इदानीं सौगतमतं निराक्रियते
॥ अथ सौगतमतभङ्गः ॥
इदानीं सौगतमतं निराक्रियते ॥
तत्र 'सौगताश्चतुर्विधाः । वैभाषिकाः सौत्रान्तिकाः, योगाचाराः, माध्यमिकाश्चेति ॥
………………………………………………………………………………………………………………………………………………………………….
1. सौगताः सुशोभनं गतं ज्ञानं अस्य सुगतः । प्रशस्ता बुद्धिर्यस्य सः बुद्धः । तथा सम्यग्गतं झानमस्येति तथागतः । यथा मुनयो मोक्षं गताः तथा मोक्षं गत इति वा तथागतः । भगवान् बुद्धः एक एव बोधयिता । तं बुद्धाख्यं देवमनुसरन्तः तच्छिष्याः बौद्धाः । तेषां दर्शनं बौद्धदर्शनम् । सुगतोऽपि बुद्ध एव तच्छिष्याः सौगता इत्युच्यन्ते । ते च वैभाषिकाः सौत्रान्तिकाः योगाचाराः माध्यमिकाचेति चतुर्विधाः प्रसिद्धाः । बोधयितु-र्बुद्धस्य गुरोरेकत्वेऽपि बोद्धव्यानां बुद्धितारतम्यात् चातुर्विध्यम् । तेषु वैभाषिकाः बाह्यार्थप्रत्यक्षत्ववादिनः सर्वास्तित्ववादिनचेति कथ्यन्ते । अनुभवानुसारेण बाह्यार्थाः यथा घटपटादयोऽभ्युपगम्यन्ते तथैव प्रत्यक्षबलात्तेषां प्रत्यक्षत्वमप्यभ्युपगन्तव्यम् । एवं बाह्येष्वर्थेष्वान्तरेषु च प्रत्यक्षेषु सत्सु भगवान् गुरुर्यत्कांक्षित्प्रथमं सर्वं शून्यमित्युपदिदेश ततश्च कांश्चिद्विज्ञानमेव सदिति कांच्चिच्चोभयं बाह्यमान्तरं च सदित्यभिप्रेत्यावस्थितान्विज्ञेयमनुमेयं चेति सेयं बुद्धगुरोर्विरुद्धा भाषेति ब्रुवाणा वैभाषिकाख्यया विख्याताः ||
सौत्रान्तिकाः- सूत्रान्तं पृच्छन्ति ये ते सौत्रान्तिकाः । एते बाह्यार्थानुमेयत्ववादिनः । बाह्यार्थस्य नीलादेरसत्वे विज्ञानमात्रस्यास्तित्वं वक्तुमशक्यम् । तस्माद्बाह्यार्थोऽप्यवश्यमभ्युपगन्तव्य एव । गुरुणा तु भवतु नाम बाह्यार्थः परन्तु स च न प्रत्यक्षः किन्त्वनुमेय इत्युपदिष्टे कियत्पर्यन्तं सूत्रं भवेदिति पृष्टत्वात्ते सौत्रान्तिकसंज्ञया प्रसिद्धाः सौत्रान्तिकाः । योगाचारास्तु गुरुक्तं सर्वं क्षणिकं क्षणिकं, सर्वं दुःखं दुखं, सर्वं स्वलक्षणं स्वलक्षणं, सर्वं शून्यं शून्यमिति भावनाचतुष्टयं बाह्यार्थशून्यत्वं चाङ्गीकृत्य, कथं पुनः सर्वस्य शून्यत्वमवगन्तुं शक्यम् सर्वस्यापि शून्यत्वे विज्ञानस्यापि शून्यत्वापत्या
………………………………………………………………………………………………………………………………………………………………
तत्र वैभाषिकाः प्राहुः
गन्धरसरूपस्पर्शाः सूक्ष्माः क्षणध्वंसिनो निर्बाधा: परमार्थसन्तः । इतरत् स्तम्भमहीरुहादि कृत्स्नं जगत् तत्र कल्पितम् । वेदनं तु स्वप्न-ज्ञानवत् साकारम् । अर्थार्पितो बेदनाकार एव प्रमाणम् । 'नान्यत् । तत्र बाह्यपदार्थाः प्रत्यक्षसिद्धाः । वेदनेषु अर्थाकारे समर्पिते तेनाकारेण बाह्यवस्त्वनुमितिरिति सौधान्तिकं मतम् । अन्यत्समानम् ॥
योगाचारस्तु वाद्यपदार्थानां ज्ञानोपरागं विना भानायोगात् ज्ञानस्यापि अर्थोपरागं विना भानादर्शनात् सहोपलम्भनियमेन सर्वस्य ज्ञानात्मक स्थिते स्तम्भादिभेदबुद्धीनां बाधितविषयत्वात् विज्ञान-व्यतिरिक्तं सर्वं मिथ्येत्याह ॥
