पाशुपताः, शैवाः, कालामुखाः, महाव्रताश्चेति चतुर्विधाः
॥ अथ पाशुपतमतभङ्गः ॥
सर्वतन्त्र स्वतन्त्र श्रीमद्विजयीन्द्र भिक्षुविरचितसर्वसिद्धान्तसारासार-विवेचनग्रन्थे सम्प्रत्युपलभ्यमाने पाशुपतमतनिरूपणभागस्यानुपलम्भादन्यत्रोपलभ्यमानं तन्मतस्वरूपनिरूपणं सङ्गृह्यात्र प्रादर्शि ।
…………………………………………………………………………………………………………………………………………………………
पाशुपताः, शैवाः, कालामुखाः, महाव्रताश्चेति चतुर्विधाः
सकलगुणाश्रयः स्वतन्त्रः सर्वकर्ता पशूनां पाशबन्धमोक्षप्रदः पशुपतिरिति माहेश्वराः प्रतिपादयन्ति । ते च माहेश्वराः पाशुपताः, शैवाः, कालामुखाः, महाव्रताश्चेति चतुर्विधाः । तेषु केचन माहेश्वराः मोक्षे पशूनां निरतिशयैश्वर्यं महेश्वरवत्कामयमानाः मोक्षावस्थायां पारतन्त्र्यमसहमानाश्च स्वातन्त्र्यादिपरमैश्वर्यसम्पन्नमोक्षावस्थाप्रतिपादकं पाशुपत शास्त्रमेवाश्रयन्ते तच्छास्त्रेतु परमपुरुषार्थसाधनं कार्य, कारण, योग, विधि, दुःखान्तरूपं पदार्थपञ्चकं तत्त्वज्ञानोपयोगितया प्रपञ्चितम् । पशूनां पतिर्महेश्वर एव पशुपतिः । जीवास्तु पशवः परिकीर्तिताः । जीवानां पशुशब्दवाच्यत्वे लिङ्गपुराणवचनं प्रमाणम् । तदुक्तम्-
ब्रह्मान्ता स्थावरान्ताश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः " इति ॥
ज्ञानापकर्षेण पशुतुल्यत्वात् पशुवद्वर्तन्त इति वा पशवो जीवाः । पाशुपतशास्त्रतत्त्वभूताः पूर्वोक्त कार्य, कारण, योग, विधि, दुःखान्ताः पंचपदार्थाः पशुपतिना महेश्वरेण जीवपाशविमोक्षणायोपदिष्टाः । यथाक्रमं तन्निरूपणं यथा सर्वं हि कार्यं परमेश्वराधीनत्वाविशेषादस्वतन्त्रम् । तच्च विद्या, कला, पशुश्चेति त्रिविधम् । एतेषां विज्ञानात्संशयादिनिवृत्तिस्संजायते । एतेषु पशुशब्दितानां जीवानां गुणः विद्या । सापि बोधाबोधस्वभावा द्विविधा | तत्र बोधस्वभावा विवेकाविवेकप्रवृत्तिभेदा द्विविधा चित्तमित्युच्यते । पशुत्वप्राप्तिफलकधर्माधर्मात्मकविद्यातु जीवगुणविशेषत्वादबोधत्वेन व्यपदिश्यते
चेतनपरतन्त्रत्वे सत्यचेतना कला । सा च कार्याख्या कारणाख्या चेति द्विविधा | तत्र कार्याख्या विषयरूपा ।
कारणाख्या इन्द्रियरूपा । इन्द्रियाणान्तु विषयज्ञानकारणत्वादिन्द्रियशब्देन व्यवहारः । सा च कारणाख्या त्रयोदशविधा । ज्ञानेन्द्रियपञ्चकं, कर्मेन्द्रियपञ्चकं, अध्यवसायाभिमान संकल्पाभिधवृत्तिभेदात् बुध्यहंकारमनोलक्षणमन्तःकरणत्रयश्चेति ।
पशुत्वसम्बन्धात् पशुर्जीवः । स च साञ्जनो निरञ्जनश्चेति द्विविधः । तयोर्मध्ये शरीरेन्द्रियसम्बन्धी साञ्जनः । तद्रहितः निरञ्जनः । समस्तसृष्टि-संहारानुग्रहकारि कारणम् । एतत्तु तत्त्वं महेश्वररूपम् । सोऽयं महेश्वर एव सत्वादिगुणभेदेन सृष्ट्यादिक्रियाभेदेन च विभक्त इव भवति । तादृशगुणकर्मभेदापेक्षयैव पतिरिति साद्य इति च निगद्यते । तत्र निरतिशयदृक्क्रिया-शक्तिमत्वमैश्वर्यम् । तेन चैश्वर्येण नित्यसंबन्धित्वमेव पतित्वम् । आद्यत्वन्त्वना गन्तुकैश्वर्यसंबन्धित्वम् ।
चित्तद्वारेणात्मेश्वरसंबन्धकारणं योगः । स च द्विविधः । क्रियालक्षण:, क्रियोपरमलक्षणश्चेति । तत्र जपध्यानादिरूपः क्रियालक्षणो योगः । निष्ठासंविद्धत्यादिसंज्ञितः क्रियोपरमलक्षणः । तत्र महेश्वरे अव्यभिचारिणी-भक्तिर्निष्ठेत्युच्यते । तत्त्वज्ञानं संवित् । शरणगमनं गतिः ।
