स्वाभाविकी ज्ञानबलक्रिया च

॥ अथ यादवप्रकाशमतभङ्गः ॥
इदानीं यादवप्रकाशमतं निराक्रियते ॥

स्वाभाविकी ज्ञानबलक्रिया च

इत्थं हि तन्मतम् । सर्वशक्त्युपेतं स्वप्रकाशं सन्मात्रं ब्रह्म । तच्च सांशम् । केनचिदंशेन ईश्वरात्मना परिणमते | केन चिदशेन जीवात्मना । केनचित्प्रकृत्यात्मना । तत्र सन्मात्रं ब्रह्म निस्तरंग समुद्रस्थानीयम् ।तरंगस्थानीय ईश्वरः । बुद्बुदस्थानीयः पुरुषः । फेनस्थानीया प्रकृतिः । सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयं तदैक्षत, बहुस्यां प्रजायेयेत्यादि (छ. अ. ६, खं. २, मं. १, ३) श्रुत्या सन्मात्रब्रह्मण एव बहुभवनोक्तेः । ब्रह्मणस्तेषां च भेदोSभेदश्चस्वाभाविकः । उभयोरपि श्रुतिप्रतिपन्नत्वात् । तत्र ईश्वरस्य मनोमयो वाङ्मयः प्राणमय इति त्रर्योशाः । ते च सत्वतमोरजः परिणामभूताः मनःशब्देन प्राणरूपेण परिणताः संसारिणां उपकुर्वन्ति । प्राणमयोंऽतर्यामीभूय स एव तत्वतदधिष्ठातृदेवताभिः सह कर्तृत्वं प्राप्नोति । कर्तृभूतजीवांतर्गतो मनोमयः जीवस्य कारयिता भवति । वाङ्मयस्तु सर्वत्र परिणमयिता । पुरुषस्तु सर्ववस्तु भोक्तृ-शक्तियुक्तः । तस्यैव व्यूहभूताः प्रतिशरीरं व्यवस्थिताः अणवोऽनंता जीवनामकाः संचरति । तेषां ब्रह्मांशतया तत्र केषांचित् ब्रह्मगुणानां आवरणं केषांचिदनावरणं च । ते च जीवाः त्रिविधाः । सिद्धा बद्धा मुक्ताश्चेति । सिद्धाश्च द्विविधाः । आजान सिद्धा योगसिद्धाश्चेति । अजानसिद्धा ईश्वरस्योपकरणभूताः । योगसिद्धाः ईश्वरदत्ताणिमादि गुणाविर्भावाः । संसारिणो बद्धाः । बंधश्च त्रिविधः ।प्रकृतिबंधो, वैकारिकबंधो दक्षिणाबंधश्चेति । पृथिव्याद्यष्टप्रकृतिसंपादितो बंधः प्रकृतिबंध: । तद्विकार (रि) शब्दादिसंपादितो बंधो वैकारिकः । कर्मकृतो बंधो दक्षिणाबंधश्चेति । पते च तुषादिवत् जीवमावेष्टय् ब्रह्मगुणाविर्भावप्रतिबंधका भवन्ति । मुक्तास्तु आविर्भूतच्चतुर्गुणाः । ( सत्त्व-गुणाः) (सप्तगुणाः) ते च स्वेच्छया ईश्वराभिन्नाः तद्भिन्नाश्च भवंति ।

पुरुषेश्वरयोः स्वतः परिणामाभावेऽपि हेतुवशात् ज्ञानादिपरिणामयोगित्वमस्ति । प्रकृतिस्तु अचेतनभूता सा च कालपरमाकाशाव्यक्तभेदेन त्रिविधा । कर्मफलदेशविशेषेषु भोक्तृन् नियमयंती प्रकृतिः नियत्यवस्थापन्ना चतुर्विधा च भवति । परिस्पंदानां विशेषकारणं कालः । प्रळयकाले तप्तायः पिण्डांबुवदीश्वरेण एकतामापनायाः शक्त्यवस्थानरूपायाः मूलप्रकृतेः विभागव्यपदेशयोग्या अक्षरशब्दवाच्याद्यवस्था परमाकाशम् । अस्य शब्दपरिणामशक्तियुक्ततया वागक्षर शब्द-वाच्यत्वं भवति । इदमीश्वरं प्रति प्रभेति व्यपदिश्यते । अस्यैव देश-रूपत्वेन देशांतरानपेक्षत्वम् । परमात्मनोऽपि एतद्देश संयोगेन ज्ञानप्रभा, आनंदप्रभा, क्रियाप्रमेत्येवं रूपाः प्रभाः संभवति । ईश्वरानंदप्रभैव पुरुषेषु अभिव्यक्ता विषयसुखव्यपदेशं लभते । क्रियाप्रभातः प्राणरूपा, ज्ञानप्रभातः सत्त्वं क्रियाप्रभातो रजः । वाक्शक्तितः तमश्च जायते । एतेषां सत्त्वादीनां पूर्वोक्तमनोमयादयोऽधिष्ठातारः । नचैवं विप्रक्रियायां मानाभावः ॥ "ईश्वराव्याकृतप्राणभूतैः सिंधुरिवोर्मिभिः यत्प्रनृत्यदिवाभाति तस्मै सत् ब्रह्मणे नमः" इति कात्यायनकारिकया अस्य सर्वस्य संगृहीतत्वात् इति । तदनुपपन्नम् । अत्र तावत् ब्रह्मणः सांशत्वं न संभवति । निष्कलं निष्क्रियं शांतं निरवद्यं निरंजनमित्यादि श्रुतेः (श्वेताश्व अ. ६, मं. १७) । न च तस्याः औपाधिकांश निषेधपरत्वमिति युक्तम् । तथा संकोचे कारणाभावात् । न च पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतंदिवीत्यादि श्रुत्या (पु. सू.) ब्रह्मणः सांशत्वप्रतिपादनात् तथा संकोचः क्रियत इति वाच्यम् । अस्मिन् ग्रामे मन चतुर्थोंऽश इत्यादाविव अत्रापि सर्वभूतानां ब्रह्मांशत्वस्य औपचारिकत्वात् । जडाजडयोः स्वाभाविकांशत्वायोगात् । योगे च सर्व-सांकर्यापातात् । न च ब्रह्मणः निरंशत्वे " बहुस्यां प्रजायेयेति ", " तदात्मानं स्वयमकुरुत ", 'च्च त्यच्चाभवत् ", " येनाश्रुतं श्रुतं भवति " "यथा सोम्येकेन मृपिंडेन सर्वे मृण्मयं विज्ञातं स्यात् " (छां. अ. ६, मं. ३, ४ ) इत्यादि श्रुतिभिः ब्रह्मणो बहुभावस्य एकविज्ञानेन सर्वविज्ञानस्य मृदादिदृष्टांतानां च प्रतिपन्नतया तद्विरोधः स्यात् ।

लांशत्वेतु तत्सर्वम् उपपद्यते इति वाच्यम् । अंतर्यामिरूपेण बहुभवनस्योपपन्नतया ईश्वराव्यक्तरूपेण सांशस्वस्य सिध्यनुपपत्तेः नचांतर्वामिबहुत्वे तस्य सांशत्वमापन्नमिति युक्तम् । अनेक व्यक्त्यात्मकत्वरूपबहुत्वस्यैव सांशत्वप्रयोजकत्वात् । तस्य च परमात्मनि अनभ्युपगमात् । तस्य च एकव्यक्तिरूपत्वात् । न चैवं तत्र बहुत्वं पारिभाषिकं न तु वास्तवमिति युक्तम् । एकस्मिन्नपि ज्ञानस्वरूपत्वानंदस्वरूपत्वादेः विशेषणत्वविशेष्यत्वादेश्च भिन्नभिन्नस्य तत् स्वरूपरूपस्याभ्युपगमेन एकव्यक्तावपि बहुत्वस्य वास्तवस्य अंगीकर्तव्यात् । एकविज्ञानेन सर्व विज्ञानं च सर्वस्य ब्रह्मांशत्वाभावेऽपि संभवति । ब्रह्मज्ञानेन पुण्य-पापादिनिवृत्तेः इव । सर्वविषयज्ञानोत्पत्तेरेव तत्र प्रतिपादनात् । न हि धूमादिज्ञानेन वन्ह्यादि ज्ञायते इत्येतावता एकसंबंधिदर्शनेन अपरः संबंधि स्मर्यत इत्येतावता तत्रांशांशिभावो अभेदो वास्ति । तच संबंधिविशेषस्य नियामकत्वे प्रकृतेऽपि तथास्तु |