………………………………………………………………………………………………………………………………………………………………
जगदान्ध्यं प्रसज्येत । अतो बाह्यार्थस्य शून्यत्वमस्तु । शिष्येण तु द्वयं करणीयमस्ति योगः आचारश्चेति ।
तयोर्मध्येऽज्ञातार्थस्य ज्ञानायाक्षेपो योग इत्युच्यते । गुरूक्तस्यार्थस्याङ्गीकरणमाचारश्चेति निगद्यते । एवञ्च यैः शिष्यै-र्गुरुक्तं भावनाचतुष्टयं बाह्यार्थशून्यत्वञ्चाभ्युपगम्य सर्वशून्यत्वविषये आक्षेपः कृतस्ते योगाचारा इति प्रसिद्धिं गताः ॥
माध्यमिकास्तु मध्यमबुद्धित्वादनेन नाम्ना प्रसिद्धिं प्रापुः । गुरुणा बुद्धेन स्वशिष्येभ्यः सर्वं शून्यमित्युपदेशे कृते ये च शिष्याः गुरूक्तं सर्वमेव यथार्थं मन्यमानाः न कस्मिन्नप्यंशे आक्षेप कृतवन्तस्त एव मध्यमबुद्धित्वात्माध्यमिकाः । भगवता गुरूणा प्रथमं सर्वं क्षणिकं क्षणिकमित्युपदिश्य सर्वस्थायित्वं निराकृतं एवं सर्वं दुःखं दुःखमित्युपदिश्यानुकूलवेदनीयत्वं प्रत्याख्यातं सर्वं स्वलक्षणं स्वलक्षणमित्युपदिश्य सर्वानुगतत्वं खण्डितं, ततश्चान्ते सर्वं शून्यं शून्यमित्युपवर्ण्य सर्वसत्यत्वनिराकरणपूर्वकं सर्वशून्यत्वमेवान्ततो बोधिता वयमिति जानन्तो मध्यमिकाः सर्वशून्यत्ववादिनश्च प्रख्याताः ||
1. तत्र नान्यत् (पा.) ।
………………………………………………………………………………………………………………………………………………………
माध्यमिकास्त्वाहुः । सर्वज्ञबुद्धप्रणीतमेव प्रमाणम् प्रतिक्षणभङ्गप्रत्यक्षार्थभङ्गबाह्यार्थभङ्गधर्मधर्मिभावभङ्गादिकं भिक्षुपादप्रसारणमात्रम् । सर्वशून्यत्वमेव सुगतमतरहस्यम् । 'अहमिदं जानामी'ति ज्ञातृज्ञेयज्ञानरूपेण प्रतीयमानस्यार्थजातस्य प्रबलयुक्तिभिः सदसदुभयकोटिविनिर्मुक्ततया निःस्वभावत्वात् । तदुक्तम् -
न सन्नासन्नसद्सनचाप्युभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥ बुद्धया विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलाप्यास्ते निःस्वभावाश्च दर्शिताः ॥ (लङ्कावतार:) इति ॥
तत्र वैभाषिकमतं तावदनुपपन्नम् । रूपाद्यतिरेकेण तदाश्रयभूतस्वार्थान्तरस्याभ्युपेयत्वात्
……………………………………………………………………………………………………………………………………………………….
1. विवेकविलासे बौद्धमतमेनं निरूपितम्
बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् | आर्यसत्याख्यया तत्त्रचतुष्टयमिदं क्रमात् ॥ दुःखमायतनं चैव ततः समुदयो मतः । मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः || दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ पञ्चेन्द्रियाणि शब्दाद्या विषया: पंच मानसम् । धर्मायतनमेतानि द्वादशायतनानि तु || रागादीनां गणो यस्मात्समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः स स्यात्समुदयः पुनः ॥ क्षणिका: सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥ प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा । चतुष्प्रस्थानिका बौद्धा ख्याता वैभाषिकादयः ||
……………………………………………………………………………………………………………………………………………………….
