उपनिषद आगतिक्रमः
तुलनात्मक विश्लेषणम्
माण्डूक्योपनिषत्
उपनिषद आगतिक्रमः
सामशाखासम्बन्धिनीयमुपनिषत् भगवता वरुणदेवेन दृष्टा । अस्यामुपनिषदि उपनिषद अर्थविवरणात्मिकाः कारिकाः दृश्यन्ते । तत्रैते श्लोकाः भवन्ति- 'बहिःप्रज्ञो विभुर्विश्वः' इत्यादिना । इमा: कारिकाः शङ्कराचार्याणां परमगुरुभिः श्रीमद्गौडपादाचार्यैः प्रणीताः । मध्वैर्माध्वैश्व श्रुतित्वेनान्यथैव गृहीता इति केषाञ्चन प्रवादः ।
वस्तुतस्तु इमाः कारिकाः ब्रह्मदृष्टा इति गारुडे श्रूयते । अत्र प्रमाणवचनानि-
'प्रमाणस्य प्रमाणं च बलवद्विद्यते मुने ।
ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ।।
अत्र श्लोका भवन्तीति चकारैव पृथक्पृथक् ।' इति ।
श्रीमद्भिः गौडपादाचार्यैः माण्डूक्यकारिकाः रचिताः । तत्र प्रथमं प्रकरणम् आगमप्रकरणम् । तत्र २९ श्लोकाः, द्वितीयं वैतथ्यप्रकरणम्, तत्र ३८ श्लोकाः, तृतीयमद्वैतप्रकरणम्, तत्र ४८ श्लोकाः, तुरीयम् अलातशान्तिप्रकरणम्, तत्र १०० श्लोकाः भवन्ति । तत्रादिमभागे आगमैप्रकरणतया ये श्लोकाः व्यवह्रियन्ते ते तु ब्रह्मदृष्टाः । अद्वैतिनः माण्डूक्यकारिका इमा इति वदन्तोऽपि तत्रतत्र श्रुतित्वेन इमां कारिकाम् उदाहरन्तीति विशेषः । तत्र ब्रह्मसूत्रशाङ्करभाष्ये बृहदारण्यभाष्यवार्तिके नैष्कर्म्यसिद्धौ चेमाः कारिका इति उदाहृतमस्ति । तथा हि तद्वचनानि-
‘मायामात्रं ह्येतद्यत्परमात्मनोऽवस्थात्रयमात्मनाऽवभासनं रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः “अनादि- मायया सुप्तः यदा जीवः प्रबुद्ध्यते । अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुद्ध्यते तदा ||” (गौड. का. १.१६ ) इति । ' ( ब्र. शां. भा. २.१.९, पृ. १९१ )
'कार्यकारणबद्धौ तौ इष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ।।
विश्वो हि स्थूलभुनित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञ इति चागमशासनम् ।।'
अस्यार्थस्य दृढिम्ने उदाहरणम्-
(सुरेश्वरीयबृहदारण्यकवार्तिकम्)
'कार्यकारणबद्धौ तौ …द्वौ तु तुर्ये न सिद्ध्यतः ।।' इति । (नैष्कर्म्यसिद्धौ सुरेश्वरीये, पृ. २८३)
तथैव भामत्यां कल्पतरौ गुरुचन्द्रिकायां केषुचिदद्वैतग्रन्थेषु च इमाः कारिका इति उदाहृताः ।
इमाः श्रुतय इत्यपि आनन्दगिरि - सायणाचार्य - अद्वैतानन्द-धर्म- राजाध्वरि-मधुसूदनसरस्वती- कृष्णानन्दसरस्वती - अप्पयदीक्षितप्रभृतिभिः विद्वत्प्रवरैरुदाहृता:-
‘अनादिमायया सुप्तः यदा जीवः प्रबुद्धयते' इत्यादिश्रुतिष्वेकवचन- प्राप्तैकत्वविरोधेनोदाहृतश्रुतीनामेकत्वपरत्वाभावात् ।’ (अद्वैतसिद्धिः, सं.२, पृ. ३५१, एकजीवाज्ञानंकल्पितत्वोपपत्तिवादः) 'न लीलादौ व्यभिचारः ।' (वेदान्तकल्पतरुः)
'... क्रीडार्थं सृष्टिरित्यन्ये भोगार्थमिति चापरे । देवस्यैषः .. स्पृहा । ' इति माण्डूक्योपनिषदि तात्कालिकानन्दप्रयोजनलीलात्वमेव ।
(ब्र. शां. भा. क. परिमळे २.१.३२, पृ. ४८१ )
( यद्यप्याप्तकामपदघटिता श्रुतिः बृहदारण्यके (६.४.६ ) उपलभ्यते । तस्याः श्रुतेः जीवन्मुक्तविषयकत्वं सर्वसम्मतम् । अत्रोदाहृता श्रुतिस्तु सृष्टिकर्तृविषयिणीति स्फुटमनयोर्भेदः । )
बृहदारण्यकवार्तिकव्याख्यायाम् आनन्दगिरिनिर्मितायाम्-
