तत्त्वमसि

॥ अथ शङ्करमतभङ्गः ॥

इदानीं शङ्करमतं निराक्रियते ।

तत्त्वमसि

इत्थं हि तन्मतप्रक्रिया | अध्यारोपापवादन्यायेन वियदादिसृष्ट्यादिप्रतिपादकत्वेन वेदान्तानां प्रवृत्तिः । तत्र असर्पभूतरज्जौ सर्पारोपवत् वस्तुन्यवस्त्वारोपोऽध्यारोपः । वस्तु च सच्चिदानन्दरूपमद्वितीयं ब्रह्म, अज्ञानं च सदसद्भयामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधिभावरूपम्।अह्मज्ञः' इत्यनुभवात् "देवात्मशक्तिं स्वगुणैर्निगूढाम्' (श्वे. अ. १, मं. ३) इत्यादिश्रुतेश्च । इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेण एकमनेकमिति चोच्यते । अजामेकामित्यादिश्रुतेः (वे. अ. ४, मं५), 'इन्द्रो मायाभिरित्यादिश्रुतेश्च । इयं समष्टिरुत्कृष्टोपाधितया शुद्धसत्वप्रधाना । तदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्व सर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति व्यपदिश्यते । 'यः सर्वशः सर्ववित्' (मुं. खं. १, मं. ९) इत्यादिश्रुतेः । व्यष्टिस्तु निकृष्टोपाधितया मलिनत्वप्रधाना । एतदुपहितचैतन्यमल्पज्ञत्वनिरीश्वरत्वादिगुणकः प्राज्ञ इत्युच्यते । अस्याज्ञानस्यावरणविक्षेपनामकं शक्तिद्वयमस्ति ॥

आवरणशक्तिस्तावत् यथाल्पेऽपि मेघेऽनेकयोजनमायतमादित्यमण्डलमवलोकयितृनयनपिधायकतयाऽऽच्छादयतीव तथा अज्ञानं परिच्छिन्नमपि स्वीयया शक्त्याऽऽत्मानमपरिच्छिन्नं अवलोकयितृबुद्धिविधायकतयाऽऽच्छादयतीय । तादृशं सामर्थ्यं विक्षेपशक्तिस्तु यथा रज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति । तथाऽज्ञानमपि स्वावृतात्मनि स्वीयया शक्त्या आकाशादिप्रपञ्चमुद्भावयति । तादृशं सामर्थ्यं एवंविधशक्तिद्वयवदशानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतया उपादानं च भवति । यथा लूता तन्तुकार्य प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानं च तद्वत् । तमः प्रधान-विक्षेपशक्तिमदज्ञानोपबृंहितचैतन्यादाकाशं आकाशाद्वायुः वायोरग्नि: अग्नेरापः अद्भयः पृथिवी चोत्पद्यते । 'आत्मन आकाशः संभूतः' (तै. उ. नं. व. अनु. १) इत्यादिश्रुतेः । एतान्येव सूक्ष्मभूतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते । सूक्ष्मशरीराणि सप्तदशावयकानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि-मनसी कर्मेन्द्रियपञ्चकं प्राणपञ्चकं चेति । तत्र श्रोत्रत्वक्चक्षुर्जिह्नाप्राणाख्यानि ज्ञानेन्द्रियाणि आकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम निश्चयात्मकान्तःकरणवृत्तिः । मनस्तु संकल्पविकल्पात्मकान्तःकरणवृत्तिः । अनयोरेव चित्ताहङ्कारयोरन्तर्भावः । एतेषामाकाशादिगतसात्विकांशेभ्यो मिलितेभ्य उत्पत्तिः । वाक्पाणिपादपायुगुह्याख्यानां कर्मेन्द्रियाणामाकाशादिगत रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पत्तिः । प्राणापानव्यानोदान-समानाख्याः पञ्चप्राणाः आकाशादिगतरजोंशेभ्यो मिलितेभ्यो उत्पद्यन्ते । एतत्समप्रयुपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राण इति चोच्यते । एतद्ययुपहितं चैतन्यं तेजसो भवति । तेजोमयान्तःकरणोपहितत्वात् । स्थूलभूतानि तु पञ्चीकृतानि । पञ्चीकरणं तु आकाशादिषु पञ्चसु एकैकं द्विधा समं विभज्य तेषु प्राथमिकात् पञ्चभागात् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयभागापरित्यागेन भागान्तरेषु संयोजनम् त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युपलक्षणत्वात् पञ्चीकरणानन्तरं आकाशे शब्दोऽभिव्यज्यते । वायौ शब्दस्पशौग्नौ शब्दस्पर्शरूपाणि अप्सु शब्दस्पर्शरूपरसाः । पृथिव्यां शब्दस्पर्शरूपरसगन्धाः । एवं पञ्चीकृतभूतेभ्यो भूर्भुवः स्वर्महर्जनस्तपः सत्यमित्येतन्नामकानां उपरिविद्यमानानां अतलवितलसुतलरसातलतलातलमहातलपातालनामकानामधो विद्यमानानां लोकानां ब्रह्माण्डस्य जरायुजाण्डज स्वेदजोद्भिजाण्यचतुर्विधशरीराणामन्नपानादीनां चोत्पत्तिः । एतत्सष्टयुपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते । व्यष्टघुपति चैतन्यं विश्व इत्युच्यते । एतत्स्थूलशरीरमन्नविकारत्वात् अन्नमयकोशो भवति । कोशवदाच्छादकत्वात् । सूक्ष्मशरीरं तु प्राणमयो मनोमयो विज्ञानमय इति कोशत्रयात्मकं भवति । तत्र प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति । क्रियाशक्तिमान् कार्यरूपः प्राणमयः । इच्छाशक्तिमान् कारणरूपो मनोमय विज्ञानमयः इति तेषां भेदः | अज्ञानरूपोपाधिस्तु आनन्दमयकोशः । एवं स्थूलसूक्ष्माविद्यारूपोपाधित्रितयोपहितं चैतन्यमविविक्तं सद्वेदान्तगततत्तच्छब्दवाच्यं भवति । विविक्तं सत् लक्ष्यं तुरीयतममिति चोच्यते । 'शिवमद्वैतं चतुर्थं मन्यन्ते ' ( माण्डूक्ये मं. ७) इत्यादिश्रुतेः । एवं रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्वोपपादनवत् वस्तुभूतब्रह्मविवर्तस्यावस्तुनो ज्ञानादेरारोपितशब्दार्थस्य प्रपञ्चस्य वस्तुभूतब्रह्ममात्रत्वोपपादनमपवादः । अस्तुनो वस्तुमात्रत्वोपपादनं च मिथ्यात्वोपपादनमेव । एवमध्यारोपापवादाभ्यां ब्रह्मणो निर्विशेषत्वं प्रत्यब्रह्मैक्यं प्रपञ्चमिथ्यात्वं च सिध्यतीति सर्ववेदान्ततात्पर्य रहस्यम् ॥

किञ्च " विमता जीवात्मानः परमात्मनो न भिद्यन्ते । आत्मत्वात् परमात्मवत् । " इत्यनुमानं जीवब्रह्मैक्ये मानम् । न चाप्रयोजकत्वम् | 'तत्त्वमसि' (छां. ६-८-७), 'अयमात्मा ब्रह्म' (बृ. २-५-१९ ) इत्यादि श्रुत्यप्रामाण्यप्रसङ्गस्य विपक्षबाधकस्य सत्वात् । न च 'त्वं सिंहोऽसि' 'सिंहोऽयं माणवकः' इत्यादेरिव ऐक्य परत्वाभावेऽपि 'तत्त्वमसि' 'अयमात्मा ब्रह्म' इत्यादेरपि गौणार्थमादाय प्रामाण्यसंभवेन तदप्रामाण्यप्रसंगस्य न विपक्षबाधकतेति वाच्यम् । तत्वमसीति नवकृत्वोऽभ्यस्तवाक्येषु ऐक्यरूपमुख्यार्थमादायैव प्रामाण्यस्य निर्वाह्यत्वात् । न च 'नाहमीश्वरः' 'नाहं देवदत्तः' इत्यादि प्रत्यक्षबाधः । 'जीव परमात्मानौ परस्परं भिद्येते किञ्चित् ज्ञत्व सर्वज्ञत्वादि विरूद्धधर्माधिकरणत्वात् । दहन तुहिनवदिति सत्प्रतिपक्षत्वं चेति वाच्यम् । प्रत्यक्षादेरोपाधिकभेदविषयत्वेन स्वाभाविकैक्यसाधकानुमानबाधकत्वायोगात् । न व जीवब्रह्मभेदस्योपाधिकत्वे मानाभावः । एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दश्यते जलचन्द्रवत् " ( ब्रह्म-बिन्दुपनिषदि नं. १२) 'यथा ह्ययं ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैकोऽनुगच्छन्नुपाधिना क्रियते भेदरूपो देवक्षेत्रेष्वेवमजोयमात्मा 'आकाशमेकं हि यथा घटादिषु पृथग्भवेत् तथैवात्माप्यनेकस्थो जलाधारेष्विवांशुमान् ।' 'विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदं असन्तं कः करिष्यति' (विष्णु पु. २ अं. १३, अ. ७९ लो.) इत्यादिश्रुतिस्मृतीनां सत्वात् । अत एव नान्योऽतोऽस्ति ॥ न ह्यास्ति द्वैतसिद्धिः । आत्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव नात्र काचन भिदास्ति नैवात्र काचन भिदास्ति । अत्र भिदामिव मन्वानः शतधा सहस्रधा भिन्नो मृत्योः स मृत्युमाप्नोतीत्यादि श्रुतिषु भेदनिषेधो भेदज्ञाननिन्दा चोपपद्यते । न च 'निरञ्जनः परमं साम्यमुपैति' (मुं. ३- १-३) यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानतः आत्मा भवति गौतम' (कट. २-१-१५) 'दं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ ' (भ.गी. अ. १४, इलो, २) इत्यादिश्रुतिस्मृतिभिः मुक्तावपि भेदप्रतिपादनेन जीवब्रह्मभेद एव पारमार्थिकः । तदभेदव्यपदेशस्तु गौण इति युक्तम् | 'ब्रह्म वेद ब्रह्मैव भवति' (मुं. ३-२-९) 'मां तु योऽव्यभिचारेण भक्तियोगेन सेवते । सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ ' इत्यादिश्रुतिस्मृतिभिः ब्रह्मभावस्यैव ज्ञानफलत्वप्रतिपादनेन 'गगने गगनाकार' मित्यादावपि सादृश्यस्याभेदेऽप्युपपन्नतया तावन्मात्रेण मुक्तौ भेदसिद्ध्ययोगात् । सगुणमुक्तौ भेदस्याङ्गीकारेण मुक्तौ भेदप्रतिपादकश्रुतिस्मृत्यादीनां तद्विषयत्वेन विरोधाभावाच्च। न च ब्रह्मभावस्य नित्यसिद्धतया ज्ञानसाध्यत्वायोगेन तदर्थं श्रवणादावप्रवृत्यापात इति वाच्यम् । दुःखप्रागभावाद्यर्थ्यं प्रायश्चित्तादाविव योगक्षेमसाधारणसाध्यत्वमादाय ब्रह्मभावोद्देशेन श्रवणादौ प्रवृत्युपपत्तेः । कण्ठगतचामीकरन्यायेन सिद्धस्याप्यसिद्धत्व भ्रान्त्या श्रवणादौ प्रवृत्युपपत्तेश्च । तस्मात् जीव-ब्रम्हैक्यैमेव पारमार्थिकं तद्भेदस्तु कल्पित इति 'श्रौतः पन्थाः' इति ॥ अत्रोच्यते-

