ॐरचनानुपपत्तेश्च नानुमानम्ॐ

॥ अथ साङ्ख्ययोगमतभङ्गः ॥

रचनानुपपत्तेश्च नानुमानम्

साङ्ख्ययोगमतस्वरूपनिरूपणभागो मूलकोशेषु नोपलभ्यते अतस्तन्मतखरूपं संगृह्यात्र प्रादर्शि । प्रथमं साङ्ख्यमतं संगृह्य निरूप्यते ।

तत्र तावत् दार्शनिकेषु स्वतन्त्रप्रकृतिपरिणामवादिनः साङ्ख्यस्त्वतीव विख्याता वर्तन्ते । तेषु द्विविधाः निरीश्वराः सेश्वराश्चेति । तयोर्निरीश्वरा-श्वेश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुः । तन्मते संक्षेपतस्तत्त्वस्य चतस्त्रो विधा: परिदृश्यन्ते । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थः विकृतिरेव । कश्चिच्च प्रकृतिर्विकृतिश्च । कश्चिदनुभयरूपः । तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव | प्रकर्षेण करोति कार्यमुत्पादयतीति प्रकृतिः । प्रकृष्टा कृतिरस्या इति वा प्रकृतिः । प्रकर्षश्च तत्त्वान्तरारंभकत्वम् । साहि सर्वस्य विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति । सत्वरजस्तमसां साम्यादेवेदं सत्त्वं इदं रजः इदं तम इति विशिष्य व्यवहारयोग्यतापि न शक्यते तत्र वक्तुम् । अत एव तदेकमेवेति व्यपदिश्यते । महदाद्युपादानकारणत्वात् संयोगविभागाश्रयत्वाच्च सत्त्वरजस्तमांसि द्रव्यरूपाण्येव । पुरुषशब्दित जीवभोगसाधनत्वेन गुणभूतत्वादेव तेषां गुणत्वेन व्यवहारो वरीवर्ति । सत्वादीनां प्रकृतिरूपत्वेन प्रकृतिधर्मत्वाभावात् प्रकृतेर्गुणा इति व्यवहारस्तु वनस्य वृक्षा इतिवद्बोध्यम् । " सत्त्वरजस्तम इति गुणाः प्रकृतिसंभवा: " इति गीतावाक्यश्रुतगुणपदेन साम्यावस्थापन्नानां प्रकृतिस्वरूपभूतानां गुणानां न ग्रहणम् । परन्तु मूलप्रकृतिकार्यभूताः वैषम्यावस्था: महत्तत्त्वादिकारणीभूताश्च ये सत्त्वादयो वर्तन्ते त एव परकीर्त्यन्ते । वैषम्यं च सत्त्वरजस्तमसां प्रत्येकमनेकव्यक्तीनां मिथः सजातीयसंवलनेन लघुत्वप्रकाशावरणफलोपहितः इदं सत्त्वं इदं रजः इदं तम इति प्रत्येकं विशिष्य व्यवहारयोग्यः परिणामविशेषः । तदिदं वैषम्यावस्थं गुणत्रयत्वेन व्यवह्रियमाण मूलप्रकृत्यपेक्षया पृथक् तत्त्वत्रयमिति केचित् साङ्ख्यशास्त्राभिज्ञैरष्टाविंशतितत्त्वपक्षः समादृतः संदृश्यते । सत्त्वादीनां त्रयाणां गुणानां लघुत्वादयः स्वभावविशेषाः साङ्ख्यैः परिकीर्तिताः । तदुक्तम्-

" सत्त्वं लघु प्रकाशकमिष्टमुपष्टंभकं चलं च रजः । गुरु चरणकमेव तमः । " इति (सां. का. १३)

तत्र सत्त्वमेव लघु प्रकाश चेष्टम् । तस्य सत्त्वस्य लघुत्वादेव तत्कार्यभूतेष्विन्द्रियेषु विषयग्रहणाभिमुख्यरूपं पाटवं परिदृश्यते । सत्त्वस्य प्रकाशकत्वादेव तत्कार्यभूतानामिन्द्रियाणामपि विषयप्रकाशकत्वमुपपद्यते । रज एवोपष्टम्भकं चलं चेष्टम् । रजश्च यतश्चलं स्वभावतोऽतः सक्रियम् । अत एव रजः सत्त्वस्य तमसश्चोपष्टम्भकं तत्तत्कार्योत्पादे प्रवर्तकमभिमतम् । सत्त्वगुणतमोगुणयोरक्रियत्वेन तयोः खाभाविक प्रवृत्त्यभावः प्रसिद्धः । तम एव गुरु आवरक चेष्टम् | लघुत्वविरोधी स्थितिहेतुभूतो धर्मविशेषः गुरुरिति निगद्यते । तमोगुणप्रकर्षेण सत्त्वस्वभावाः रजस्स्वभावाश्च प्रतिबध्यन्ते । एतदेवास्यारकत्वमभिप्रेतम् । एवं सत्त्वस्य सुखप्रसाद प्रकाशादयो धर्माः । रजसो दुःखकालुष्य- प्रवृत्यादयो धर्माः । तमसो मोहावरणस्तम्भनादयो धर्माः । अत एव लोके रजो दुःखात्मकमिति, तमो मोहात्मकमित्यपि प्रसिद्धिर्वर्तते । मूलप्रकृतिरूपं तत्त्वं विभुपरिमाणमिति साङ्ख्या मन्यन्ते । तदेतन्मूलप्रकृतिरूप तत्वमनुमानेन ते साधयन्ति । तथा च प्रयोगः महदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्य-कार्यत्वे सति सुखदुःखमोहात्मकत्वात् । वस्त्रादिकार्यभूतशय्यासनादिवत् । इति । अथवा महदादिकं सकारणकं सजातीयकारणजन्यं वा, सजातीयोपादानकं वा स्वतन्त्र कारणजन्यं वा कार्यत्वात् ॥ इति ॥

अथवा विमतं भावजातं-सुखदुःखमोहात्मककारणकंतदन्वितत्वात् । यद्येनान्वीयते तत्तत्कारणकम्-यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकं, तथाचेदम् तस्मात्तथेति । एवं सर्व भावजात सुखदुःखमोहात्मकं त्रिगुणप्रधानकारण कमित्येतद्वेदेप्युपगीयते । तथाहि श्वेताश्वत-रोपनिषदि श्रूयते । अजामेकां लोहितशुक्रकृष्णां बह्वीः प्रजाः सृजमानां सुरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः " ॥ इति (श्वेतश्व अ. ४ मं. ५) अत्र लोहितशुक्लकृष्णशब्दाः रंजकत्वप्रकाशकवारकत्व साधर्म्यात् रजः सत्त्वतमोगुणत्रयप्रतिपादनपरा बोद्धव्याः । अचेतनस्यैव प्रधानस्य स्वतन्त्रस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेः स्वतन्त्रेश्वरवादोऽनुपपन्न इति सांख्याचार्याः समाचक्षते । लोके तावत् चेतनानधिष्ठमचेतनमपि पुरुषार्थाय प्रवर्तमानं दृष्टम् । यथा जलमचेतनं लोकोपकाराय प्रवर्तते । यथावाज्ञस्य क्षीरस्य वत्सविवृद्धयर्थं प्रवृत्तिस्तथा प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवत्स्यति ।

