वाकाशमनोऽहङ्कार महत्प्रकृत्यादि- क्रमेणातिक्रमणमुच्यते । न चैतत् सर्वमौपचारिकमिति शक्यम् । शास्त्रैकवेद्ये यथाशास्त्रमङ्गीकार्यत्वात्' । न चोदाहृतं वाक्यं संसारिविषयम् । तस्यैतादृश- सामर्थ्याभावात् । न च पृथिवीं भिनत्तीत्यादिकमपि देहमात्रविषयम् । कोशं भित्त्वा शीर्षकपालं भिनत्ति इति देहान्निष्क्रमणस्य पूर्वमेवोक्तत्वात् । न च पृथिवीं भिनत्तीत्यादिकं ज्ञानिनः पृथिव्यादिसकलतत्त्वावश्यत्वप्रतिपादन-परमिति युक्तम् ।

(1. सुबालोपनिषदि एकादशखण्डे । 2. अलौकिकार्थस्य मानान्तरविरोधाभावे यथाशास्त्रमंगीकार्यत्वादिति पा.)

शीर्षकपालसूर्यमण्डलादिभेदन स्याप्यसिद्धयापातात् । सूर्यद्वारेण ते विरजाः प्रयान्ति । यो भित्त्वा सूर्यमण्डलमित्यादिश्रुतिस्मृतीनां यथाश्रुतार्थ- परत्ववत् उदाहृतवाक्यस्यापि तथात्वोपपत्तेश्च ॥

(आदित्यवर्ण तमसस्तुपारे । आदित्यवर्णं तमसः परस्तात् । क्षयन्तमस्य रजसःपराकेइति श्रुतित्रयस्याभिप्राय- प्रकाशनम् । अण्डान्तः प्रदेशे वैकुण्ठलोकप्रदेशावच्छेदेन प्रकृतिसंबन्धराहित्यप्रतिपादनम् । )

किञ्च आदित्यवर्णं तमसस्तु पारे । आदित्यवर्णं तमसः परस्तात् । क्षयंतमस्य रजसः पराके । त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि, तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः इत्यादिभिः श्रुतिभिः मुक्तप्राप्यस्य ब्रह्मणः तमसः पारवर्तित्वं प्रतिपाद्यते । नचोदाहृताः श्रुतयः प्रकृतेः ब्रह्मणश्च वैलक्षण्यप्रतिपादनपराः, ब्रह्मणः प्रकृत्यपेक्षया उत्तमत्वप्रतिपादनपरा वा, प्रकृत्यवश्यत्वप्रतिपादनपरा वेति युक्तम् । सर्वस्वरससिद्धार्थत्यागे मानाभावात् ॥

(ब्रह्मणो मुक्तप्राप्यत्वप्रतिपादकानि मोक्षधर्मवचनानि । पाद्मोत्तरखण्डवचनानि । )

किश्च मोक्षधर्मे प्राकृतप्रकृत्यतीतदेशावच्छेदेनैव ब्रह्मणो मुक्तप्राप्यत्वं प्रतिपाद्यते । " तीर्त्वा तु दुस्तरं जन्म विशन्ति विमलं नभः । ततस्तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः ॥ पद्मतन्तुवदाविश्य प्रवहन् विषयान्- नृप । तत्र तान् प्रहितो वायुः प्रतिगृह्णाति भारत ॥