। अन्यथा दृष्टमेवानुभवामी(स्पृशामी) 'त्यादि-प्रत्यभिज्ञानानुपपत्तेः । त्वन्मते दर्शनस्पर्शनविषययोः रूपस्पर्शयोभिन्नत्वात् । न च सन्घातमादाय तदुपपत्तिः । क्षणभङ्गपक्षे तदयोगात् । एतेन पार्थिवाऽऽप्यतैजसवायव्याश्चत्वारः परमाणवः संहताः सन्तः 'घटोऽयं', 'पटोऽयं', 'स्तंभोऽयमित्येवं रूपेण प्रतीयन्ते न तु ततोऽन्यद्रूपादिकमिति निरस्तम् । आश्रये विद्यमान एव पाकादिना पूर्वरूपनाशे सति रूपाद्यन्तरोत्पत्तेः सर्वानुभवसिद्धत्वात् । परमाणुव्यतिरेकेण तदारब्धस्यार्थान्तरस्याभ्युपेयत्वाच्च । अन्यथा कारकव्यापारवैयर्थ्यात् । प्रत्यक्षत्वानुपपत्तेश्च । न हि परमाणूनां प्रत्यक्षत्वं सम्भवति । अतीन्द्रियत्वात् । न चेष्टापत्तिः । त्वया बाह्यपदार्थस्य प्रत्यक्षत्वोपगमात् । न च परमाणूनामेव विश्लेषावस्थायामप्रत्यक्षत्वेऽपि संहतत्वावस्थायां प्रत्यक्षत्वं युक्तमिति वाच्यम् । अतीन्द्रियपदार्थानां संहनत्वावस्थायां ऐन्द्रियकत्वस्य क्वाप्यनुपलम्भात् । अन्यथा धर्माधर्मादेरपि तथात्वापत्तेः । न च हिमकेशवालुकादीनां संहतत्वावस्थायां ऐन्द्रियकत्वं दृष्टमिति वाच्यम् । तेषां योग्यत्वेन तदानीमपि ऐन्द्रियकतया दृष्टान्तासंप्रतिपत्तेः । अतः घटपटादीनामपि प्रत्यक्षत्वमभ्युपगच्छता पार्थिवादि-परमाण्वतिरेकेण तदारब्धं द्रव्यान्तरमवश्यमभ्युपेयम् । न च 'एको
.......................................................................................................................................................
अर्थों ज्ञानान्वितो वैभाषिकेण बहुमन्यते । सौत्रान्तिकेन प्रत्यक्षाद्योऽर्थो न बहिर्मतः ॥ आकारसहिता बुद्धिः योगाचारस्य सम्मता | केवलां संविद स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ कृत्तिर्कमण्डलुमण्ड्यं चीरं पूर्वाह्न भोजनम् । सङ्घो रक्ताम्बरत्वं च शिश्रिये बौद्धभिक्षुभिः ॥ (वि. वि. ८- २६५ - २७५)
.......................................................................................................................................................
घटः " एकः स्तंभ:' इत्यादि प्रतीतिर्भ्रमः, परमाणुविषयप्रतीतीनामित्व तस्या अपि बाधकाभावेन अभ्रमत्वोपपत्तेः । एतेन ज्ञानं साकारमिति प्रत्युक्तम् । तथात्वे प्रमाणाभावात् । ज्ञानस्यार्थविषयकारित्वस्वाभाव्येन तदतिरेकेण ज्ञानसाकारत्वस्य दुर्वचत्वाच्च । किं च क्षणिकस्वलक्षणविषयं निर्विकल्पकमेव प्रमाणम् । सविकल्पकमनुमानं च कल्पिताकारविषयत्वादप्रमाणमित्यनुपपन्नम् । विकल्प प्रमाण्याभावे तत्सिध्यधीन निर्विकल्पकस्याप्रामाण्यापातात् ।
विकल्पमूलविशिष्टव्यवहारस्य कल्पितविषयत्वे स्वशास्त्रस्ववचनादिविरोधापत्तेश्च । "विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः ॥ तस्यां यद्रूपमाभाति बाह्यमेकमिवार्थतः ॥ व्यावृत्तमिव निस्तत्वं परीक्षानंगभावतः ॥
…………………………………………………………………………………………………………………………………………………………..
1. प्रत्ययो भ्रम इति पाठान्तरम्
2. वस्तुनि भासात् (पा.)
3. कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् ॥ इति पूर्वार्धम् ॥ अस्यार्थो यथा तन्मते ज्ञानं द्विविधम् । निर्विकल्पकं सर्विकल्पकचेति । तत्र निर्विकल्पकं ज्ञानं ग्रहणमित्युच्यते ।
सविकल्पकं ज्ञानमध्यवसाय इति कथ्यते । अनयोर्मध्ये ग्रहणं निर्विकल्पकरूपं प्रमाणम् । कल्पनारहितत्वात् । सविकल्पकरूपोऽध्यवसायः कल्पनाज्ञानत्वादप्रमाणम् । अर्थश्च द्विविधः ग्राह्योऽध्यवसेयश्चेति । एवं च प्रत्यक्षस्थल इन्द्रियसंप्रयोगानंतरं सद्य एव " इदं किश्चित्" इत्येव निर्विकल्पक ज्ञानमुत्पद्यते । तत्र ज्ञाने विषयीभूतो देवदत्तादिरर्थो ग्राह्य इत्युच्यते । स एव पश्चाज्जात्यादिविशिष्टतया ब्राह्मणोऽयं श्यामोऽयं, पाचकोऽयमितित्येवं सविकल्पकज्ञाने विषयीभूतोऽध्यवसेय इत्युच्यते । कल्पितत्वमेवासत्यत्वे तन्त्रमिति बौद्धा मन्यन्ते । यथा वस्तुतः शुक्तौ सत्यां तत्र इदं रजतमिति यज्ज्ञानं जायते तत्कल्पितरजतत्वविशिष्टत्वान्न प्रमाणं तथैव जात्यादीनामपि कल्पितत्वात् तद्विशिष्टमपि ज्ञानं न प्रमाणम् ।
..............................................................................................................................................................