तदुक्तम्-

त्सविवृद्धिनिमित्त क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।

पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य || इति (सां. का. ५७१ ॥

इह च कर्तृत्व नाम स्वत एव प्रवृत्तिमत्वं विवक्षितम् । विकृतयश्च प्रकृतयञ्च महृदहङ्कारतन्मात्राणि सप्ततत्त्वानि । तदप्युक्तम् ।

"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त " इति ॥ तत्रान्तःकरणादिपदवेदनीयं द्वितीयं तत्त्वं बुद्धिः । अस्या एव बुद्धेः महानिति संज्ञा । तच्च महत्तत्वमहङ्कारस्य प्रकृतिः । मूलप्रकृतेस्तु विकृतिः । तदेवाहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणां सूक्ष्माभिधानानां प्रकृतिः । तदेव सात्विक सदेकादशेन्द्रियाणां बुद्धीन्द्रियाणां चक्षुः श्रोत्रघ्राणरसनात्वगाख्यानां तथा कर्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य मनसश्च प्रकृतिः । रजसस्तुभयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति तस्य सार्थक्यमवगन्तव्यम् । पञ्चतन्मात्राणि तत्त्वानि पञ्चमहाभूतानामाकाशादीनां प्रकृतयो विकृतयश्चाहङ्कारस्य । तथाच पञ्चभूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव ।

पुरुषस्त्रनुभयरूपो न प्रकृतिर्नापि विकृतिः । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च पुरुषबहुत्वमङ्गीकृतम् । तदेवं विस्तरतः पञ्चविंशतितत्त्वानि । सर्वमेतत् सङ्गृह्योक्तं यथा---

"मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त |

षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ " इति (सां. का. ३) ॥

प्रवृतेर्महान् ततोऽहङ्कारस्तम्माद्गुणश्च पोडशकः ।

तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि || सां. का. २२ इति च ॥

प्रकृत्यादिपञ्चविंशतित्वसङ्ख्यायाः प्रतिपादनात्तेषां साङ्ख्यशब्दवाच्यत्वं भारतभागवतमात्स्यपुराणेष्वभिगम्यते । सान्ख्यस्त्रप्रशंसा च क्वचिदुपलभ्यते । तद्यथा

सङ्ख्यां प्रकुर्वते यस्मात्प्रकृतिं च प्रचक्षते ।

तत्वानि च चतुर्विंशत्तेन साङ्ख्यं प्रकीर्तितम ॥ " इति ॥

"यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते ।

चतुविंशतितत्वानि तेन साङ्ख्याः प्रकीर्तिताः ॥ " इति ॥

" साङ्ख्यं सङ्ख्यात्मकत्वाच्च कपिलादिभिरुच्यते " इति च ।

नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् ।

अत्र व: संशयो माभूत् ज्ञानं साङ्ख्यं परं मतम् ॥ इति च ॥

आप्रलयं कार्याणां परस्परविभेश्च भवेदिति साङ्ख्यः कथ्यते । साङ्खय्मते प्रत्यक्षानुमानागमाश्चेति त्रीणि प्रमाणानि । सत्कार्यवादिनस्तु साङ्ख्याः । कार्यं तावत् कारकव्यापारात्प्रागपि सदेवेति ते प्रतिपादयन्ति । नैयायिकाभिमतमसत्कार्यवादं सयुक्तिकं निराकुर्वन्ति । तदुक्तम् --

असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।

असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥ " इति ॥

एवं- "असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।

शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥ इति ॥ (सां. का. ९)

पञ्चविंशतितत्वान्यभ्युपगच्छन्तः साङ्ख्याः पुनः प्रथमस्य प्रधानरूपतत्त्वस्य प्रसाधनायानुमानं केवलं प्रमाणतया यदुदाहरन्ति तच्चानुमानं सतः सज्जायत इत्येवं कार्यकारणभावमुपजीव्य प्रवर्तते । कार्यकारणभावे च मतभेदेन चत्वारः कल्पाः संलक्ष्यन्ते । तत्रासतः कारणादसदेव कार्य जायत इत्येकः पक्षः । असतः सकाशात् सदित्यपरः पक्षः सतः कारणात्सकाशादसदिति तृतीयः कल्पः । सतः सकाशात्सदिति चतुर्थः पक्षः । तेषु प्रथमः पक्षः सुतरामेवासमीचीनः । अतस्तुच्छस्य कार्यस्य शशविषाणस्येवोत्पत्यसम्भवात् । असत: कारणात् सतः कार्यस्योत्पत्तिरिति बौद्धानां राद्धान्तः । कार्यस्य सत्यनाम बौद्धसिद्धान्ते क्षणकालमवस्थितिरूपमेव । न तु कालत्रयाबाध्यत्वाधिकम् । सतः सकाशादसतः कार्यस्योत्पत्तिरिति तृतीयः पक्षो मायावादिनां वेदान्तिनामभिमतः । द्रव्यस्य सतोऽवस्थान्तरापत्तिः खलु परिणामः । यथा मृत्पिण्डस्य घटात्मना परिणामः । अपरित्यक्तमूलरूपस्य (प्राक्तनरूपस्य वा ) वस्तुनो असता रूपान्तरेण प्रतीतिर्हि विवर्तः | यथा शुक्तिकायाः रजत-रूपेण प्रतीतिः । नित्यशुद्धबुद्धमुक्तस्वभावाद्वितीयचैतन्यैकर सब्रह्मस्वरूपवादिनोह्यैक्यवादिनस्त्वधिष्ठानभूते ब्रह्मणि सर्वं जगत् भ्रान्त्या प्रतिभासते इति सञ्चक्षते । त्रिवर्तत्वात्तस्याभासमात्रत्वमिति न ब्रह्मवत् पारमार्थिकत्वम् । व्यावहारिकरूपेण सत्त्वं तु कार्यस्य जगतस्तैरङ्गीकृतत्वात्तदभिप्रायेणैव सतः सकाशात्सत्कार्यमुत्पद्यत इति तुरीयः पक्षोऽपि तन्मते वक्तुं शक्यते । साङ्ख्यास्तु कार्यस्य पारमार्थिकसत्त्वमूरीकुर्वन्ति । उत्पत्तेः पूर्वमसदेव कार्य सतो मृदादिकारककलापात्सकाशाज्जायत इति नैयायिका वैशेषिकाच्च सङ्गिरन्ते । साङ्ख्यमते तु कारकव्यापारात्प्रागपि कार्यं सदेव । सत एव घटादिकार्यस्य कारकव्यापारात्प्रागनभिव्यक्तस्वरूपस्य कारकव्यापारेण केवलमभिव्यक्ति