किं च सन्मात्रं ब्रह्मैवेश्वरान्याकृतपुरुषरूपेण परिणमत इत्ययुक्तम् । ब्रह्मणः कूटस्थनित्यत्वात् । कारणरूपमेकाकारं परं ब्रह्मेति तस्य सत्तर्केरेकरूपत्वप्रतिपादनात् । निष्क्रियमिति निर्विकारत्व " प्रतिपादनाश्च " । न चास्य कश्चित् जनिता न चाधिपः गौरनाद्यंतवती (मंत्रिकोपनिषत् मं. ५) न जायते म्रियते वा विपश्चित्, “ अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ " तदनंतर-संख्यातमसंख्यातप्रमाणकम् । नित्यः सर्वगतः स्थाणुः अचलोयं सनातनः (भ.गी. अ. २, श्लोक २४ ) इत्यादिश्रुतिस्मृतिभिः ईश्वराव्याकृतपुरुषाणां अनाद्यनंतत्वावेदनेन तेषां सन्मातृब्रह्मविकारत्वायोगाच्च जीवानां उत्पत्ति-विनाशाभ्युपगमे कृतहानाकृताभ्यागमप्रसंगाच्च । न व परिणममानसन्मात्रब्रह्मानुवृत्या न कृतद्दानादिप्रसंग इति युक्तम् । तावन्मात्रस्य जीवशब्दार्थत्वाभावात् । जीवस्य च प्रळयादौ नष्टत्वात् सन्मात्रमह्मणोऽनुवृत्ततया जीवस्य च व्यावृत्ततया तयोरमेदायोगाच्च ।
किं च ईश्वरातिरेकेणानुवृत्तब्रह्मसद्भावे मानाभावः । ईश्वरस्यैव सर्वजगत्कारणत्वात् । तस्यैव सर्ववेदान्तप्रतिपाद्यत्वात् । एतेन ईश्वरस्य मनोमयः वाङ्मयः प्राणमय इति त्रयोशा इति निरस्तम् । मनोवाक्प्राणशब्दार्थानां प्रसिद्धानां ईश्वराभिन्नांशत्वाभावात् । भिन्नांशत्वोपपत्तेश्च । तेषां तदभेदायोग्यार्थांतरत्वे च न काचित् क्षतिः । अस्माभिरपि संकर्षणादीनामीश्वरव्यूहरूपत्वाभ्युपगमात् । मनोमयवाङ्मयप्राणमयाः सत्वतमोरजः परिणामभूता इत्यसंगतम् । तेषां चेतनतया तत्परिणामत्वायोगात् । अचेतनत्वे च ईश्वरव्यूहत्वायोगात् । एवं प्राणमयस्यांतर्यामितया कर्तृत्वं मनोमयस्य कारयितृत्वं वाङ्मयस्य परिणामयितृत्वं इति कल्पनं च प्रमाणाभावेनानादरणीयम् ।
किं व भोक्तृत्वशक्तियुक्तस्य पुरुषस्य व्यूहभूताः प्रतिशरीरं व्यवस्थिता-जीवा इत्ययुक्तम् । प्रतिशरीरं जीवानां भिन्नत्वात् । व्यूहशब्देन अभेदविवक्षायां सुखदुःखादिव्यवस्थानुपपत्तेः । विकारविवक्षायां च कृतहानादि-प्रसंगात् । जीवत्रैविध्याद्युपपादनं तु नात्यंतविरोधि इत्युक्तम् । जीवाश्च स्वेच्छया ईश्वरभिन्नाः तदभिन्नाश्च भवतीत्यनुपपन्नम् । प्रमाणाभावात् । न च " ब्रह्म वेद ब्रह्मैव भवति " (मुं. ३-२-९ ) " ब्रह्मविदाप्रोति परं " ( तै. घ. वल्ली प्रथमानुवाकः) इत्यादिश्रुतिभिः मोक्षे भेदाभेदयोः उभयोरपि प्रतिपादनात् उभयसिद्धिरिति वाच्यम् । तथासति सर्वेषां वेदांतानां यथाश्रुतार्थपरत्वापातेन मीमांसावैयर्थ्यप्रसंगात् । कालपरमाकाशाव्यक्तनियतिरूपेण मूलप्रकृतिचातुर्विध्यं चायुक्तम् । कालतत्त्वस्य प्रकृतितो अत्यंतभिन्नत्वात् । कालस्य सामान्यकारणत्वेन परिस्पंदं प्रति विशेषकारणत्वोक्तययोगाश्च । मूलप्रकृत्यव्यवहितावस्थारूपपरमाकाशसद्भावे मानाभावाच्च । महत्तत्वस्यैव मूलप्रकृत्यव्यवहितावस्थात्वात् । महत एव परमाकाशशब्दवाच्यत्वाभ्युपगमे न तो हानिः । परमाकाशस्य ईश्वरप्रभात्वपरिभाषायाः न किंचित् प्रयोजनम् । परमात्मनः परमाकाशसंबंधेन ज्ञानप्रभा आनंदप्रभा क्रियाप्रभा इत्येवं रूपाः प्रभाः संभवतीत्युक्तिश्च अनुपपन्ना । " स्वाभाविकी ज्ञानबलक्रिया चेत्यादि श्रुत्या " (श्वेताश्व अ. ६, मं८) ईश्वरज्ञानादीनां अनन्याधीनत्वरूपस्वाभाविकत्वस्य प्रतिपन्नत्वात् ।