इत्यादिना विकल्पाप्रामाण्यसाधनमप्यनैकान्त्यादिदोषदुष्टत्वादनुपपन्नम् ।
किं व क्षणभंगांगीकारोऽनुपपन्नः । सर्वलोकप्रसिद्धनिर्बाध प्रत्यभिज्ञाविरुद्धत्वात् । न च सेयं दीपकलिकेत्यादिप्रत्यभिज्ञावत् ' स एवायं घट:' इत्यादिप्रत्यभिज्ञाऽपि सादृश्यनिबन्धनेति वाच्यम् । अत्र प्रत्यभिज्ञायाः वस्त्वैक्यविषयत्वे बाधकाभावात् । तंत्र अनन्यथासिद्धसामग्रीभेदादेरेव बाधकत्वात् ।
किं च क्षणिकपक्षे पुण्यपापादिकर्तुः तत्फलभोक्तुश्च भिन्नत्वेन कृतद्दानादिप्रसंग: ।
"" यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा
…………………………………………………………………………………………………………………………………………………………….
कल्पनापोढं कल्पनारहितं, अभ्रांतं सत्यं प्रमाणमिति यावत् । तत् निर्विकल्पकं ज्ञानमिति यावत् । विकल्पः सविकल्पक ज्ञानम् । संवादः सर्वेषामैकमत्येन ज्ञानम् | कल्पितत्वादेव सविकल्प के सर्वेषामैकमत्यं नास्तीत्यविसंवादः । तस्मादप्रमाणम्। तथा कल्पितेन जात्यादिरूपेण ईदृशं ईदृशमित्येवं वस्तु सविकल्पके निर्भास्यते ।
ग्राह्यं निर्विकल्पक ज्ञानविषयीभूतं यत्तद्वस्तु तदेव सत्यम् । ग्राह्यादन्यत् सविकल्पकज्ञानविषयीभूतमव्यवसेयमिति यत्तद्वस्तु न सत्यम् । किन्तु तुच्छम् । ग्रहणसंज्ञकनिर्विकल्पकज्ञानमेव प्रमाणम् । तदन्यत्सविकल्पकमप्रमाणम् । तच्च सविकल्पकं ज्ञानं शब्दजं लिङ्गजं, इन्द्रियादिजन्यं चेति । तदेतत्संगृह्याह-
ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदितोऽन्यथा ।
न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥ इति ॥
1. प्रमाणवत्वादायातः प्रवाहः केन वार्यत इति न्यायेन ( अयोग्यमिति भासमानमपि प्रमाणसिद्धं चेदवश्यं स्वीकार्यमेवेति न्यायतात्पर्यम् ) यत् सत् तत् क्षणिकमित्याद्यनुमानसिद्धं क्षणिकत्वमनुभवानारूढमपि न त्यक्तुं शक्यम् |
..............................................................................................................................................................
इत्यादिदृष्टान्तोऽप्यनुपपन्नः । वासनाधार स्थिरद्रव्यानुवृत्त्यादिना जायमानस्य कार्यविशेषस्य क्षणिकसंतानादिना उपपादयितुमशक्यवात् ।
एवं बाह्यपदार्थेष्वनुमेयत्वं वदन् सौत्रान्तिकोऽपि निरस्तः । तथा विधप्रक्रियायां मानाभावात् । घटपटादीनां प्रत्यक्षसिद्धत्वेन तदनुमेयत्वोक्त्ययोगाच्च ।
किं च बाह्यार्थानुमानं केनचिल्लिंगेनेति वक्तव्यम् । तत्र घट-पटाद्यनुमाने किं लिंगम् । न तावत्तद्विषयं ज्ञानं तस्यैवानिष्पत्तेः । तन्निष्पत्तौ च अनुमानवैयर्थ्यात् । तस्य विषयज्ञप्त्यर्थत्वात् । तदविषयज्ञानेन तदनुमानायोगाच्च । नापि सर्वस्य क्षणिकत्वाद्विषयध्वंसो लिंगम् । त्वन्मते तस्याप्यनुमेयत्वेन तेन प्रतियोग्यनुमानायोगात् । अन्यथा अनवस्थानात् । तस्य प्रत्यक्षवेद्यत्वे च घटादिना किमपराद्धम् ।
………………………………………………………………………………………………………………………………………………………………
बौद्धानां दर्शन आत्मा ज्ञानरूपः क्षणिकानामात्मनां सन्तानं च प्रतिव्यक्तिभिन्नमेव । एवञ्च यज्ञदत्तीयसंतान घटकेन पूर्वक्षणिकेन केनाचिदात्मना कृतस्य कर्मणः फलं तत्संतानवर्तिनैव केनचिदुत्तरक्षणिकेनात्मनोपभुज्यते । नन्वेवमन्येन कृतस्य कर्मणः फलमन्येनोपभुज्येत चेत् सन्तानान्तरवर्तिनाप्यात्मनो पभुज्येत । तथा च देवदत्तकृतकर्मफलोपभोगो यज्ञदत्तस्यापि प्राप्नोति । न चैचं दृश्यते । तत्र कार्यकारणभावस्य नियामकत्वात् । एकस्मिन्नेव संताने तत्तत्पूर्वक्षणिकार्थस्य स्वखोत्तरक्षणिकार्थं प्रति कारणत्वात् देवदत्तीय संतानघटकस्यात्मनो यज्ञदत्तीय संतानघटकेनात्मना सह कार्यकारणभावाभावेनातिप्रसङ्गाभावात् । यथा च मधुररससंस्कृतानामाम्रबीजानां हलादिना विभेदनेन शिथिलीकृतायां भूमावुत्पानामङ्करकाण्डस्कन्धशाखा पल्लवादिपरम्परया तदीयफले माधुर्यं दृश्यते यथावा लाक्षारसावसिक्तानां कार्पासबीजादीनामङ्कुरादि-पारम्पर्येण कार्पासादौ रक्तिमनियमः तद्वत् क्षणिकपक्षे नातिप्रसङ्गः कश्चिदापततीति तेषामभिप्रायः ।
................................................................................................................................................................