'विश्वो हि स्थूलभुनित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञ इति चागमशासनम् ||
अत्रापि श्रुतिं पठति- विश्वो हीति ।। इत्युदाहृतम् |
शाङ्करभाष्ये (२.१.३३)-
यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते 'आत्मकामश्रुतेः' । (पृ. २१७) विवेकचूडामणौ-
'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।'
इति ब्रूते श्रुतिः साक्षात् सुषुप्तावनुभूतये ।। (शङ्कराचार्यः)
विष्णुसहस्रनामशाङ्करभाष्ये-
'एतद्वै सत्यकाम
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ।।' इति ।
'ओं तद् ब्रह्म । ओं तद्वायुः । ओं तदात्मा । ओं तत्सत्यम् । (तै.उ. ४.२९) इत्यादिभ्यः श्रुतिभ्यः ।
श्रीभाष्ये-
(विष्णुसहस्रनामभाष्यम् पृ. १०७ - १०८)
'अनृतेन हि प्रत्यूढा:' (छा ८.३.२) …‘अनाद्यविद्यया सुप्तः यदा जीवः प्रबुद्धयते' ( मां. २.२१) इत्यादिभिर्निर्विशेषं चिन्मात्रं ब्रह्मैवानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्यवगम्यते ।” इति उदाहृतकारिकाणां श्रुतित्वमेवोक्तम् ।
'ब्रह्मणि पुनः प्रयोजनवत्त्वं सम्भावयितुमपि न शक्यते । आप्तकाम- श्रुतिविरोधात् ।' इति वल्लभाचार्यैरपि श्रुतित्वमेव प्रतिपादितम् ।
एवं शङ्कर-रामानुज-भास्कर-वल्लभप्रभृतिभिः इमाः कारिकाः श्रुतित्वेनैव व्यवहृता इति इमाः श्रुतय एवेति द्वैतिनां व्यवहारः निर्दुष्ट इत्यवधेयम् ।
उपनिषत्सारः
परमपुरुषं श्रीमन्नारायणं ध्यायन् वरुण इमामुपनिषदं ददर्शेति प्रागेवाभिहितम् । ‘ओमित्येतदक्षरमिदं सर्वम्' इत्यारभ्यमानेयमुपनिषत् जीवस्य जाग्रत्-स्वप्न-सुषुप्ति-मुक्तिरूपावस्थाचतुष्टये नियामकानि विश्व- तैजस-प्राज्ञ - तुरीयरूपाणि व्याख्यास्यति । तत्र भगवान् विश्वः समेषां जीवानां जाग्रदवस्थायां तत्तद्विषयदर्शनं प्रदाय अनुगृह्णाति । अयं तु सप्ताङ्गैकोनविंशतिमुखः स्थूलपदार्थभुक् । अस्योपासनया विनायकः गजमुखः सम्पन्नः ।
जाग्रत्पदार्थानुभवजन्यवासनोपादानकपदार्थान् स्वप्नावस्थायां प्रदर्शयन् जीवस्यानुग्राहको भवति तैजसः । सुषुप्त्यवस्थायाम् आत्म-काल-सुख- विज्ञानमन्तरा नान्यदवबोधकः भवति प्राज्ञः । तुरीयस्तु जीवन्मुक्त्यवस्थायां मुक्त्यवस्थायां चानुग्राहकः । तेषां रूपाणां स्थानानि च एवमुपवर्णितानि- ‘दक्षिणाक्षिमुखे विश्वः मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञः त्रिधा देहे व्यवस्थितः ।।' 'विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः ।'
'हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः । देवः स सर्वजीवानां गम्यत्वात् समुदीरितः ।। भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः । ईशानामपि मुक्तानामीशानः सोऽननाच्छ्रुतः ।।'
त्रीणि भगवद्रूपाणि
अत्रैके, विश्व-तैजस- प्राज्ञरूपाणि अवस्थाविशेषेण जीवस्यैव
भवन्ति । जाग्रदवस्थापन्नो जीवः विश्व इति, स्वप्ने तैजस इति,
सुषुप्त्यवस्थायां प्राज्ञ इति च व्यवह्नियत इति व्याचक्षते । तत्तु प्रमाणविरुद्धत्वादुपेक्ष्यम् । अत्र हि प्रमाणानि -
‘न तत्र रथाः न रथयोगाः न पन्थानः भवन्त्यथ रथान् रथयोगान् पथः सृजत इति बृहदारण्यके उपक्रम्य, 'स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तान् अभिचाकशीति शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एक- हंसः ।’ इत्यादौ वासनामयपदार्थान् जीवस्य प्रदर्शयन् तस्यानन्द- मुत्पादयतीति श्रूयते । अत्र शारीरमिति स्फुटं जीवमभिधाय तन्नियामकतया तैजसोऽत्र भगवान् प्रतिपादितः ।
तथैव 'प्रियया स्त्रिया सम्परिष्वक्तः न बाह्यं किञ्चन वेद नान्तरं तद्वा अस्यैतदाप्तकाममकामं रूपं शोकान्तरम् ।' इति सुषुप्त्यवस्थायां नियामकतया भगवान् प्राज्ञः श्रूयते । वेदव्याख्यानात्मके श्रीमद्भागवते विश्व-तैजस-प्राज्ञ-तुरीयरूपाणि तु भगवत एवेति स्फुटं भाषितमस्ति-
‘वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् ।
अनिरुद्ध इति ब्रह्ममूर्तिव्यूहोऽभिधीयते ।
स विश्वतैजसः प्राज्ञस्तुरीय इति वृत्तिभिः ।
अर्थेन्द्रियाशयैर्ज्ञानैर्भगवान् परिभाष्यते ।।' ( भाग. १२.११.२१-२२)
अत्र 'ब्रह्ममूर्तिब्यूहोऽभिधीयते' इत्युपक्रम्य 'सः' इति व्यूहमेव परामृश्य तस्यैवार्थेन्द्रियादिनियामकत्वेन विश्वतैजसादिरूपत्वं स्फुटं प्रतिपादितम् ।
भगवान् बद्धः किम् ?
यद्यपि माण्डूक्ये ‘कार्यकारणबद्धौ तौ इष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु' इत्यादिना विश्वतैजसादिनामानि बद्धस्य जीवस्यैव भवन्तीति श्रूयते । तस्याशयस्तु मध्वाचार्यैरेवमुपवर्णितः - अत्र बद्धशब्दः
बन्धनस्वामित्वं प्रतिपादयति । उक्तं चानुव्याख्याने- 'दु:खिबद्धावराद्यास्तु तदधीनत्वहेतुतः । शब्दा ब्रह्मणि वर्तन्ते' इति । श्रुतिरपि 'स बद्धः स दुःखी स बन्धयतीति दुःखयतीति' इत्यादिना बन्धस्वामित्वादेव बद्धादिशब्दसमन्वयं करोति । एवं च ' कार्यबद्धः विश्वः' इत्यस्यायमर्थः- 'कार्यं नाम अज्ञानकार्यभूतोऽहंममतादिभ्रमः । जीवनिष्ठभ्रम- रूपजाग्रत्कारणबन्धस्वामी विश्व इत्यर्थः । तैजसस्तु जीवनिष्ठभ्रम- तत्कारणाज्ञानस्वामित्वात् कारणबद्ध उच्यते । प्राज्ञस्तु तत्कारणाज्ञान- रूपसुप्तिबन्धस्वामित्वात् बद्ध उच्यते । तुरीये तु नैवंविधा व्यापारा भवन्तीति तत्स्वरूपमुपवर्णितम् ।
स्थूलभोगः कथं भगवतः ?
भगवान् जाग्रदवस्थायां जीवेषु स्थित्वा विषयपदार्थसम्बन्धेन तस्य सुखं जनयति । तत्तदिन्द्रियेषु नियामकतया स्थित्वा जीवेन्द्रियैः जीवभोग्यानेव पदार्थान् भुङ्क्ते । नाशुभं कापि पिबति जीव इव । तदुक्तम्- ' स एतैरिन्द्रियैर्विष्णुः भोगाननुभवत्यजः ।
स्वरूपेणैव शक्तोऽपि जीवदेहस्थितो हरिः ।
भुङ्क्ते तदिन्द्रियैर्भोगान् क्षुरितैरिन्द्रियैः स्वकैः । !' इति ।
तर्हि ‘अनश्नन्नन्यः’ इत्याथर्वणश्रुतिविरोध इति चेन्न, अस्वाद्वेव । यथा जीवः स्वाद्विति विभावयन्नत्ति तथात्र भगवत अदनं प्रतिषिद्धम् । सारभोक्तृत्वं तु विद्यत एव ।
अथवा भुञ्जानोऽपि जीवः परतन्त्रदुःखरूपाशुभभोगानेव भुङ्क्ते । न तथा परमेश्वर इति ज्ञापयितुम् 'अनश्नन्' इत्युक्तम् ।
यद्वा जीववदुपजीवनार्थाशनं भगवतो नास्तीति सूचयितुम् 'अनश्नन्' इत्युक्तम् । तदुक्तम्- ‘अन्यो निरन्नोऽपि बलेन भूयान्' ( भाग.) इति ।
अथवा यद्यपि भगवान् अवतारेषु स्थूलमपि भुङ्क्ते भक्तानुग्रहार्थम् । तथापि आत्मान्तरात्मरूपैरदनाभावात् 'अनश्नन्' इत्युपपन्नमिति तत्त्वप्रकाशिकाभावदीपे (१.२.११) चतुर्धा समाधिरभिहिता ।
तामसानां सुषुप्तौ सुखानुभवः ?