वीतरागान् यतीन् सिद्धान् ज्ञानयुक्तांस्तपोधनान् ।

सूक्ष्मः शीतस्सुगन्धिश्च सुखस्पर्शश्च भारत ।

सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् ।

स तान् वहति कौन्तेय तमसः परमां गतिम् ॥

तमो वहति लोकेश रजसः परमां गतिम् ।

रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ॥

सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् ।

प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥

परमात्मानमासाद्य तद्भता यत्तयोऽमलाः ।

अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभि भोः ॥

आत्मा केवलतां प्राप्तः यत्र गत्वा न शोचति ।

ईदृशं परमं स्थानं निरयाते च मादृशाम् ॥

तथा ॥

प्रकृतिञ्चाप्यतिक्रम्य गच्छन्त्यात्मानमव्ययम् ।

परं नारायणात्मानं निर्द्वन्द्वं प्रकृतेः परम् ॥

विमुक्तः पुण्यपापेभ्यः पुरुषस्तमनामयम् ।

परमात्मानमगुणं न निवर्तन्ति भारते"ति ॥

नचोदाहृतैः' प्रमाणैः मुक्तप्राप्यलोकस्य चतुर्मुख लोकोर्ध्वदेशस्थत्वप्रतीतेः अण्डान्तर्भावावश्यंभाव इति वाच्यम् । तस्य अण्डाद्बहिष्ठत्वेऽपि तदूर्धोपपत्तेः । अण्डान्तर्गत विष्णुलोकान्तरसत्त्वेऽपि अर्चिरादिगतिप्राप्यविष्णुलोकस्य अण्डाद्वहिर्भावावश्यंभावात् । अन्यथा उदाहृतश्रुतिभारतवचनासामाञ्जस्यं स्यादिति । तथा पाद्मोत्तरखण्डे द्वात्रिंशेऽध्याये वैकुण्ठलोकोऽण्डाद्बहिर्भूत इति बहुधा प्रतिपादितः । तत्रहि

एवं प्राकृतरूपस्य विभूते रूपमुच्यते ।

त्रिपाद्विभूते रूपं तु शृणु भूधरनन्दने ||

प्रधानपरमव्योम्नोरन्तरे विरजानदी ।

वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥

तस्याः पारे परव्योम त्रिपाद्धूतिः सनातनी ।

अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ॥

शुद्धसत्त्वमयं दिव्यं अक्षरं ब्रह्मणः पदम् ।

अनेक कोटिसूर्याग्नितुल्यवर्चसमव्ययम् ।

सर्ववेदमयं शुभ्रं सर्गप्रलयवर्जितम् ।

असंख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितम् ।

(1. न च पूर्वोदाहृतश्रुतिस्मृतिभिः इति पाठान्तरम् ।)

हिरण्मयाक्षरपदं ब्रह्मानन्दसुखाह्वयम् ।

समानाधिकराहित्यं आद्यन्तरहितं शुभम् ॥

तेजसात्यद्भुतं रम्यं नित्यमानन्दसागरम् ।

एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ॥

इत्यादीनि आध्यायपरिसमाप्ति बहूनि वचनानि दृश्यन्ते । तस्माद् वैकुण्ठ-लोकस्याण्डाद्वहिर्भावोऽवश्यमङ्गीकरणीय इति ॥