तैलदृष्टान्त प्रदर्शन पुरस्सरमुपपादयन्ति । यथा तिलेषु विद्यमानस्यैव तैलस्य तैलयन्त्रसम्पीडनादभिव्यक्तिः तथा सतः कारणात् कार्यस्य पूर्वमनभिव्यक्तस्याभिव्यक्तिरिति निरूपणात्ते सत्कार्यवादित्वेन दार्शनिकैः परिगण्यन्ते । तेष्वपि मतभेद: संलक्ष्यते । सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते ।

तदुक्तम्-

"" तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।

कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ||" इति ॥ (सां. का. १९)

तत्रापि केचिच्चेतनस्य भोक्तृतामाहुः । अपरे सामपि नाङ्गीकुर्वते । तद्यथा

 तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् ।

संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति । (सां. का. ६२)

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् ।

तञ्चात्मनः क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इति तेऽभिमन्यन्ते । भोक्तृत्वं न पुरुषस्वभावः । अपवर्गाभावप्रसङ्गात् । आत्मनश्चापरिणामित्वादागन्तुकमपि भोक्तृत्वं तस्य वक्तुमशक्यम् । अत: कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगः । प्रकृतिसंयोगोऽपि पुरुषस्य न केवलं भोगार्थः । किन्त्वपवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति । प्रकृतिपुरुषविवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोग प्रकृतिः । अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति । अविवेकख्यातिनिबन्धनो हि उपभोगः निबन्धनाभावे न भवितुमर्हति । तस्मादचेतनस्यापि चेतनविशेषानधिष्टितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तश्च । यथा व्यापाररहितस्याप्ययस्कान्तस्य सन्निधानेन लोहे व्यापारः संदृश्यते तथा निर्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारो युज्यत इति तेऽभिप्रयन्ति । एवं प्रकृतिपुरुषसंयोगविषयेऽपि साङ्ख्यास्त्वेवमाहुः । यथा प्रकृतिपुरुषसम्बन्धोऽपि पंग्वन्धवदन्योन्यापेक्षा निबन्धनः । प्रकृतिर्हि भोग्यतया भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि प्रकृतिपरिणामभूताया बुद्धेः सकाशात् भेदस्याग्रहात् स्वात्मानं बुद्धिस्वरूपं मन्यमानो बुद्धिगतं सुखदुःखादिकं सर्वं स्वस्यैवेति जानन् सत्प्रहाणाय कैवल्यमपेक्षते । तच्च कैवल्यं प्रकृतिपुरुषविवेकनिबन्धनं न तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । यथा खलु गतिशक्तिविहीनस्य पङ्गोरभीप्सितदेशप्राप्त्यर्थं गतिशक्तिमतोऽपेक्षायामन्धस्य च शक्तिविहीनस्य शक्तिमतोऽपेक्षायाश्च संयोगो भवति । ततश्चान्धेन पशुः स्वत्कन्धमारोपितः  ततः परमन्धः स्वत्कन्धारूढपङ्गनिर्दिष्टमार्गेण गच्छन्नभीष्टस्थानमाप्नोति । तथा परस्परापेक्षप्रधानपुरुषनिबन्धनः सर्ग इति तद्विषये साङ्ख्याश्चान्धपंगुन्यायं निर्दिशन्ति । तदुक्तम् --

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।

पंग्वन्धवदुभयोरपि सम्बन्धस्तत्कृतः सर्गः ॥ इति ॥ (सां. का. २१)

अत्र पुरुषः क्रियारहितत्वात् पंगुसदृशः । प्रधानन्त्वचेतनत्वादन्धतुल्यम् । एवञ्च पूर्वोक्तरीत्या पशुसम्बन्धादन्धो मार्गे यथा प्रवर्तते तथैव पुरुषसम्बन्धात्प्रधानमचेतनमपि प्रवर्तते । यथा चान्धसम्बन्धात्पङ्गुः स्वयं गमनशक्तिहीनोप्यन्धसाहाय्येनाभीष्टदेशमुपगच्छति तथा प्रधानसम्बन्धात्पुरुषो विवेकज्ञानद्वारा कैवल्यमाप्नोतीति तेषां परमाशयः ।

एवमेव यथा खलु स्वैरिणी भर्त्रा दृष्टदोषा भर्तारं पुनर्नापैति यथा वा नर्तकी शृङ्गारादिरसैस्तदनुगुणानुभावैश्च निबद्धगीतवादित्रनृत्यानि प्रेक्षकसहृदयवृन्दस्य प्रदर्श्य कृतकार्या नृत्यान्निवर्तते तथा प्रकृतिरप्यात्मानं बुद्ध्यहङ्कारतन्मात्रेन्द्रियमहाभूतभेदेन प्रकाश्य ततो निवर्तते । न च निवृत्तापि पुनः प्रवत्स्यतीति शङ्कनीयम् । प्रयोजनाभावात् । तदेतत्सर्वं साङ्ख्याचार्यैः कारिकायां प्रत्यपादि ।

तचोक्तम्

दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या |

सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ (सां. का. ६६ )

इति । तथा

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।

पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ (सां. का. ५९ )

इति ॥ एवं-

प्रकृतेः  सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।

या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य || " (सां. का. ६१ )

इति ॥

तदेतत्साङ्क्षयमतं केलाचेतनकर्तृत्व चेतन सहिताचेतनकर्तृत्वाभ्यां द्वेधा परिदृश्यते । तत्रापि द्वितीयं साङ्ख्यमतमपि गुणभूतेश्वरानुगृहीतप्रधान-कर्तृत्वेन जीवसहितप्रधान कर्तृत्वेन चेति द्विविधम् । अनयोर्मध्ये द्वितीयं निरीश्वरमाद्यन्तु सेश्वरम् । सेश्वरमपि साङ्ख्यमतमीश्वरस्य स्वातन्त्र्याद्यस्वीकारेण फलतो निरीश्वरवाद एवान्तर्भवति । जीवसहित प्रधानस्य कर्तृत्वमपि जीवस्योपसर्जनत्वप्राधानाम्यां द्वेधा वर्तते । एवं निरीश्वरसाङ्ख्यमतं केनचित् वैलक्षण्येन चतुर्विधमुपावर्णि प्राक्तनैराचार्यैरिति साङ्ख्यमतसङ्ग्रहः ||

