अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत:
चतुर्थखण्डार्थः
ततश्चायं खण्डार्थः -
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत:
ओङ्कार आत्मैव संविशत्यात्मनाऽत्मानं य एवं वेद ॥ १ ॥
'तं यथा यथोपासते तदेव भवति' इति वचनेन विश्वाद्युपासके तत्साम्यस्येव तुरीयोपासकेऽपि तत्साम्यस्यावश्यं वक्तव्यत्वादव्यवहार्यत्वादिधर्मेण तत्साम्यं विविवक्षितमित्याशयेन ‘नान्तः प्रज्ञम्' इत्यादौ तुरीयस्य यदव्यवहार्य - त्वादिकमुक्तं तदनुवदन् प्रणवांशनाद - प्रतिपाद्यत्वरूपमहिमानमाह- अमात्र इत्यादिना || अव्यवहार्यत्वादिकं प्राग्व्याख्यातम् । तथा च योऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत अमात्रश्चतुर्थस्तुरीयः स ओङ्कारस्तदवयव - भूतनादप्रतिपाद्य इत्यर्थः । नादप्रतिपाद्यत्वेन तुरीयोपासकस्य फलमाह- आत्मेति ।। य एवं तुरीयं नादप्रतिपाद्यं वेद स आत्मैव भूत्वा देहाद्यन्याभिमानं त्यक्त्वाऽऽत्मना प्रसन्नेन परमात्मना तुरीयप्रसादादिति यावत् । आत्मानं तुरीयं सम्प्रविशतीत्यर्थः ।। १ ॥
अत्रै श्लोका भवन्ति-
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः ।
ओङ्कारं पादशो ज्ञात्वा न किञ्चदपि चिन्तयेत् ॥ २ ॥ १ ॥
नादप्रतिपाद्यतुरीयज्ञानी मुक्तौ तमेव सम्प्रविशतीति स्वोक्तार्थे सलिलेश्वरो ब्रह्मदृष्टान् मन्त्रान् प्रमाणयति - अत्रेति । तानेवोदाहरति- ओङ्कारमिति ॥ पादशः पादैः । कः पादशब्दार्थ इत्यत आह- पादा इति ॥ मात्राः अंशाः । तथा चोङ्कारं भगवन्तम् अकारादिभिः पादैः अंशैः प्रतिपाद्यं विद्यात् । तत्रोङ्कारं तुरीयं पादशः नादरूपांशप्रतिपाद्यत्वेन ज्ञात्वा । किञ्चित्सांसारिकं विषयजातं न चिन्तयेत् न चिन्तयति । तमेव प्रविश्यानन्दाविर्भावमेतीति भावः ॥ २ ॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते कचित् ॥ ३ ॥२॥
संसारं तितीर्षुणाऽवश्यमोङ्कारप्रतिपाद्यश्चतूरूपो भगवान् ध्यातव्य इत्यत्र मन्त्रं पठति - युञ्जीतेति ॥ प्रणवे जाग्रदादिप्रणयनात् प्रणवशब्दवाच्ये चतूरूपे विष्णौ चेतो युञ्जीत । प्रणवस्वरूपमेवाह - प्रणव इति ।। ततः किं फलमित्यत आह- प्रणव इति || प्रणवस्य निर्भयत्वादेव तत्र नित्यं मनोयोगयुक्तस्यापि भयं नास्तीत्यर्थः ॥ ३ ॥
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतम् ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ ४ ॥ ३ ॥
वासुदेवादिभिः पूर्वावतारैः पाश्चात्यावताराणां विश्वादीनां ज्ञानादि- गुणेन अपकर्षो न मन्तव्य इत्याह - प्रणवो ह्यपरमिति || योऽपरं अपरः पाश्चात्यः प्रणवः तत्प्रतिपाद्यो विश्वादिचतूरूपो भगवान् स ब्रह्म बृंह- णात् । परं परः पूर्वकालीनावतारः वासुदेवादिः सोऽपि ब्रह्मेत्येतद्धि 'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते' इत्यादिश्रुतिसिद्धमित्यर्थः । तथा च पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एव । नावतारेषु कश्चिद्गुणापकर्ष इत्याशयः । पूर्णत्वसम्भावनाय पुनस्तत्स्वरूपं निरूपयति- अपूर्व इत्यादिना ।। प्रणवः तत्प्रतिपाद्यो विश्वादिचतूरूपो भगवान् अपूर्वः । न विद्यते पूर्वः कारणं यस्यासौ तथोक्तः । अनादिरित्यर्थः । अनन्तरः नविद्यतेऽन्तरो नाशो यस्यासौ तथोक्तः । न विद्यतेऽन्यो जगतोऽन्तरः अन्तःस्थितः यस्मादसौ तथोक्त इत्यप्यर्थो द्रष्टव्यः । ‘सर्वस्य हृदये स्थितम्' इति वक्ष्यमाणत्वात् । अवाह्यः न विद्यतेऽन्यो जगद्बाह्यो यस्मादसौ तथोक्तः । अनपरः न विद्यतेऽपरः स्थितिकर्ता यस्येति तथोक्तः । न विद्यते व्ययो गुणादिनाशो यस्यासौ तथोक्तः || ४ ||
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ ५ ॥ ४ ॥
प्रणवप्रतिपाद्यस्य विश्वादिचतूरूपस्य भगवतोