सप्तभङ्गी

॥ अथार्हतमतभङ्गः ॥

स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति, स्यादवक्तव्यः, स्यादस्ति चा वक्तव्यः, स्यानास्ति चा वक्तव्यः, स्यादस्ति च नास्ति चा वक्तव्य इति ॥ सप्तभङ्गी

...........................................................................................................................................................................................................

इदानीं आर्हतमतं निराक्रियते । ते खल्बेवमाहुः । सर्वज्ञार्ह' प्रणीतत्वादातमतमेव मुमुक्षूणामुपादेयम् । आर्हतानां सकललोकसंवादिग्रहगतमन्त्राद्युपदेष्टुत्वात् तदुपदिष्टमन्त्राणां फलवत्वदर्शनाश्च सर्वशत्वसिद्धिः । न च तन्मतस्य रागद्वेषादिमूलत्वं शंक्यम् । प्राधान्येन तत्र वैराग्याहिंसादीनामेव प्रतिपादनेन तन्मतस्य रागद्वेषादिमूलत्वाभावनिश्चयात् ।

तत्र वस्तु द्विविधम् । द्रव्य पर्यायभेदात् । जीवधर्माधर्मपुद्गल कालाकाशरूपाणि द्रव्याणि । तेषामवस्था पर्याय इत्युच्यते ।

.........................................................................................................................................................

1 जैनमतप्रवर्तकेनार्हन्मुनिना प्रदर्शितमतमार्हतमतम् । अर्हत्स्वरूपं च हेमचन्द्रसूरिभिराप्तनिश्चयालङ्कारे निरटङिक् । सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोर्हपरमेश्वर: || इति ॥

अर्हन्मुनेः सर्वज्ञत्रेऽनुमानमेतदुदाहृतम् ।

तथाहि कचिदात्मा (अर्हन्मुनिः ) सकलपदार्थसाक्षात्कारी सद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यत् यद्ग्रहण स्वभावत्वे सति प्रक्षीण प्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि यथापगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीण प्रतिबन्धप्रत्ययश्च कश्चिदात्मा ।तस्मात्सकलपदार्थ साक्षात्कारीति ।

2. आईतानां सकललोक संवादिग्रहगतमन्त्रोपदेष्टत्वात् (पा.)

3. गुणपर्यायवत् द्रव्यम् (त. ५-३८)

3A. क्रमभावी द्रव्यस्यावस्थाविशेषः पर्यायः । क्रमभावी अयावद्द्रव्यभावी पर्यायः यथा जीवस्य नरकादिपर्यायाः ।

4. पूरयंति गलंतीति पुद्गलाः । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।

(तत्वार्थाधिगमसूत्र ५-२३)

…………………………………………………………………………………………………………………………………………………………

द्रव्यपर्यायातिरिक्तं न तत्त्वान्तरमस्ति । द्रव्यपर्याययोश्च भेदाभेदौ । तथा प्रमाणसिद्धत्वात् । सत्वं, असत्वं सदसत्वं सदसद्विलक्षणत्वं, त्वेसति सद्विलक्षणत्वं, असत्वेसति असद्विलक्षणत्वं सदसदात्मकत्वेसति सदसद्विलक्षणत्वमिति सप्तभङ्गी । आत्मा च तत्तद्देह' परिमाण इति ॥

……………………………………………………………………………………………………………………………………………………

5. स्याच्छन्दोऽयमनेकान्तद्योतक तिङन्तप्रतिरूपकः । कथंचिदित्यर्थकोनिपातः

यथोक्तं-वाक्येष्यनेकान्तयोती गम्यं प्रति विशेषणम् ।

स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपकः ॥ इति ॥

सप्तानां अस्तित्वनास्तित्वादीनामेकत्र वस्तुनि मिथो यो भङ्गो युगपदेकत्र सर्वेषां समुच्चयः सोऽस्मिन्नस्तीति सप्तभङ्गीति कथ्यते । अथवा सप्तानां साङ्ख्याद्युक्तानां अस्तित्वाद्येकान्तानां भङ्गः सप्तभङ्गः ।