जीवात्मानः परमात्मनो न भिद्यन्ते इत्यत्र जीवात्मशब्देनाहमिति प्रतीयमाना विवक्षिताः किंवा तदनुसंबन्धिचैतन्यमात्रं नाद्यः परेणाहमिति प्रतीयमानानां अनात्मत्वाभ्युपगमेन तेषां परमात्माभेदसाधने बाधात् स्वरूपासिद्धेश्च । न द्वितीयः अहमिति प्रतीतेः अहङ्कारविषयत्वे प्रमाणाभावात् । न चात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः इत्यादिश्रुत्याहमिति प्रतीयमानस्य भोक्तुः चिदचित् संवलनरूपत्वसिद्धिरिति वाच्यम् । तथासत्यन्तःकरणस्यैव आत्मशब्दितदेहस्य चक्षुरादिबाह्येन्द्रियाणां चाहं पदार्थभूतभोक्तकोटिप्रवेशापातात् । न च देहस्य चक्षुरादीन्द्रियाणां च जीवभोक्तृत्वे सहकारित्वमात्रं मनःशब्दितान्तः- करणस्य तु भोक्तृकोटिप्रवेश इति वाच्यम् । विशेषनियामकाभावे वैरूप्याश्रयणेन श्रुत्यर्थकथनायोगात् । "इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥ (कठ अ. १, बल्ली ३, मं. १०) | " आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।। " ( कठ अ. १-३-३) इति ॥ तत्रैवान्तः-करणहिर्भावेनैव जीवात्मनः प्रतिपादनाच्च'महाभूतान्यहङ्कारो बुद्धिव्यक्तमेव च । इन्द्रियाणि दशकं च पञ्चचेन्द्रियगोचराः ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः । एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥ (भ.गी. अ. १३, श्लो. ५, , ७) । 'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ' (भ. गी. अ. १२, श्लो. १) इत्यादिना गीतायां अहङ्कारान्तःकरणबहिर्भावेन क्षेत्रज्ञशब्दित जीवस्य प्रतिपादनाच्च । न च गीतावचनं निष्कृष्टजीवाभिप्रायं अत एवोत्तर क्षेत्रं चापि मां विद्धि इति तस्य स्वाभेदवर्णनमिति वाच्यम् । तस्याद्याप्यसिद्धेः । क्षेत्रज्ञं च 'सर्वक्षेत्रेषु मामपि' 'मां च विद्धि' इत्युपास्योपासकयोरेव तत्र ज्ञेयत्वप्रतिपादनेन क्षेत्रज्ञस्य कृष्णेन स्वाभेदस्याप्रतिपादनाच्च । अन्यथा चशब्दापिशब्दयोः वैयर्थ्यप्रसङ्गात् । नन्वस्तूकरीत्या अन्तःकरणाहङ्कारबहिर्भूतो जीवात्मा तस्य पराभेसाधने को दोषः । जडातिरिक्तोऽहमिति प्रतीयमानो न परस्मात् भिद्यते इत्याद्यनुमाने जडातिरिक्तत्वविशेषणं स्वमते बाधवारणाय सप्रयोजनं परमतेतूपरञ्जकमिति न कश्चिद्दोषः । इति चेत् । किं आत्मत्वं ज्ञातृत्वं वा ज्ञानरूपत्वं वा । नाद्यः । त्वन्मते असिद्धेः कल्पितं तदस्तीति चेन्न । कल्पितेन हेतुना वास्तवसाध्यसिध्ययोगात् । अन्यथा बाष्पादौ कल्पितधूमादिनापि त्वद्रीत्या व्यावहारिकवन्ह्यायादि सिद्धिप्रसङ्गात् ।न द्वितीयः । वृत्तिरूपक्षानेष्वनैकान्त्यात् । न चास्मिन् मते वृत्तिज्ञानमेव नेति नोक्तदोषः इति वाच्यम् । जानामीत्यबाधितप्रत्यक्षेण सिद्धज्ञानरूपस्य वृत्तिज्ञानस्य त्वदनभ्युपगममात्रेण ज्ञानरूपत्वासिद्धयोगात् । अन्यथात्मनोऽपि ज्ञानरूपत्वासिद्धयापातात् । न चात्मसंबन्धोपाधिकमेव वृत्तेर्ज्ञानरूपत्वं न स्वतः इति वाच्यम् । प्रमाणाभावात् । वैपरीत्यापत्तेश्च । न च सत्यं ज्ञानमनन्तं ब्रह्म । नित्यं विज्ञानमानन्दं ब्रह्मेत्यादिषु ज्ञानत्वविज्ञानत्वयोः ब्रह्मलक्षणत्वोक्तिबलादुक्तार्थसिद्धिरिति वाच्यम् । तत्र विशिष्टस्यैव लक्षणत्वलाभेन ज्ञानत्वमात्रस्य ब्रह्मलक्षणत्वानभ्युपगमात् । ज्ञानशब्दमुख्यार्थत्वसाम्ये वृत्तिः अज्ञप्तिः ब्रह्म तु ज्ञानरूपमित्यत्र विशेषहेत्वभावाश्च । अज्ञानत्वादेः ज्ञानपदाभिधेयत्वेऽपि ज्ञानरूपत्वं नाभ्युपगतमिति तद्वदेव वृत्तेरपि ज्ञानरूपत्वाभाव उपपद्यते इति चेत् । भ्रान्तोऽसि । न हि वयं ज्ञानपदाभिधेयत्वमात्रेण वृत्तेः ज्ञानरूपत्वं ब्रूमः । किन्तु विशेष्यतया तदभिधेयत्वेन तथा ब्रूमः । अस्ति च मम घटविषयकं ज्ञानं वृत्तमिति विशेष्यतया तस्यापि ज्ञानपदाभिधेयत्वम् । एवं च वृत्तिरूपज्ञानेषु व्यभिचारो दुष्परिहरः । किञ्च ईदृग्रूपत्वेन जीवब्रह्माभेदसाधने पदार्थत्वादिना जङब्रह्माभेदसाधनमपि किं न स्यात् । जीवब्रह्मैक्यसाधकानुमानस्य 'तत्त्वमसि' 'अयमात्मा ब्रह्म (मां. उ. ३-१-२, बृ. उ. ४-५-१९ ) इत्यादिश्रुतिसाहाय्यमस्तीति चेत् । न । ज ब्रह्मैक्यसाधकानुमानस्यापि 'र्वं खल्विदं ब्रह्म' (छां- ३-१४-१) 'इदं सर्वं यदयमात्मा' (बृ. उ. ४-४-६) इत्यादिश्रुति साहाय्यमस्तीति साम्यात् 'सर्वं खल्विदं ब्रह्मेत्यादिषु (बाधायां ) सामानाधिकरण्यं तत्वमसीत्यादौ त्वभेदे सामानाधिकरण्यमिति चेन्न । तथाङ्गीकारे प्रमाणाभावात् । वैपरीत्यापत्तेश्च । ननु जडप्रपञ्चस्य स्वरूपेणोत्पन्नतया विनाशितया चानाद्यनन्तब्रह्माभेदायोग्यतया तंत्र बाधायां सामानाधिकरण्यं तत्वमसीत्यादौ त्वभेदे सामानाधिकरण्यं जीवस्य स्वरूपेणोत्पत्ति विनाशयोगित्वे कृतहानाकृताभ्यागमप्रसङ्गेन मोक्षशास्त्राप्रामाण्यप्रसङ्गेन च स्वरूपेणोत्पत्तिविनाशशून्यत्वस्य वक्तव्यतया 'अविनाशी वा अरेऽयमात्मा' (बृ. उ. ४-४-६ ) ' अजो नित्यः शाश्वतोऽयं पुराणो' 'न हन्यते हृन्यमाने शरीरे' (कठ अ. १-२-१८) इत्यादिश्रुतिसिद्धत्वेन च तस्य ब्रह्माभेदयोग्यत्वात् इति चेन्न । किञ्चित्ज्ञस्य किञ्चिदपि कर्तुमशक्तस्य कर्मवश्वस्य नियम्यस्याधेयस्य सुखदुःखभोक्तुः उपासकस्य जीवस्य, सर्वज्ञेन सर्वशक्त्युपेतेन अकर्मवश्येन सर्वनियन्त्रा सर्वाधारभूतेन सुखदुःखाद्यभोक्त्रोपास्येन ब्रह्मणैक्यासम्भवेन प्रकारान्तरेण सामानाधिकरण्यस्य उपपादनीयत्वात् । सादृश्यादिकमादायापि लोकेऽग्निर्माणवक इत्यादौ सामानाधिकरण्यस्य बहुलमुपलम्भात् । तत्वंपद मुख्यार्थयोः ऐक्यस्य त्वयाप्यनभ्युपगमाच्च । न च गौण्यपेक्षया लक्षणा(प्र)वृत्तिः अभ्यर्हितेति वाच्यम् । गौण्या वृत्यन्तरत्वानभ्युपगमात् लक्षणारूपत्वोपगमाच्च । न च केवललक्षणापेक्षया गौणस्थलेऽङ्गीकृताया लक्षणाया लक्षितलक्षणात्वात् जघन्यत्वमिति वाच्यम् । तथापि सादृश्यातिरिक्तसम्बन्धान्तरमादाय लक्षणया सामानाधिकरण्यप्रयोगोपपत्तौ त्वदभिमतार्थपरत्वासिद्धेः । एतेन तत्वमसीत्यादिवाक्याप्रामाण्यप्रसङ्गो विपक्षे बाधक इति निरस्तम् । उक्तरीत्यापि तत्प्रामाण्यस्य उपपादयितुं शक्यत्वात् । न नवकृत्वोऽभ्यस्ततया तत्त्वमस्यादौ ऐक्यपरत्वसिद्धिरिति वाच्यम्। त्वं सिंहोऽसि त्वं सिंहोऽसि इति शतकृत्वोऽभ्यासेऽपि तत्रैक्यपरत्वादर्शनात् । 'इदं सर्वं यदयमात्मा' (बृ. उ. ४-४-६) इति जडब्रह्मैक्यस्याप्यभ्यस्तत्वेन ततोऽपि जडब्रह्मैक्यसिद्धयापाताच्च । किञ्च जीवः परस्मान्न भिद्यते आत्मत्वादित्याद्यनुमानस्य तत्त्वमस्यादिश्रुतिवाक्यसाहाय्यं अस्तीत्यनुपपन्नम् प्रत्यक्षादिविरोधेन तत्वमस्यादिश्रुतेरेव अलब्धात्मकतया 'अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे ।' इति न्यायेन तस्यास्तत्सहायत्वायोगात् प्रत्यक्षादेरौपाधिकभेदविषयत्वं उक्तमिति चेत् जीवब्रह्मैक्यस्य किमिदं औपाधिकत्वं न तावत् मुखादिभेदवत् चन्द्रादिभेदवच्य उपाधिजन्यत्वम् । तस्य स्वरूपतोऽनादित्वाभ्युपगमेनाविद्यान्तःकरणरूपोपाधिजन्यत्वायोगात् । नापि तज्ज्ञाप्यत्वम् । प्रदीपादिज्ञाप्यघटपटादिभेदवत्तस्य स्वाभाविकत्वेऽपि उपपन्नत्वात् । नाप्युपाध्यधीनस्थितिकत्वम् । देशकालेश्वराद्यधीनस्थितिकस्य जीवस्वरूपादेः पारमार्थिकत्व-वदविद्याधीनस्थितिकस्यापि जीवब्रह्मभेदस्य पारमार्थिकत्वोपपत्तेः । नाप्युपाधिनिवृत्तिप्रयुक्त निवृत्तिप्रतियोगित्वम् । तावता जीवब्रह्मभेदस्य विनाशित्वेन मिथ्यात्वानापत्तेः । मोक्षेऽपि जीवब्रह्मभेदस्य वक्ष्यमाणतया निवृत्ययोगाच्च । गौरनाद्यन्तवती (मन्त्रिकोपनिषत् मं. ५) महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते । ' अचेतना परार्धा च नित्या सततविक्रिया' इत्यादि-श्रुतिस्मृतिभिः मायाविद्याज्ञानसमोनीहाराजाप्रधानाक्षराव्यक्तगोशब्दित पराङ्गीकृतजीवेश्वरोपाधेः अविनाशित्वप्रतिपादनेन तद्विरोधापत्तेश्च । नन्वादिश्चान्तवती चेति तथा तत्वाद्यन्तवती न भवतीति ' तस्याभिध्यानात् योजनात् तत्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः ' 'विभेदजनके ज्ञाने नाशमात्यन्तिकं गते' रित्यादिश्रुतिस्मृतिभिः ज्ञानेन तन्निवृत्तेः प्रतिपादनेन तदनुसारेण गौरनाद्यन्तवतीत्यादि श्रुत्यर्थस्य वर्णनीयत्वात् । न च विश्वमायानिवृत्तिरित्यत्र मायाशब्दार्थो अन्य एवेति वाच्यम् । " देवात्मशक्तिं स्वगुणैर्निगूढां पञ्चाशद्भेदां पञ्चपर्वामधीमः (श्वेताश्वतर अ. १, मं. ३) । 'क्षरं प्रधानमजाह्येका अस्मान्मायी सृजते विश्वमेतत् । तस्मिंश्चान्यो मायया संनिरुद्धः । * मायां तु प्रकृतिं विद्यात् । (श्वेताश्वतर ४- १० ) । ' यदा तमस्तन्न दिवा न रात्रि' रित्यादि (श्वेताश्वतर ४-१८) पूर्वोत्तरवाक्येषु शक्तिपञ्चपर्वप्रधानाजामायातमः शब्दैः प्रतिपन्नस्यास्मदभिमतमूलाज्ञानस्यैव विश्वमायानिवृत्तिः इत्यत्रापि प्रतिपादनीयत्वात् । न चात्र विश्वशब्द-विशेषणात् अन्यत्वं मायानिवृत्तावपि तत्कार्यप्रपञ्चस्यानिवृत्तेः अपुरुषार्थत्वं इत्याशङ्कावारणाय मायानिवृत्या तत्कार्यप्रपञ्चस्यापि निवृत्तिरित्यर्थ स्फुटीकरणाय मायाया विश्वात्मत्वप्रतिपादनस्यावश्यकत्वात् । मायानिवृत्तिरित्युक्ते एकदेशेनापि तन्निवृत्तिः उक्ता स्यात् । ग्रामैकदेशे दग्धेSपि ग्रामो दूग्ध इति व्यवहारदर्शनात् । तन्माभूदित्येतदर्थं कात्स्नर्यपर विश्वशब्दस्यावश्योपादेयत्वाच्च । न चाज्ञानस्य निरंशत्वादेकदेशाभावः । वियदादि सांशकार्यान्वयेन तस्यापि सांशत्वोपगमात् । 'विकारजननीमज्ञामष्टरूपां अजां ध्रुवाम् ' 'अजामेकां लोहितशुक्ल-कृष्णाम्' (श्वेताश्वतर ४-५), 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ' (भ.गी. अ. ७, लो. ४) इत्यादिश्रुतिस्मृतिभिः जगदुपादानभूतास्मदभिमताविद्यायाः सांशत्वप्रतिपादनाच्च । न चान्त इत्यस्य पौनरुक्त्यम् । तस्य प्रारब्धकर्मसमाप्तिप्रतिपादकतया प्रयोजनवत्वात् । न च भूयः पदानर्थक्यम् । निवृत्तस्य निवृत्ययोगात् इति वाच्यम् । निवृत्तस्यैव निवृत्तेरभ्युपगमात् । तथा च श्रुत्यन्तरं 'विमुक्तश्च विमुच्यत ' इति पूर्व आवरणशक्तिविशिष्टतया निवृत्तिः प्रारब्धभोगसमाप्तौ विक्षेपशक्तिविशिष्टतया स्वरूपेण निवृत्तिरिति तत्सार्थक्योपपत्तेश्च । यद्वा भूयश्च भूयो भूयः तस्य प्रक्रान्तदेवस्याभिध्यानात् तद्विषयकनिदिध्यासनात् योजनादुपायात्तत्वभावात् तत्वाविर्भावात् ब्रह्मसाक्षात्कारात् विश्वमायानिवृत्तिरिति योजना । यद्वा अभिध्यानं निदिध्यासनं योजनं श्रवणमनने तत्वभावो ब्रह्मसाक्षात्कारः इति श्रवणादिचतुष्टयमुक्तम् । यद्वा तस्य देवस्य अभिध्यानं सङ्कल्पस्तद्रूपायोजनादुपायान्निष्पन्नतत्वभावात् ब्रह्म-साक्षात्कारात् विश्वमायानिवृत्तिरिति । एवं च जीवब्रह्मभेदोपाधिः मायाशब्दितमज्ञानं ब्रह्मसाक्षात्कारेण निवर्तत इति मायारूपोपाधि-निवृत्तिप्रयुक्तनिवृत्तिप्रतियोगित्वं जीवब्रह्मभेदस्येति तस्यौपाधिकत्वं अकामेनापि स्वीकार्यमिति चेदुच्यते । जीववह्मभेदोऽनौपाधिकः किन्तु स्वाभाविक एव वाच्यः । तस्य मोक्षकालेऽपि सत्वात् । ब्रह्म-'विदाप्नोति परम्' 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ' (तैत्तिरीय २-२ ) रसं ह्येवायं लब्ध्वानन्दी भवति' 'एतमानन्दमयमात्मानं उपसंक्रम्य' 'इमान् लोकान् कामानी कामरूप्यनुसंचरन्' (तै. भृ. वल्ली) 'सूर्यद्वारेण ते विरजाः प्रयान्ति ।' (मुण्डके १ खं. २, मं. ११) । यत्रामृतः स पुरुषो ह्यव्ययात्मा परात्परं पुरुषमुपैति दिव्यम् । 'न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥ स एकधा भवति विद्या भवति पञ्चधा भवति । (छां. अ. ७, खं. २६, मं. २) परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । 'स उत्तमः पुरुष : ' स तत्र पर्येति जक्षन् क्रीडन् रममाणः । स्त्रीभिर्वा यानैर्वेत्यादि'(छां. अ. ८, खं. १२, मं. ३) श्रुतिभिः मोक्षेऽपि भेदप्रतिपादनात् । न चोदाहृतश्रुतीनां जीवन्मुक्तिपरत्वं सगुणमुक्तिपरत्वं वा तत्रास्माभिः भेदाभ्युपगमादिति वाच्यम् । जीवतो मुक्तिरित्यस्य व्याहृतत्वात् । जीवद्दशायाः संसाररूपत्वात् । पराभिमतजीवन्मुक्ते: अन्यत्र निरस्तत्वाच्च । सगुणमुक्तेः परेणोपासनासाध्यत्वापगमेन ज्ञानफलत्वानभ्युपगमाच्च । ब्रह्मविदाप्नोतीत्याद्युदाहृतश्रुतीनां त्वन्मते ज्ञेयब्रह्मनिष्ठतया ज्ञानफलीभूत परममुक्तेरेव तत्र प्रतिपादनीयत्वाच्च । न च तस्याः ज्ञेयब्रह्मनिष्टत्वेऽपि फलप्रतिपादनमात्रस्य सगुणब्रह्मोपासनफलप्रतिपादकतयोत्कर्ष इति वाच्यम् । तत्तत्सगुणब्रह्मविद्याप्रकरणेष्वेव फलस्यापि प्रतिपादनेन तदनपेक्षणात् । ' य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ' ( य एषोन्तरक्षिणि पुरुषो दृश्यते) (छां. ४-११, १५) । इत्यन्तरादित्यविद्यायां अक्षिविद्यायां च उदेति ह वै सर्वेभ्यः पाप्मभ्यः य एवं वेदेति सकलपापनिवृत्तिरूपस्य फलस्य स ऋतुं कुर्वीत मनोभय इत्यादि शाण्डिल्यविद्यायामेतमितः प्रेत्याभिसम्भवितास्मीति ब्रह्मप्राप्ति. रूपस्य फलस्य च य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचेत्युपकोसलविद्यायां तत्पुरुषो मानवः स एनान् ब्रह्मगमयतीत्यादिना ' (छां. ५-१०-२) अर्चिरादिमार्गेण ब्रह्मप्राप्तेः यस्त्वेदमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते ( छां, ५-१९-१ ) इति वैश्वानर विद्यायां तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते ( छ. ५-२४-३) इति सकलपापनिवृत्तेः, तस्मिन्यदंतस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इति दहर विद्यायाम् (छां. अ. ८, खं. १, मं. १) अथ 'थ इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यकामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति' (छां. अ. ८, खं. १, मं. ६) सर्वकामावाप्तेः, सोन्वेष्टव्य: स विजिज्ञासितव्य इति प्रजापतिवाक्योक्तेन्द्र विद्यायां अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शारीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि (छ. अ. ८, खं. १३, मं. ९) इति सकलपापनिवृत्ति-

