विकल्पो विनिवर्तेत कल्पितो यदि केनचित्

उपनिषत्

( भगवति विज्ञाते मिथ्याज्ञानं निवर्तते )

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यत इति ॥ १० ॥ ९ ॥

॥ इति द्वितीयः खण्डः ||

भाष्यम्  

अनन्यथा इतमवगतमद्वैतम् । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथाज्ञानमित्यर्थः ॥

अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः - ज्ञाते सति ब्रह्मणि द्वैतमन्यथाज्ञानं निवर्तत इति ॥

विकल्पो देहबन्धादिः केनचित् कारणेन तु ।

कल्पितोऽपि निवर्तेत गुरुवाक्यादसंशयम् ॥

एष एवं सतां वादो ज्ञाते ब्रह्मणि तत्वतः ।

निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ।' इति च ॥

श्रीव्यासतीर्थविरचिताटीका

खण्डार्थ: -

अद्वैतमित्युक्ते प्राज्ञतुरीययोः साधर्म्ये मन्त्रं पठति ।। द्वैतस्येति ॥ द्वैतस्य देहादिविषये स्वातन्त्र्यस्याग्रहणं तद्ग्रहणाहेतुत्वं प्राज्ञतुरीययोः समम् । नात्मानमित्यत्र प्राज्ञात्तुरीयस्य वैधर्म्यमुक्तम् । प्रकारान्तरेण वैधर्म्यमाह - बीजेति ॥ बीजनिद्रा मूलाविद्या ॥ ५ ॥

प्रकारान्तरेण विश्वादीनां साधर्म्यवैधर्म्ये निरूपयन् स्तेभ्यस्तुरीयस्य वैधर्म्यमाह- स्वप्नेति ॥ स्वप्नो भ्रमः । निद्रा अविद्या । अस्वप्ननिद्रया स्वप्नं विना निद्रया । अत्र विश्वादीनां कार्यकारणबद्धत्वादिकं जाग्रदाद्यवस्था- पन्नजीवबन्धकत्वादिति द्रष्टव्यम् ॥ ६ ॥

भाष्यार्थः-

'बीजनिद्रायुत' इत्यादि प्राज्ञादीनामविद्यादिवशत्वार्थप्रतीतिं निवारयन् व्याचष्टे - निद्रेति ॥ प्राज्ञः किञ्चन न संवेदयेत्तुरीयः सर्वं संवेदयेदित्युक्त्या प्राप्तविरुद्धधर्माधिकरणत्वेन तयोः प्राप्तां भेदशङ्कां निवारयति - अभेद- मिति ॥ 'सर्वदृक्' इति 'सर्वं तु दर्शयेत्' इति व्याख्यातम् । यथास्थिताङ्गीकारे बाधकं चाह- न संवेदयतीति ॥ 'तुर्यं तत्सर्वदृक्' इति ज्ञानमुक्त्वा प्राज्ञतुरीययोरग्रहणं ज्ञानराहित्यं तुल्य- मित्युक्तं तद्विरुद्धमित्यर्थः । अस्तु सर्वदृक्सर्वप्रदर्शक इति ।द्वैतस्याग्रहणं तुल्यम्' इत्यस्य कोऽर्थ इत्यत आह- द्वैतेति । उक्तमर्थं प्रमाणेन दृढयति - द्वैतमिति ॥ 'बीजनिद्रायुत' इत्येतन्निद्रा- तास्त्विति व्याख्यातमपि स्पष्टं व्याचष्टे - द्वैतेति ॥ ५॥

खण्डार्थ:-

एवं विश्वादिकार्याकारित्वेनातिविलक्षणस्य तुरीयस्यस आत्मा स विज्ञेयः' इत्युक्ते दर्शनप्राप्ती कदा भवत इति जिज्ञासायामाह - अन्यथेति ॥ अन्यथा गृह्णतः अहं ममेत्यादिभ्रामकयुक्तस्य स्वप्नः स्वप्नदर्शित्वादिभ्रमो भवति तत्वमजानतो निद्रा मूलाविद्या भवति । तयोर्विपर्यासे आवर्तने क्षीणे सति तुरीयं पदमश्नुते प्राप्नोति ॥ ७ ॥

भाष्यार्थः

अन्यथागृह्णतः स्वप्न इत्येतदर्थाप्रतीतेर्व्याचष्टे - विपरीतेति ॥ ६-७ ॥

खण्डार्थ:-

तयोर्विपर्यासक्षयस्ततस्तद्दर्शनादि च किं कालाद्भवति नैवम् । किं तर्हि भगवत्प्रसादादित्याह - अनादीति ॥ ८ ॥

भाष्यार्थः

अनादिमायया अनाद्यज्ञानेनेत्यन्यथाप्रतीतिं निवारयंस्तद्वाक्यं व्याचष्टे- अनादीति ॥ ८ ॥

खण्डार्थ: -

ननु अहंममेदमित्यादिस्वस्वामिभावसम्बधरूपो बन्धलक्षणो द्वितीयः प्रपञ्चो यदि जीवस्वभावः, तर्हि कथमसौ भगवत्प्रसादादपि निवर्तेत, मैवम् । भगवदिच्छाधीनत्वात्तस्य भगवत्प्रसादात्तदपगमे तन्निवृत्त्युपपत्ते- रित्याह - प्रपञ्च इति ॥ ९ ॥

भाष्यार्थ:-

जगतो ज्ञाननिवर्त्यत्वपरत्वप्रतीतिं निवारयत्प्रपञ्चो यदीति वाक्यं व्याख्यातुमपेक्षितपूर्वभाविप्रमेयमाह - तन्वेति । वस्तुतोऽसौ स्वस्वामि- सम्बन्धः।अभिमानात्अज्ञानात् तद्व्याख्याति - अत इत्यादिना ॥ अतः अज्ञानेन दर्शनात् । सदेहादौ स्वस्वामिसम्बन्धः विद्यत इत्यङ्गी- कारो यदि भवेत्तथापि स भगवज्ज्ञानान्निवर्तेदिति योजना | स्ववाक्येन समग्रं वाक्यं योजयितुं जीवस्य प्रपञ्चाभिधेयदेहादावन्यथाज्ञानं किं निमित्तकम् । यद्भगवत्प्रसादाभिवर्तेतेत्यतः प्राप्तद्वितीयार्धगतपदाना- मर्थमाह- अद्वैतमित्यादिना ॥ अनन्यथाज्ञातं महद्भिरिति शेषः । योजयति तदिति ॥ तस्मात् तदिच्छानिर्मितत्वात् तदन्यथाज्ञानं तदिच्छयैव निवर्तते । एवं च सति समग्रवाक्ययोजना | जीवानां देहादौ यः स्वस्वामिसम्बन्धः । स स्वातन्त्र्येण नास्त्येव । यद्युक्तरूपप्रपञ्च विद्येत विद्यत इत्यङ्गीक्रियते । तर्ह्यपि स परमार्थतो भगवत्प्रसादादिति यावत् निवर्तेत । यद्युक्तरूपप्रपञ्चो जीवानां यथार्थस्तर्हि कथं स निवर्तेतेत्यत उक्तमिदम्- द्वैतमिति । महद्भिर्द्वितीयेन प्रकारेणाज्ञातं ब्रह्मादिवस्तु अद्वैतम् । इदं अज्ञैर्द्वितीयेन प्रकारेण ज्ञातं द्वैतम् । वस्त्वपेक्षया द्वितीयप्रकारेण ज्ञाने किं निमित्तमित्यतः उक्तम्- माया- मात्रमिति ॥ जीवानां देहादौ भगवदिच्छया जातमन्यथाज्ञानमस्वाभा- विकत्वान्निवर्तत इत्याकूतार्थः । स्पष्टेन च प्रमाणेन तद्वाक्यं व्याचष्टे- परेणेत्यादिना ।। परमार्थादित्युक्तं विवरीतुमुक्तमुत्तमत्वादुत्तमार्थत्वात् परार्थ इति । अनेन प्रमाणेन द्वितीयार्धार्थ उक्तो भवति । तन्मिथ्याज्ञानं भगवज्ज्ञानान्निवर्तत इति प्रथमार्धार्थोऽवगन्तव्यः । अद्वैतमनन्यथाज्ञातं द्वैतं द्विधाज्ञातं अन्यथाज्ञातमिति व्याख्यातम् । तत्कथं शब्दत आगत- मित्यतस्तद् व्युत्पाद्य दर्शयति - अनन्यथेति ॥ द्विधा इतमिति शेषः । तात्पर्यार्थमाह- अन्यथा ज्ञातमित्यर्थ इति ॥ ९ ॥