ननु घटादिविषयज्ञाने जाते घटादिकं स्वाकारं ज्ञाने समर्प्य क्षणिकतया स्वयं नश्यति । तेन च ज्ञानाकारेणार्थाकारोऽनुमीयत इति चेन्न । घठादिविषयज्ञानस्य पूर्वमेवोत्पत्तावनुमानवैयर्थ्यस्योक्तत्यात् । विषयस्य क्षणिकतया तत् ज्ञानं तत् सत्तानिश्चयरूपं न भवतीति तन्निश्चयार्थमनुमानमावश्यकमिति चेन्न । विषयस्य क्षणिकतया अनुमितेरप्यर्थसत्तानिश्चयरूपत्वायोगेन साम्यात् । विशेष-नियामकाभावेन पूर्वोत्पन्नज्ञानस्यैव विषयसत्तानिश्चयरूपत्वेनांगीकर्तव्यत्वाच |
किं च वैभाषिकमते सौत्रान्तिकमते च जगतः परमाणुसमुदाय-रूपत्वमंगीकृतम् । तदयुक्तम् । तथाहि-
न तावदेकपरमाणुहेतुकः समुदायः । अनभ्युपगमात् । एकत्र समुदाय बुद्धिव्यवहारयोरदर्शनाच्च । नाप्यनेक परमाणुहेतुकः । विरलानेकपरमाणुषु समुदायबुद्ध्यदर्शनात् । नापि मिलितानेकहेतुकः । मेलनस्य समुदायानतिरेके आत्माश्रयात्। तदतिरेके च अपसिद्धान्तापातात् । मेलनस्य संयोगरूपत्वे च समुदायस्यापि ताद्रूप्यापातात् । अतिरिक्तस्यानभ्युपगमात् । अप्रत्यक्षत्वापातात् । क्षणिकानां परस्परसंयोगानुपपत्तेश्चेति तदेतत्सर्वमभि ( प्रेत्य ) संघायोक्तम् ॐ " समुदायउभयहेतुकेऽपि तदप्राप्ति: ॐ इति " । (प्र. सू. २-२-१८)
………………………………………………………………………………………………………………………………………………………………….
1. ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ पाषण्डिषु परमाणुपुञ्जवादिनोर्वैभाषिक सौत्रांतिकयोर्मतमत्र नये निरस्यते । उभयेत्यने कोप लक्षणम् । अपरेकहेतुकत्वपक्षनिराससूचकः । कालकर्मादिनिमित्तेन क्षणिकोऽणुहेतुकः समुदायो भवति । नत्ववयवी कश्चिदस्तीति मते समुदायः किमेकाशुहेतुक उत्तानेकाणुहेतुकः । एकस्मात्समुदाय इत्यस्य व्याहत्यादेराद्योऽयुक्तः । अंत्येऽपिं उभयहेतुके मिलितानेकहेतुके समुदायेंगीकृते सति तदप्राप्तिः । तस्य समुदायस्याप्राप्तिः अनुपपत्तिरित्यर्थः । अणूनां मेळने सति समुदायः तस्मिन्सति मेळनमित्यन्योन्याश्रयादित्यर्थः । विरखानेकहेतुकत्वेतु तादृशाणूनां सदा सत्वात् समुदायोऽपि सदा स्यादिति लयायोगादितिभावः ।
………………………………………………………………………………………………………………………………………………………………….