…………………………………………………………………………………………………………………………………………………….

1. संसारिण इत्यर्थः ।

…………………………………………………………………………………………………………………………………………………….

पूर्वक ब्रह्मप्राप्तेश्च प्रतिपादनात् । न च अंतरादित्यविद्यायां वैश्वानर-विद्यायां च पापनिवृत्तिमात्रप्रतिपादनेन च निर्विशेषब्रह्मप्रकरणे श्रूयमाणस्य ब्रह्मप्राप्तिलक्षणफलस्य तत्रोत्कर्ष इति वाच्यम् । सगुणब्रह्मविद्यान्तरफलभूताया ब्रह्मप्राप्तेरर्थादन्यत्राप्यन्वयसंभवेन तत्र निर्विशेषब्रह्मप्रकरणोक्तफलानपेक्षणात् । किं च 'ब्रह्मविदाप्नोति परम्' (तै, उ. ब्रह्मवली.अनुवाक ) इत्यादिनोक्तं ब्रह्म सविशेषमेव न निर्विशेषम् । ब्रह्मशब्दस्य गुणपूर्तिवाचित्वात् । तथा च श्रुतिः 'अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इति (अथर्वशिरः) । बृहति बृंहयति तस्मादुच्यते परं ब्रह्मेति (आग्निवेश्यश्रुतिः) | ब्रह्मत्वात् बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते इति श्रौतस्मार्तनिर्वचनेनापि गुणपूर्तिसिद्धिः । देशकालबृहत्ववत् संकोचाभावेन गुणतो बृहत्वस्यापि तत्र प्रवेशात् सत्यशब्दस्यापि यत्तत्सदमृतं अथयत्तितन्मर्थं अथ यद्यन्तेनोभेयच्छति । तस्माद्यमिति मुक्तामुक्तनियामकपरतया श्रौतनिर्वचनसत्वेन नियमनस्य च संकल्परूपज्ञानविशेषतया सविशेषपरत्वात् । पारमार्थिकत्वरूपसत्यत्वस्य प्रपञ्चसाधारण्येन ब्रह्मसाधारणधर्मप्रतिपादनपरे वाक्ये उदाहृतश्रुत्यन्तरोक्तस्य सत्वस्य ब्रह्मासाधारणत्वेन अत्र ग्राह्यत्वाच्च । ननु ब्रह्मेतरस्य मिथ्यात्वापगमात् पारमार्थिकत्वरूपसत्यत्वस्य ब्रह्मासाधारण्यमिति चेत् । किं पारमार्थिकत्वरूपसत्यत्वस्य ब्रह्मलक्षणत्वान्यथानुपपत्या ब्रह्मेतरमिध्यात्वं किं वा मानान्तरेण तन्मिथ्यात्वसिद्धया पारमार्थिकत्वस्य ब्रह्मासाधारण्यम् । नाद्यः । श्रुत्यन्तरोक्तसत्यत्वपरत्वेनापि तस्य ब्रह्मलक्षणपरतया ब्रह्मेतरमिथ्यात्वानाक्षेपकत्वात् । द्वितीयेऽपि तत्साधकं मानान्तरं प्रत्यक्षमनुमानं आगमो वा । नाद्यः । जगन्मिथ्यात्वसाधकप्रत्यक्षस्यादर्शनात् । प्रत्युत घटः सन्नित्यादिप्रत्यक्षेण तत्सत्यत्वस्यैव सिद्धेश्च । न द्वितीयः । स्वतन्त्रप्रमाणावष्टम्भेन विना सहचारमात्रेणार्थसाधनायोगात् । अन्यथातिप्रसङ्गात् । दृश्यत्वाद्यनुमानानां च विस्तरेण अन्यत्र निरस्तत्वाच्च । न तृतीयः । ब्रह्मेतर सर्वमिथ्यात्व परश्रुतीनामदर्शनात् । 'एकमेवाद्वितीयम्' (छां, अ. ६, खं. २, मं. १), 'नेह नानेत्यादिकम् ' (कठ अ. २, बल्ली १, मं. ११) वाक्यं श्रूयत इति चेत् सत्यं तथाविधश्रुतीनां पूर्वोत्तरवाक्यानुरोधेन श्रुत्यन्तरानुरोधेन चार्थस्य वर्णनीयत्वात् । यथा चैतत् तथाग्रे वक्ष्यामः । तस्मात्सत्यशब्दस्य मुक्तामुक्तनियामकपरतया मुमुक्षुज्ञेयं ब्रह्म सविशेषमिति स्थितम् ।