किं च ईश्वरानंदप्रभैव पुरुषेषु वैषयिकसुखरूपेण अभिव्यज्यते 'इत्यनुपपन्नम् । वैषयिकसुखस्य ततो भिन्नत्वात् । एष होवानंदयातीत्यादि-श्रुत्या ईश्वर हेतुकानंदांतरोक्तेश्च । न च एतस्यैव आनंदस्य अन्यानि भूतानि मात्रामुपजीवंति । 'रसंह्येवायं लब्ध्वा आनंदीभवति' ( तै. उ. नं. वल्ली. ७ अनुवाकः ) इत्यादि श्रुत्यंतरपर्यालोचनया ब्रह्मानंदस्यैव वैषयिकानंदरूपत्वं सिध्यतीति युक्तम् । तथासति 'परीक्ष्य लोकान्, कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः (प्र. मुं. मं. १२) कृतेन तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते । "अंतवत्तु फलं तेषां तद्भवत्यल्पमेधसां" ( ) इत्यादि श्रुति-स्मृतिभिः वैषयिकानंदानित्यत्वप्रतिपादनपूर्वकं तत्र वैराग्यप्रतिपादनानुपपत्तेः । लौकिकवैदिकतत्तत्सामग्रयधीनानां तरतमभावापन्नानां वैषयिकसुखानां ईश्वरानंदरूपत्वाभ्युपगमायोगाश्च । न च तदभिव्यक्त्यर्थे सामग्री कल्पनमिति युक्तम् । तथासति घटादावपि सामग्रयाः अभिव्यक्त्यर्थत्वापत्तेः । तथाचोत्पत्तिः क्वापि न सिध्येत् । वैषायिकदुःखस्य सामग्रीजन्यत्ववत् तथाविधसुखस्यापि सामग्रीजन्यत्वाश्यंभावाच्च
एतस्यैव आनंदस्य अन्यानि भूतानि मात्रामुपजीवंति इत्यादि श्रुतिस्तु विषयजन्यानंदेषु ब्रह्मानंदादत्यंत वैलक्षण्यप्रतिपादनपरा । तदेक-देशत्वं च भेदेप्युपपन्नमिति न कश्चिद्दोषः । एतेन ज्ञानप्रभातः सत्वं क्रियाप्रभातो रजः वाक्शक्तितः तमश्च जायते । एतेषां च मनोमयादयोऽधिष्ठातारः इति निरस्तम् । " सत्त्वं रजस्तम इति गुणाः प्रकृति- संभवाः " (भगी. अ. १४, लो. ५) इति सत्त्वादीनां प्रकृतिजन्यत्वावगमात् । न च ज्ञानप्रभादीनां सत्त्वादिकं प्रति निमित्तत्वं प्रकृतेः तदुपादानत्वमिति वाच्यम् । इष्टापत्तेः । अस्माभिरपि ईश्वरज्ञानादीनांसत्त्वाद्युत्पत्तिनिमित्तत्वोपगमात् । किं च सत्त्वादीनां मनोमयादयोऽधिष्ठातार इत्यनुपपन्नम् । मनोमयादीनां सत्त्वादिगुणकप्रधानकार्यतया तदधिष्ठातृत्वायोगात् । मनोमयादिशब्देन विष्णूरुद्रोब्रह्मा च विवक्षितः इति चेत् तथा विवक्षायां कारणाभावात् । विष्णोः सत्त्वप्रेरकत्वस्य ब्रह्मणि रजःप्रेरकत्वस्य च श्रुतिस्मृतिसिद्धत्वात् तथा विवक्षेति चेत् अस्तु तावदेवम् । तथापि तेषां मनोमयादिशब्दवाच्यत्वे प्रमाणाभावात् । न च सप्तान्नब्राह्मणे