सुषुप्तिकालावच्छेदेन भगवान् प्राज्ञः विषयसम्बन्धं विनैव जीवस्य स्वरूपगतमेव सुखमभिव्यञ्जयति । अत एव सर्वेषामनुभव: 'एतावन्तं कालमहं सुखमस्वाप्सम्' इति । तदुक्तं षट्प्रश्नभाष्ये-
'सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् ।
सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ।।' इति ।
अत्र विशिष्य मुक्तियोग्यानामित्यनभिधाय सामान्यतः स्वसम्बन्धात् जीवानां सुषुप्तौ सर्वेषां सुखानुभवो भवतीति ज्ञायते । अथाप्यत्र विमर्शनीयमस्ति । तथा हि- भगवत्सम्बन्धात् सुषुप्तौ सज्जीवस्य स्वरूपे विद्यमानमेव सुखमभिव्यज्यत इत्युक्तौ न कोऽपि दोषः । 'सौषुप्तं तन्निदर्शनम्' इत्याद्युक्तेः । तथापि नित्यसंसारिणां तमोयोग्यानां च कथं सुषुप्तौ सुखानुभवः ? मिश्रजीवस्वरूपस्य मिश्रत्वात् तेषां दुःखस्यापि सुषुप्तावङ्गीकरणीयत्वात् । अथ तामसस्य दुःखैकरूपत्वात् सुषुप्ति- कालावच्छेदेन सुखाभावात् सुखानुभवः कथम् ? अतः कथं केवलसुखानुभव उच्यते ?
अत्रैके व्याचक्षते - मुक्तौ तामसानामपि प्राकृतसुखानुभवोऽस्ति । न च तदा मनस उपरतत्वेन तत्परिणामरूपस्य सुखस्य उत्पत्त्यसम्भव इति वाच्यम् । मनसः शक्तिद्वयमस्ति । ग्राहकशक्तिः परिणामशक्तिरिति । सुषुप्तौ ग्राहकशक्तेरुपरतत्वेऽपि परिणामशक्तेरनुपरतत्वात् । परमेश्वर-सन्निधानरूपसामग्रीविशेषात् विनैव विषयसन्निधानं सुखोत्पत्तिर्भव- तीति । अत्र च गारुडप्रमाणवचनमुदाहृतम्-
'सृजत्यनित्यसौख्यं तु स्वसङ्गात्तामसेष्वजः ।
सुप्तिकाले तु भगवान् तत्सुखं प्राकृतं स्मृतम् ।।' इति ।
अत एव षट्प्रश्नटीकायाम्- 'परमेश्वरसन्निधानसामर्थ्येनोद्भूतं सुख- मात्मज्ञानेनानुभवति' इति त्रिविधजीवसाधारण्येनोक्तम् । एवं नित्य- संसारिस्वरूपस्य सुखदुःखोभयात्मकत्वेऽपि तामसजीवस्य दुःखैक- रूपत्वेऽपि भगवत्सन्निधानविशेषात् सुखमुपपन्नम् । अत्रोपष्टम्भका वायुपुराणवचनमामनन्ति-
‘सृतियोग्यस्वरूपस्य सुखदुःखात्मकत्वतः ।
ईशेशवशतस्तत्र सुखमात्रं प्रतीयते ॥ ' इति ।
अपरे त्वाहुः - सौषुप्तिकानुस्मृतिः सुखमुल्लिखन्त्यपि 'भारापगमे सुखी संवृत्तोऽहम्’इतिवद् दुःखाभावविषया । तामसानां स्वरूपे सुखाभावात् । ननु साक्षिणः नियतयथार्थरूपत्वेन सुखदुःखादीनां च साक्षिग्राह्यत्वेन, सुखादौ भ्रमानुपपत्तेश्च कथमेवं व्याख्यायते । अत एव 'दुःखे च सुखमानिनः' इत्यत्र सुखसाधने दुःखसाधने च लक्षणाऽऽश्रितेति चेत्, उच्यते । साक्षिणः याथार्थ्यनियमस्य सज्जीवविषयकत्वेनासज्जीवानां साक्षिण अयथार्थत्वेन दुःखाभावे सुखभ्रान्तिरुपपन्ना । न च 'साक्षिसिद्धे त्वसंशयात्' इत्युक्तेः अनवस्थापरिहारद्वारेण निश्शङ्कप्रवृत्तिहेतुभूते साक्षिणि कथं भ्रान्तिरिति वाच्यम् । तेषां साक्षिणः नियतयाथार्थ्य - समकक्ष्यस्य नियमेनासञ्जात - बाधभ्रमस्य सत्त्वेन तेषामपि साक्षिणि दोषशङ्काभावात् तत्र परीक्षाऽनपेक्षणेन अनवस्थाभाव इत्याहुः ।