तदेतत्स्वतन्त्रापरिच्छिन्नप्रकृति कर्तृत्ववादो नितरामप्रामाणिकः । तथाहि ||

अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः तं वेद्यं पुरुषं वेद यथा मावो मृत्युः परिव्यथा इति तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ( षट् प्रश्न ६ मं. ६, ७) ते तमर्चयतस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति ॥ ( षट् प्रश्न ६ मं. ८) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः क्षयंतमस्य रजसः पराके इत्यादि श्रुतिभिः तस्याः परिच्छिन्नत्वेनैव सिद्धेः ।

न व मूलप्रकृतिसिद्धिर्नागमात् किंत्वनुमानत इति युक्तम् । केवलानुमानेन तदसिद्धेः । अन्यथा धर्मादीनामप्यनुमानेन सिद्ध्याऽऽ- गमप्रामाण्यांगीकार वैयर्थ्यात् । न हि धर्मादीनामेवागमेन सिद्धिः प्रकृत्यादीनांत्वनुमानत इत्यर्धजरत्याश्रयणं युक्तम् । अलौकिकत्वस्योभयत्र तुल्यत्वात् । न चागमः प्रमाणमेव नेति युक्तम् । अपसिद्धान्तात् ।

"दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टम् प्रमेयसिद्धिः प्रमाणाद्धि ॥ (सां. कारिका श्लो. ४) प्रतिविषयाध्यवसायो दृष्टुं त्रिविधमनुमानमाख्यातम् । तल्लिंगलिंगिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ (स. कारिका श्लो. ५) इति सप्तत्यां प्रत्यक्षादितुल्यतया शब्दप्रमाणस्याभ्युपगमात् । न च लौकिकवाक्याभिप्रायं तद्विशेषनियामकाभावात् । तच स्वतः प्रमाणमपौरुषेय वेदोपजीवित्वेन सकलदोषाशंकाविनिर्मुक्तं भवतीति सप्ततिव्याख्यान विरोधापत्तेश्च ।

अस्तु वा प्रकृतेरनुमानतः सिद्धिः । तथाऽपि विभुत्वं न सिध्यति । तत्र तस्यासामर्थ्यात् । न चानुमानांतरतस्तत्सिद्धिः । त्वन्मते प्रकृतिव्यतिरिक्तविश्वंतरस्यानभ्युपगमेन व्याप्तेरेवासिद्धेः । न च व्यतिरेकव्याप्तिः । त्वदनभिमतस्यापि तया सिद्धिप्रसंगात् । उदाहृतश्रुतिविरोधेन तथाविधानुमानप्रवृत्ययोगाच्च । नचोदाहृतश्रुतीनां प्रकृतेः परिच्छिन्नत्वप्रतिपादने तात्पर्यं नेति युक्तम् । मानान्तरविरोधाभावेऽपूर्वत्वे च सति तात्पर्यस्य दुर्वारत्वात् । न च तत्र प्रकृत्यात्मनोर्भेदमात्रं प्रतीयत इति वाच्यम् । बाधकं विना स्वरससिद्धार्थत्यागायोगात् । तस्मान्मूलप्रकृतेर्न विभुत्वमङ्गीकरणीयम् ।

अस्तु वा मूलप्रकृतेर्ब्रह्मवद्व्यापकत्वम् । तथापि तस्या अनाश्रितत्वं स्वातंत्र्यं च नांगीकरणीयम् ।

'संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ॥ ( श्वेताश्व प्र. अ. मं. ८) क्षरं प्रधानममृताक्षरं हरः । क्षरात्मानावीशते देव एकः " (श्वेताश्वतर प्र. अ. मं. १०) सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् । ' गौरनाद्यंतवती (मंत्रिकोपनिषत् मंत्र: ५ ) ' मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरं ' ( भगवद्गीता अ. ९, लो. १०) इत्यादिश्रुतिस्मृतिभिस्तस्या अन्याश्रितत्वान्याधीनत्वयोः प्रतिपन्नत्वात् । न चेश्वरस्य मयाऽनम्युपगमात्प्रकृतेरनाश्रितत्वं स्वातंत्र्यं च सिध्यतीति वाच्यम् । अनंगीकारे हेत्वभावात् । प्रमाणसिद्धार्थस्य दुरपह्नवत्वात् । अन्यथाऽतिप्रसंगात् । त्वन्मते महदादिकार्यानुरूपप्रकृतिरूपोपादानसिद्धेरिव तथाविधकार्यकर्तृभूतेश्वर सिद्धेरपि दुरपह्नवत्वात् । न च कार्यस्योपादानापेक्षैव न तु कर्त्रपेक्षेति संकोचे कारणमस्ति । व्याप्तेरुभयत्र तुल्यत्वात् । अचेभूतायाः प्रकृतेः स्वतः प्रवृत्ययोगाच्च । न च वत्सविवृध्यर्थ कर्तारं विनैव क्षीरादिकार्यं दृष्टमिति वाच्यम् । तत्रापि गवाद्यात्मनामेव कर्तृत्वात् । अन्यथा मृतशरीरादपि क्षीराद्युत्पत्तिः स्यात् । न चायस्कान्तसन्निधिमात्रेण लोहप्रवृत्तिवत् पुरुषसन्निधानमात्रेण प्रकृतेः प्रवृत्तिरिति युक्तम् ।को होवान्यात्कः प्राण्यात् ” (तै २- ७ ) इत्यादिश्रुतिभिः सर्वप्रवृत्तेरीश्वराधीनत्वं वदन्तं प्रति तादृशोदाहरणस्यांसंप्रतिपन्नत्वात् । किंच निरवय

…………………………………………………………………………………………………………………………………………………………….

1. अनीशवात्मा बध्यते भोक्तृभावात् ज्ञात्वादेवं मुच्यते सर्वपाशैः इत्युत्तरार्धम् ।

2 तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमाया निवृत्तिः ॥ इत्युत्तरमंत्रभागः ।

3. गौरनाद्यन्तवती सा जनित्री भूतभाविनी ।

सितासिता च रक्ताच सर्वकामदुघा विभोः ॥ ५ ॥

4. हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ इत्युत्तरार्धम् ।

…………………………………………………………………………………………………………………………………………………………..