सोऽस्मिन्नस्ति प्रतिपाद्यतया विद्यते इति सप्तभङ्गी ।

स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति, स्यादवक्तव्यः, स्यादस्ति चा वक्तव्यः, स्यानास्ति चा वक्तव्यः, स्यादस्ति च नास्ति चा वक्तव्य इति ॥ सप्तभङ्गी

जिनदत्तसूरिणा जैनमतमेवं निरूपितम् :-

बलभोगोपभोगानामुभयोर्दानलाभयोः । अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम् ॥ हिंसा रत्यरती रागद्वेषावविरतिः स्मरः | शोको मिथ्यात्वमेतेऽष्टादशदोषा न यस्य सः ॥ जिनो देवो गुरुः सम्यक्तत्त्वज्ञानोपदेशकः । ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्तनी || स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमापि च । नित्यानित्यात्मकं सर्वं नव तत्त्वानि सप्त वा ॥ जीवाजीव पुण्यपापे चास्रव: संवरोऽपि च । बन्धो निर्जरणमुक्तिरेषां व्याख्याधुनोच्यते ॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ॥ आस्त्रवः स्त्रोतसो द्वारं संवृणोतीति संवरः । प्रवेशः कर्मणां बन्धो निर्जरस्तद्वियोजनम् || अष्टकर्मक्षयान्मोक्षोऽथान्तर्भावश्च कैश्चन । पुण्यस्य संवरे पापस्यास्त्रवे क्रियते पुनः || लब्धानन्तचतुष्कस्य लोकागूदस्य चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता || सरजोहरणा भैक्षभुजो लुञ्चितमूर्धजाः । श्वेताम्बरा क्षमाशीलाः निःसङ्गा जैनसाधवः ॥ लुञ्चिताः पिच्छिकाहस्ता पाणिपात्रा दिगम्बराः । ऊर्ध्वाशिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः ॥ भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बरः । प्रादुरेषामयं भेदो महान् श्वेताम्बरैः सह ||

6. आत्मा चैतन्यमयः, ज्ञानरूपः, जन्मी, भोक्ता, मोक्षाधिकारी, जीवश्चनित्यरूपः । यादृशे शरीरे जीवः प्रविशति तदाकारवान् लघुर्वा दीर्घो वा भवति । अहिंसा परमो धर्मः । अद्वेषसदाचाराचौर्यब्रह्मचर्यदानाग्रहणाख्याः पञ्चनियमाः सर्वैर्जनैः पालनीयाः । एभिर्मोक्षोऽधिगम्यते । विषयवासनाभ्यो मनसः परावर्तनाय व्रतोपवासानुष्ठानम् । ज्ञानात् केषात्किर्मणां क्षयो भवति । केषाञ्चिद्भोगात् । ततः कर्मक्षयात् पक्षिणः पञ्चरादिवत् आत्मनो देहान्मोक्षो भवेत् । देहावस्थानस्य कर्मनिमित्तत्वात् । ततः यथा पंजरान्मुक्तः खग ऊर्ध्वं व्रजत्येवमेवालोकाकाशगोचरो नित्यमूर्ध्वं व्रजत्येव जीव इति तन्मतम् । अयं च सम्प्रदायो देहातिरिक्तदेह परिमाणात्मवादी ।

…………………………………………………………………………………………………………………………………………………………….

न तावदार्हतमतं मुमुक्षूपादेम्। क्वचित् भ्रान्तपुरुषप्रणीतत्वात् । क्वचित् विप्रलंभादिना प्रवृत्तत्वाच्च । न चात्र मानाभावः । सर्वप्रमाणविरुद्धसप्तभंगीप्रभृत्यर्थप्रतिपादकत्वात् । न च सकललोकसंवादिग्रहगत्याद्युपदेष्टृत्वात् तत्प्रणेतुराप्तत्वमिति वाच्यम् । क्वाचित्कसंवादस्य-विप्रलंभद्वारत्वसंभवेन तावन्मात्रेण सर्वत्र तत्प्रणेतुराप्तत्वस्य निश्चेतुमशक्यत्वात् ।

