अत्रैते श्लोकाः भवन्ति..
उपनिषत्
(ब्रह्मदृष्टमन्त्रसंवादनिरूपणम्)
अत्रैते श्लोकाः भवन्ति-
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ २ ॥ १ ॥
भाष्यम्
सर्वदुःखानां निवृत्तेः कारणभूतस्तुरीयो देवः ।
'हरिस्तुरीयरूपेण मोक्षद: सम्प्रकीर्तितः ।
देवः स सर्वजीवानां गम्यत्वात्समुदीरितः ॥
भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ।
ईशानामपि मुक्तानामीशानः सोऽननाच्छुतः ॥' इति प्रत्याहारे ॥