त्वमपि तस्या न युक्तम् । तस्या अनेकावयवसंघातरूपत्वात् । तथाच विष्णुपुराणम् -

महान्तं च समावृत्य प्रधानं समवस्थितम् ।

अनंतस्य न तस्यांतः संख्यानं वापि विद्यते ॥

तदनंतमसंख्यातं संख्यातं सप्रमाणकम् - इति ॥

" अजामेका "मित्यादिश्रुतिस्तु (श्वे. अ. ४, मं. ७) समष्ट्यभिप्रायेति न विरोधः । एतच्च " रचनानुपपत्तेश्च नानुमानमित्यादिना " (ब.सू. अ २, पा. २, सू. १) समयपादे विस्तरेणोपपादितम् । तत्रैवानुसन्धेयम् ॥ तस्मादुपक्रमोपसंहारादिषडिधतात्पर्यलिंगोपेतैः वेदान्तवाक्यैः सर्वज्ञस्य सर्वेशक्तेः सर्वजगत्कारणस्य प्रकृतिपुरुषविलक्षणस्येश्वरस्य नापह्नवः कर्तुं शक्य इति स्थितम् ॥

यत्तु यद्यपि पुरुषश्चिन्मात्ररूपः उदासीनस्वभावश्च तथाऽपि बुद्धितत्वे प्रतिबिंबितस्तच्छायापत्त्या बुद्धितत्ववर्तिना ज्ञानसुखकृत्यादिना ज्ञानसुखादिमानिव कर्तेव च भवति । अचेतना बुद्धिरपि चिच्छाया पत्या चेतनेव भवतीति तन्न । जीवे ज्ञातृत्वकर्तृत्वभोक्तृत्वादेः स्वाभाविकत्वात् । " एष हि द्रष्टा स्पष्टा श्रोता घ्राता रसयितर मन्ता बोद्धा कर्ता विज्ञानाऽऽत्मा पुरुषः " ( षट्प्रन ४, मं. ९) इति श्रुत्या निकृष्टजीवस्यैव ज्ञातृत्वादीनां प्रतिपादनात् । नचेयं श्रुतिः परविषयेति शंक्यम् | 'स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते । यस्तु सोम्य स सर्वज्ञ ( षट्पञ्च ४, मं. १०) इति वेद्यस्य परस्वरूपस्याव्यवधानेन प्रतिपादनेन पूर्ववाक्येनोपासकजीवस्वरूपस्यैव प्रतिपादनीयत्वात् । " गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ते "ति (श्वे, उ. अ. ५, मं. ७) जीवविषयश्रुत्यन्तरसत्वाश्च । 'ध्यायती लेलायतीव ' ' प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ' अहंकारविमूढात्मा कर्ताऽहमिति मन्यते " ( भगवद्गीता अ. ३, श्लो. २७) इत्यादिश्रुतिस्मृतिभिः कर्तृत्वभोक्तृत्वादेः अध्यासरूपत्वसिद्धया पूर्वोदाहृतश्रुत्योरपि तथाविधकर्तृत्वादिपरत्वमेव युक्तमिति वाच्यम् । स्वल्पभोजने भुक्तमिवेतिवदस्वतंत्र कर्तरि जीवे ध्यायतीव लेलायतीवेति निर्देशोपपत्तेः । स्मृत्यापि स्वतन्त्रकर्तृत्वस्यैवाध्यासरूपत्वप्रतिपादनेन कर्तृत्वमात्रस्य तथात्वाप्रतिपादनाच्च 'सर्वे ह पश्यः पश्यति' ' जक्षन् क्रीडन् रममाणः ' एतत्सामगायन्नास्ते (तै. उ. भृगुवल्लीदशमाऽनुवाकः ) सर्वान् कामान् सह ब्रह्मणा विपश्चितेत्यादिश्रुतिभिः मोक्षेऽपीश्वराधीनज्ञातृत्वकर्तृत्वभोक्तृत्वादेः प्रतिपन्नतया उदाहृतश्रुतिस्मृतीनां जीवे स्वतंत्र कर्तृत्वनिषेधपरत्वस्यैव युक्तत्वाच्च । 'सर्व ह पश्यः पश्यती'- त्यादिश्रुतीनां मुक्तविषयत्वमेव नेति वदतः उन्मत्तवदुपेक्षणीयत्वाच्च । यदपि पुरुषो न बध्यते न मुच्यते नापि संसरति । किंतु, प्रकृतिरेव बध्यते मुच्यते संसरति चेति । तदपि तयोरन्य: पिप्पलं स्वाद्वत्ति' (श्वे, उ. अ. ४, में ६) तस्मिंश्चान्यो मायया संनिरुद्धः, 'अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' (श्वे. उ. अ. ४, सं. ५ )अनीशश्चात्मा बध्यते भोक्तृभावात् " ' ज्ञात्वा देवं मुच्यते सर्वपाशैः' (श्वे. उ. अ. ४, मं. १६) " परामृतात्परिमुच्यन्ति सर्वे " " शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि' (भ.गी. अ. ७, श्लो. २८) इत्यादिश्रुतिस्मृतिभिर्जीवात्मन्येव बन्धमोक्षयोः संसारस्य च प्रतिपादनात् बन्धसंसारयोः प्रकृत्यधीनत्वस्यैव प्रतिपादनाश्च ॥ "कार्यकरण कर्तृत्वे हेतुः प्रकृतिरुच्यते " (भ.गी. अ. १३, श्लो. २०) इति भेदेन प्रतिपादनात् साधारण्यज्ञापनार्थमिति न दोषः ॥

यत्तु भूतानां विकृतित्वमेव न प्रकृतित्वमित्युक्तं तन्न घटादीनां वृक्षादीनां च पृथिव्यादिविकाराणां दर्शनेन पृथिव्यादीनां प्रकृतित्वस्यायंगीकर्तव्यत्वात् । न च तत्वांतरोपादानत्वमेवेह प्रकृतित्वं विवक्षितम् । घटादयस्तु न पृथिव्यादिभ्यस्तत्वांतरमिति नोक्तदोषः इति वाच्यम् । त्वन्मते महदादीनामपि प्रकृत्यनन्यत्वात् । "कारणभावाच्च सत्कार्यमित्यत्र " (सां. का. ९) कार्यस्यैव कारणरूपत्वादित्यर्थः । " न हि कारणात् भिन्नं कार्यं कारणं च सदिति कथं तदभिन्नं कार्यमसद्भवेदिति"

……………………………………………………………………………………………………………………………………………………………….

1. पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ इत्युत्तरार्धम् ।

……………………………………………………………………………………………………………………………………………………………….