तदुपदिष्टमन्त्राणां फलवत्वदर्शनेऽपि न तावन्मात्रेण तन्मतस्योपादेयत्वम् । मन्त्रव्याकरणादिभिः वर्णपदवाक्यादिसामर्थ्यं ज्ञात्वा तेषामपि तत्तद्वर्णपदादिघटितफलवन्मन्त्रोपदेशस्यापि विप्रलम्भद्वारत्वसंभवात् । क्वाचित्कसंवादेन सर्वस्यापि विश्वसनीयत्वे बौद्धागमस्यापि (गमोक्तस्यापि ) विश्वसनीयत्वापातात् । "अहं सर्वशः" इत्यार्हतवाक्यस्येव बुद्धवाक्यस्यापि दर्शनेन स्वस्ववचनेन सर्वज्ञत्वासिद्धेश्व | अहिंसाद्युपदेशोऽपि क्रेशोल्लुञ्चनाद्युपदेशेन विरुद्धः । वेदविहिताग्नीषोमीयादिहिंसा पापसाधनं आत्मपीडादिरूपकेशोल्लुन्चनादिकं धर्म इत्यत्र प्रमाणाभावाच्च । न चाग्नीषोमीयादिहिंसायाः परपीडारूपत्वादधर्मसाधनत्वं केशोल्लुञ्चनादेस्त्यतथाभूतत्वाद्धर्मसाधनत्वमिति वाच्यम् । परपीडारूप केशोल्लुञ्चनादिकमुपदिशतोऽर्हतः सर्वज्ञस्यापायोपदेष्टुत्वापातात् । पशुहिंसादिप्रतिपादकवेदभागो राक्षसप्रक्षिप्तः इति जल्पनं तु स्थावरादिहिंसादिकं धर्म इत्यंगीकुर्वतामत्यन्तविरुद्धम् । तथाविधशंकायाः सर्वत्र सुलभत्वात् । किं च द्रव्यपर्यायातिरेकेण वस्त्वन्तरं नास्तीत्यनुपपन्नम् । द्रव्याश्रितावस्थित्यतिरिक्तधर्माणां नित्यानां सहोत्पन्नानामगन्तुकानां च प्रमाणसिद्धत्वात् । ईश्वरादिद्रव्यान्तरप्रतिक्षेपोऽप्यनुपपन्नः । ईश्वरादेर्नित्यनिर्दोषागमसिद्धत्वात् । यथा-चैतत्तथाऽग्रे वक्ष्यते ।

किं च द्रव्यपर्यायवर्गे सप्तभङ्गीति जैनाभ्युपगमो न युक्तः । वस्थितसदसत्प्रकारद्वयातिरिक्तप्रकारस्याप्रामाणिकत्वात् । एकैक-प्रकाराभ्युपगमे दोषदर्शनात् तथोपेयत इति चेत्तथासति सप्तभंग्यंगीकारेऽपि दोषदर्शनात्तस्या अपि त्यागप्रसंगात् । जगतः सत्त्वैकप्रकाराभ्युपगमे दोषाभावाच्च । न हि जगतः सत्वैकप्रकाराभ्युपगम एव विरोधः न तु सप्तभंग्यंगीकार इत्यत्र विशिष्य नियामकमस्ति । बिरोधस्योभयत्र तुल्यत्वात् ।

न च सिद्धान्तेऽपि एकस्मिन्नेव भिन्नत्वाभिन्नत्वादिविरुद्धधर्म-समावेशाभ्युपगमात्तद्वदेव सप्तभंग्यंगीकारोऽस्त्विति वाच्यम् । सिद्धान्ते उपाधिभेदेन तथाभ्युपगमेन दोषाभावात् । त्वयोपाधिभेदेन जगतस्तथात्वानभ्युपगमान्च | भिन्नत्वाभिन्नत्वादिधर्माणामनैकान्त्यासाधकप्रमाणसद्भाववत् जगति सत्वासत्वादिसप्तभङ्गीसाधकप्रमाणादर्शनाच्च । तस्माजैनाभ्युपगतः सप्तभंगीपक्षो न युक्तः । तदेतत्सर्वमभिसन्धायोक्तं- "ॐ नैकस्मिन्नसंभवात् ॐ" (व्र. सू. अ. २, पा. २, अधि. १०, सु. ३३) इति ॥

…………………………………………………………………………………………………………………………………………………………..