खण्डार्थ:-

पूर्ववाक्यार्थमेव विशदयन्नाह - विकल्प इति ॥ भगवदिच्छाधीनत्वे- नास्वाभाविकत्वादहं ममेत्यादिस्वस्वमिभावसम्बन्धरूपो विकल्पो यदि केनचित् स्वाभाविक इति कल्पितस्तर्ह्यसावुपदेशान्निवर्तेत । भगवान् आचार्य एव वाक्यद्वयं प्रमाणस्ववचनाभ्यां सम्यग्व्याकरिष्यति ।। १० ।।

भाष्यार्थः-

विकल्प इति वाक्यं पूर्ववाक्यानतिभिन्नार्थत्वेन वैयर्थ्यमुपसंहारार्थ- तया परिहरन् व्याचष्टे - अत इति ॥ जीवानां देहादौ स्वातन्त्र्येण स्व- स्वामिभावस्यातात्विकत्वादित्यर्थः । कः सतां विदुषां वाद इत्यत आह- ज्ञाते सतीति ॥ तद्वाक्यं प्रमाणेन स्पष्टं व्याचष्टे - विकल्प इति ॥ १० ॥

॥ इति श्रीमाण्डूकभाष्यटीकायां व्यासतीर्थमुनिविरचितायां, खण्डार्थे च द्वितीयः खण्डः ॥

श्रीवादिराजीयाप्रकाशिका

'बीजनिद्रायुत:' इत्यत्र प्राज्ञ एव भ्रमबीजभूतनिद्रायुत इति प्रतीयते ।अत आह भाष्यकार:-निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा ' इति ।। 'न संवेदयतीत्यनङ्गीकारे' इत्यत्र न संवेत्तीति शब्दस्य न संवेदयतीत्यर्थानङ्गीकारे । उपलक्षणं चैतत् । सर्वदृक् शब्दस्य सर्व- दर्शकंत्वार्थानङ्गीकारे चेत्यपि द्रष्टव्यम् । 'द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययो:' इति सर्वदृक्त्वेनोक्ततुरीये पुनद्वैताग्रहणाख्यादर्शनकथनं विरुद्धमित्यर्थः । तर्हि भवतामपि सर्वं दर्शयति, द्वैतं न दर्शयतीति कथं न विरोध इति चेन्न । अस्माभिर्मुक्तौ तुरीयो देवः सर्वं दर्शयतीत्यर्थाङ्गी- कारादिदानीं सर्वं न दर्शयतीत्यर्थाङ्गीकारेणाविरोधात् । मुक्तौ च द्वैत- पदोक्तभ्रमस्यैवाभावात् विद्यमानं सर्वं दर्शयतीत्यर्थस्य नितरामविरोधः । न हि शशविषाणं न दर्शयतीत्येतावता सर्वदर्शयितृत्वस्य विरोधं कोऽपि शङ्कते । परस्य तु संसार एवोभयोः कथनाद्दुष्परिहारो विरोध इति भावः ।

प्राज्ञं समाश्रितासुप्त्यवस्थाप्रवर्तकप्राज्ञाधीनेत्यर्थः ।अन्यथा गृह्णतइति हेतुगर्भविशेषणबलात् स्वप्ने वासनामयत्वेन सूक्ष्मघटेषु स्थूलघटत्वभ्रमः प्राग् भवतीति सिद्ध्यति । एवमन्यथा गृह्णतः स्वप्नद्रष्टुः स्वप्ने जाग्रदृष्टपदार्थ एवायमिति भ्रमान्तरं च जायते । 'नीञ् प्रापणे' इति धातोः गत्यर्थानां च ज्ञानार्थत्वात् स्वपतः वस्तुतत्त्वमजानत; नः योऽनुभव : सस्वप्न इति व्युत्पत्त्या भ्रमान्तरं च भवतीति भावेनाऽह भाष्यकारो - विपरीतज्ञाना- दिति ।। इदं च स्वप्नस्य नियमेन भ्रमद्वयहेतुत्वादेतद्विमोचने महान् प्रयत्नः कर्तव्य इति सूचनार्थम् ।अनादिमायया सुप्तः' इत्यस्य यथाश्रुतार्थाङ्गीकारे जगतो मायाकल्पितत्वभ्रमः स्यादतः प्रमाणेनैव तां श्रुतिं व्याख्यात अनादिमायया विष्णोरिच्छयेति ॥