वाचस्पतिना व्याख्यातत्वात् । न च कार्यकारणयोरभिन्नत्वान्नात्यन्ताभिन्नरूपत्वमिति युक्तम् । तस्यैव कार्यसत्वोपपादकत्वात् । भेदस्यापि सत्वे कार्यस्यासत्वापातेन पराभिमतसत्कार्यवादासिद्धिप्रसंगात् । एवं च सांख्यमते कार्यकारणयोरत्यन्ताभेदाभ्युपगमेन, " हेतुमदनित्यमव्यापिसक्रियमनेकमाश्रितं लिंगं सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तमिति” (सां. का. १०) व्यक्ताव्यक्तवैधर्म्य प्रतिपादनमप्यसंगतम् । न होकस्यैव तद्रूपत्वमतद्रूपत्वं च संभवति ॥

किंच कार्यकारणयोर्भेदोऽप्यंगीकार्यः । न त्वत्यंताभेदः । तथात्वेकार्यकारणभावानुपपत्तेः । अनन्यथासिद्ध नियतपूर्व भावित्वस्य कारणत्वात् । तथाभूतपश्चाद्भावित्वस्य कार्यत्वात् । न ह्युपादानोपादेययोरैक्ये तदुभयं संभवति । प्रत्युत्तैकतरपरिशेषापत्तेः । न चैकत्वेप्यवस्थाभेदमादाय तदुभयं संभवतीति युक्तम् । सांख्यमते तस्या अपि सत्वाम्युपगमेन तामादाय पश्चाद्भावित्वांगीकारायोगात् ।

असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।

शक्तस्य शक्यकरणात्कारणभावाश्च सत्कार्यम् ॥ (सां. का. ९)

इति वदता त्वया कार्यमात्रस्य विद्यमानत्वोपगमात् । अवस्थाया असत्या एवोत्पत्यंगीकारेच सर्वत्रासत्कार्यवादापत्तेः ।

किंच सांख्याभिमतसत्कार्यवादो नोपपद्यते । पूर्वमपि कार्यस्य सत् कारकव्यापारवैयर्थ्यात् । न चाभिव्यक्त्यर्थमसाविति युक्तम् । कार्यकारणयोरभेदे कारणाभिव्यक्तेरेव कार्याभिव्यक्तिरूपतया तद्वैयर्थ्यात् । किं चाभिव्यक्तिरसती सती वा । नाद्यः । असत्कार्यवादापातात् । तद्वत् घटादीनामसतामेवोत्पत्तिरित्यत्र सुवचत्वाश्च । घटादीनामभिव्यक्तिरभिव्यकेस्तूत्पत्तिरित्यत्र नियामकाभावाश्च । द्वितीयः कारकव्यापारवैयर्थ्यात् । तस्याभिव्यक्त्यभिव्यक्त्यर्थत्वे च तस्या अपि सत्वेन तत्र तत्रैवमित्यनवस्थापातात् । न च बीजांकुरादेरिवासौ न दोषः । तस्य सिद्धविषयत्वात् । अत्र तद्भावात् ।अभिव्यक्ताया एवाभिव्यक्तेर्घटो जात इत्यादिवत्प्रतीत्युपपादकत्वेन मूलक्षयकरत्वेन तस्याः प्रकृते दोषत्वात् । उत्पतेरुत्पत्तिः स्वयमेवेति नानवस्था | आद्यसमयसम्बन्धस्यैवोत्पत्तिपदार्थत्वात्तस्य च स्ववृत्तिप्रमेयत्ववत्सिद्धविषयत्वेनात्माश्रयस्यादोषत्वात् ।

किंच घटाभिव्यंजकसामग्र्यैव मृत्कुटे विद्यमानानां शरावादीनामपि अभिव्यक्तिः स्यात् । घटायोन्मीलितं चक्षुः पटं न हि न बुध्यत इति न्यायात् । घटाभिव्यक्त्यर्थमारोपितेन दीपेन शरावादीनामप्यभिव्यक्तिदर्शनाच्च । न च वर्णेष्विव प्रतिनियतव्यंजकव्यंङ्गयत्वमंगी कार्यमिति वाच्यम् । वर्णनित्यत्वस्यानन्यथासिद्धप्रमाणप्रमितत्वेन ताल्वोष्टपुटव्यापारादेः प्रतिनियतध्वनिव्यंजकत्वेनैवोपयोगस्य वक्तव्यत्वेन वैस्यात् ।

किंच दीपेनेव दण्डादिनापि घटादीनामभिव्यक्त्यंगीकारे तद्दण्डादिना घटोऽभिव्यक्त इति प्रतीतिः स्यानोत्पन्न इति । न चाभिव्यक्तौ तारतम्यं प्रमाणाभावात् । न च कूपखननानन्तरमभिव्यक्ते जलेप्युत्पन्नत्वव्यवहारदर्शनात् निष्पीडनानंतरं तैलमुत्पन्नमिति व्यवहारदर्शनात् देवदत्तो जात इति व्यवहारदर्शनाच्च नोक्तदोष इति वाच्यम् । जलादिषु निरूपणदशायामभिव्यक्तस्त्वव्यवहारस्यापि दर्शनेन घटादिषु सर्वथैवोत्पन्नव्यहारसत्वेन वैषम्यात् ।

तस्मासांख्यरीत्या सत्कार्यवर्णनमनुपपन्नम् ॥

यत्तु " उभयात्मकमत्र मनः " इति मनसः कर्मज्ञानेन्द्रियोभयात्मकत्वमुक्तम् । तन्न । वागादीनामिवासाधारणक्रियाभावात् । मनोऽधिष्टितानां वागादीनां क्रियाजनकत्वेन मनसः कर्मेन्द्रियत्वे कालादृष्टेश्वरादीनामपि तथात्वापत्तेः । न च चक्षुरादीन्द्रियेण सम्मुग्धतो गृहीतं वस्त्वेवं विधमेव नानैवंविधमिति मनः सम्यग्विवेचयतीति विवेचनरूपो व्यापारोऽसाधारणोऽस्तीति तस्य कर्मेन्द्रियत्वं युक्तमिति वाच्यम् । विवेचनस्य ज्ञानविशेषरूपत्वेन । क्रियारूपत्वात् । इदमर्थमेवेति ज्ञानस्यैव विवेचनरूपत्वात् । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियमिति लोकप्रसिद्धयनुसारेण मनसः केवलज्ञानेन्द्रियत्वस्यैव युक्तत्वाच्च ।

ननु त्वन्मते कथं तस्य ज्ञानेन्द्रियत्वमसाधारणस्य ज्ञानलक्षणफलस्याभावात् । न तावत् बाह्यविषयज्ञानं प्रति तस्य करणत्वं तस्य यथायोगं प्रत्यक्षादिप्रमाणफलत्वान्मनसो बहिस्स्वातन्त्र्यानभ्युपगमाच्च । नाप्यान्तरपदार्थविषयज्ञानं प्रति तस्य करणत्वमात्मनः स्वप्रकाशत्वेन तनपेक्षत्वात् । सुखदुःखज्ञानेच्छादीनां व 'साक्षिसिद्धत्वात् । न च स्मृतिं प्रति तस्य करणत्वं तस्याः संस्कारमात्रजन्यत्वात् । परोक्षज्ञानत्वेनेन्द्रियकरणकत्वायोगाश्चेति । चेन्न । स्मृतेः साक्षात्काररूपत्वोपगमात् । न चैवं स्मृत्यनन्तरं साक्षात्करोमीति प्रतीत्यापत्तिः । नैयायिकादिमते सामान्यलक्षणप्रत्यासत्तिजन्यज्ञानेष्विव तदभावेऽपि साक्षत्कारात्वोपपत्तेः । न च मनसो बहिरस्वातन्त्र्यम् । ज्ञानोपनीतविषये बहिरर्थेऽपि तस्य स्वातन्योपगमात् । संस्कारस्य सहकारित्योपगमाच्च ।