(अत्रोच्यत इत्यादिना सौबालश्रुतिवाक्यस्याशयवर्णनम् । )

अत्रोच्यते ॥ न तावत्सौबालश्रुत्यनुसारेण मुक्तप्राप्यलोकस्य ब्रह्माण्डा-दावरणेभ्यश्च बहिर्भावसिद्धिः । तस्य ब्रह्माण्डान्तस्थत्वेऽपि पृथिव्यादि-तत्त्वभेदनस्य सर्वलोकसञ्चारार्थत्वेन अन्यथासिद्धत्वात् । अण्डान्तर्गतवैकुण्ठ-लोके विद्यमानस्यापि मुक्तस्य परमेश्वरसङ्कल्पानुसारिण्या स्वेच्छया सर्वलोक-संचारोपपत्तेः । तथा च श्रुतयः 'स वा एष एवं पश्यन्नवं मन्वान एवं विजान- न्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति । तस्य सर्वेषु लोकेषु कामचारो भवति । अथ य इहात्मानं अनुविद्य सृजत्येतांश्च सत्यान् कामान् तेषु सर्वेषु लोकेषु कामचारो भवति । तद्य एवैतं ब्रह्मचर्येणानुविन्दन्ति तेषामेष ब्रह्मलोकः तेषां सर्वेषु लोकेषु कामचारो भवति । सोऽन्वेष्टव्यः स विजिज्ञासितव्यः । सर्वांश्च लोकानाप्नोति, सर्वांश्च कामान्, इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्' इत्यादिकाः । न चाण्डान्तर्गत लोकेष्वेव मुक्तस्य सञ्चारप्रतिपादिका उदाहृतश्रुतयः इति युक्तम् । सङ्कोचकाभावात् । न चाण्डाद्वहिर्लोकानां एवाभावात् सङ्कोच इति युक्तम् । लोकशब्दस्य देश-विशेषपरत्वात् । नैयायिकादिभिः दिपदार्थत्वेन अस्माभिः अव्याकृताकाश-शब्दार्थत्वेन अङ्गीकृतस्य देशस्य विभुत्वेन सर्वत्र सुलभत्वात् । तस्मात् सौबालवाक्यं मुक्तस्याण्डाद्वहिरपि सञ्चारप्रतिपादनपरं न तु वैकुण्ठलोकस्याण्डा- द्वहिस्सत्वप्रतिपादनपरम् । यद्वा पृथिवीं भिनत्तीत्यादिकं पृथिव्यादिषु मुक्तस्य वैराग्यप्रतिपादनपरम् । न तु पृथिव्यादिदेशाद्देशान्तरगमनपरम् । यथा भूलोकं भुवर्लोकं सुवर्लोकं जनोलोकं तपोलोकं च अतलवितलसुतलरसातल- तलातलमहातलपातालान् ब्रह्माण्डं च विसर्जयेदित्यादिकं भूलोकादिष्वासक्त्य-भावप्रतिपादनपरं न तु सर्वात्मना तत्यागपरम् । भूलोकादीनां सन्न्यासिना त्यक्तुमशक्यत्वात् तद्वत् । न च ज्ञानिनः पृथिव्यादिभेदने सामर्थ्यमस्तीति वैषम्यमिति युक्तम् । पृथिवीं भिनत्तीत्यादेः अन्यथासिद्धत्वेन ज्ञानिनः तादृश- सामर्थ्यस्य अकल्पनीयत्वात् । न च कोशं भित्वा शीर्षकपालं भिनत्तीत्यत्रापि च विदारणं न सिव्येदिति वाच्यम् । व्यपोह्यशीर्षकपाले, भूरित्यग्नौ प्रतितिष्ठतीतिश्रुत्यन्तरानुसारेण तत्र मुख्यार्थाङ्गीकारोपपत्तेः ॥