धर्मार्थसाधको व्यापारो विधिः । सोऽपि द्विविधः । प्रधानविधिः गुणविधिश्चेति । तत्र साक्षात् धर्महेतुः प्रधानः । स च प्रधानव्यापारश्चर्याशब्देनोच्यते । सा च चर्या द्विविधा व्रतं द्वाराणि चेति । तत्र भस्मस्नान, भस्मशयनो, पहार, जप, प्रदक्षिणानि व्रतम् । उपहारश्चनियमः स च षडङ्गः हसित, गीत, नृत्य, हुडुकार, नमस्कार, जप्यषडङ्गोपहारभेदात् । तत्र हसितं नाम कण्ठोष्ठपुटविस्फूर्जनपूर्वकं " अहह " इत्यट्टहासः । गीतंतु गान्धर्वशास्त्रनियमानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमित्तानां परिचिन्तनम् । नृत्यमपि नाट्यशास्त्रानुरोधेन हस्तपादादीनामुत्क्षेपणादिकं अङ्गप्रत्यङ्गोपाङ्गसहितं भावाभावसमेतं प्रयोक्तव्यम् । हुडुक्कारश्च जिह्वातालसंयोगात् निष्पाद्यमानः वृषनादसदृशः पुण्यो नादः । हुडुगिति शब्दानुकारः । इयं व्रतचर्या चैकान्तप्रदेशे सम्पादनीया । नमस्कारादिकं तु प्रसिद्धमेव । द्वाराणि च क्रायनस्पन्दनमन्दनश्शृङ्गारणावितत्करणावितद्भाषणानीति षट् परिकीर्तितानि । तत्रा सुप्तस्यैव सुप्तलिङ्गप्रदर्शनं क्राथनम् । सुप्तस्य निद्रितस्य लिङ्गं नेत्रनि-मीलनादिकमत्र विवक्षितम् । अत्र बोधाभावो दोषः । एकान्तता संपादनार्थमेव क्राथनादिद्वारचर्यापेक्ष्यते । वातव्याधिग्रस्तस्यैव शरीरावयवानां कम्पनं स्पंदनम् । वस्तुतः सः व्याध्यनभिभूत एव । व्याधिः शरीरदोषः । उपहृतपादेन्द्रियत्येव गमनं मंदनम् । रूपलावण्यसंपन्नां कामिनीं निरीक्ष्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तच्छृङ्गारणम् । वस्तुतस्त्वकामुक एव सः । अत्रोन्मत्तता मनोदोषः । अवितत्करणन्तु युक्तायुक्तविवेकविकलस्येव लोकनिन्दितकर्मकरणम् । व्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति । गुण-भूतरतुविधिश्चर्यानुग्राहकोऽनुस्नानादिः मैक्ष्योच्छिष्टादिनिर्मितायोग्यताप्रत्यवाय-निवृत्यर्थ: । पूर्वोक्तपञ्चपदार्थेष्वन्तिमपदार्थो दुःखान्तोऽपि द्विविधः अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । " अविशिष्टं वस्तु तावदसत्कल्पं निगद्यते " इति न्यायात् केवलदुःखनिवृत्तेः पाषणस्येवाकिञ्चित्करत्वादैश्वर्यराहित्याच्चायमनात्मकत्वेन व्यवह्रियते । अयमपरो मोक्ष इति च भण्यते । अस्माद्विलक्षणः सात्मको मोक्षः परमोक्षत्वेन व्यपदिश्यते । दृक्क्रियाशक्तिलक्षणैश्वर्यात्मकस्तु मोक्षः सात्मक इत्युच्यते । ऐश्वर्यं तु द्विविधं दृक्शक्तिरूपं क्रियाशक्तिरूपन्चेति । दृक्शक्तिरेव धीशक्तिः ज्ञानशक्तिश्चेति कथ्यते । तत्र धीशक्तिरेकापि विषयभेदात् दर्शनं श्रवणं, मननं, विज्ञानं सर्वज्ञत्वन्चेति पञ्चविधा व्यवह्रियते । क्रियाशक्तिरेकापि मनोजवित्वं, काम-रूपित्वं, विकरणधर्मित्वंचेति त्रिविधा परिगण्यते ।
दर्शनान्तरवैलक्षण्यमस्मिन्दर्शने यथा न्यायशास्त्रे एकविंशतिदुःखध्वंसो मोक्षः । तथाच तत्र दुःखनिवृत्तेरेव दुःखान्तत्वम् । पाशुपतशास्त्रे तु दुःखनिवृत्तिः पारमैश्वर्यप्राप्तिश्चेत्युभयं विवक्षितम् । न्यायदर्शने पूर्वमविद्यमानं पश्चात्कारकव्यापारेण यदुत्पद्यते तत्कार्यमित्युच्यते । पाशुपतमते तु नित्यमपि जीव परमाण्वादिरूपं कार्यमिति कथ्यते । अन्यत्र तु सापेक्षं कारणम् । अत्र तु कर्मादिनिरपेक्षो भगवान् परमेश्वरः जगत्कारणमिति भेदः ।
तदेवमचिन्त्यशक्तिकस्येश्वरस्येच्छानुविधायिन्यव्याहत क्रियाशक्त्या कार्य-कारित्वाभ्युपगमात् निरपेक्षो भगवानेव जगत्कारणमिति तसिद्धान्तः ।
तदुक्तम्-
कर्मादिनिरपेक्षस्तु स्वेच्छाचारी यतोह्ययम् ।
ततः कारणतः शास्त्रे सर्वकारणकारणम् ॥ इति ॥
तस्मात्पाशुपतागमेन यथावत्तत्वनिश्वयोदयात् पुरुषार्थकामैः पुरुष-धौरेयैः पञ्चार्थप्रतिपादनपरं पाशुपतशास्त्रमेवादरणीयमिति वदन्ति ।
॥ इति पाशुपतमतभङ्गः ॥