किं च ज्ञानशब्दस्य अन्तोदात्ततया ज्ञानवत्परत्वेन ततोऽपि ज्ञानरूपधर्मसिद्धिः । अत एव ब्रह्मणो विपश्चित्वं उक्तम् । विविधं पश्यति चिद्यस्य स विपश्चित् इति तदर्थप्रतीतेः । न च त्वन्मते ब्रह्मशब्दस्यापि गुणपूर्तिवाचितया सहप्रयोगानुपपत्तिरिति शङ्कथम् । प्रमाकरणं प्रमाणम् । सास्नादिमती गौरित्यादौ लक्ष्यपरप्रमाणशब्दादेः प्रमाकरणमित्यादाविव विवक्षावत् ब्रह्मशब्दस्यापि अविवक्षितार्थतया सहप्रयोगोपपत्तेः । 'रसं हि एवायं लब्ध्वा आनन्दी भवति ' ( तैत्तिरीये ब्रह्मवली अनु. ८) इत्यत्रापि रसशब्देन सविशेषमेव ग्राह्यम् । पूर्वंत्र ' सोऽकामयत बहुस्याम् प्रजायेय ' इति । ' स तपोऽतप्यत ' ( तैत्ति. उ. ब्र.व. षष्ठानुवाकः) इत्यादिना ज्ञानेच्छाः तत्रैव तदात्मानं स्वयमकुरुत' इति कृतेः उत्तरत्र च स एको ब्रह्मण आनन्दः' ( तै. ब्र. अष्टमानुवाकः), 'आनन्दं ब्रह्मणो विद्वान् ' ( तै. व्र. ४ अनुवाकः ) इत्यादिना आनन्दरूपधर्मस्य च प्रतिपादनात् । ' एतमानन्दमयमात्मानं ' ( तै. उ. भृगु. १० अनुवाकः ) इत्यत्रापि सविशेषमेव प्रतिपत्तव्यम् । 'विकारशब्दान्नेति चेन्न प्राचुर्यात् ' ( ब्र. सू. १ अ. अधि, , सू. १३) इत्यादि सूत्रकृतैव मयटः प्राचुर्यार्थत्वप्रतिपादनेन निरतिशयानन्दरूपधर्मस्यैव प्राप्तेः । सूर्यद्वारेण ते विरजाः प्रयान्ति' (मुं. खं. २, मं. ११) 'यत्रामृतः स पुरुषो ह्यव्ययात्मा', 'परात्परं पुरुषमुपैति दिव्यम्' इत्यत्रापि प्राप्यः पुरुषः सर्वज्ञत्वादिगुणकः । 'यः सर्वशः सर्ववित्', यस्य ज्ञानमयं तपः (मुं. प्र. खं. मं, ९) इत्यादि पूर्ववाक्येन तस्य तथा प्रक्रान्तत्वात् 'ब्रह्म वेद ब्रह्मैव भवति' (मुण्डके द्वि. मं. ९) इत्युपसंहारस्य उपक्रमानुसारेण नेयत्वात् । भवतीत्यस्य प्राप्त्यर्थकत्वोपपत्तेः । न च प्राप्यर्थत्वे आत्मनेपदित्वात् परस्मैपदानुपपत्तिः । 'यदा पश्यः पश्यते' (मुण्डके ३-१-३) इत्यादी आत्मनेपदवत् छान्दसत्वोपपत्तेः । न च यत्तदद्रेश्यं इत्याद्युपक्रमेण ब्रह्मणो निर्विशेषत्वसिद्धिः । ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्', 'यया तदक्षरमधिगम्यते ' (प्र. भु. प्र. खं. ३, ५) तस्यैष आत्मा विवृणुते तनूम् स्वाम् ' ( कठ प्र. अ. वल्ली २, मं. २३) इत्यादिपूर्वोक्तवाक्यानुसारेण तदर्थस्य वर्णनीयत्वात् । अन्यथा परस्परव्याहत भाषित्वापत्तेः इत्युक्तम् । ' न पश्यो मृत्युं पश्यतीति' ( छ. ७-२६-२) ब्रह्मविद्योतं मुमुक्षुप्राप्यं ब्रह्मापि न निर्विशेषम् । उपक्रमे 'तरति शोकमात्मवित्' इति चेतनवाच्यात्मशब्दश्रवणात् । तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः' इति उपसंहारेऽपि 'आदित्यवर्णं तमसः परस्तात्' इति वाक्यान्तरानुसारेण सविशेषस्यैव अङ्गीकर्तव्यत्वात् । यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा यो वै भूमा तत्सुखम् (छां. ७-२३) इत्यादेः ब्रह्मानन्दे अनुभूयमाने मुक्तः स्वर्गादिवैषयिक सुखं न पश्यतीत्यर्थपरत्वेन ततोऽपि निर्विशेषसिद्धेश्च | 'परंज्योतिरुपसंपद्य' (छां. ८-३-४ इत्यत्र 'सत्यकामः सत्यसङ्कल्पः' इत्यादिना सत्यकामत्वादिधर्मप्रतिपादनेन सविशेषपरत्वाच्च । न चोदाहृतश्रुतिषु तत्तद्धर्माणां प्रतीतावपि श्रुतीनां न तत्र तात्पर्यमिति वाच्यम् । सगुणे ब्रह्मणि समन्वयानुक्तिप्रसङ्गात् । सगुणोपासनाननुष्ठानप्रसङ्गात् । गुणोपसंहारानुपसंहारयोः अकर्तव्यत्वात्तेश्च । न हि श्रुतीनां गुणेष्वपि तात्पर्याभावे तस्त्रितयं युज्यते । न च गुणेष्ववान्तरतात्पर्यं निर्विशेषे तु महातात्पर्यमिति युक्तम् । तथा सति गुणानामपि ब्रह्मवत्पारमार्थिकत्वस्य दुर्वारत्वात् । अवान्तरतात्पर्यविषयस्य महातात्पर्यविषय समसत्ताकत्वात् । प्रयाजादौ तथा दर्शनात् । ' ननु तमेवैकं जानथ आत्मानम् ' 'अन्या वाचो विमुञ्चथ ( मुं. उ. २-२-५ ) इति आत्मस्वरूपमात्रस्य ज्ञेयत्वावगमात् । केवलो निर्गुणश्च' (श्वेताश्व. अ. ६, मं. ११) इति गुणानां तत्र निषिद्धत्वाच्च न तत्र श्रुतितात्पर्यम् । न चोपासनार्थं गुणादिसिद्धिरिति वाच्यम् । अन्यपरैः मन्त्रार्थवादैः देवताविग्रहादाविव बाधकाभावेन निर्विशेष परवेदान्तै: गुणानां असिद्धयोपासनोपपत्तेः तात्पर्याभावेन विशेषोपपत्तेश्च इति चेन्न । तथात्वे 'अन्तस्तद्धर्मोपदेशात्' (न. सू. अ. १, अधि. ६, सू. १) इत्यादिना सविशेषे ब्रह्मणि य एषोऽन्तः' इत्यादेः समन्वयानुक्तिप्रसङ्गात् । प्रयाजादावपि अवान्तरतात्पर्यानभ्युपगमप्रसङ्गाच्च । सगुणोपासनानुष्ठानवत् तदनुष्टानोपपत्तेः । 'तमेवैकं जानथ' इति, अत्रापि प्रकृतपरामर्शिना तच्छब्देन सविशेषस्यैव प्रतिपन्नत्वात् । 'निर्गुणः' इत्यत्रापि 'साक्षी चेता' इति साक्षाद्द्रष्टृत्वादिधर्मप्रतिपादनेन हेयगुणनिषेधपरत्वेन उपादेयगुण (धर्म) विशिष्टे ब्रह्मणि श्रुतितात्पर्याभ्युपगमे बाधकाभावाच्च इत्यास्तां तावत् ॥ तस्मान्मोक्षेऽपि जीवब्रह्मभेदस्य प्रमितत्तया कथं तस्य औपाधिकत्वमिति ।

किं च जीवब्रह्मभेदस्य अज्ञानोपाधिकतया तन्निवृत्या निवर्तत इत्यनुपपन्नम् । तथात्वे प्रमाणाभावात् । 'विभेदजनकेऽज्ञाने नाशमात्यंतिकं गते । आत्मनो ब्रह्मणोऽभेदं असंतं कः करिष्यति । (विष्णु पु. ६-७-९६) स्मृतिरस्तीति चेन्न । भेदविरोधी विभेद इति यावत् । तज्जनके अज्ञाने तत्वज्ञानविरोधिनि दोषे आत्यंतिकं नाशं गते सति जीवब्रह्मणोरसंतं अभेदं कः करिष्यति इत्यर्थपरतया तस्यास्त्वन्मतप्रतिकूलत्वात् । तस्याः त्वदभिमतार्थपरत्वे च विशब्दवैयर्थ्यात् । जीवब्रह्मभेदे वैविध्याभावात् । विजातीय भेदमादायैव वैविध्यस्योपपादनीयत्वात् । न जडभेदमादाय वैविध्यम् । तद्भेदस्य परेण मिथ्यात्वात्युपगमेऽपि औपाधिकत्वानभ्युपगमात् । अन्यथा तदभेदस्य तात्विकत्वापतेः । ननु " एक एव तु भूतात्मा" (ब्रह्मबिन्दुपनिषत् मं. १२) " यथा वयं ज्योतिरात्मा विवस्वान् " मायया ह्यन्यदिव ॥ इत्यादि श्रुतिषु साक्षादेव जीवब्रह्मभेदस्य औपाधिकत्वप्रतिपादनात् 'नान्योऽतोऽस्ति दृष्टा ", " नात्र काचन भिदास्ति" इत्यादि श्रुत्यादिषु भेदनिषेधाश्च उदाहृतस्मृतेः जीवब्रह्मभेदः औपाधिकः तन्निवृत्याच निवर्तते । इति अर्थपरत्वमवश्यं अंगीकर्तव्यमिति चेन्न । एक एव तु भूतात्मा" (ब्रह्मबिन्दुपनिषत्) इति श्रुतौ जीवात्मनो देवमनुष्यस्त्रीपुरुषादि भेदस्योपाधिकत्व परत्वात् भूतात्मशब्दस्य जीवे मुख्यत्वात् । तस्य परमात्मनि मुख्यत्वेऽपि अंतर्यामिभेदोपाधिकत्वपरत्वेन जीवब्रह्मभेदासंस्पर्शात् । तथा च श्रुतिस्मृतयः | । "नैव स्त्री न पुमानेष नैव चायं नपुंसकः " । " एकः सन् बहुधा विचारः पुमान्न देवो न नरो न पशुर्न च पादपः" इति । श्वेताश्व. अ. ५, मं. १०) किं च "भूते भूते व्यवस्थितः " इति वीप्सया भूतशब्दितसकलजीवावस्थानं परमात्मनि प्रतिपाद्यत इति तदंतर्यामिभेदोपाधिकत्वपरत्वमावश्यकम् । न च भूतशब्दस्य देहमात्रमर्थः । तस्य देहविशिष्ट-चेतनवाचित्वात् । अन्यथा "न हिंस्यात् सर्वा भूतानि यतो वा इमानि भूतानि जायन्ते " इत्यादावपि भूतशब्दस्य तन्मात्रपरत्वं स्यात् । न चात्र देवः क्षेत्रेष्वेवं अजोऽयं इत्यादि श्रुत्यंतरानुसारेण भूतशब्दस्य शरीरमात्रपरत्वं युक्तम् | तत्र तथात्वेऽपि प्रकृते मुख्यार्थस्यैव ग्राह्यत्वात् । परमात्मनः शरीरेष्वस्थानवत्, "य आत्मनि तिष्ठन् " इत्यादि श्रुत्या जीवात्मांतरवस्थानस्यापि प्रतिपन्नत्वात् । यथा ह्ययं ज्योतिः " इत्यत्रापि अंतर्यामिभेदस्य रामकृष्णादिभेदस्य च औपाधिकत्वं प्रतिपाद्यते । एतेन ' मायया ह्यन्यदिव ' इति वाक्यं व्याख्यातम् । परमात्मा स्वेच्छया रामकृष्णाद्यनेकरूपं प्राप्नोतीत्यर्थपरत्वात् । " नान्योऽतोऽस्ति द्रष्टा " इत्यस्यांतर्यामिणोऽन्यः सर्वज्ञो नास्तीत्येव अर्थः । नात्र काचन भिदाऽस्ति" इत्यत्र परमात्मनि स्वगत मेद एव निषिध्यत इति अन्यत्र विस्तरः । तस्मान्मुक्तौ भेदो दुर्वार:

ननु " यत्रत्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्” (बृ. उ. ४-४- १४) इति मुक्तौ भेदमात्रनिषेधकश्रुतिविरोध इति चेत् । न । यत्र यदा अस्य ज्ञानिनः सर्वमात्मैवाभूत् स्वाभिन्नमभूत् तदा केन साधनेन कं ज्ञेयं पश्येत् केनापि किमपि न पश्येत् । अतो मुक्तस्य नाभेदः इति अनिष्ट-प्रसंजनमुखेन मुक्तिकाले भेदोऽङ्गीकार्य इत्येवं परत्वात् ।

किं च " निरञ्जनः परमं साम्यमुपैति " (मुं. ३-१-३) " यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति", "एवं मुनेः विजानतः आत्मा भवति गौतम” (कठ. २-१-१५) इति श्रुतिभ्यां मुक्तौ साधर्म्यप्रतिपादनेन भेदो दुर्वारः । न च " गगनं गगनाकारं " इत्यादिवदुपपत्तिः । तत्र गगनैक्यस्य प्रमाणसिद्धत्वेन एकस्यैव उपमानोपमेयभावाम्युपगमेऽपि जीवब्रह्मैक्ये तदभावेन वैषम्यात् । तत्वमस्यादिवाक्यानां मानांतराविरोद्यर्थां तरपरत्वमित्युक्तत्वाच्च । न च सगुणमुक्तौ साधर्म्यम् न परममुक्ताविति वाच्यम् । पराभिमतपरममुक्तौ मानाभावात् । " ब्रह्म वेद ब्रह्मैव भवति " (मुं. ३-२-९) इत्यादिवाक्यानां ब्रह्मप्राप्तिरूपमोक्षपरत्वस्य प्रपंचितत्वात् । तद्यो यो देवानां प्रथमं प्रत्यबुध्यत स एव तदभवत्त्" इत्यादीनामपि विष्णुरेव भूत्वेमान् लोकान् अभिजयति इत्यादि वैदिकप्रयोगानुसारेण सादृश्यगर्भत्वस्यैव वक्तव्यत्वात् ।

किं च परमते मोक्षो नाम कः । किं अविद्यानिवृत्तिः उतानंदावाप्तिः अथोभयम् । नाद्यः सुखदुःखाभावेतरत्वात् । कंटकादिनिवृत्तिवत् दुःख-हेतूच्छेदरूपतया तस्याः पुरुषार्थत्वमिति चेत् तथापि किं ब्रह्मस्वरूप रूपा किं वा तदतिरिक्ता | नाद्यः । ब्रह्मस्वरूपस्य नित्यसिद्धतया साध्यत्वाभावेन अपुरुषार्थत्वात् । अनादेः दुःखप्रागभावस्य प्रायश्चित्तसाध्यत्वं तांत्रिकैरम्युपगतं इति चेन्न । तत्र प्रागभावस्य उत्तरोत्तरसमयसंबन्धस्यैव प्रायश्चित्तसाध्यत्वोपगमात् । तद्वन्मोक्षे ब्रह्मस्वरूपातिरिक्तस्य साध्यस्याभावात् । न द्वितीयः । सत्यत्वे अद्वैतहानेः । मिथ्यात्वे अपुरुषार्थत्वप्रसंगात् । मिथ्या भूतस्य ज्ञाननिवर्त्यत्वनियमात् । मोक्षेऽपि अज्ञानांतरस्वीकारप्रसंगाच्च । न ह्यज्ञानं विना कल्पितस्य अवस्थानम् । अन्यथा इदानीमपि अज्ञानं न स्यात् । द्वितीयेऽपि आनंदावाप्तिः तत्साक्षात्कारो वा तत् संबन्धो वा तत्स्वरूपमेव वा । नाद्यद्वितीयौ । अनभ्युपगमात् । न तृतीयः । असाध्यत्वात् । एतेन अविद्यानिवृत्तिः आनंदावाप्तिश्च इत्युभयं पुरुषार्थः इति तृतीयविवक्षापि निरस्ता | तस्मात् अद्वैतिमते ब्रह्मनिर्विशेषत्वस्य प्रत्यग्ब्रम्हैक्यस्य जगन्मिथ्यात्वस्य च सकलप्रमाणविरुद्धत्वेन मोक्षस्य च वक्तुमशक्यत्वेन अद्वैतिमतं न प्रेक्षावदुपादेयमिति स्थितम् ।