अयमात्मा वांगमयो मनोमय इति परमात्मनः त्रैविध्यस्योक्तत्वात् ब्रह्मविष्णुरुद्ररूपेणैव तत् त्रैविध्यस्य श्रुत्यंतरसिद्धत्वात् मनोमयादिशब्देन तेषामेव ग्रहणमिति वाच्यम् । एतदर्थस्यापि अस्मन्मताविरुद्धत्वात् । विष्णोः सत्त्वमात्रप्रवर्तकत्वं तवानिष्टमिति चेत् न सत्त्वस्यैष प्रवर्तकः इति सर्वप्रवर्तकेऽपि तस्मिन्नसाधारण्येन सत्त्वप्रवर्तकत्वस्यापि प्रतिपन्नतया अस्मन्मताविरोधात् । यत्तुईश्वरोऽव्याकृतप्राणभूतैः सिंधुरिवोर्मिभिः । यत्प्रनृत्यादिवाभाति तस्मै सब्रह्मणे नमः " इति कात्यायनकारिकोक्तं सर्वप्रक्रियामूलमिति तन्न । ईश्वराव्याकृतादीनां ब्रह्मलिंगोपकरणत्वप्रतिपादनेन तद्विकाररूपत्वाप्रतिपादनात् । तत्रत्येश्वरशब्दस्य तमीश्वराणां परमं महेश्वरं ' इत्यत्रेव संकुचितेश्वरपरत्वाभ्युपगमात् । तस्मात् ब्रह्मण एव वियदादिनानाविधपरिणामभागित्वं स्वभावत एव सुरनर तिर्यक्स्थावरनारकिस्वर्गापवर्गचेतनात्मकत्वं तद्वैलक्ष्यण्यं चेति यादवप्रकाशमतं न प्रेक्षावदुपादेयमिति स्थितिः ॥
एतेन भास्करमतमपि निरस्तं वेदितव्यम् । इत्थं हि तन्मतप्रक्रिया-सदादिशब्दवाच्यं ब्रह्म । तच्च सांशद्वयात्मकम् । ईश्वरांशः उपाध्यंश खेति । तत्रेश्वरांशः सदा सर्वशः सर्वशक्त्युपेतश्च । उपाध्यंशस्तु प्रकृत्यादिविभागवान् नित्योऽचेतनरूपो तादृशोपाधिपरिणामविशेषा वच्छिन्ना ईश्वरांशा जीवनामानः संचरंति । तेषां च ' तत्त्वमसि' (छां.
अ. ६-८-७) 'अयमात्मा ब्रह्मो ' (बृ. उ. ४-४-५ ) त्यादिवेदांतप्रति पन्नैक्ययोगबलेनोपाधिसंश्लेषापगमे सतिघटध्वंसे घटाकाशो न भिन्नो नभसो यथे " त्यादिमुक्तविषयस्मृत्यनुसारेण तादृशभेदो नावतिष्ठते । एवं च जीवेश्वरयोः ऐक्यं स्वाभाविकं भेदस्त्वौपाधिकः, अंशभूतयोः ईश्वरोपाध्योः उपाध्यंशानां च परस्परं च भेदोऽभेदश्च स्वाभाविक इति । तदसत् । ब्रह्मणो निरंशत्वस्योपपादितत्वात् । जीवेश्वर भेदौपाधिकत्वस्य निरस्तत्वाच्च । एतावांस्तु विशेषः । शंकरमते भेदो मिथ्याभूतोपाधिकृतः । भास्करमते तु सः सत्योपाधिकृत इति ।
किं च ईश्वरांशोपाध्यंशयोः कथमभेदः । एकस्य सर्वज्ञत्वात् । अन्यस्याचेतनत्वात् । न हि चेतनाचेतनयोः ऐक्यमुपपद्यते । भेदोप्यंगीक्रियते इति चेत् । किमिदम् । कर्णे पृष्टः कटीं चालयसि । विरुद्धयोः कथममेदः इति पृष्ठे भेदोप्यंगीकृत इति उत्तरस्य व्यधिकरणत्वात् । तस्मान्मोक्षेऽपि जीवेश्वरभेदस्य प्रतिपन्नत्वात् औपाधिकभेदवादो अनुपपन्न इति ।
||
इति श्रीमत्परमहंसपरिवाजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थ पूज्यपादानां-शिष्येण सर्वतन्त्र स्वतन्त्रेण विजयीन्द्र भिक्षुणा विरचिते सर्वसिद्धांत-सारासार विवेचने यादव भास्कर मतभङ्गो नाम नवमः परिच्छेदः ||