केचन, तामसजीवस्यापि परमेश्वरसन्निधानसामर्थ्यात् भिन्नाभिन्नतया जातं सुखं स्वरूपज्ञानेनानुभूयते सुप्ताविति प्रतिपादयन्ति । अत एव टीकायाम्- 'परमेश्वरसन्निधानसामर्थ्यात्' इति सामान्येनोक्तम् । अत्र षट्प्रश्नटीकोपबृंहितं तत्त्वप्रकाशिकाभावबोधमुदाहरन्ति - 'सज्जीवानां किञ्चिदभिव्यक्तस्वरूपसुखस्य अन्येषां परमात्मसम्बन्धलक्षण- निमित्तोत्पन्नसुखस्यानुभवात् । यथोक्तं षट्प्रश्नभाष्यटीकायाम्- 'यस्मादेवं परमेश्वरतेजसाभिभूतो भवति तस्मात्तत्सन्निधानसामर्थ्योद्भूतं यत्सुखं तस्मिन् शरीरे भवति' इति ।
सृष्टिस्वरूपम्
चतूरूपो भगवान् समेषां जीवानां जडप्रपञ्चस्यापि स्रष्टेति श्रूयते । तदुक्तं ‘प्रभवः सर्वभावानां सतामिति विनिश्चयः' इति । अत्र ‘सतामिति विनिश्चयः' इति पदेन भगवतः जगज्जन्मादिकारणत्वं न काल्पनिकम् अपि तु सतामेतन्मतं श्रुतेश्वात्राभिप्राय वरीवर्तीति प्रतिपादितम् । अस्मिन्नेव सन्दर्भे सृष्टिस्वरूपविषये काश्चन विप्रतिपत्तयोऽपि प्रदर्शिताः निराकृताश्चोपनिषदि ।
केचन, विश्वमिदं जीवजडात्मकं भगवत्परिणामभूतमिति वदन्ति । यथा घटः मृत्परिणामभूतः । अयं च वादः न समञ्जस इति 'सृष्टिचिन्तकाः’ इति पदेन श्रुतिरवादीत् । न कोऽपि स्वस्थात्मा स्वाभाविकं ज्ञानानन्दादि- रूपं परित्यज्य जडात्मना परिणामं कामयते । तस्मादयं वादः नैव समी- चीनः ।
अपरे (विवर्तवादिनः)तु मन्यन्ते - सृष्टिरियं 'स्वप्नमायासरूपा' इति । यथा स्वाप्नपदार्थाः सुप्तात्मविवर्तभूताः, तथा सृष्टिरियमविद्यमानैव प्रतिभातीति अस्याः मिथ्यात्वं मनुते । अयं चाऽशयः न सम्मतः श्रुतेरिति विज्ञापयितुं 'विकल्पिता' इत्युक्तम् । तर्हि सृष्टिस्वरूपविषये श्रुतेः कुत्रैदम्पर्यम् इत्याशङ्कायां भगवती श्रुतिराह - 'इच्छामात्रं प्रभोः सृष्टिः ' इति । अनेन विज्ञायते सृष्टिरियं भगवतैव क्रियमाणा भगवत इव पारमार्थिकीति । अत्र ‘इति सृष्टौ विनिश्चिताः' इति श्रुतिः स्वाभिप्रायं दृढयति । तथैव कालात् प्रकृतेः परमाणुभ्यः सृष्टिं पराकुरुते च- 'कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तका:' इति ।
अथ च सृष्टेः प्रयोजनं किमिति चिन्तयन्ती अनादिकालत एव विद्यमानान् अभिप्रायविशेषान् श्रुतिरनू निराकरोति । केचन भगवतः भोगार्थमियं सृष्टिरिति व्याचक्षते । ते तु न वैदिकाः । तदुक्तं 'भोगार्थं सृष्टिरित्यन्ये' इति । अपरे तु ब्रुवते अनेन च भगवतः अपूर्वः कश्चनानन्दो जायत इति । तदपि न मनोरमम् । तस्याप्तकामत्वात् । अत एवाह भगवती ‘क्रीडार्थमिति चापरे' इति । तर्हि सृष्टिः किमर्थं भगवता कृतेत्यत्र 'देवस्यैषः स्वभावोऽयम्' इति व्याचष्टे ।