किं च “पार्थिवाप्यतैजसवायवीयाश्चत्वारः परमाणवः परमार्थ संत: " इत्यनुपपन्नम् । अकाशस्यापि तथाभूतस्य सत्त्वात् । पदार्थान्तराणामिवाकाशस्यापि प्रतीयमानत्वात्प्रतीत्या तदनुमानसंभवाच । अन्यथार्थांतराणामपि तुच्छत्वं स्यात् । अविशेषात् । तस्माद्वैभाषिक सौत्रान्तिकमतमनुपपन्नम् । एवं योगाचारमतमप्यनुपपन्नम् । चिन्मात्रव्यतिरिक्तस्यमिथ्यात्वे प्रमाणाभावात् । न च सहोपलंभनियमात् नीलतद्धियोरभेदे सर्वस्य विज्ञानात्मकत्वे स्वप्नादिप्रत्ययवत् स्तंभादिप्रत्ययानामपि मिथ्यात्वमिति वाच्यम् । सहोपलभस्य भेदसाधकतया तेनाभेदसिध्ययोगात् । विज्ञानजगतोरत्यन्तविलक्षणतया अभेदायोगाच्च । सत्यभूतविज्ञानाभिन्नस्य जगतः सत्यत्वावश्यंभावाच्च । मिथ्याभूतप्रपंपचाभिन्नतया विज्ञानस्यापि मिध्यात्वापत्तेश्च । न च विज्ञानव्यतिरेकेणासत्वमेव विज्ञानाभिन्नत्वं न तु तत्स्वरूपत्वमिति वाच्यम् । तथासति जगदभिन्नत्वं विज्ञानस्यापि तद्व्यतिरेकेणासत्यमिति विज्ञानमिथ्यात्वस्यापि दुर्वारस्यात् । न च न विज्ञानस्य मिथ्यात्वं आरोपाधिष्ठानस्य सत्यत्वनियमादिति वाच्यम् । अन्यथाख्यातिवादिरीत्या आरोप्यस्यापि सत्यत्वनियमेन प्रपंचस्य
……………………………………………………………………………………………………………………………………………………………..
समुदायेऽनेकहेतुकेऽपीति वाच्ये उभयेत्युक्तिः उभौ अवयवौ अस्य मेलनस्य तदुभयमिति समुदितानेकत्वरूपमिलितत्वरूपपक्षलाभाय | "संख्याया अवयवे तयप् ”, “ द्वित्रिभ्यां तयस्पा यज्वा ", " उभावुदात्तो नित्यमिति ” स्मृतेः । यद्वोभशब्दपर्यायोऽत्रोभयशब्दः । सर्वादिसूत्र कैय्यठे उभावुदात्तो नित्यमिति नित्यग्रहणस्य समासादावुभशब्द स्योभयेत्येव रूपमित्येतदर्थज्ञापकत्वोक्तेः । एवञ्चोभयहेतुकः समुदाय इत्यत्रापि मिलितोभयहेतुकः समुदायश्चेदन्योन्याश्रयात्तदप्राप्तिः । विरलोभयहेतुकश्चेत्समुदायः सदा स्यादित्यर्थः । केचित्तु मिलिता विरलाश्चेत्युभये येऽणवस्तदुभयहेतुकेऽपि समुदाये तदप्राप्तिः । तदिति सन्निहितसमुदायो बुद्धिस्थलयश्चोच्यत इति पक्षद्वयस्यापि सूत्र एव निरास इत्याहुः |
……………………………………………………………………………………………………………………………………………………………..
त्वदभिमतमिथ्यत्वासिद्धिप्रसंगात् । माध्यमिकोक्तरीत्या मिथ्याभूतस्यैवाधिष्ठानत्वोपपत्तेश्च । न चाद्वैतिभिरधिष्ठान सत्यत्वमभ्युपगतमिति वाच्यम् । तत्प्रक्रियाया अपि अग्रे निरसनीयत्वात् । योगाचारमतस्यैवाद्वैतिभिरंगीकृतत्वेन तेषां पृथक् समयाभावाच्च । एतावांस्तु विशेषः | योगाचारेण स्वमतं न वेदमूलं किंत्वागममूलमित्यंगीकृतम् | अद्वैतिभिस्तु योगाचारमतमेव औपनिषदीकृतमिति । यथाचैतत् तथोपपादयिष्यते । तस्माद्योगाचारमतमनुपपन्नम् । तदेतत्सर्वमभिप्रेत्योक्तम् । " ॐ न 'भावोऽनुपलब्धे: ॐ " इति । ( ब्र. सू. २-२-३०)
एवं सर्वशून्यवादिनो माध्यमिकस्यापि मतमनुपादेयम् । सर्वशून्यत्वस्य सकलप्रमाणविरुद्धत्वात् । युक्तिविरोधस्य शून्येऽपि वक्तुं शक्यत्वेन शून्यत्वस्याप्यसिद्धयापत्तेश्च । न हि शून्यमेव तत्वं अन्यत् सर्वं मिथ्येति विशिष्य किंचित्प्रमाणमस्ति । किं च जगत्सन्नभवति । असदपि न भवति । उभयात्मकमपि न भवति । उभयविलक्षणमपि न भवति । किं तु चतुष्कोटिविनिर्मुक्तं पंचमप्रकार मिति सर्वथानुपपन्नम् ।
…………………………………………………………………………………………………………………………………………………………………
1. प्रमाणाभावाच्चेति पाठान्तरम् ।
2. ॐ न भावोऽनुपलब्धेः ॐ (२-२-९-३०) अत्र नये विज्ञानमत निराह । जगदिति प्रकृतम् । भवतीति भावः सद्रूपं ज्ञानम् । जगत् भावो ज्ञानात्मकं न ज्ञानमेव जगदाकारेण परिणमत इति नेत्यर्थः । कुतः । अनुपलब्धेः अननुभवात् । प्रमाणाभावादित्यर्थः । उपलब्धिविरोधादित्यप्यर्थ उक्तः । ज्ञानज्ञेययोर्भेदस्य साक्षिसिद्धत्वादिति भावः । ज्ञानमिति वाच्ये भाव इत्युक्तिः “ नासत " इत्युक्तदोषो नेति दर्शयितुम् । केचित्तु प्राप्तौ भुव शुद्धिचिन्तयोरिति कविकल्पद्रुमोक्तेश्चिन्तारूपस्य ज्ञानार्थस्य भुवो रूपमिति भावः युष्माकं भाः साकारत्वेनाभिमतं ज्ञानमिति बाऽभिप्रेत्य भावइत्युक्तिरित्याहुः ॥
..................................................................................................................................................................