1. नैकस्मिन्नसंभवात् ॐ ॥ (ब्र. सू. २-२-१०-३३) क्षपणकमतं निराक्रियते । सत्यं, असत्यं, सदसत्वं सदसद्विलक्षत्वं, सत्वे सति सद्विलक्षणत्वं असत्ये सति असद्विलक्षणत्वं सदसदात्मकत्वे सति सदसद्विलक्षणत्वमित्यनियतसप्त प्रकारा एकस्मिन्वस्तुनि न युक्ताः । कुतः । असंभवात् । अप्रमाणिकत्वेना संभावितत्वादित्यर्थः । यदपि देहपरिमाणत्वं जीवस्योपेतं तत्किं सर्वदेशगतचेष्टोपपत्यर्थमुपेयते अथ देहावच्छेदं विनाऽऽत्मनः परिमाणाभावाद्वा । आद्य आह ।

ॐ एवञ्चात्माकार्त्स्न्यम् ॐ (म. सू. २-२-१०-३४) जैनमतप्रसङ्गसन्निधापितमात्मनो देहपरिमाणत्वमेवमिति परामृश्यते । एवञ्च देहपरिमाणत्वे सत्यात्मनो मशकादिदेहस्थात्मनो गजादिदेहप्राप्तावकार्त्स्न्यमपूर्णत्वं सर्वदेहव्यापित्वं स्यादित्यर्थः । ततश्च न सर्वदेहचेष्टेतिभावः । यद्वाऽऽत्मनो गजादिदेहस्थस्य मशकादिदेह प्राप्तावात्मनोऽकात्स्यै देह एव कार्त्स्न्यकाम् न स्यादतिरेकः स्यादित्यर्थः । ततश्च कायपरिमाणत्वभङ्ग इति भावः । चशब्देनैवैषोऽप्यर्थः संग्राह्यो न वृत्यन्तरेणेत्येके । यद्वा यद्देहमाप्नोति तदा तद्देहपरिमाण इत्यत आह ।

……………………………………………………………………………………………………………………………………………………………..

किं च देहपरिमाण आत्मेत्यसंगतम् । आत्मनो गजमशकादि-देहपरिग्रहे संकोचविकासप्रसंगेन सावयवत्वापत्याऽनित्यत्वापत्तेः ।

……………………………………………………………………………………………………………………………………………………………

ॐ न च पर्यायादप्यविरोधो बिकारादिभ्यः ॐ ॥ (न. सू. २-२- १०-३५) पर्यायादपि क्रमादपि । क्रमात्त त्तद्देह परिमाणत्वांगीकारादपि अविरोधो न भवति । कुतः । विकारादिभ्यः विकारित्वापत्तेः । ततश्चानित्यत्वानिर्मोक्षत्वशास्त्रवैय्यर्थ्यानि तेभ्य इत्यर्थः । स्वमते जीवस्य सुखादिभोगकृतोच्चत्वनीचत्वरूपविकारोऽस्ति । तस्य स्वरूपविकाससंकोचरूपत्वात् । तथापि चैतन्यादियावद्द्द्रव्यभा विधर्मनिवृत्तावेवानित्यत्वोपगमान्नानित्यत्वमित्युक्तं सुधायाम् । उक्तञ्च नयचन्द्रिकायां संकोचविकासादन्यथाऽभावान्नाशो नेति ॥ प्रागुक्तान्त्यपक्षं प्रत्याह ।