पञ्चभूतात्मकदेहमधिकृत्य जीवस्य यः स्वीयत्वस्वस्वामित्वाख्यसम्बन्धः सः प्रपञ्चपदेनोच्यत इति भावेनाऽह - तन्वा स्वस्वामिसम्बन्धः इति ॥

सः प्रपञ्चः यदि विद्येत वस्तुतो मम वशे विद्येतेति कस्यचिद्दुराग्रहोऽपि यदि विद्येतेति विद्येतेतिपदस्यावृत्त्या योजनामभिप्रेत्याह- अतस्स विद्यत इतीति ॥ विद्यत इति वदता आद्यो लिङ् 'व्यत्ययो बहुलम्' इति वचनाल्लडर्थो वेति सूचितम् । तथा सति विद्येत भवेदित्यर्थः सम्पन्नः । स निवर्तेत भगवदपरोक्षज्ञानानन्तरं तत्प्रसादापरपर्यायतदिच्छया निवर्तेत । न संशयः, तत्र संशयो न । तत्र हेतुसूचनायाऽऽह- मायामात्रमिति ॥ यतः प्रपञ्चः मायामात्रं केवलभगवदिच्छया निर्मितत्वात् मायामात्रम् । केवलं माया, कार्यकारणयोरभेदव्यपदेशस्य ' लाङ्गलेन जीवनम्' इत्यादौ बहुलमुपलम्भात् । अतः परमार्थत:, सर्वोत्तमभगवत्प्रसादादित्यर्थः, निवर्तेतेति पूर्वेणान्वयः । तर्हीदानीमेव भगवदपरोक्षमानमभिमाननिवृत्तिश्च कुतो न जायत इत्यत आह- इदं द्वैतमद्वैतमिति ॥ अद्वैतं योगिभिः द्वैतं द्वितीयप्रकारतया ज्ञातं नेति व्युत्पत्याऽद्वैतपदवाच्यमिदं देहाभिमान - कारणीभूतं परं ब्रह्म द्वैतमधुना जीवैर्द्विप्रकारतया ज्ञातं वस्तुतत्वापेक्षया वैपरीत्येन ज्ञातमित्यर्थः । अत ईशनियतार्थ भगवदपरोक्षज्ञानाभावान्न निवर्तत इति नञ आवृत्त्या योजना । यदा त्विदं भगवत्स्वरूपं जीवानां श्रवणमननादिना अद्वैतमनन्यथा ज्ञातं भवति तदा भगवदिच्छया निवर्तेत, न संशय इति पदावृत्त्या योजना । इममेवार्थं सप्रमाणकमाह- अद्वैत- मित्यादिना ॥ श्रुतिरपि स्वोक्तपूर्वार्थमेव विशदयन्ती कदा निवर्तत इत्यस्यापि स्पष्टमुत्तरमाह - विकल्प इति ॥ अस्माभिस्तु श्रुतेस्तात्पर्य- वसितमर्थमादाय मन्दानामप्युकाराय प्रागेकवाक्यतया योजना कृता । विकल्पः विरुद्धः कल्पः कल्पनारूपो देहादावहम्मतारूप: सम्बन्धः यदि केनचिदज्ञानादिना कल्पितो निष्पादितः तर्हि उपदेशाद्गुरूपदेशानन्तरं निवर्तेत । तत्कोऽसौ गुरूपदेश इत्यत आह- अयं वाद इति ॥ ब्रह्मणि ज्ञाते सति श्रवणादिना परोक्षीकृते सति द्वैतं ब्रह्मविषयकमन्यथाज्ञानं न विद्यते । तत्त्वतो ज्ञाते वस्तुनि पुनर्भ्रमायोगात् । याथातथ्येन स्वमाहात्म्य- द्रष्टरि पुरुषे ब्रह्मणः कृपावश्यम्भावात् । ज्ञाते ब्रह्मण्यपरोक्षीकृते सति देहादिविषयेऽपि स्वीयत्वभ्रमो विनिवर्तेत । अयं सतां वादः गुरूणामुप- देशः। एतादृशगुरूपदेशात् स्वभ्रमनिवर्तकब्रह्मापरोक्षज्ञानाय गुरूपदेशादेव श्रवणादिकं कुर्वतो भगवदपरोक्षज्ञाने सति तदिच्छया देहादौ या स्वातन्त्र्य- भ्रमनिवृत्तिः सा सर्वस्याप्यादिकारणत्वाद् गुरूपदेशादेव भवतीति भावः । एतद्वाक्यार्थमपि सप्रमाणकमाह- अनन्यथा इतमित्यादिना ॥५- १० ॥