किं च ब्रह्मभावोमोक्षः इति अद्वैतमतमनुपपन्नम् | ब्रह्मप्राप्तेरेव मोक्षत्वात् । अर्चिरादिगतिप्रतिपादनस्यापि तदर्थत्वात् । ज्ञानेन अज्ञान निवृत्तौ ब्रह्मीभावस्य सर्वत्र संभवेन तदर्थं गत्यनपेक्षणात् । न च अज्ञाननिवृत्यर्थे गत्यपेक्षा | अधिष्ठानतत्वसाक्षात्कारस्यैव अज्ञानविरोधित्वोपगमात् । निवृत्ताज्ञानस्यैव गत्युक्तेश्च । अत एव ज्ञानोत्पत्यर्थं देशांतरगत्यपेक्षेति निरस्तम् । इहापि वेदांतेन तत्वज्ञानसंपादनसंभवात् । निष्पन्नतत्वज्ञानस्यैव गत्युक्तेश्च । अन्यथा अत्रेदानीं श्रवणादौ कस्यापि प्रवृत्तिर्न स्यात् । न चेदानींतनश्रवणादिकं कालक्षेपार्थं न ज्ञानार्थमिति युक्तम् । अनुभवविरोधात् । ज्ञानार्थत्वेsपि कालक्षेपार्थत्वोपपत्तेश्च । तस्मात् अर्चिरादिगतिः ब्रह्मप्राप्त्यर्थैवेऽति मोक्षेऽपि जीवब्रह्मभेदो दुर्वारः ।

ननु ब्रह्मप्राप्त्यर्थं अर्चिरादिगतिप्रतिपादनमित्यसंगतम् । तस्य सर्वगतत्वेन नित्यप्राप्तत्वात् । देशविशेषावच्छेदेन प्राप्यत्वस्य अकल्पनीयत्वात् वैयर्थ्यादिति चेत् । भ्रांतोऽसि । न हि वयं ब्रह्मणो देशविशेषावच्छेदेन प्राप्यत्वं कल्पयामः । येन वैयर्थ्यं स्यात् । किंतु-श्रुतिस्मृतिभिः प्रतिपन्नं तत् न त्यागार्हमिति ब्रूमः । तथा च श्रुति-स्मृतयः "स एनान् ब्रह्म गमयति " (छां. ५-१०-२) " व्यपोह्य शीर्ष-कपाले भूरित्यग्नौ प्रतितिष्ठति ” “तयोर्ध्वमायन् अमृतत्वमेति" (कठ. २-६-१६) " सूर्यद्वारेण ते विरजाः प्रयांति : (प्र. मुं. खं. २ मँ. १२) स एतं देवयानं पंथानमापद्य अग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं ब्रह्मालंकारेणालंकृतो ब्रह्म विद्वान् ब्रह्मवाभिप्रैति (कौषीतकी १-३-४ ) ऊर्ध्वमेकस्थितस्तेषां यो हित्वा सूर्यमंडलम् | ब्रह्मलोकमतिक्रम्य तेन याति परां गतिं " अग्निर्ज्योतिरहः शुक्लः षण्माला उत्तरायणम् । तत्र प्रयाता गच्छति ब्रह्म ब्रह्मविदो जनाः " (भ.गी. अ. ८, श्लो. २४, २५) इत्यादिकः । न च उदाहृतश्रुतिस्मृतीनां विद्वत्प्रशंसापरत्वमिति युक्तम् । यथाश्रुतार्थपरत्वे बाधकाभावात् । अन्यथा वेदार्थमात्र त्यागापातात् । विशेष हेत्वभावात् । ननु तत्तल्लोकावच्छिन्नं ब्रह्म प्राप्यमिति ब्रह्मप्राप्तिः नैकाकारा इति चेत् । किं कुर्मः । प्रमाणसिद्धार्थत्यागायोगात् । तथा च पुराणवचनानि ।

आत्मेत्येव परं देवं उपास्य हरिमव्ययम् ।

केचिदत्रैवमुच्यते नोत्क्रामंति कदाचन ॥

अत्रैव च स्थितिस्तेषां अंतरिक्षे तु केचन ।

केचित् स्वर्गे महर्लोके जने तपसि चापरे ॥

केचित् सत्ये महाज्ञानाः गच्छंति क्षीरसागरम् ।

तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगः ॥ " गारुडे ॥

सालोक्यं च सरूपत्वं सामीप्यं योग एव च ॥ इति । तत्र सालोक्यं समान लोकत्वं विष्णुलोकनिवासः । सामीप्यं विष्णुसमीपे वर्तमानत्वम् । तत्सरूपत्वं चतुर्भुजादिरूपतत्सादृश्यम् | योगः सायुज्यं तत्तु विष्णुदेहं प्रविश्य वर्तमानत्वमिति विवेकः ।

ननु विष्णुलोकः किं अनित्यो नित्यो वा । नाद्यः । अनित्यलोकस्य मुक्तप्राप्यत्वायोगात् । मुक्तेः नित्यपुरुषार्थत्वोपगमात् । न द्वितीयः । नित्यलोक सद्भावे प्रमाणाभावात् । इति चेन्न । श्रुतीनामेव तत्र प्रमाणत्वात् । तथाहि-अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरं अकृतं कृतात्मा ब्रह्मलोकं अभिसंभवामि ' ( छां. ८-१३-१) इति श्रुतिः तावत्तत्र प्रमाणम् । तत्र अकृतमिति ब्रह्मलोकविशेषणम् । तस्य नित्यत्वप्रतिपादनार्थम् । न च शरीर विशेषणं तदिति युक्तम् । तस्य कृतत्वेन ब्रह्मलोकविशेषणत्वस्यैव युक्तत्वात् । न च ब्रह्मैव लोकः ब्रह्मलोकः इत्यर्थाश्रियणेन विवक्षितार्थ सिद्धिरिति युक्तम् । प्रजापतेः सभां वेश्म प्रपद्ये इत्यत्रैव उत्तरत्र श्रवणेन ब्रह्मणो लोको ब्रह्मलोक इति षष्ठीतत्पुरुषस्य अंगीकर्तव्यत्वात् । न च ब्रह्मणः चतुर्मुखस्य लोकः इति तदर्थः । प्रजापतेः सभां वेश्म इत्यत्रैव विशेषितत्वात् इति वाच्यम् । तस्य जन्यत्वेन अकृतत्वविशेषणायोगात् । प्रजानां पतिः प्रजापतिरिति योगेन प्रजापतिशब्दस्य विष्णुपरत्वसंभवाच्च । एवंयो ह वा एतामेवं वेद अपहत्य पाप्मानं अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति " (केन उ. खं. ४, मं. ९) इति नित्यलोकः श्रूयते । अत्र स्वर्गलोकशब्दो न प्रसिद्धस्वर्गलोकपरः तस्य अंतवत्वात् । प्राधान्येन तस्य मुक्तप्राप्यत्वायोगाच्च । किंतु वैकुण्ठलोकपरः तथा च अरण्यपर्वणि आर्ष्टिषेणवचनम् ।

" यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं धृवाम् ।

अनादिनिधनं देवं प्रभुं नारायणं परम् ॥

ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।

देवा अपि यन्न पश्यंति दिव्यं तेजोमयं शिवम् ।

अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ॥

स्वयैव प्रभया राजन् दुस्प्रेक्ष्यं देवदानवैः ।

यतयस्तत्र गच्छंति देवं नारायणं हरिम् ॥

परेण तपसा युक्ताः भाविताः कर्मभिः शुभैः ।

योगसिद्धा महात्मानः तमोमोहविवर्जिताः ॥

तत्र गत्वा पुनर्नैमं लोकमायांति भारत ।

स्थानमेतन्महाराज धृवमक्षयमव्ययम् ॥

ईश्वरस्य सदस्येतत् प्राणमात्रं युधिष्ठिर ॥ " इत्यादि ॥

तथा मोक्षधर्मे ---

' प्राप्य तत् परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥इति ॥

" ततोऽव्ययं स्थानमुपेत्य ब्रह्म दुष्प्राप्यमभ्येति तत् शाश्वतं वै । " इति च ।

तथा मौसले "देवाः- दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैः गम्यमद्य । गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या " ॥ इति ॥

तथा विष्णुपुराणे-

योगिनाममृतं स्थानं तद्विष्णोः परमं पदम् ।

एकांतिनः सदा ब्रह्म ध्यायिनो योगिनो हि ये ॥

तेषां तत् परमं स्थानं यत्प्रपश्यंति सूरयः ॥ इति ॥

 मुद्गलोपाख्याने च-

ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् । " इति ।

ननु अर्चिरादिगतिप्राप्यो लोकः चतुर्मुखलोकः एवास्तु | तथाहि कौषीतकीनां उपनिषदि (अ. १ मन्त्र ३) " स एतं देवयानं पन्थानमापद्य अग्निलोकमागच्छति स वायुलोकं स आदित्यलोक स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं " इत्युक्तो ब्रह्मलोकः चतुर्मुखलोक एव । विजरानदील्योवृक्षः सालज्यं इत्यादिना नदीवृक्षादीनां अनित्यपदार्थानां प्रतिपादनात् । नित्यलोके तदभावात् । 'तस्मिन् ब्रह्मास्ते तमित्थंवित् पादेनैव अग्र आरोहति । तं ब्रह्मा पृच्छति कोऽसीति । तं प्रतिब्रूयात् (कौषी. अ. १ मं. ५) "ऋतु-रस्स्यार्तयोस्म्याकाशाद्योनेः " इति (अ. १ ख ६) " पुल्लिंगब्रह्मशब्देन तस्य प्रतिपादनात् । " तेजोभूतस्य भूतस्य भूतस्य भूतस्यात्मा, त्वमात्मासि यस्त्वमसि सोऽहमस्मीति तमाह कोऽहमस्मीति । सत्यमिति ब्रूयादित्यादिना (कोषी. अ. १ ख ६) तल्लोकंगतस्य ब्रह्मात्मविषयप्रश्नोत्तरयोः दर्शनाच्च । न हि मुक्ती स्वात्मविषयप्रश्नः तदुत्तरं वा युज्यते । तस्मात् ब्रह्मलोकः सत्यलोक एव । न चैवं प्रजपतिलोकम् इत्यनेन पुनरुक्तिः इति युक्तम् ।

'नारायणात् ब्रह्मा जायते । नारायणात् रुद्रो जायते । नारायणात् प्रजापतिः प्रजायते । त्वं रुद्रः, त्वं ब्रह्मा त्वं प्रजापतिः (नारायणोपनिषत् ) इत्यादाविव प्रजापतिशब्दस्य अर्थांतर परत्वाभ्युपगमेन पुनरुक्त्यभावात् । एवं " तत्पुरुषो मानवः स एनान् ब्रह्म गमयति" (छां. ४-१५-५, ५-१०-२ ) 'एष देवयानः पंथाः " तत्पुरुषो मानवः, स एनान् ब्रह्म गमयति एष देवपथो ब्रह्मपथः (छां. ४-१५-५) एतेन प्रतिपद्यमानाः इमं मानवमावर्ते नावर्तंत इति छांदोग्ये (४-१५-५) पञ्चाग्निविद्यायां उपकोसलविद्यायां च प्रतिपाद्यमानं अर्चिरादिप्राप्यकार्यब्रह्मैव न परं ब्रह्म कौषीतकिवाक्यानुसारात् । "पुरुषो मानव त्य ब्रह्मलोकान् गमयति तेषु ब्रह्मलोकेषु परावंतो संति । तेषां न पुनरावृत्तिरिति" बृहदारण्यकोक्त पंचाग्निविद्यायां ब्रह्मणः परमायु:- पर्यंतं स्पष्टमेव ब्रह्मलोकवासः प्रतिपाद्यते । न चैवं पुनरावृत्तिप्रतिपादनायोगः ॥ ब्रह्मणा सह तल्लोकं गतानामुपासकानां मुक्तेरभ्युपगमेनापुनरावृत्युपपत्तेः । तथा च श्रुतिस्मृती |

'ते ब्रह्मलोके तु परांतकाले परामृतात् परिमुच्यंति सर्वे ।' ब्रह्मणा सह ते सर्वे संप्राप्ते परिसंचरे । परस्यांते कृतात्मानः प्रविशति परं पदं (स्मृतिः) इति । यदा वै पुरुषोऽस्मात् लोकात् प्रैति वायुमागच्छति । स आदित्यमागच्छति । स चंद्रमसमागच्छति स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समाः ॥ ' इति बृहदारण्यक-वाक्यमप्येवं परम् । न च शाश्वतीरित्यनुपपन्नम् । बहुकालावस्थायित्वेऽपि तदुपपत्तेः । ब्रह्मलोकेऽपि दुःखाभावेनाशोकमहिम मिति विशेषणोपपत्तेश्च । यथा पादोदरस्त्वचा विनिर्मुच्यते । एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकमिति प्रश्नोपनिषदि श्रूयमाणो ब्रह्मलोकोऽपि चतुर्मुखलोक एव । स एतस्मात् जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते इत्यव्यवहितोत्तरवाक्येन जीवनशब्दित-चतुर्मुखोपदेशादुपासकस्य परब्रह्मसाक्षात्कारप्रतिपादनात् । न च ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीतेति ध्यानविषयस्य ब्रह्मलोकमित्यत्र ब्रह्मशब्दार्थत्वं युक्तम् । ध्यानेक्षणप्राप्तीनामेकनिष्ठत्वावश्यंभावादिति वाच्यम् । परब्रह्मणः परमप्राप्यत्वेऽपि सूर्यादीनामित् मध्ये चतुर्मुखस्याप्युपासकप्राप्यत्वाभ्युपगमे विरोधाभावात् । 'अकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि इति छांदोग्यवाक्यमपि चतुर्मुख लोकपरं प्रजापतेः सभां वेश्म प्रपद्ये' इत्युत्तरत्र ब्रह्मलोकस्य विशेषितत्वात् । प्रजापतिशब्दस्य चतुर्मुखवा चित्वात् । शब्दशक्तिमहिम्नैव सर्वव्यवस्थाया अभ्युपेयत्वात् । अन्यथा विष्ण्वादिशब्दानामपि अर्थांतरपरत्वापत्या त्वदिष्टार्थासिद्धेः । स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते ' । न च पुनरावर्तते इत्युत्तरवाक्यमपि चतुर्मुखलोकपरतया नेयम् । न च 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन' इति चतुर्मुखलोकंगतानां पुनरावृत्तिप्रतिपादनात् तस्यानित्यत्वेनाकृतत्व विशेषणायोगाच्च कथं उदाहृतश्रुतीनां चतुर्मुखलोकपरत्वमिति वाच्यम् । 'षड्-गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मारको यत्र ब्रह्मलोको हि स स्मृतः । ' पादगम्यं तु यत्किंचित् वस्त्वस्ति पृथिवीमयम् । स भूलोकः समाख्यातो विस्तरोऽस्य मयोदितः ' । भूमिसूर्यांतरं यच्च सिद्धादिमुनिसेवित्तम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम । ध्रुवसूर्यांतरं यश्च नियुतानि चतुर्दश । स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः । त्रलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् । कृत्तकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पांते योऽत्यंतं न विनश्यति । एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्मांडस्यैष विस्तरः ' ॥ इत्यादिभिः श्रीविष्णुपुराणवचनैः (२ अं. ७ अ. लो. १५-२१) चतुर्मुखलोकं प्राप्तानामपुनरावृत्तेस्तल्लोकस्याकृतकत्वस्य चोक्तेः न च गीतावचनविरोधः । तस्य मेरुपरिविद्यमानब्रह्मभवनविषयत्वात् । तस्य च कर्मप्राप्यत्वेन पुनरावृत्युपपत्तेः । तथा च श्रीविष्णुपुराणवचनम् ।