अनेनेदं विज्ञायते- केवलं परार्थं प्रवर्तयन्तः दृश्यन्तेऽद्यापि नैके महान्तः, येषां क्वचिदपि कदापि प्रयोजनं किमपि नापेक्ष्यते । आप्तकामस्य नित्य- पूर्णस्य भगवतः सृष्ट्यादिना किं प्रयोजनं भवितुमर्हति ? न किमपि । तर्हि परार्थेयं प्रवृत्तिरित्युक्तं भवति । या चेयं सृष्टिप्रक्रिया सा त्वत्यन्त- मनायाससाध्या । अत एव प्रयोजननिरपेक्षा । या च क्रिया बहुवित्त - व्ययायाससाध्या भवति तत्र प्रयोजनापेक्षा लोकेऽनुभूयते । भगवता क्रिय- माणा च सृष्टिः स्वभावभूतेति वदन्ती श्रुतिः आयासलेशं पराचकार । तदुक्तम् ‘आप्तकामस्य का स्पृहा' इति । तदेतदुक्तं भगवता बादरायणेन ‘न प्रयोजनवत्वात्' (ब्र.सू. २.१.३३ ) इति ।
यदि सृष्ट्यादिना किमपि प्रयोजनमस्ति भगवतः तर्हि सोऽपूर्णः सम्पन्नः।
यदि किमपि प्रयोजनं न विद्यते तर्हि प्रवृत्तिर्विफला न सम्भावयितुमपि शक्यते । ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इत्यभियुक्तोक्तेः । तत्रोक्तं बादरायणेन ‘न प्रयोजनवत्त्वात् ' ( ब्र. सू. २.१.३) इति ।
'न' सृष्ट्यादिना किमपि प्रयोजनं भगवतः नास्ति । 'प्रयोजनवत्वात्’ तस्याऽप्तकामत्वादित्यर्थः । ' आप्तकामस्य का स्पृहा' इति श्रुत्यादिनेश्वरप्रयोजनस्य प्रतिषेधात् ।
तर्हि व्यर्थेयं सृष्टिः सम्पन्नेति चेत्, 'न' । नेयं सृष्टिः व्यर्था भवितुम् अर्हति । 'प्रयोजनवत्त्वात्' भगवतः प्रयोजनाभावेऽपि परेषां जीवानां प्रयोजनसद्भावात् सृष्टिरियमर्थवती ।
'प्रयोजनमनुद्दिश्य' इति न्यायेन स्वप्रयोजनाभावेन कथं भगवतः प्रवृत्तिरिति चेत्, तत्रापीदमेवोत्तरम् । अत्र नत्र आवृत्तिः । 'न' सृष्टिर्न व्यर्था । ‘नप्रयोजनवत्वात्’ । न समासोऽयम् । सुखोद्रेकात् गानादाविव, व्याख्यानादौ हस्तचलनादिवच्च प्रयोजनराहित्येऽपि प्रवृत्तिः । सृष्टेरनायास- साध्यत्वान्न प्रयोजनापेक्षेति समुदितार्थः । बहुवित्तव्ययायासादिसाध्ये कर्मणि प्रयोजनापेक्षा, अन्यत्र तु नेति सार्वजनीनमेतत् । एवं च सृष्टिरियं पारमार्थिकी, न मिथ्या, अस्ति चास्याः निर्माता भगवान्नारायण इति सिद्धम् ।
प्रपञ्च यदि विद्येत
पञ्च यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥
आपातत इयं श्रुतिः - 'जीवजडात्मकोऽयं प्रपञ्चः यदि विद्येत तर्हि कदाचिन्निवर्तेत । अतोऽयं भेदप्रपञ्चः मायाकल्पित एव । ब्रह्म तु पारमार्थिकमिति प्रतिपादयति' इति भाति । नैकप्रमाणोदाहरणेनास्याः श्रुतेराशयः श्रीमदाचार्यैरेवमुपवर्णितः- देहेन्द्रियगेहा दिषु योऽयं स्वकीयत्व- स्वामित्वाद्यभिमानः जीवस्य प्रतिभाति, स त्वप्रामाणिक एव । सर्वस्यापि जगतः परमात्मस्वामिकत्वात् । अभिमानादेव सर्वमिदं मदीयं मत्स्वामिकमिति भाति । सोऽयं स्वामित्वादिभ्रमः यदि पारमार्थिकः स्यात् तर्हि ज्ञानेन न निवर्तेत । निवर्तते च परात्मज्ञानात् स्वामित्वादिभ्रमः । तेन ज्ञायते नायं स्वाभाविक इति । न तु मिथ्या । यद् ब्रह्म निर्गुणमिति, विश्वं जीवस्वामिकमिति च प्रतीयते तद् द्वैतमन्यथाज्ञानम् । वस्तु- स्वरूपानुगुणं यथार्थं हि ज्ञानम् अद्वैतमुच्यते । वस्तुस्वरूपविपरीतं द्वैतमुच्यते । तत्तु ‘मायामात्रम्' ईश्वरेच्छया जीवकर्माद्यानुगुण्येन निर्मितम् ईश्वरप्रसादादेव निवर्तते-च । तदुक्तं 'बन्धको भवपाशेन भवपाशाच्च मोचकः’ इति । 'अद्वैतं परमार्थतः' इत्यस्य सर्वोत्कृष्टं ब्रह्म अद्वैतं समाधिक- रहितमित्यर्थः । तदेतत्प्रपञ्चितं ब्रह्मतर्के-
'तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः ।
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ।।
तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते ।
अतः स विद्यत इति ह्यङ्गीकारो भवेद्यदि ।
तथाऽपि भगवज्ज्ञानात् स निवर्तेदसंशयः ।।' इति ।
'परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा ।
तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ।
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च ।।
परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् ॥
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरच्युतः ।।' इति च ।
एवमेव 'विकल्प:' शरीरगेहादिसम्बन्धः अज्ञानादिना स्वीयत्वेन कल्पितः उपदेशान्निवर्तते । परब्रह्मणि ज्ञाते द्वैतमन्यथाज्ञानं न तिष्ठतीत्युत्तरमन्त्रार्थः । एवं च नेमौ श्लोकौ विश्वमिध्यात्वप्रतिपादकाविति श्रीमदाचार्याः प्रत्यपीपदन् ।
श्लोकद्वयस्य तत्त्वनिर्णये वर्णकान्तरमुक्तं भगवत्पादाचार्यैः । तत्र प्रपञ्चो नाम पञ्चविधः भेद उच्यते । जड-जडयोः, जीव-जीवयोः, जीव-जडयोः, जड-परमात्मनोः, जीव- परमात्मनोश्चेति पञ्चविधोऽयं भेदः प्रपञ्च- शब्देनौच्यते । यद्ययं भेदः ‘विद्येत - भवेत' उत्पद्येत तर्हि निवर्तेत । न च निवर्तते । तस्मादनादिरेवायम् । 'मायामात्रमिदम्' इत्यत्र माया नाम भगवत्प्रज्ञा, तया ज्ञातत्वात् रक्षितत्वाच्च भेदोऽयं पारमार्थिकः सर्वोत्तमत्वाद् भगवान् अद्वैत उच्यते । 'उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ।' अज्ञाते अज्ञानावस्थायामेव अज्ञानिनां मते वा 'द्वैतं' भेदप्रपञ्चः न विद्यते । विज्ञानिनां तु भेदः पारमार्थिक एव । तदुक्तं परमश्रुतौ-
'जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ।
कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।
मतं हि ज्ञानिनामेतन्मितं त्रातं च विष्णुना ।
तस्मात्सत्यमिति प्रोक्तं परमो हरिरेव तु ।।'
तदियमुपनिषत् वाङ्मनसोरगोचरां चित्रातिचित्रामिमां सृष्टिं विष्णुकृतां प्रबोधयन्ती सर्वज्ञत्वादिगुणविशिष्टं च तं परिचाययन्ती समेषां साधकानां ज्ञानाभिवृद्धिं वितनुत इत्यत्र न सन्देहगन्धः ।