श्रीनिवासतीर्थविरचितापदार्थदीपिका

'नात्मानम्' इत्यादिना प्राज्ञतुरीययोर्वैधर्म्यं उक्त्वा प्रकारान्तरेणापि वैधर्म्यं प्रतिपादयितुं प्रवृत्ते 'बीजनिद्रा' इति मन्त्रे प्राज्ञस्य मूलाज्ञानयुक्तत्वं प्रतीयते । तामपाकुर्वन्निद्रायुतत्वोक्तेरभिप्रायं प्रमाणे- नैव दर्शयति निद्रायुता इति । प्राज्ञस्योक्तं निद्रायुतत्वं विश्वतैजस- योरपि साधारणमित्याशयेन 'विश्वाद्याः' इत्युक्तम् । सा निद्रा । भृत्यत इति ॥ भृत्यस्य तदधीनत्वात् भृत्ययुतः स्वामीत्युच्यते यथेत्यर्थः ।प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा' इति विरुद्ध- धर्मप्रतिपादनेन प्रसक्तां भेदशङ्कां निराकरोति - अभेदमपीति ॥ अभेदेऽपि भेदकार्यकारिरूपाद्विशेषतोऽभेदमपि अभिन्नमपि तद्ब्रह्म बहुरूपमिति सम्बन्धः |

ननु रूपाणामभेदे एतत्सर्वं तुरीयेण रूपेण न करोति विश्वादिरूपेण करोतीति कथं व्यवहार इत्यतः सोऽपि विशेषशक्तित एवेत्याह- करोति न करोतीति ।। स्वशक्तितः स्वाभिन्नविशेषशक्तित इत्यर्थः । अघटित- घटनासामर्थ्यादिति वा । 'तुर्यं तत्सर्वदृक्' इति वाक्ये सर्वदृगित्येतत् सर्वं ||

दर्शयेदिति व्याख्यातम् । णिजन्ततामनङ्गीकृत्य व्याख्याने बाधकमाह- संवेदयतीति ।। सर्वदृगित्यस्य संवेदयतीत्यर्थास्वीकार इत्यर्थः ।विद् ज्ञाने' ‘दृशिर् प्रेक्षणे' इति धात्वोरेकार्थत्वात् दर्शयतीत्यस्वीकार इति वक्तव्ये संवेदयतीत्यस्वीकार इत्युक्तमिति ज्ञातव्यम् । तुरीयं सर्वदृगिति तुरीयस्य सार्वज्ञमुक्त्वाऽग्रहणं तुल्यमिति तुरीयस्याज्ञानोक्तेर्विरुद्धत्वं स्यात् । ज्ञानाज्ञानयोरेकत्र विरुद्धत्वादतो दर्शयेदित्येव व्याख्येयमि- त्यर्थः । दर्शयतीत्यस्वीकार इत्यपि कचित्पाठः ।

ननु प्राज्ञतुरीययोर्द्वताग्रहणं वा कथमुच्यते । तयोरज्ञानाभावादि- त्यतस्तद्वाक्यं व्याचष्टे - द्वैतग्रहणेति ॥ प्राज्ञतुरीययोर्द्वैतस्य देहादि- विषयस्वातन्त्र्यस्य यद्ग्रहणं तद्विषयकं यज्ज्ञानं भ्रमरूपं तदकारणत्वं तुल्यमित्यर्थः । प्राज्ञं तुरीयं च प्राप्तानां देहादिविषयस्वातन्त्र्यभ्रमो न भवतीति तदकारणत्वमुभयोरिति भावः । द्वैतस्याग्रहणं तुल्यमित्येतद् द्वैतग्रहणाकरणत्वं तुल्यमित्यर्थ इति व्याख्यातम् । तत्र प्रमाणं चाह- द्वैतमिति ॥ नग्राहयेदित्युक्त्या द्वैतग्रहणाकारणत्वमिति व्याख्येयमिति सूचितं भवति । बीजनिद्रायुतः प्राज्ञ इत्येतत्प्रमापयति- द्वैतग्रहणेति ॥ प्राज्ञं समाश्रिता प्राज्ञाधीनेत्यर्थः ।