" परस्पर विरोधे हि न प्रकारान्तरस्थितिः " ( (न्यायकुसुमान्जलिः ३-८) इति न्यायेन सदसत्वयोः परस्परविरुद्धतया जगतः सदसत्वयोरन्यतरत्वापत्या माध्यमिकोक्त पंचमप्रकारताऽसिद्धेः । सदसदुभयरूपत्वस्याप्यंगीकारेत्वदुक्तव्यवस्थासिद्धयभावापत्तेश्च । नहि सदसदुभयरूपत्वाभ्युपगमे विरोधः । न तु सन्न भवति इत्यादेरभ्युपगम इति विशेषहेतुरस्ति ।
किं च शून्यात् जगदुत्पत्तिरिति कथमंगीक्रियते । भावरूपकारणादेव कार्योत्पत्तेः सर्वानुभवसिद्धत्वात् । शून्यात् कस्याप्युत्पत्तेरदर्शनाच्च । घटादिप्रागभावस्य घटादिकारणत्वमंगीकृतमिति चेत् भ्रान्तोऽसि । न हि वयं अभावस्य निमित्तत्वं नेति ब्रूमः । किन्तूपादानत्वमिति । किं च सर्वशून्यवादे स्वाभिमतशून्यं कथं सिध्येत् । स्वपक्षसाधकप्रमाणाभावात् । न च परांगीकृतवस्तुखण्डनेनैवास्मदभिमतशून्यसिद्धिः । न तु तत्सिध्यर्थे यत्नान्तरमिति वाच्यम् । वस्तुसिद्धेः प्रमाणपरतन्त्रतया स्वाभिमतवस्तुसाधकप्रमाणस्यानुसरणीयत्वात् । केवलवैतण्डिकस्य कथायामनधिकारेण प्रामाणिकैर्बहिष्करणीयत्वाच्च ।
किं च प्रमाणोपलब्धस्य जगतः कथं शून्यत्वमभ्युपगभ्यते । स्वाप्नपदार्थवदिति चेन्न देशकालविपर्यासादिना बाधकवशेन च स्वाप्नपदार्थस्य तथात्वेऽपि घटादिजाग्रत्पदार्थेषु बाधकाभावेन याथार्थ्यस्यैवाभ्युपगन्तव्यत्वात् । स्वामपार्थानामीश्वरसृष्टतया अबाधितत्वेन च
………………………………………………………………………………………………………………………………………………………………..
1. नैकतापिविरुद्धानामुक्तिमात्रविरोधतः ( न्या. कु. ३-८) न प्रकारान्तरस्थितिः न नोभयात्मकत्वं हि यतः परस्परविरोधात् नैकतापि नभावाभावात्मकत्वमपि, विरुद्धानामिति हेतुगर्भविशेषणं परस्परविरोधिरूपत्वात् । विरोधमेव प्रतिपादयति उक्तिमात्रविरोधत: । नाभाव इत्युक्ते च भावत्वप्रतीतेः कथमभावता, न भाव इत्युक्ते चाभावत्वप्रतीतेर्न भावत्वम् | भावाभावातिरिक्तपदार्थस्याप्रसिद्धत्वादिति यावत् । अपितु भावाभावान्यतरत्वमेवेति परमाभिप्रायः ।
................................................................................................................................................................
सत्यत्वस्य' वक्ष्यमाणत्वाच्च । न हि नेदं रजतमित्यादिबाधकप्रतीतिवत् 'नायं गजः किंत्वमुक' इत्येवंरूपो बाधकप्रत्ययोऽस्ति । नास्त्यत्र गज इत्यभावमात्रप्रतीतिस्तु 'नात्र घटः' इत्यादिप्रतीतिवत् सत्यत्वेप्युपपन्नमिति न किंचिदनुपपन्नम् ।
तस्मान्माध्यमिकमतमनुपपन्नम् तदेतत्सर्वमभिसंघायोक्तं भगवता बादरायणेन ' ॐ नाभाव' उपलब्धेः ॐ ' (व्र. सू.अ. २, पा. २,
……………………………………………………………………………………………………………………………………………………………….
1. यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने || (छांद. ५-२-९) इत्यादिस्मृतितः स्वाप्नार्थानां शुभादिसूचकत्वप्रमाणेन शाकुनवत्सत्यत्वात् । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्ति । अथानन्दान्मुदः प्रमुदः सृजते । न तत्र वैशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्ताः पुष्करिण्यः स्रवन्त्यः सृजते सहि सर्वस्य कर्ता (बृ. ६- ३ - १० ) इति श्रुत्या प्रागसतामेवार्थानां स्वप्ने एव दृष्टेः सृष्टेश्चोक्त्या तदैवोत्पत्तिनिरोधयोः संभवेन, “य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः (कठ. ५-७ ) इति श्रुतौ तथा एतस्माद्धेव पुत्रो जायते एतस्माद्भातैतस्माद्भार्या यदैनं पुरुषमेष स्वप्नेनाभिहन्ति इति (गौपवन) श्रुतौ च स्वप्नार्थानां ईशकर्तृत्वस्योक्त्या कर्त्रभावचोद्यस्य तथा बाह्यार्थघटादिवत् स्फुटमनभिव्यक्तत्वयुक्त्या मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते " ( ब्रह्माण्डे) इति स्मृत्या च बाह्योपादानविलक्षणमानसवासनोपादानकत्वावगमेन निरूपादानत्वचोद्यस्यानवकाशात् समानां जाग्रत्पदार्थत्वस्यासत्वेन वाधोपपत्तेश्च साधकसद्भावाच्च स्वप्नार्थाः सत्या एवेति स्वप्नार्थाः तद्धियः तत्तिरोधानं चेति सर्वमीशाधीनमिति सत्यत्वस्येशाधीनत्वस्य च वक्ष्यमाणत्वादित्यर्थः ।
2. ॐ नाभाव उपलब्धेः ॐ (२-२-८-२८) भवतीति भावः सन् अभावोऽसन् । भवतेच्चेतिणः । जगत् अभावो न शून्यव्यतिरेकेणतत्वं
............................................................................................................................................................
अधि. ८, सू. २८) 'ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ' इति (ब्र. स.अ. २, पा. २, अधि. ८, सू. २९)
इति श्रीमत्परमहंसपरिवाजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्र स्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने सौगतमतमङ्गो नाम द्वितीयः परिच्छेदः ॥
………………………………………………………………………………………………………………………………………………………….
नास्तीति न | उपलब्धेः । सदित्युपलभ्यमानत्वादित्यर्थः । सुधायां तु तवासतो जनिरिव मम सतोऽपि कार्यजनिर्न दृष्टा जगतस्सत्त्वासम्मतेरित्यतो जगतोऽसत्त्वं नेत्याहेत्यवतार्य व्याख्यातम् । ननु सदित्युपलंभेऽपि स्वप्नादिवदसज्जगत्किं न स्यादित्यत आह ।
ॐ वैधम्र्म्याच्च न स्वप्नादिवत् ॐ (ब.सू. २-२-८-२९) अभाव इति वर्तते । स्वप्नजाग्रत्वादिवत् रज्जुभुजङ्गादिवच्च जगदभावोऽसन्न । कुतः । वैधर्म्याच्च । स्वप्न एवायं न जाग्रत् रज्जुरियं न सर्प इति बाधविषयत्ववैलक्षण्यादित्यर्थः । चशब्दोऽत्र बाधाभावादित्यर्थसूचनार्थः । सुधायान्तु दृश्यत्वादिमिथ्यात्वहेत्वपाकरणार्थमप्येतदवतार्य " स्वप्नादिवज्जगत् दृश्यत्वादिना न मिथ्या । अर्थक्रियाकारित्वादिवैधर्म्यात्सत्यत्वसिद्धेः ।
च शब्दोक्त-सत्यवानुभवबाधात्तत एव मिथ्यात्वे कस्यापि मानस्याभावाच्चेति" सत्प्रतिपक्षबाधमिध्यात्वमानाभावोक्तिपरमप्युक्तम् । तेन बाधाभावो नासिद्ध इति ध्येयम् । तत्वप्रदीपेतु "स्वप्नादिवज्जगन्नदृश्यत्वादिना मिथ्या । स्वप्न एवायं न जागरित इति प्रतीत्या जाग्रत्वाद्येकदेशस्यैव मिथ्यात्वेन सर्वस्य तदभावेन साध्यवैकल्यात् । जाग्रत्वस्य दृष्टान्तत्वे बाधकभावाभावाभ्यां वैधर्म्यादिति' योजितम् । एतेनैवाद्वैतमतं च प्रत्युक्तं बोध्यम् ।
॥ इति सौगतमतभङ्गः ॥