चतुर्दशसहस्राणि योजनानां महापुरी |

मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ इति । (अं. २ अ २ श्लो, ३० )

अकृतत्वमपि न नित्यत्वरूपम् | किंत्वाभूत संप्लवावस्थायित्वरूपम् । 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते इत्यादिवचनात् । एवं यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते (तलवकार) स्वर्गे लोके ज्येये प्रतितिष्ठतीति तलवकारश्रुतावपि स्वर्गलोकश्चतुर्मुखलोक एव प्रसिद्ध स्वर्गलोको वा । न ह्यत्र ब्रह्मज्ञानफलतया स्वर्गलोकप्राप्तिरुक्ता । किंतु 'ब्राह्मीं वावत उपनिषदमब्रू' इत्युपनिषदमुपक्रम्य 'तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वांगानि सत्यमायतनं यो वा एतामेवं वेद ' इत्युपनिषदिति तपः प्रभृतीति प्रतिष्ठात्वौपासनफलतया च न विरोधः । 'अस्मात् शरीरमेदादूर्ध्वं उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽऽमृतः समभवत् इत्यैतरेयवाक्यमपि क्रममुक्तिपरम्। एवं मुक्तस्य गतिप्रतिपादकश्रुत्यंतराण्यपि नेयानि । मुक्तस्य गतिनिषेध-पूर्वकमत्रैव मुक्त्युक्तेः । तथा च श्रुतिः । 'अथाकामयमानो योऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामन्ति, ब्रह्मैव सन् ब्रह्माप्येति उदस्मात्प्राण उत्क्रामन्तीत्याहो नेति नेति होवाच याज्ञवल्क्यः । अत्रैव समवलीयन्ते यदा सर्वे प्रमुच्यते कामा येऽस्य हृदि श्रिताः । अथ मृर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुत इत्यादिका बृहदारण्यके प्रसिद्वैव । तथोत्तरतापनीयेऽपि तस्मादात्मानमेवैवं जानीयात् आत्मैव नृसिंहो देवो । परमेव ब्रह्म भवति य एवं वेद । सोऽकामो निष्कामः आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामति, अत्रैव समवनीयं ब्रह्मैव सन् ब्रह्माप्येति य एवं वेदेतीति ह प्रजापतिस्वाचेति (नृ. उ. ता. उ. ) गतिनिषेधः प्रतिपादितः । न च प्राणानामेव गतिनिषेधः श्रुतः । न तु मुक्तात्मन इति युक्तम् | मुक्तात्मगत्यभावप्रतिपत्यर्थतयैव तदुक्तेः । अन्यथा तद्वैयर्थ्यात् ।

किं 'अथातोऽनुप्रश्नाः ' उताविद्वानमुंलोकं प्रेत्य कश्चन गच्छति आहो विद्वानमुं लोकं प्रेत्य कश्चित् समश्नुता उ इति श्रुतौ मुक्तस्य गत्यभावपक्ष एव स्वीकृत इति गम्यते । तस्यैवाव्यवहितत्वात् । प्रथमपक्षस्य व्यवहितत्वेनांगीकारार्थ कोंकारविषयत्वायोगात् । ऊइति दीर्घस्य अथासपत्नान् गच्छतीत्यादाविच छांदसत्वेन प्रथमप्रश्नस्यापि विद्वद्विषयत्वात् । यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विंदते । अथ सोऽभयं गतो भवतीत्युत्तरत्र द्वितीय प्रश्नविषयस्यैवोपपादनात् । तत्र ज्ञानमोक्षयोरेककालीनत्व प्रतिपादनात् । अथशब्दस्य तदेत्यर्थपरत्वात् । स एवं विस्माल्लोकात्प्रेत्य' इत्यादे-र्व्यवहितत्वेनोक्त प्रश्नोत्तरत्वायोगाच्च । त्वयाप्यत्रैव " केचिन्मुच्यन्ते नोत्क्रामन्ति कदाचने "ति वदता अनुत्कान्तिपक्षस्याप्यभ्युपगमाच्च । एवं भारतवचनेऽपि मुक्तप्राप्यस्य विष्णुलोकस्य बहुकालावस्थायित्वमेव प्रतिपाद्यत इति न तैरपि मुक्तप्राप्यनित्यलोक सिद्धिरङ्गीकार्येति ।

किं च त्वयाऽपि स नान् ब्रह्म गमयतीत्यादौ ज्ञानिप्राप्यं ब्रह्म हिरण्यगर्भोऽपीत्यङ्गीकारेण सर्वत्रापि चतुर्मुखस्यैवार्चिरादिगतिप्राप्यत्वमस्तु | अर्धजरत्याश्रयणायोगात् । 'कार्य बादरिरस्य गत्युपपत्तेः '(ब्र. सू. ४- ३-७) इति सूत्रे 'अप्रतीकालम्बनान्नयतीति बादरायणः उभयथा 'च दोषात् तत्क्रतुश्च' (ब्र. सू. ४-३-२५) इति सूत्रे च चतुर्मुखस्यार्चि रादिगतिप्राप्यत्त्व समर्थनात् । तस्मान्मुक्तस्य गतिप्रतिपादकं शास्त्रं सर्वमपीदं मुक्त्यभिप्रायमिति न किञ्चिदनुपपन्नमिति ।

अत्रोच्यते । अर्चिरादिगतिप्राप्यो लोकश्चतुर्मुखलोक इति नाङ्गीकार्यम् । तलवकारसानि सप्तमो ब्रह्मलोक इत्युपक्रम्य प्रवृत्तेः । 'इतःपरस्मात् पर उत्तरस्मात् परस्तृतीयादथ वा चतुर्थात् । सहस्त्रस्थूणेविमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते इति चतुर्मुखलोकात् तस्य परत्वश्रवणात् । याज्ञवल्क्यस्मृतौ ॥

ऊर्ध्वं मे कः स्थितस्तेषां यो भित्वा सूर्यमण्डलम् ।

ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥

इति मुक्तस्य ब्रह्मलोक्रातिक्रमोक्तेः । ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते । देवा अपिन्न पश्यन्ति दिव्यतेजोमयं शिवम् । अत्यर्कानलदीप्तम् तत् स्थानं विष्णोर्महात्मनः । इत्यारण्यपर्वणि ।

ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् । - इति मुद्गलोपाख्याने च ॥

मुक्तप्राप्यविष्णुलोकस्य चतुर्मुखलोकात्परत्वोक्तेश्च ।

'आब्रह्मभुवनाल्लोकाः पुनरावृत्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ (भ.गी. अ. ८, श्लोक १६)

इति चतुर्मुखलोकं प्राप्तानां पुनरावृत्तिप्रतिपादनात् अर्चिरादिप्राप्यलोकस्यापुनरावृत्तिप्रतिपादनेन च भिन्नत्वावश्यम्भावाच्च । आङोऽभिविध्यर्थत्वे अनन्यथासिद्धप्रमाणाभावेन मर्यादार्थत्वस्यैवाङ्गीकर्तव्यत्वाच्च । न च महामेरुस्थितब्रह्मभवनविषयं गीतावचनमिति युक्तम् । तथा सङ्कोचे कारणाभावात् । ननु विष्णुलोकस्य ब्रह्मलोकात्परत्वाङ्गीकारे विष्णुपुराणवचनविरोधः ।

तत्र-

ऊर्ध्वोत्तरं ऋषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।

एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥

(निर्धूत) निरुद्धदोषपङ्कानां यतीनां संयतात्मनाम् ।

स्थानं तत्परमं विप्र पण्यपापपरिक्षये ॥

अपुण्यपुण्योपरमे क्षीणाशेषार्तिहेतवः ।

यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥

दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् ।

विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥

धर्मवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।

तत्साष्ट्रर्थोत्पन्नयोगेद्धाः तद्विष्णोः परमं पदम् ॥

यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम् ।

भाव्यं च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥

यस्मिन् प्रतिष्ठितो भास्वान् मेघीभूतस्त्वयं ध्रुवः ॥

इत्यादिना सप्तर्षिमण्डलादूर्ध्व यत्र ध्रुव उपस्थितस्तत्रैव विष्णुलोकस्योक्तिरिति चेन्न । तस्य लोकस्य ध्रुवप्रीत्यर्थे विष्णुना कल्पितत्वेन अर्चिरादिप्राप्यविष्णुलोकान्यत्वात् । "ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् " इति भारतवचनस्यैव तथा कल्पकत्वात् । अन्यथा तद्विरोधापत्तेः । न च विष्णुलोकस्यापि कार्यत्वमिति शङ्कयम् । पूर्वोदाहृतभारतवचनेन तन्नित्यत्वसिद्धेः । न च बहुकालावस्थितत्वरूपमेव तन्नित्यत्वमिति युक्तम् । मुख्यनित्यत्वाङ्गीकारे बाधकाभावात् । अन्यथा आत्मादिनित्यत्वमपि तथा स्यात् । न च कृतानादिप्रसङ्गेन आत्मादिनित्यत्वं मुख्यं लोकविशेषस्य नित्यत्वानङ्गीकारे च न किमपि बाधकमिति वाच्यम् । विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' इत्यादिश्रुत्याऽऽत्मविनाशस्य प्रतिपन्नत्वेन कृतानादिप्रसङ्गस्य सह्यत्वादविनाशी वा अरेऽयमात्मेत्याद्युत्तरवाक्यानुसारात् 'न जीवो म्रियते ' इत्यादिवाक्यान्तरानुसाराच्च विनाशित्वप्रतिपादनमन्याभिप्रायमिति चैत् । भ्रान्तोऽसि । लोकविशेषस्य नित्यत्वप्रतिपादनवत् आत्मनित्यत्व प्रतिपादनस्यापि बहुकालावस्थायित्वरूपगौणनित्यत्वप्रतिपादनपरत्वमस्त्विति वदन्तं प्रति तथोक्त्ययोगात् । प्रत्युत मुक्तप्राप्ये लोके अनित्यत्वसाधकमानाभावेन मुख्यनित्यत्वस्यैवाभ्युपगन्तव्यत्वाच्च । न च लोकत्वादिहेतुना तदनित्यत्वसिद्धिः । तदसिद्धावाश्रयासिद्धेः । 

तत्सिद्धौ च वाघात् । तस्योदाहृतश्श्रुतिस्मृतिभिर्नित्यत्वेनैव सिद्धेः । अन्यथा आत्मादेरपि ज्ञेयत्वादिना अनित्यत्वजडत्वादिकमपि स्यादिति यत्किञ्चिदेतत् ।