(आदित्यवर्णं तमसस्तुपारे । आदित्यवर्णं तमसः परस्तात् । क्षयन्तमस्य रजसःपराकेइति श्रुतित्रयस्याभिप्राय- प्रकाशनम् । अण्डान्तः प्रदेशे वैकुण्ठलोकप्रदेशावच्छेदेन प्रकृतिसंबन्धराहित्यप्रतिपादनम् । प्रधानपरमव्योम्नोरन्तरे विरजानदी । तस्याः पारे परव्योम त्रिपाद्भूतिः सनातनी ॥ इत्यादि पाद्मवचनानामण्डातर्गतवैकुण्ठलोकस्य प्रकृति-संबन्धराहित्यप्रतिपादनपरत्ववर्णनम् । )

किञ्च आदित्यवर्णं तमसस्तु पारे । आदित्यवर्णं तमसः परस्तात् । क्षयन्तमस्य रजसः पराके इति श्रुतित्रयेणापि ब्रह्मणः तमसः पारवर्तित्वमेव प्रतिपाद्यते न तु मुक्तप्राप्यलोकस्य । सर्वेभ्यो लोकेभ्यो ज्यायान् । अतो ज्यायांश्च पूरुषः । इत्यादिश्रुत्या अस्माभिः ब्रह्मणः सर्वस्मात् ज्यायस्त्वोपगमात् । न च प्रकृतिसम्बन्धरहितदेशस्यैव परमपदशब्दार्थत्वेन तदवच्छिन्नब्रह्मण एव मुक्तप्राप्यत्वमिति अस्मदिष्टसिद्धिरिति वाच्यम् । प्रकृतिसम्बन्धरहितदेशस्यैव- मुक्तप्राप्यत्वे प्रमाणाभावात् । वश्यप्रकृतित्वस्यैव मुक्तिशब्दार्थत्वात् । प्रकृतेः व्यापकत्वेऽप्यण्डान्तः प्रदेशे वैकुण्ठलोकप्रदेशावच्छेदेन प्रकृतिसम्बन्धराहित्यो-पपत्तेश्च । यद्वा ब्रह्मवत्तमरशब्दितप्रकृतेः अपि विभुत्वाभ्युपगमेन तमसस्तु पार इत्यादीनां ब्रह्मणः प्रकृत्यपेक्षया उत्तमत्त्वप्रतिप्रादनपरत्वेऽपि न किञ्चिदनु- पपन्नम् । वस्तुतस्तु नात्र तमः शब्देन प्रकृतिरुच्यते किन्तु अन्धकारः । तमोलोकादस्मदभिमतवैकुण्ठस्यापि परत्वमस्तीति न किश्चिदनुपपन्नम् । नन्व-विद्यायाः परं पारं तारयसीति प्रकृतिसम्बन्धरहित देशावच्छेदेन ब्रह्मणो मुक्त-प्राप्यत्वं श्रूयत इति चेन्न । तत्राविद्याशब्दितप्रकृतिं प्रति परमाधारभूतब्रह्मण एव मुक्तप्राप्यत्वप्रतिपादनात् । तत्र पारशब्दस्याधारपरत्वात् । ब्रह्मणो मुख्यपारत्वायोगात् । अन्यथा एतं सेतुं तीर्त्येत्यादिश्रुत्यनुसारेण ब्रह्मान्यस्यापि मुक्तप्राप्यत्वापत्तेः । तत्र तीर्वेत्यस्य प्राप्तिमात्रपरत्वे प्रकृतेऽपि तथास्तु । एतेन तमसः पारं दर्शयतीत्यादिश्रुतिरपि व्याख्याता । स तान् वहति कौन्तेय तमसः परमां गतिम् इत्यादिभारतवचनानि च इन्द्रियेभ्यः पराह्यर्थाः इत्यादिव- नारायणस्यैव परमप्राप्यत्वप्रतिपादनपराणि । प्रकृतिं चाप्यतिक्रम्य गच्छन्त्या-त्मानमव्ययम् इत्यादिना प्रकृत्यतिक्रमणोक्तिरपि प्रकृत्यवश्यत्वप्रतिपादनपरेति न किञ्चिदनुपपन्नम् । प्रधानपरमव्योम्नोरन्तरे विरजानदी । तस्याः पारे परव्योम त्रिपाद्भतिः सनातनी इत्यादिपाद्मवचनान्यपि अण्डान्तर्गतवैकुण्ठलोकस्य प्रकृतिसम्बन्धराहित्यप्रतिपादनपराणीति न कश्चित् दोष इति स्थितम् ॥

(एवं रामानुजमत निराकरणेन श्रीकण्ठमतमपि निरस्तं वेदितव्यम्)

एवं कर्मब्रह्ममीमांसयोः एकप्रबन्धत्वम्, अध्ययनविधेरक्षरावाप्तिपर्यन्तत्वं, श्रवणमननयोरविधेयत्वं, भ्रमस्थले पञ्चीकरणप्रक्रियया रजतादेः सत्त्वम्स्वाप्न-पदार्थस्य बहिस्सृष्टत्वं, दर्पणे मुखमित्यादौ परावृत्त्यग्रहणं, ब्रह्मणः तच्छरीरस्य ज्ञानानन्दादिगुणानां च अत्यन्तभेदः, ब्रह्मणोऽप्यनित्यज्ञानेच्छादिसद्भावः, भगवत्प्रीतिकोपयोरेव धर्माधर्मरूपत्वं, वर्णानामुत्पत्तिविनाशौ, संसर्गाभावस्याधि- करणस्वरूपत्वं, इत्येवमादीनि तन्मतसिद्धप्रमेयान्तराणि निरसनीयानि । तन्निरासप्रकारश्च ग्रन्थान्तरे द्रष्टव्यः ॥

एवं रामानुजमत निराकरणेन श्रीकण्ठमतमपि निरस्तं वेदितव्यम् । तन्मतस्य प्रायेण रामानुजमतप्रक्रियामनुसृत्यैव प्रवृत्तेः । यद्यपि प्रक्रियान्तर-मपि तत्राङ्गीकृतम् । तथापि तद्दूषणे नातिप्रयोजनम् । यद्यपि शिवस्यैव परमकारणत्वं, नारायणस्य तु चिच्छक्तिशकलरूपत्वं च सिद्धान्तविरुद्धं तत्र प्रतिपादितम् । तदुपपाद्य न निराकृतम् । तथापि पाशुपतमतनिराकरणे नारायणस्यैव परमकारणत्वं विस्तरेणोपपादितमित्युपरम्यते ।

इति श्रीमत्परमहंस परिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थ पूज्यपादानां शिष्येण सर्वतन्त्र स्वतन्त्र श्रीविजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने रामानुजश्रीकण्ठमतनिरासो नाम दशमः परिच्छेदः ॥

(1. बहिर्ब्रह्मसृष्टत्वम् इति पाठान्तरम् ।)