नन्वेतादृशस्य तुरीयस्य प्राप्तिः कदेत्याशङ्कापरिहाराय ' अन्यथा गृह्णत' इति मन्त्रः प्रवृत्तः । तस्यायमर्थः । तत्वं स्वतन्त्रतत्वं भगवन्त- मजानतः पुंसो या निद्रा अविद्याऽस्ति तया अन्यथागृह्णतः अहं ममेत्यादिजाग्रत्कालीनस्वातन्त्र्यभ्रमयुक्तस्य स्वप्नः स्वप्नदर्शित्वं भ्रमो भवति I जाग्रदवस्थायां स्वातन्त्र्यादिविषयकभ्रमजन्यसंस्कारेण जाग्रत्कालीनमिदमिति स्वप्नरूपो भ्रमो भवतीति । तदेतत्तात्पर्यमाह- विपरीतज्ञानादिति ॥

नन्वनाद्यविद्याबद्धस्य जीवस्य जाग्रत्स्वप्नयोर्भ्रमयोर्विपर्यासक्षय एव कथं स्यात् इत्याशङ्कायां यदा सद्गुरूपदेशादिना भगवत्प्रबोधोदय- स्तदानीमेवेत्याशयेन प्रवृत्तं अनादिमाययेति वाक्यं मायाशब्दस्या- निर्वचनीयाविद्यापरत्वप्रतीतिनिरासाय प्रमाणेनैव व्याचष्टे - अनादीति ॥ तया तत्प्रसादेनेति यावत् । प्रबोधं श्रवणादिकम् । आयाति प्राप्नोति गुरूपदेशेन । 'अद्वैतं बुध्यते तदा' इत्यस्यार्थः तदा विष्णुं प्रपश्यतीति ॥

ननु अहं ममेत्यादिस्वस्वामिभावसम्बन्धरूपः प्रपञ्चः यदि जीव- स्वभावः स्यात् तदा भगवत्प्रसादादपि कथमसौ निवर्त्यतेत्याशङ्कायां स न जीवस्वभावः, किन्त्वाभिमानिको भगवदिच्छाधीन एव । अतस्तस्य तज्ज्ञानजनितात्तत्प्रसादान्निवृत्त्युपपत्तिरित्याशयेन प्रवृत्ते प्रपञ्च इति श्लोके आद्यमर्धमन्यथाप्रतीतिनिरासाय व्याचष्टे - तन्वेत्यादिना || प्रपञ्च इत्यनू तन्वेत्यादि व्याख्यातम् । शरीरिणोऽस्य जीवस्य । तन्वा देहेन । निरुपितो यः स्वस्वामिभावसम्बन्धोऽसौ वस्तुतो जीवस्वभावतो नैवास्ति । जीवस्य स्वाभाविको न भवतीत्यर्थः । कुत इत्यत आह- परमस्येति ॥ तर्ह्यह- मेतत्स्वामी, इदं च 'देहादिकं मदीयम्' इति प्रतीतिः कथमित्यत आह- तथापीति ॥ यद्यपि जीवस्यावास्तवो भगवदधीनश्च तथापीत्यर्थः । एषः स्वस्वामिभावसम्बन्धः । अभिमानात् स्वस्मिन् स्वातन्त्र्यारोपादित्यर्थः । अज्ञानादित्यर्थं इत्यप्याहुः । अतः स्वस्वातन्त्र्यारोपेण परिदृश्यमान- त्वादित्यर्थः । अज्ञानेन दर्शनादित्यर्थ इत्यप्याहुः । स्वस्वामिभाव- सम्बन्धाव्यः प्रपञ्चो विद्यतेऽस्वाभाविकतया अभगवद्वशतया चास्तीत्यङ्गीकारो यदि भवेदित्यर्थः । निवर्तेतेत्यत्र कस्मादिति न ज्ञायतेऽतो भगवज्ज्ञानादिति पूरितम् । 'चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्' इति वचनान्निवर्तेतेति युक्तमिति ज्ञातव्यम् ।