किं च मोक्षसाधनीभूतब्रह्म साक्षात्कारकरणत्वेन मनसः इन्द्रियत्वम् । न च तस्य चक्षुरादि करणकत्वम् । न चक्षुषा गृह्यते नापि वाचेति' (मुण्डकोपनिषत् खं. ३, मं. ८) तद्ब्राह्यत्वनिषेधात् । नापि शब्दकरणकत्वम् । तस्य परोक्षज्ञानैकफलत्वात् । नापि ध्यानकरणकत्वम् । अस्यापरोक्षत्वात् । ज्ञानकरणकस्य परोक्षत्वनियमात् । अपरोक्षज्ञानस्यैन्द्रियकरणकत्वावश्यम्भावाच्च । न च ब्रह्मसाक्षात्कारोऽकारणक इति युक्तम् । ज्ञानक्रियायाः सकरणत्व नियमात् । तस्मात्तस्य मनःकरणकत्वम् । न च ब्रह्मसाक्षात्कारस्य मनःकरणकत्वे मानाभावः उक्ते परिशेषस्यैव तत्र प्रमाणत्वात् । मनसैवानुद्रष्टव्य-(बृ. उ. ४, अ. ना. ४, मं. १९) मित्यादिश्रुतीनां सत्वाश्च । न च सा श्रुतिरूपचरितार्था । मुख्यार्थे बाधकाभावात् । न च यन्मनसा न मनुते इति श्रुत्यन्तरमेव बाधकमिति वाच्यम् । दृश्यते त्वग्र्यया बुध्येत्यादिश्रुत्यनुसारेण तस्यानवहितमनोगम्यत्वनिषेधपरत्वकल्पनेन विरोधाभावादित्यलं शाखाचंक्रमणेन । तस्मान्मनसः केवलज्ञानेन्द्रियत्वमेव । न तु कर्मेन्द्रियत्वमिति स्थितम् । 1. सुखं दुःखं भवो भावो भयं चाभयमेव च । साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् ॥

एतेन अग्नीषोमीयादिहिंसायाः क्रत्वङ्गभूतायाः किञ्चित्पापसाधनत्वमप्यस्तीति साङ्ख्योक्तं निरस्तम् । तस्याः पापसाधनत्वे प्रमाणाभावात् । न च न हिंस्यात् सर्वाभूतानीति तस्या निषेधात्पापसाधनत्वमिति वाच्यम् । निषेधस्य यदग्नीषोमीयं पशुमालभते इति विशिष्य विहितेतरपरत्वात् । अन्यथा श्रुतिद्वयविरोधापत्तेः । सामान्यशास्त्रस्य विशेषशास्त्रेण बाधस्याङ्गीकर्तव्यत्वाच्च ।

ननु विरोधे हि बलीयसा दुर्बलं बाध्यते । न चेहास्ति विरोधः । भिन्नविषयत्वात् । तथा हि--न हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते । न क्रत्वनङ्गत्वमपि । अग्नीषोमीयवाक्येन च पशुहिंसायाः क्रत्वङ्गभावो ज्ञाप्यते । न त्वनर्थहेतुत्वाभावोऽपि । म चानर्थहेतुत्वक्रतूपकारत्वयोः कश्चिद्विरोधः । एवं च हिंसा पुरुषस्य दोषमात्रं वक्ष्यति ।क्रतोश्चोपकरिष्यतीति युक्तम् । तस्याः सुपरिहरस्वल्पपापहेतुत्वम् । आह च भगवान् पञ्चशिखाचार्य:- * स्वल्पसङ्करः सुपरिहर इतीति "

अत्र केचिदाहुः अग्नीषोमीयपश्वालम्भनस्य हिंसारूपत्वे हि न हिंस्यादिति निषेधेन क्रोडीकृतत्वेन पापहेतुत्वम् । न च तस्य हिंसारूपत्वमस्ति । " न वा उवे न म्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः । यत्र यन्ति सकेतो नापि दुष्कृतः तत्र त्वादेवः सविता दधातु ॥ इति मन्त्रवर्णेन पशुस्वर्गसिद्धिपर्यवसायितया पश्वनुग्रहरूपत्वेनैव सिद्धा क्रोधादिकृतस्य शरीरावयवदाहच्छेदादेः निग्रहत्वेऽपि प्राणशान्त्यर्थे कृतस्य तस्यानुग्रहरूपत्वेनानिग्रहत्ववत् पश्वनुग्राहकस्य क्रत्वर्थस्य पशुमारणस्याहिंसात्वोपपत्तेरिति ।

अत्रोच्यते । अग्नीषोमीयहिंसायाः पश्वनुग्राहकत्वेऽपि हिंसात्वमस्त्येव । प्राणशान्त्यर्थं कृतस्य शरीरावयवदाहच्छेदादेः तत्पुरुषानुग्रहरूपत्वेऽपि दाहच्छेदादिरूपत्वदर्शनेन पशुमारणस्यापि हिंसारूपत्वोपपत्तेः । प्राणवियोजनानुकूलव्यापारस्यैव हिंसाशब्दार्थत्वात् । " न वा उबे म्रियसे नरिष्यसीति" मरणाद्यभावोक्तेरपि 'अपशवो वा अन्ये गोSश्वेभ्यः' इत्यादाविव प्रत्यक्षविरोधेन प्रशंसापरत्वेन तदनुसारेणाहिंसारूपत्वासिद्धेश्व | न चैवमनीषोमीय पशुमारणस्य हिंसारूपत्वे पापसाधनत्वं स्यादिति युक्तम् । तस्य निषेधाविषयत्वात् । तथा हि हिंसा हि द्विविधा पुरुषार्थंरूपा क्रत्वर्थरूपा चेति । तत्र निषेधस्य 'पुरुषार्थभूता हिंसैव विषयः । न क्रत्वर्थभूतहिंसाऽपि । हिंसात्वाविशेषात्तामपि विषयीक्रियादिति चेन्न । निषेधस्य शीघ्रप्रतीतिक पुरुषार्थहिंसार्थव्यावर्तनेन निवृत्ततया विलम्बितोपस्थितिकक्रत्वर्थहिंसा स्पर्शाभावात् । 'न हिंस्यादित्यत्र' पुरुषार्थहिंसाया एव धातुना वेद्यमानत्वेन तस्या एव शीघ्रोपस्थितिकत्वात् । अत्र क्रतूपस्थापकाभावेन क्रत्वर्थहिंसाया अनुपस्थितत्वेन निषेधस्य तदविषयत्वोपपत्तेः । 'हिंसात्ववैदिकी या तु तयानर्थो भवेद्ध्रुवम् । वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन । ' इति भाषयोदाहृतस्मृतिरप्युक्तार्थपरेति न कश्चिद्दोष इति । तस्मादग्नीषोमीयहिंसायाः पापसाधनत्वमिति साङ्ख्योक्तमनुपपन्नम् ।