प्रागस्मादेव संशोधनमन्दिरात् श्रीबादिराजतीर्थीय-राघवेन्द्रतीर्थीययुताः सप्तोपनिषदः संशोध्य मुद्रापिता आसन् । अधुना तु ईश-केन- प्रश्नोपनिषदः नानाव्याख्योपबृंहिताः प्रथमसम्पुटे संशोध्य प्रदत्ताः । द्वितीयेऽस्मिन् भागे तैत्तिरीय मुण्ड - माण्डूक्योपनिषदः श्रीवादिराज- तीर्थीय-राघवेन्द्रतीर्थीयटिप्पणीभिः साकं भाष्य-व्याख्यानोपयोगि- श्रीनिवासतीर्थीयटिप्पर्णी संयोज्य मुद्रापिताः । तालपत्राध्ययनपुरस्सरं नैकेषु स्थलेषु शुद्धपाठा अत्र समुपदर्शिता इति अस्त्यस्य सम्पुटस्य किञ्चिद्वैशिष्ट्यम् ।
श्रीवादिराजतीर्थ श्रीचरणाः
पद-वाक्य-प्रमाणपारावारपारीणानां श्रीमद्वादिराजतीर्थश्रीचरणानां टिप्पण्यत्र समायोजिता । इयं च टिप्पणी उपनिषद्-भाष्यगत- रहस्यार्थाविष्करणपटीयसी परकीयव्याख्यानाकौशलप्रदर्शनपरा च राजतेतमाम् । युक्तिमल्लिकादिशताधिक प्रबन्धप्रणयनेन द्वैतसम्प्रदाये प्रथिता अमी सर्वयतिपुङ्गववन्द्याः विद्वज्जनाराधितकमनीयचरणाश्च । श्रीराघवेन्द्रतीर्थाः
माध्वसम्प्रदाये 'राघवेन्द्रतीर्थाः ' 'परिमळाचार्याः' इत्यादिनाम्ना प्रसिद्धा अमी षड्दर्शनाचार्याः न्यायसुधापरिमळ चन्द्रिकाप्रकाश- तर्कताण्डवभावदीपादि-पञ्चाशदधिकप्रबन्धप्रणेतारः । अमी उपनिषदां मृदुमधुरया शैल्या प्रतिश्लोकखण्डार्थप्रणयनेन विद्यार्थिजनान् विद्वज्जनांश्चान्वगृह्णन् । तत्रतत्र खण्डार्थे एतैर्विहितः परमतविमर्शो विद्वज्जनानन्दकरो भवति । एवमेषां व्याख्याऽप्यत्र समायोजिता ।
श्रीश्रीनिवासतीर्थाः
एते विद्वन्मूर्धन्याः श्रीमदुत्तरादिमठीयरघूत्तमस्वामिपादानां (१५४१- १६४६) विद्यासन्ततिप्रवर्तकाः । एतेषां गुरुचरणाः श्रीमद्यादवाचार्याः सुतनिर्विशेषं श्रीनिवासस्य शास्त्ररहस्यमुपदिष्टवन्तः । श्रीनिवासतीर्थाणां गुरुभक्तिरसाधारणी । पश्यन्तु कोविदास्तेषां वचनप्रसूनमालाम्-
यत्पादस्मृतिमात्रेण पाण्डित्यं प्राप्यते नरैः ।
तान् वन्दे यादवाचार्यान् वेदेशमुनिसेवकान् ॥ -अणुभाष्यटीका
यैरहं शुकवत् सम्यक् शिक्षितोऽस्मि कृपालुभिः ।
तान् बन्दे यादवाचार्यान् वेदेशमुनिसेवकान् ॥ - माण्डूक्यभाष्यटीका
श्रीमध्वशास्त्रं समुदीर्य यस्मिन् विश्वासहेतोः समदर्शयन् ये ।
प्रदानसूत्रप्रतिपाद्यभावं वन्दे गुरूंस्तान् यदुवर्यसञ्ज्ञान् ॥ - आथर्वणोपनिषद्भाष्यविवृतिः
ग्रन्थसेवा
सकलशास्त्रपारङ्गता एते पञ्चाशदधिकग्रन्थप्रणयनेन माध्ववेदान्तं प्रवृद्धमकार्षुः । न्यायामृतटिप्पणी न्यायसुधाटिप्पणी-तत्त्वप्रकाशिका- टिप्पणी- दशप्रकरणटिप्पण्यादिग्रन्थाः श्रीनिवासतीर्थैर्विरचिताः ।
सुस्पष्टा सरला मन्द-बुधजनोभयरञ्जिनी व्याख्यैतेषां मनोह्लादिका । अत एवैतेषां शास्त्रव्याख्याकौशलं पाठ - प्रवचनदीक्षां चासाधारणां समवलोक्य पद-वाक्य - प्रमाण- पारावारपारीणाः श्रीमद्राघवेन्द्रतीर्थ - श्रीमच्चरणाः यतिसम्बोद्ध्य- 'तीर्थ' इत्युपाधिप्रदानेन अन्वगृह्णन् इति ऐतिह्यं प्राक्तनानां जागर्ति । यावद् बाधकप्रमाणं नोदेति तावदैतिह्यसत्यत्वं सर्ववादिसिद्धमेव । श्रीनिवासतीर्थीयव्याख्या, मातृकात्रयसाहाय्येनात्र ।यथामति शोधिता । अत्र चानेकेऽपूर्वाः विषयाः विमृष्टाः विदुषां सुग्रहा एव ।