भगवज्ज्ञानादपि कथं तन्निवृत्तिरित्यतो भगवदिच्छाधीनत्वात्तस्य तदिच्छयैव निवृत्तिर्युक्तेत्याशयेन प्रवृत्तं मायामात्रामित्यर्थं स्ववाक्येन व्याचष्टे- अद्वैतमित्यादिना । महद्भिरिति शेषः । अन्यथा वस्तु- स्वरूपापेक्षया द्वितीयेन प्रकारेण महद्भिर्न ज्ञातं यत्परब्रह्मादिवस्तु तदद्वैतमित्यर्थः । अद्वैतं द्वैतमित्यन्वयमभिप्रेत्य द्वैतमित्यस्यार्थमाह- तदिति || अद्वैतशब्दोक्तं परब्रह्मादिवस्त्वित्यर्थः । यस्मादिति शेषः । द्विधा वस्तुतत्वापेक्षया । अज्ञैः असज्जनैः || अन्यथाज्ञातमिति ॥ भगवन्निष्ठस्वामित्वस्य स्वस्मिन्नेव ज्ञानेन भगवत्यज्ञानादन्यथाऽस्वामि- त्वेन ज्ञातमित्यर्थः ।। तेषां अन्यथाज्ञाने निमित्तं वक्तुं प्रवृत्तं परमार्थत:- मायामात्रमिति । तत्र परमार्थत इति यथास्थितपदार्थं तावदाह- परमेश्वरादिति || परमार्थतो मायामात्रमित्यन्वयमङ्गीकृत्य तसेः सार्व- विभक्तिकत्वात् षष्ठ्यर्थे तसिरिति भावेन व्याचष्टे - तस्यैवेत्यादिना ।। तस्मादिति श्रुतौ शेषोक्तिः । तथा च यन्महद्भिरनन्यथाज्ञातत्वादद्वैतं ब्रह्म तद् द्वैतं अज्ञैरन्यथाज्ञातं तच्चान्यथाज्ञानं परमार्थतः परमेश्वरस्य मायामात्रं इच्छानिर्मितं यस्मात्तस्मात्तदिच्छयैव निवर्तत इत्यर्थः । मायामात्रमित्यादिवाक्यं स्ववाक्येन व्याख्यातम्, तत्र प्रमाणं च आह- परेणेति ।। महद्भिरिति शेषः । यस्मात्कारणात् यत्प्रसिद्धं भगवत्स्वरूपं परेण ब्रह्मणा प्रसन्नेन तत्प्रसादादिति यावत् । द्विधा वस्तुतत्वापेक्षया अन्यथा महद्भिर्न ज्ञातम्, प्रत्युताञ्जसैव ज्ञातम् । तस्मात्परं ब्रह्माद्वैतमुच्यते । तदेव जीवेनाज्ञेनासज्जनेनान्यथाज्ञातं द्वैतमुद्दिष्टम् । तन्मिथ्याज्ञानं परमार्थात् पञ्चमी षष्ठ्यर्थे परमार्थस्य विष्णोरिच्छा- वशादन्वेव जातम्, अतस्तदिच्छयैव निवर्तत इति शेषः । मायामात्र- मित्येतदनिर्वचनीयाविद्यानिर्मितमित्यन्यथाप्रतीतिनिरासाय तदिच्छा- निर्मितमिति प्राग्व्याख्यातम् । तत्र प्रमाणमाह- मायेतीति ॥ परमार्थत इत्येतत्परमेश्वरादिति प्राग्व्याख्यातम् । तत्र परमेश्वरस्य परमार्थशब्द- वाच्यत्वं कुत इत्यत आह- उत्तमत्वादिति || अद्वैतमनन्यथाज्ञातमिति प्राग्व्याख्यातम् । तत्कथमद्वैतशब्दाल्लभ्यत इत्यत आह- - अनन्यथेति || अन्यथा वस्तुतत्वापेक्षया प्रकारान्तरेणेति द्वीत्यस्यार्थः । इतमित्यनू- द्यावगतमिति व्याख्यातम् । अन्यथेतं न भवतीत्यनन्यथेतं तदेव चाद्वैत- शब्दवाच्यमित्यर्थः । द्वैतं द्विधा ज्ञातमिति प्राग्व्याख्यातम् । तत्कथं द्वैतशब्दाल्लभ्यत इत्यत आह- द्वैतमिति । द्वीत्यस्यार्थो द्विधेति । वस्तुतत्वापेक्षया द्विधा प्रकारान्तरं ह्यन्यथेत्युच्यते । अन्यथेत्येतदा- वर्तनीयम् । तथाचान्यथा प्रकारान्तरेण ज्ञातं यत् तत् द्वैतमुच्यते इत्यर्थ इति योज्यम् । यद्वा द्विधा हीत्यनन्तरं ज्ञातमिति शेषः । वस्तु- स्वरूपापेक्षया द्विधा हि ज्ञातं द्वैतम् । तात्पर्यार्थमाह- अन्यथा - ज्ञातमित्यर्थ इति ।। इति वाक्यभेदेन व्याख्येयम् ।