किं चार्चिरादिगतिप्राप्यो लोकश्चतुर्मुखलोक इति कुतोऽभ्युपगम्यते । किं परब्रह्मणः सर्वगतत्वेन नित्यप्राप्तत्वेन गत्यनपेक्षत्वात् । किं वा मुक्तस्य गतिनिषेधात् । यद्वा ब्रह्मीभावस्यैव मुक्तितया तत्सिद्धये गत्यनपेक्षणात् । अथवोक्तात्सर्वस्मादपि । नायः । परब्रह्मणः सर्वगतत्वेऽपि शास्त्रबलेन देशविशेषावच्छेदेन तत्प्राप्तेरभ्युपेयत्वात् । अन्यथा तत्प्रतिपादन वैयर्थ्यस्योक्तत्वात् । न द्वितीयः । मुक्तौ साक्षाद्गति-निषेधकवाक्यस्यादर्शनात् । 'यत्रायं पुरुषो म्रियते उदस्मात् प्राणा उत्क्रामन्ति आहो नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते इत्यार्तभागप्रश्नोत्तरस्याविद्वद्विषयत्वेन तत्र प्रश्नोत्तरयोः प्राणनिष्क्रमण-निषेध सिद्धजीवावधिकाभिप्रायत्वात् । जीवस्य प्राणानां च सहोत्क्रमण-प्रतिपादनपरत्वाच्च । तथा च श्रुतिः । 'तमुत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति " इति ( का ?) जनकयाज्ञवक्ल्यसंवादस्य विद्वद्विषयत्वेऽपि न तस्मात्प्राणा उत्क्रामन्तीति माध्यन्दिनपाठानुसारेण प्राणोत्क्रमणनिषेधपरस्य जीवावधिकत्वविषयत्वकल्पनात् । "नामरूपाद्विमुक्तः । परात्परं पुरुषमुपैति दिव्यमिति श्रुत्यंतरानुसारेण तथैव कल्पनीयत्वात् । न चैवं यदा सर्वे प्रमुच्यते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुते (कण्ठक. २-३-१४) इत्युत्तरवाक्यविरोध इति वाच्यम् । तस्योपासनकालीन गौणामृतत्त्वरूपब्रह्मानुभवप्रतिपादनपरत्वेन विरोधाभावात् । त्वयापि कर्तृकर्म विरोधेन तथैवाभ्युपगंतव्यत्वात् । एतेन न तस्य प्राणा उत्क्रामन्तीति उत्तरतापनीय वाक्यमपि व्याख्यातम् । उताविद्वानमुं लोकं प्रेत्येति तैत्तिरीयेऽपि प्रश्नस्य मोक्षे आनंदानुभव तदभावविषयत्वेन गतितदभावाविषयत्वात् । रसं ह्येवायं लब्ध्वानन्दीभवति एषह्येवानन्दयातीत्यानंदानुभवस्य प्रतिपादनात् । तस्मान्नमुक्तस्य क्वापि गतिनिषेधः ।

नापि तृतीयः । जीवस्य ब्रह्मभावो मोक्ष इत्यस्य पूर्वमेव दूषितत्वात् । अत एव न चतुर्थोऽपि । तस्मादनुपपत्यभावादचिरादिगति प्राप्यो लोकोऽनित्याच्चतुर्मुखलोकात् भिन्नो नित्यश्चाभ्युपगंतव्यः । अस्तु वा मुक्तानां गतिनिषेधः । "अत्रैव केचिन्मुच्यन्ते नोत्कामंति कदाचनेति" (गरुडपुराणे ) तथाविधानां मुक्तानां अस्माभिरंगीकारादिति ।

किं च कौषीतकीनामुपनिषदि ' स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रेति' इत्यर्चिरादिगतिप्राप्ये ब्रह्मणि नपुंसक ब्रह्मशब्दोऽपि श्रुत इति न तस्य चतुर्मुखरूपत्वम् । विरजां नदीं, इति ईल्यवृक्षादीनां प्रतिपादनेऽपि न कश्चिद्दोषः । एतेषामत्यंत विलक्षणत्वात् । मानांतर विरोधाभावे शास्त्रसिद्धस्यार्थस्य सर्वस्याप्यंगीकार्यत्वात् ।

कावेरी विरजातोयं बैकुण्ठं रंगमंदिरम् ।

स वासुदेवो रंगेशः प्रत्यक्षं परमं पदम् ॥ इति

कावेर्यादेर्विरजातोयत्वादिना निरूपणदर्शनाच्च । अन्यथा चतुर्दश भुवनांडतब्द हिरारणादीनामप्यनंगीकार्यत्वं स्यात् । एवं छांदोग्य-बृहदारण्यकादिगतान्याचिरादिगतिप्रतिपादकवाक्यांतराण्यपि नित्य-विष्णुलोकप्रतिपादन पराणीति स्थितम् । तस्माच्चतुर्मुख शिव लोकाद्यपेक्षयाप्यूर्ध्व विद्यमानः शाश्वतो विष्णुलोक एव मुक्तप्राप्य इति स्थितम् ।

ननु शिवधर्मोत्तरादिषु,

ज्ञेयं विष्णुपदादूर्ध्वं दिव्यं शिवपदं महत् ।

भोगसंस्थानमतुलं कर्मयोगरतात्मनाम् ॥

इति विष्णुपदादूर्ध्वं कर्मप्राप्यं शिवलोकमुक्त्वा,

ऊर्ध्वम् शिवपुरात् ज्ञेयं स्थानत्रयमनुत्तमम् ।

नित्यं परमशुद्धं च स्कंदोमाशंकरात्मकम् ॥

ये संप्राप्ताः परं स्थानं ध्यानयोगरता नराः ।

न तेषां पुनरावृत्तिर्घोरे संसारमण्डले ॥

इत्यादिना विष्णुलोकस्य कर्मप्राप्यशिवलोकादधस्तनत्वस्य सर्वोत्तमपरमशिवलोकस्यैव मुक्तप्राप्यत्वस्य च प्रतिपादनात् कथं विष्णुलोकस्य परमत्वमुपपद्यते । तदपेक्षया परस्य शिवलोकस्य मुक्तप्राप्यत्वेऽपि न दोषः । ततः परस्य वैकुंठस्यापि मुक्तप्राप्यत्वोपपत्तेः । न चैवं विरोधः । क्रमेण तदुभयोपपत्तेरिति चेन्न । चतुर्मुखलोके मुक्तप्राप्यत्वस्यापुनरावृत्तिञ्चैवमेवाभ्युपगंतव्यत्वात् । न च विष्णुलोकप्राप्त्यनंतरं शिवलोकप्राप्तिरिति वैपरीत्यं शंक्यम् । शिवापेक्षया विष्णोरेवोत्कृष्टत्वस्य पूर्वमेव प्रतिपादितत्वेन तथाविधशंकानुदयात् ।

'सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा ।

मां प्राप्य न निवर्तंते विष्णुं वा शुभलोचने ॥ इति भारतवचनमपि अस्मदभिमतक्रमप्राप्तिपरम् । तत्र पाठक्रमानुसारेण पूर्वम् शिवलोकप्राप्त्यनंतरं विष्णुलोकप्राप्तिरिति अर्थस्याश्रयणीयत्वात् । पाठक्रमस्यापि क्रमनियामकत्वात् । सति संभवे त्यागायोगात् । न हि प्रकृते पाठक्रमस्य त्यागे किंचित् बाधकमस्ति । तस्मात् विष्णुलोकस्यैव सर्वोत्तमत्वमर्चिरादिमार्गेण मुक्तप्राप्यत्वं चेति स्थितम् ।

ननु अर्चिरादिमार्गः श्रुतिध्वनेकधा श्रूयत इति तस्य ब्रह्मप्राप्तौ विकल्पस्यान्न च स युज्यते तस्याष्टदोषदृष्टत्वात् इति चेन्न । त श्रुत्यर्थपाठाद्यनुसारेण गुणोपसंहारन्यायेन सर्वशाखाप्रत्ययन्यायेन अर्चिरादिमार्गस्य एकरूपत्वोपगमात् । एतावांस्तु मेदः । ज्वलन दिवसज्योत्स्नापक्षोत्तरायणवत्सरान् । पवनतपन प्रालेयांशून्यक्रमादविरचितिं जलचरपति देवाधीशं प्रजापतिं आगतस्तरति विरजारेवावस्ततः परमाद्भुतमित्येवं रूपः क्रमः परैरुपेयते अस्माभिस्तु "उत्कांतस्तु- शरीरत्वात् गच्छत्यर्चिषमेवतु । ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽऽतिवाहिकः । ततोऽहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च। सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमं " इति ब्रह्मतर्कवचनानुसारेण प्रकारान्तरेण अयमभ्युपगम्यते । युक्तं च तथा अस्मदभिमतक्रमस्य सर्वज्ञभगवद्वयासप्रणीतब्रह्मतर्कवचनसिद्धत्वात् । अर्वाचीन-पुरुषबुद्धिकल्पितमार्गक्रमस्य त्याज्यत्वात् । तस्मादचिरादिमार्गेण ब्रह्म-प्राप्तस्य मुक्तस्य स्वानंदानुभवमोक्षः | न तु निर्विशेषब्रह्मभाव इति स्थितम् ।

किं च निर्विशेषस्य ब्रह्मणः कथं जगत्कारणत्वं ज्ञानचिकीर्षाकृतीनां कर्तृत्वप्रयोजकत्वात् । निर्विशेषे तदभावात् ज्ञानचिकीर्षाकृतयः काल्पिताः संतीति चेन्न । कल्पनायास्तु सर्वत्र सुलभत्वेनातिप्रसंगात् । तेषां कल्पितत्वे " स्वाभाविकी ज्ञानबलक्रियाचेति श्रुत्या (श्वेताश्व अ. ६ मं. ८) धर्मि समसत्ताकत्वरूप स्वाभाविकत्वोक्तिविरोधापाताच्च । ब्रह्मणः कर्तुत्वमिच्छता स्वसमानस्वभावज्ञानचिकीर्षाकृत्यादिकं वक्तव्यमिति न तन्निनिर्विशेषत्वसिद्धिः । निर्विशेषत्वे च न कर्तृत्वसिद्धिः इत्युभयतः पाशारज्जुः । नचेश्वरस्य कर्तृत्वं निर्विशेषस्य तु उपादानत्वमिति वाच्यम् । अभिन्ननिमित्तोपादानं तद्ब्रह्मेति त्वन्मतहानेः वास्तवाभेदमादाय अभिन्ननिमित्तोपादानत्वव्यवहार इति चेन्न । त्वयैव प्रत्यधिकरणं वास्तवाभेदे विद्यमानेऽपि व्यावहारिक भेदमंगीकृत्यैव तत्तद्विषय-वाक्यानां जीवातिरिक्ते ईश्वरे समन्वयस्य अंगीकृतत्वेन अत्रापि व्यावहारिक व्यवस्थायाः अभ्युपेतत्वात् । अन्यथा सर्वसंकरापत्ते: । " जीव ईशो विशुद्धा चिदिति " चैतन्यत्रैविध्यस्य प्रमाणसिद्ध व्यवस्थाया अंगीकृतत्वेन तत्यागायोगात् । न च ईश्वरस्यैव कर्तृत्वं उपादानत्वं चेति वाच्यम् । निर्विशेषमेव ब्रह्म जगदुपादानमिति त्वन्मतहानेः । ईश्वरस्यापि त्वन्मते कल्पितत्वेन उपादानत्वायोगाच्च

किं च निर्विकारस्य ईश्वरस्य कथमुपादानत्वम् । तस्य कूटस्थनित्यत्वात् । न च मायाद्वारकं तस्योपादानत्वं न साक्षात् एवं च न निर्विकारश्रुतिविरोध इति वाच्यम् । तथा सति मायाया एवोपादानत्वमुक्तं न तु तदवच्छिन्नब्रह्मणः । एवं च मायां तु प्रकृतिं विद्यात् इति श्रुतिरपि (श्वेताश्व. अ. ४ मं. १०) अनुकूलिता भवति ।

ननु शुद्धं ब्रह्मैव उपादानम् । न च निर्विकारश्रुतिविरोधः । वियदादिकार्य प्रपंचस्य मिथ्यात्वोपगमात् । कल्पितविकारस्य चास्तवनिर्विकारत्वाविरोधित्वात् । कल्पितस्य स्फटिकलौहित्यस्य ( तच्छुभ्रत्वाविरोधित्वदर्शनात् ) वास्तव स्फटितस्वरूपविरोधादर्शनात् । एवं च ब्रह्मणो विदादिकार्यात्मना परिणम्यमानत्वेन उपादानत्वाभावेऽपि वियदाद्यात्मना विवर्तमानत्वेन उपादानत्वं युक्तम् । शुक्त्यादेः रजतात्मना विवर्तमानत्वदर्शनात् । न च परिणामविवर्तयोरभेदः । तात्विको अन्यथाभावः परिणामः अतात्विकः अन्यथाभावः विवर्त इति तयोर्भेदात् । वेदांतिभिः वियदादेः ब्रह्मविवर्तत्वस्यैव उपगमात् । अत एव वेदांतवादस्तु विवर्तवाद इति उद्घोषः । इति । मैवम् । ब्रह्माधीनोत्पत्तिस्थितिनाशस्य वियदादिप्रपंचस्य अतात्विकत्वाभ्युपगमस्य पारिभाषिकत्वात् अनित्यत्वपर्यवसन्नत्वाच्च । अतात्विकत्वे उत्पत्यादेः उत्पन्नत्वे च अतात्विकत्वस्यायोगाच्च । न च अतात्विकस्य शुक्तिरूप्यादेः उत्पत्यादिकमिव तथाभूतवियदादेरप्युत्पत्यादिकं युक्तमिति वाच्यम् । सिद्धमसिद्धेन बोधयतो महानैय्यायिकत्वमिति न्यायापातात् ।