अनेन योगमतमपि निरस्तं वेदितव्यम् । यद्यपि सकलवेदप्रवर्तनाधिकृतेन सर्वज्ञेन हिरण्यगर्भेण योगमतं प्रवर्तितम् । यद्यपि सत्यभूताः प्रकृतिपुरुषेश्वराः क्लेशकर्माद्यपरामृष्टः प्रणवप्रतिपाद्यः सर्वलोकगुरुः पुरुषः ईश्वरः मुमुक्ष्वपेक्षिताष्टाङ्गोपेत योगश्च तत्र प्रतिपादिताः । तथापि ईश्वरस्य क्रियाशक्तिरहिततया साङ्ख्यपुरुषवन्निर्व्यापारत्वं सन्निधिमात्रेण जगत्सर्जनोपकारकत्वं प्रकृतिप्राधान्यं वेदान्तानां तादशप्रकृतिपरत्वमित्यादि वेदान्तविरुद्धार्थान्तरप्रतिपादनेन तन्मतं न प्रेक्षावदुपादेयम् । तथाहि ।

न तावदीश्वरस्य निर्व्यापारत्वम् । ' तदैक्षत' (छां. अ. ६. खं २ मं. ३) तत्तेजोऽसृजत ' तदात्मानं स्वयमकुरुत' "तत्सृष्ट्वा तदेवानुप्राविशत् " ( तै. उ. आनंदवल्ली मंत्रः सोऽकामयत बहुस्यां प्रजायेये-' त्यादि श्रुतिभिरीश्वरव्यापारेणैव जगदुत्पत्तेः प्रतिपादनात् । ‘ स्वाभाविकी ज्ञानक्रियाचेति (श्वे. उ. ६ अ. मं ८) ज्ञानक्रियाशक्त्यादीनां स्वाभाविकत्वप्रतिपादनाच्च । न च ' न तस्य कार्य करणं च

………………………………………………………………………………………………………………………………………………………………

1.       पुरुषप्रयोजनकेत्यर्थः ।

…………………………………………………………………………………………………………………………………………………………….

विद्यते ' ( श्वे. उ. ६ अ. मं ८) इति पूर्ववाक्ये क्रियामात्र निषेधात्, 'असंगोह्ययं पुरुष: ' (बृ. उ. अ. ४ ब्रा. ३ से १५ ) इत्यादिश्रुतिभिस्तस्य संगमात्रनिषेधात् । 'मयाsध्यक्षेण प्रकृतिः सूयते सचराचरम् । (भ. गीता अ. ९ श्लो. १०) इतीश्वरस्य साक्षित्वमात्रेण प्रकृतेर्जगदुत्पत्तिप्रतिपादनाच्च पूर्वोदाहृतश्रुतीनां प्रकृत्या जगत्सृष्टौ कर्तव्यायामीश्वरस्य साक्षित्वमात्रप्रतिपादन परत्वमेवांगीकर्तव्यमिति वाच्यम् । 'न तस्य कार्य 'मित्यादेरीश्वरस्य जगत्सर्जने कर्तव्ये न किंचित्प्रयोजनम् । नापि 'स्वापेक्षयाऽति 'शयितं साधनमित्यर्थपरत्वात् । असंगश्रुतेश्च बंधराहित्यपरत्वात् । अध्यक्ष्यत्वस्याप्यधिष्ठातृत्वरूपत्वाश्च । अन्यथा 'अस्मान्मायी सृजते विश्वमेतत्' (श्वे. उ. ४ अ. मं ९) इति श्रुतिविरोधप्रसंगात् । एतेन प्रकृतिप्राधान्यमिति निरस्तम् । 'तमो वा इदमेकमास तत्परेणेरितं विषमत्वं प्रयाति' इत्यादिश्रुतिभिरीश्वरस्यैव नियामकत्वप्रतिपादनात् । 'अजामेकां (श्वे. उ. अ. ४ में. ५) मायां तु प्रकृतिं विद्यादित्यादिषु (श्वे. उ. अ. ४ मं. १०) प्रकृतेः प्रतिपादनेऽपि सर्वत्र वेदान्तेषु प्राधान्येन सर्वजगत्कारणस्येश्वरस्य प्रतिपादनाच्च

सांख्ययोगयोः सर्वज्ञकपिल हिरण्यगर्भप्रणीतत्वेनोपादेयत्वम् । तयोरपि क्वचिदंशे भ्रम संभवात् । तयोस्तदसंभवे च विप्रलिप्सया तथाविधशास्त्रप्रवर्तनोपपत्तेश्च सांख्ययोगमतयोर्बादरायणेन निराकृतत्वाच्चेति' दिक् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्र स्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्त-सारासारविवेचने सांख्ययोगमतभङ्गो नाम पंचमः परिच्छेदः ॥

……………………………………………………………………………………………………………………………………………………………

1.       अक्षपादप्रणीते च काणादे साङ्खययोगयोः ।

त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्यैकशरणैः नृभिः ॥

जैमिनीये च वैयासे विरुद्धांशो न कश्चन ।

श्रुत्या वेदार्थविज्ञाने श्रुतिपारं गतौ हि तौ ॥ इति पराशरोपपुराणवाक्यानि ॥

यं न पश्यन्ति योगिन्द्राः साङ्ख्या अपि महेश्वरम् ।

अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ इति कूर्मपुराणम् ॥

       2. ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ ब्र. सु. अ. २ पा. २ सू. १) अत्रेश्वरनिरपेक्षाचेतनप्रकृतेरेव महदादिकार्यकरणे प्रवृत्तिरिति यन्निरीश्वरसाङ्खयमतं तन्निराचकार सूत्रकारः । ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ ब्र. सू. अ. २ पा. २ सू. ५) अत्र प्रधानमेव जगत्कतृ तस्य गुणभूतत्वेनेश्वरोऽस्तीतिवदतः सेश्वरसांख्यस्य पतञ्जलेर्मतं निराकरोति सूत्रकृत् । निरीश्वरसाङ्ख्यशास्त्रप्रणेता कपिलो न विष्णुः । किन्त्वग्न्यवतारः कपिलान्तरम् । अग्निः सकपिलोनाम साङ्ख्यशास्त्रप्रवर्तकः " इति स्मृतेः ॥

कपिलो वासुदेवाख्यः तन्त्रं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥

तथैवासुरये सर्ववेदार्थैरुपबृंहितम् ।

सर्ववेदविरुद्धं च कपिलोsन्यो जगाद ह ॥

साङ्खयमासुरयेऽन्यस्मै कुतर्कपरिबृंहितम् ॥

इति साङ्ख्ययोगमतभङ्गः