ॐ अंत्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥ (ब्र. सू. २-२- १०- ३६) अन्त्यस्य मुक्तिगतात्मपरिमाणस्यावस्थितेस्तदवच्छेदकतया नित्यदेहावश्यंभावेनोभयस्य मुक्तावात्मतदेह योर्नित्यत्वादद्यतनदेहानामपि नित्यत्वं स्यादविशेषाद्देहत्वाविशेषादित्यर्थः । वृत्यन्तरन्तु अंत्या या अवस्थिति: सततोर्ध्वगतिरूपा मुक्त्याख्या तस्याश्च विकारात्तद्रूपादपि विकारादात्मनोऽनित्यत्वं स्यादिति पूर्वस्मादनुषङ्गः । न केवलं परिमाणपर्यायादिति चार्थः । एवमपि तस्य नित्यत्वे उभयनित्यत्वादात्मप्रपंचयो द्वयोरपि नित्यत्वापातात् विकारित्वमात्रस्य त्वया अप्रयोजकीकृतत्वात् विकारविशेषस्य नाशव्याप्तत्वेन त्वयाऽनंगीकारादिति भावः । यच्च स्थास्नूनां परिमाणभेदेनात्मनो विकारापत्या वा देहेन्द्रियापत्तिबाधकेन वा निरात्मकत्वमुपेतम् । तच्च न । आद्ये गजादिदेहस्याविशेषात् । अंत्ये स्थास्नूनां मानुषाद्यविशेषात् । गीतादिश्रवणेन स्थास्नूनामपि विकासदृष्ट्या देहेन्द्रियाद्यनुमानादिति सुधोक्तं ध्येयम् । अत्र प्रपंचस्यापि नित्यत्वादिति वाच्ये उभयेत्युक्तिर्न्यायसाम्यसूचनार्था ॥

1. कायपरिमाणात्मनः दृष्टादृष्टसाधनैश्च सत्वं असत्वं, सदसत्वं, सदसद्विलक्षणत्वं सत्वे सति सद्विलक्षणत्वं असत्वेसति असद्विलक्षणत्वं,

.............................................................................................................................................................

न च गजादिदेह परिग्रहस्तस्य तस्यात्मनो नियत इति न संकोवविकास- प्रसक्तिरिति वाच्यम् । बाल्ययौवनस्थाविरादिवथोभेदेन देहे तत्तत्परि- माणविशेषदर्शनेन तथापि संकोचविकासप्रसक्तेर्दुर्नारित्वात् । एकस्यात्मनो नियतैकजातीय देह परिग्रहे प्रमाणाभावाच्च । कर्मणां विचित्रनाना देह परिग्रहहेतुत्वस्य त्वयाप्यंगीकृतत्वाच्च । नन्वात्मनः संकोचविकासाभ्युपगमे सावयवत्वमिति कोऽर्थः । यद्वशादनित्यत्व- मापाद्यते । न तावदवयवसंयुक्तत्वम् । नित्यद्रव्यमात्रस्य तथात्वेना- नैकांत्यात् । नाप्यवयवसमवेतत्वं अवयवसमवेतद्रव्यत्वंचा । अवयव - गतरूपघटादिनाऽनैकांत्यात् । समवायानभ्युपगमाच्च । नाप्यवयवा- रब्धद्रव्यत्वम् । अन्तःकरणादेः सावयवस्य परेणावयवारब्धद्रव्यत्वा- नभ्युपगमेनाव्याप्तेः । अन्तःकरणस्याहंकार परिणामरूपत्वाभ्युपगमात् । आरंभवादस्य परेण निराकृतत्वाच्च ।

किं च परेण परमाणूनां सावयवत्वमङ्गीक्रियते । न चानित्यत्व- मिति व्यभिचारः स्फुटः । एतेन सांशत्वं सावयवत्वमिति निरस्तम् । परमाणूनां सांशत्वेऽपि नित्यत्बोपगमात् । किं चात्मनः संकोच- विकासवत्वेन सावयवत्वेऽपि नानित्यत्वम् । सावयवत्वस्य तत्राप्रयोज- कत्वात् । विनाशसामग्रथा एव प्रयोजकत्वाच्च । न ह्यात्मनि विनाश- सामग्रयस्ति । न च सावयवत्वेऽपि नाशसामत्रयपि स्यादिति वाच्यम् । बाधादेव तदसत् । यदि च संकोचविकासवत्वस्य सावयवत्वे सावयवत्वस्यचानित्यत्वे निरुपाधिसहचार इत्यङ्गीक्रियेत तर्हि त्वन्मते

.............................................................................................................................................................