विकल्पो विनिवर्तेत' इति वाक्यं पूर्ववाक्यादनतिभिन्नार्थत्वात् पुनरुक्तमित्याशङ्कयोपसंहारार्थत्वान्न पुनरुक्तमित्यभिप्रेत्य अत इत्यध्या- हारेण व्याचष्टे- अत इति ॥ शरीरादिसम्बन्धः तन्निरूपितः स्वस्वामि- भावसम्बन्धः अपिशब्देनयदि शब्दस्त्ववस्तुत्वे ह्यस्वातन्त्र्ये च भण्यते' इत्येकादशस्क्त्धतात्पर्योक्तस्यावस्तुत्वरूपार्थस्य यदिशब्दव्याख्यानस्य सङ्ग्रहः । तथा च कल्पितत्वादेव यदि अवस्त्वित्यर्थः । अस्वाभाविक इति यावत् । उपदेशात् भगवदुपदेशरूपात् गुरुवाक्यादपरोक्षज्ञानद्वारा निवर्तत इत्यर्थः । निवर्तत इत्यनन्तरमानन्दाविर्भावरूपां मुक्तिं चैतीति सिद्धमिति वाक्यशेषो द्रष्टव्यः ।

नन्वयमुपसंहारोऽनुपपन्नः । अज्ञानाकल्पितस्य विकल्पस्य भगवज्ज्ञानान्निवृत्यनन्तरमानन्दाविर्भावरूपां मुक्तिमेतीत्यस्यार्थस्या-प्रामाणिकत्वादित्याशङ्कापरिहाराय प्रवृत्तं अयं वाद इत्यादिवाक्यं व्याचष्टे- अयमिति ।। इत्ययं सतां वाद इत्यन्वयः ।। व्याख्यातार्थे प्रमाणञ्चाह- विकल्प इति ॥ देहादिनिस्वपितः स्वस्वामिभावसम्बन्धो देहसम्बन्धः । केनचित्कारणेन अज्ञानादिना । गुरुवाक्यात् भगवदुपदेशात् । तत आनन्दमेत्यसाविति श्रुतौ शेषोक्तिरित्यवगन्तव्यम् । अत्र लिङादीनां वस्तुस्थितिकथनपरत्वमेवाभिप्रेतं न प्रसङ्गार्थत्वमित्यवगन्तव्यम् । ननु तत्त्वनिर्णयादौ प्रसङ्गार्थतया श्लोकद्वयं स्वयमेव व्याख्याय वस्तुस्थिति- कथनपरतया परकृतव्याख्याने लिङादीनां वैयर्थ्यमभिधायात्रपुनर्वस्तु- स्थितिकथनपरतया व्याख्याने कथं न स्ववचनविरोध इति चेदयमभिप्रायो भाष्यकारस्य । सर्वथा तर्कपरमेवेदं श्लोकद्वयं न वस्तुस्थितिकथनपरम् । वस्तुस्थितिकथनपरत्वश्रद्धायामपि न त्वदुक्तरीत्या वस्तुस्थितिकथनपरं अप्रामाणिकत्वात्किन्तु अस्मदुक्तरीत्यैव प्रामाणिकत्वादिति ॥ ५-१० ॥

।। इति माण्डूकभाष्यार्थे द्वितीयः खण्डः ॥