किं च परमते शुक्तिरूप्यादिदृष्टांतेन जगन्मिथ्यात्वसाधनमनुपपन्नम् । उत्पत्तिस्थितिनाशादियुक्तस्य जगतो अत्यंतासतः शुक्ति-रूप्यादेश्चात्यंत वैलक्षण्यात् । ननु शुक्तिरूप्यादिकं उत्पद्यते । तथाहि । इदं रजतमिति भ्रमस्थले प्रतीयमानं तावद्रजतं नासत् । असतोऽपरोक्षप्रतीतिविषयत्वस्य काप्यनुपलंभात् । दोषमहिना असतोप्य परोक्षप्रमिति (प्रतीति) विषयत्वं युक्तमिति चेन्न । असतः कथमपरोक्षप्रमिति-विषयत्वमिति वदतं प्रति प्रमितकार्यकल्प्यदोषेण तदुपपादनायोगात् । न व बाधावतारदशायां नास्ति नासीत् न भविष्यतीति प्रतीत्या त्रिकालसर्वदेशीयनिषेप्रतियोगित्वरूपासत्वस्य शुक्तिरूप्येऽवगाहनात् असदेव तत् रजतमिति वाच्यम् । तथा प्रतीतेः मिथ्याभूतानिर्वचनीयरजतोत्पत्याद्यबाधकत्वात् । प्रतिपन्नरजतेऽत्यंतासत्वानापादकत्वाच्च । अन्यथा त्वन्मते दर्पणे मुखं नास्ति नासीन्न भविष्यतीति प्रतीत्या तत्र प्रतिपन्नस्य मुखस्यात्यन्तासत्वं स्यात् । उत्पत्तिश्चनांगीकार्यास्यात् । एतावांस्तु विशेषः त्वया दर्पणे मुखमित्यादौ प्रतिबिम्बोत्पत्तिरंगीकृता । प्रतिबिम्बस्य सत्यत्वं चांगीकृतम् । माया तु इदं रजतमित्यत्र अनिर्वचनीयरजतोत्पत्तिरंगीकृता । त्वया दर्पणे मुखमित्यादौ प्रतिबिंबोत्पत्तिः अंगीकृता । रजतावयवादिरूपक्लृप्तरजतोत्पत्तिसाग्रयभावे कथं रजतोत्पत्तिरिति शंका च प्रतिबिंबोत्पत्तिप्रतिबंद्या निरस्ता । तस्मात्प्रतिपन्नं शुक्तिरूप्यादिकं नासत् । नादि सत् । सतो बाधायोगात् । अस्य च बाधितत्वात् । न च देशांतरस्थमेव प्रतीयते इति युक्तम् । तस्य चक्षुरसन्निकृष्टत्वेन चाक्षुषज्ञानविषयत्वायोगात् । न च तत्र दोषः सन्निकर्षः । अक्लृप्तत्वात् । नापि ज्ञानलक्षणः सन्निकर्षः  अक्लृप्तत्वादेव अन्यथा व्यवहितवन्ह्यआद्यादेरपि पर्वतादौ चाक्षुषत्वापातात् तदुक्तप्रकारेण प्रत्यक्षसामग्र्या: पुष्कलत्वात् न च तत्र अनुमितिसामग्र्या प्रत्यक्षसामग्र्या: प्रतिबंधः । स्थाणु-पुरुषादिसंशयानंतरं करादिविशेषदर्शने सति पुरुषत्वाद्यनुमित्यापत्तेः तत्प्रत्यक्षानापतेश्च । न च अलौकिकप्रत्यक्षसामग्रयपेक्षया अनुमितिसामग्री प्रबलेति नोक्तदोष इति वाच्यम् । भ्रमरूपविशेषदर्शनानंतरं शुक्तिरूप्यादिप्रत्यक्षानापत्तेः । तदनुमित्यापत्तेश्च । अलौकिकप्रत्यक्ष-सामग्रयपेक्षया प्रमारूपानुमितिसामग्रयेव प्रबलेति चेत् | तर्हि धूळीपटलादौ वह्निव्याप्यधूमभ्रमानंतरं वन्ह्यादिप्रत्यक्षमेव स्यात् । न तु तदनुमितिरिति आस्तां तावत् । तस्मात् भ्रमस्थले देशांतररजतापरोक्षसामग्रयभावेनानिर्वचनीयरजताद्युत्पत्तिः अंगीकर्तव्येति ।

अत्रोच्यते । भ्रमस्थले रजताद्युत्पत्तिः किमनुभवबलात् अभ्युपगम्यते किंवा अन्यथा अनुपपत्या । नाथः तदुत्पत्तेः अननुभूयमानत्वात् । अनुभवे विवदमानस्य उन्मत्तवत् उपेक्षणीयत्वात् । द्वितीये तदुत्पत्यभावे किमनुपपन्नम् । न तावदपरोक्षप्रतीतिविषयत्वम् । भूतले घटो नास्ति इति प्रतियोगिविशिष्टाभावप्रत्यक्षस्य दर्शनात् । पुरोदेशस्थतया अपरोक्षप्रतीतिविषयत्वमिति चेन्न । सूर्यादीनां उदयादि-काले उत्पत्ति विनापि पुरोदेशस्थतया अपरोक्षप्रतीतिविषयत्वदर्शनेन तस्य तदकल्पकत्वात् । पूर्व अविद्यमानस्य तथा परोक्षप्रतीति-विषयत्वमेव तत्कल्पकम् | सूर्यादेस्तु "हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् इत्याद्यागमानुसारेण पूर्व विद्यमानस्यैव अभिव्यक्तिरिति चेत् । कथं शुक्तिरूप्यं पूर्व अविद्यमानमिति भवता निश्चितम् | योग्यानुपलब्धेरिति चेन्न । तावतापि तदुपत्यसिद्धेः समय विशेष संसर्ग्यत्यंताभावरूपत्वेनापि पूर्वं तदविद्यमानत्वस्योपपन्नत्वात् । देशांतरस्थं रूप्यं भ्रमकाले पुरोदेशे केनानीयते इति चेन्न । उत्पत्तिपक्षेप्येवं पर्यनुयोगसंभवात् । उत्पत्तिपक्ष इव आनयनपक्षेऽपि अविद्यादिरूपदोष महिमा न काकभक्षिता । आनयनपक्षे तत् ज्ञानस्य भ्रमत्वं न स्यादिति चेन्न । उत्पत्तिपक्षेऽपि साम्यात् दोषप्रयुक्तमानत्वेन भ्रमत्वं चानयनपक्षेऽपि समानम् । शुक्तिरूप्यं केनचिदानीयमानं न दृश्यते इति चेत् तत्किं उत्पद्यमानं केनचिद्ददृश्यते ? कल्पनं चोभयत्र समानम् । न चानयनपक्षे पूर्वम् तदुत्पादक सामग्री कल्पनीया । ततो वरं प्रतीतिकाल एव तस्या कल्पनमिति वाच्यम् । पूर्वम् लब्धसत्ताकस्यैव उपलंभ इत्यस्य सार्वत्रिकत्वात् । तस्मात् शुक्तिरूप्योत्पत्यनंगीकारे न काप्यनुपपत्तिः । एतेन स्वप्नपदार्थोत्पत्तिवत् प्रतिबिंबोत्पत्तिवच्चशुक्तिरूप्योत्पत्तिरप्यस्तु । अन्यथा तदुत्पत्तिरपि न सिध्येत् इति निरस्तम् । स्वाप्नदृष्टेः अथ रथान् रथयोगान् सृजते (बृ. उ. ६-३-१०) कामं कामं पुरुषो निर्मिमाण इत्यादि (कट. भ. २, वल्ली २, मं ८) श्रुतिसिद्धत्वेन दुरपह्नवत्वात् । स्वाप्नपदार्थानामभावप्रतियोगित्वमात्रेण मिथ्यात्वानापत्तेः । प्रत्युत ईश्वरसृष्टत्वेन तत्सत्यत्वस्यैव दुर्वारत्वाच्च इत्यन्यत्र विस्तरः । प्रमाणमस्तीति चेत् प्रतिबिंबोत्पत्तिः अंगीक्रियताम् । तन्नास्तीति चेत् उत्पत्तिरपि मा भूत् । न तावता स्माकं किंचिदनिष्टम् । शुक्तिरूप्योत्पत्यनंगीकारे तु जगन्मिथ्यात्वमेव न सिध्येत् इति त्वदनिष्टमापद्येत । तस्मात् शुक्तिरूप्योत्पत्तिसिध्यर्थं परेण यतितव्यम् । सा व न संभवतीत्युक्तम् । वस्तुतस्तु प्रतिबिंबोत्पत्तिः अंगीकार्या । तथाहि । न तावद्दर्पणे प्रतीयमानं मुखं ग्रीवास्थं तस्य सर्वावयवावच्छेदेन चक्षुः सन्निकर्षाभावात् । न च दर्पणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुमुवन्ती आभिमुख्येन व्यत्यस्तं दर्शयेन्मुखमित्युक्तप्रकारेण तस्य चक्षुः सन्निकर्षोपपत्तिरिति वाच्यम् । स्वच्छजलादौ यत्र मुखादिप्रतिबिंबः तत्र नायनरश्मीनां प्रतिघाताभावात् । अन्यथा कूपाद्यंतर्गतवालुकाद्यग्रहणापातात् न च तत्र केषांचित् नायनरश्मीनां जलांतर्गमनेऽपि केषांचित् प्रतिहतिः अंगीक्रियत इति वाच्यम् । नायनरश्मीनां एकाकारतया तत्र द्विस्वभावत्वकल्पनायोगात् । बिंबप्रतिबिंत्वाभिमतयोः रूपपरिमाणादिभेदेन देशभेदेन च भेदावश्यंभावेन परावृत्यग्रहणस्य अकल्पनीयत्वाच्च । न च ग्रीवास्थ एव मुखे श्यामिका वक्तृत्वयोः दर्पणस्थत्वस्य च अध्यस्ततया न तदादाय धर्मिभेदसिद्धिः । अन्यथा अंगुल्यवष्टबध्चक्षुषा पुरुषेण प्रतीयमानयोः चन्द्रयोरपि भेदः स्यादिति वाच्यम् । परावृत्यग्रहणस्य दृष्टत्वेन अधिष्ठानज्ञानाभावेन धर्ममात्राध्यासः स्वरूपमात्राध्यासस्य सर्वत्राबाधितत्वायोगेन स्वरूपेणैवाध्यासस्य दुर्वारत्वात् । ननु प्रतिबिंबस्वरूपस्याध्यस्तत्वाभ्युपगमेन तदुत्पत्तिः न सिध्येत् । तव असत्ख्यातिवादित्वात् असतश्चोत्पत्यभावादिति चेत् । भ्रान्तोऽसि । न हि तथापादनं सिद्धांतरीत्या किंतु परावृत्यग्रहणमतरीत्येति न किंचिदनुपपन्नम् । वस्तुतस्तु दर्पणे प्रतीयमानं मुखं नाध्यस्तम् । अधिष्ठानाभावात् । अधिष्ठानासंभिन्नतया प्रतीयमानस्य अध्यस्तत्वात् । न चेदं संसर्गाध्यासमात्रं तस्य तादात्म्याध्यासपूर्वकत्वात् । अन्यथा भूतले घट इत्यादीनामपि अध्यासत्वापातात् । न च निरधिष्ठानोऽयं भ्रमः । तस्य साधिष्ठानत्वनियमात् । एवं च परिशेषात् प्रतिबिंबस्य ग्रीवास्थमुखस्वरूपत्वायोगात् अनध्यस्तत्वाच्च उत्पत्तिः अंगीकर्तव्येति । न चैवं ममैवेदं मुखं इति प्रतीत्यनुपपत्तिः । प्रतिमादौ मम देह इत्यादिप्रतीतिवत् तस्याः सादृश्यनिबंधनत्वात् । रूपपरिमाणादीनां वैलक्षण्यस्य स्फुटं प्रतिभासाच्च । नह्येवं शुक्तिरूप्याद्युत्पत्तौ किंचित्साधकमस्ति । दोषमहिम्ना असत्वेऽपि अपरोक्षप्रतीतिविषयत्वस्य उपपन्नतया तदुत्पत्याद्यसिद्धेः इति अन्यत्र विस्तरः । तस्मात् परमते जगन्मिथ्यात्वं अनुपपन्नम् ।

किंच जगन्मिथ्यात्वे किं प्रमाणम् । एकमेवाद्वितीयं नेहनानेत्याद्या श्रुतय इति चेन्न । तासां तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत । यस्मिन् द्यौः पृथिवीचांतरिक्षं, आत्मन आकाशः संभूतः इत्यादि वाक्यांतरानुसारेण नेयत्वात् । अन्यथा व्याहृतभाषित्वापत्तेः । न अध्यारोपापवादन्यायेन निष्प्रपंचब्रह्मप्रतिपत्यर्थत्वं सप्रपंचवाक्यानां इति वाच्यम् । प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं रं इति न्यायेन मात्रादिवत् परमहितैषिण्या श्रुत्या भ्रममुत्पाद्य तन्निषेधाय प्रवृत्ययोगात् । न हि माता स्वपुत्रादिभ्यो गरं दत्वा तन्निवृत्यर्थम् औषधादौ प्रवर्तमाना दृश्यते । न च श्रुतिः जीवस्य स्वयं भ्रमं नोत्पादयति । किंतु तस्य स्वतः सिद्धभ्रमं निषेधाय अनुवदतीति वाच्यम् । तथा सति अध्यारोपापवादन्यायो दत्तजलांजलिः स्यात् । कर्मकाण्डार्थानां सगुणवाक्यार्थानां सृष्टिवाक्यार्थानां अर्चिरादिवाक्यार्थानां च श्रुत्यैक-समधिगम्यतया तदंशे अनुवादायोगाच्च । न कलंजं भक्षयेदित्याविव निषेध्ये श्रुतितात्पर्याद्यभावेन कर्मसगुणब्रह्मोपासन सृष्ट्य चिरादिगत्यादीनां असिध्या तदननुष्ठानापतेश्च इति यत्किंचिदेतत् । तदभिमताज्ञानं अन्यत्र निरस्तम् । एवं जगन्मिथ्यात्वसिध्यधीनं तन्मतसिद्धप्रक्रियान्तरमपि निरसनीयमिति दिक् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां-शिष्येण सर्वतन्त्र स्वतन्त्रेण विजयीद्रभिक्षुणा विरचिते सर्वसिद्धांत-सारासारविवेचने शङ्करमतभङ्गो नाम अष्टमः परिच्छेदः ॥