सदसत्वेति सदसद्विलक्षणत्वमित्यनियतसप्तभङ्गयात्मकस्य जगतो जन्मादिसंभवात् ईशेन कृत्यं नेत्येवं रूपेण जैनोक्तं तु न युज्यते । व्यवस्थितसदसत्वभावाभावत्वादिप्रकारद्वयान्यप्रकारस्याप्रामाणिकत्वेनासम्भावितत्वात् । एकैकपक्षोक्तदोषपरिजिहीर्षया सप्तभङ्गयङ्गीकारे सर्वपक्षोक्तदोषानिवारणाच्च । मशकमतङ्गादिसूक्ष्मस्थूल देहप्रात्या आत्मनस्तत्र कात्स्न्यतिरेकयोः प्राप्तेः । पर्यायेणतत्तत्कायपरिमाणोक्तौ च विकारित्वेनानित्यताप्राप्तेः । आत्मनः कायपरिमाणत्व प्रक्रियायाः अप्रामाणिकत्वाच्च तन्मतस्य दुष्टत्वमिति सारम् ।

………………………………………………………………………………………………………………………………………………………….

आत्मनोऽणुत्वेन जडत्वापत्तिः । अणुत्वजत्वयोरपि निरुपाधिक सहचार इति वक्तुं शक्यत्वात् । अत्र सहचारमात्रत्वे च तत्रापि तथाऽस्तु । विशेष नियामकाभावात् । तस्मात्संकोचविकासवत्वेऽपि नात्मनोऽनित्यत्वमिति चेत् उच्यते ॥ आत्मनः संकोचविकासवत्वेऽपि परिमाणभेदेन तदाश्रयभेदो दुर्वार इति कृतहानादिकं स्यादेव । न च बाल्यावस्थासु देहे परिमाण भेददर्शनेऽपि तत्रैकत्वाभ्युपगमात् परिमाणमेदो न तदाश्रयद्रव्यभेदप्रयोजक इति वाच्यम् । तत्रापि परिमाणभेदे देहभेदस्य दुर्वारत्वात् । अन्यथा योऽहं बाल्ये पितरावन्वभूवं स एव स्थाविरे प्रनप्तृननुभवामीत्याद्यनुसंधानबलाद्देहातिरिक्तात्मासिद्धिप्रसंगात् । तथाविधप्रत्यभिज्ञाया देहैक्यविषयत्वसंभवात् । न च देहातिरिक्तात्मसिद्धिर्मानान्तरेणेति युक्तम् । श्रुत्यतिरिकप्रमाणमात्रस्य तदसाधकत्वात् । श्रुतेश्च तत्र त्वया प्रामाण्यानभ्युपगमात् । न चागमांत्तत्सिद्धिरिति युक्तम् । तत्र स्वतंत्रप्रमाणावष्टंभनं विना तत्राप्रवृत्तेः । न चागमस्यैव स्वातन्त्र्येण प्रामाण्यम् पौरुषेयत्वोपगमात् । न हि पौरुषेयत्वे स्वातन्त्र्यं संभवति । तस्मात्प्रत्यक्षत एव देहातिरिक्तात्मसिद्धिरिति परिमाणभेदेन द्रव्यभेदो दुर्वारः ।

किं चात्मनो देहानुरूप परिमाणवत्वे प्रमाणाभावः । न च सर्वांगीणसुखाद्यनुसंधानबलात्तस्य तथात्वसिद्धिः । विभुत्वेनापि तदुपपत्तेः । तदणुत्वपक्षे च दीपादेरालोकद्वारा विषयप्रकाशकत्ववत् अंतःकरणादिद्वारा प्रादेशिकात्मनः प्रादेशिक सुखाद्यनु (सन्धातृत्वोपपत्ते:) (पा.) भवितृत्वोपपत्तेः । न चाणुत्वपक्षे कायव्यूहानुपपत्तिः । अंतःकरणादिद्वारांऽशतो व्याप्त्या वा सर्वस्य देहस्यात्मसंबन्धसंभवात् । न चातिप्रसंगः। तत्तत्कर्मार्जितत्वस्यापि तत्तदात्मीयत्वप्रयोजकत्वात् ।

ननु जीवस्य नाणुत्वं प्रमाणाभावात् । न च वालाग्रशत—

………………………………………………………………………………………………………………………………………………..

1. भेनेति (पा.)

2. वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते । (वे. उ. अ. ५, मंत्र. ११)

……………………………………………………………………………………………………………………………………………………

भागस्येत्यादिकमेव प्रमाणमिति वाच्यम् । तस्य सौक्ष्म्याभिप्रायत्वात् । अन्यथा पूर्वत्र " अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाहंकारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आरात्रमात्रो ह्यपरोऽपि दृष्टः " ॥ ( श्वे. उ. अ. ५ मन्त्र ८) इत्यङ्गुष्ठमात्रत्वारामात्रत्वादिकमपि प्रतिपादितमिति तत्सिद्धिरपि स्यात् । नचेष्टापत्तिः । विरुद्धानेकपरिमाणानामेकत्रासंभवात् । न चाणुपरिमाणात्मनो हठादुपदेष्टुमशक्यतया तदर्थमङ्गुष्ठमात्रत्वायुक्तिरिति वाच्यम् । " एषोऽणुरात्मा चेतसा वेदितव्यः " इत्यादिपरविषयश्रुतेरिव तज्ज्ञानिनोऽपि सौक्षम्याभिप्रायत्वोपपत्तेः । 'यदेकां शाखां जीवो जहात्यथ सा शुष्यति " (छा. उ. अ. ६. खं. ११) इत्यादिश्रुत्या जीवस्य तत्तदवयवविशेषप्रतिपादनेनाणुत्वविभुत्वयोरनंगीकार्यत्वाच्च । न च " नित्यः सर्वगतः स्थाणुः " (भ.गी. अ. २ श्लो. २४) इति तद्विभुत्वसिद्धिः । 'जहाति' इति श्रुत्यनुसारेण स्मृतेरर्थान्तरपरत्वात् । 'अग्निर्यथैको भुवनं प्रविष्टः " (कठ. अ. २ व. २. मन्त्र ९ ) "वायुर्यथैको भुवनं प्रविष्टः " (कठ. उ. अ. २ व. २ मन्त्र १० ) इत्यादाविव समूहाभिप्रायेण सर्वगतत्वोपपत्तेः । तथा च परिशेषादात्मनो देहानुरूपपरिमाणसिद्धिरिति ।।

मैवम् ॥ आत्मनो देहानुरूपपरिमाणत्वे संकोचविकासप्रसंगेन भेदावश्यंभावेन कृतहानादिप्रसंगेनाणुपरिमाणवत्वस्याभ्युपगन्तव्यत्वात् । यथा चात्मनोऽणुत्वं न विभुत्वं तथाऽग्रे प्रतिपादयिष्यामः । तस्मादाईतमतमनुपपन्नम् । तदिदमुक्तम्-" ॐ एवञ्चात्माकार्त्स्न्यम् ॐ" इति । (ब्र. सू. अ. २, पा. २, अधि. १०, सू. ३४)

इति श्रीमत्परमहंसपरिवाजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्र स्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासार विवेचने आर्हतमतभंङ्गो नाम तृतीयः परिच्छेदः ॥

……………………………………………………………………………………………………………………………………………………

1. व्याख्यानमस्य पूर्वभमेव दर्शितम्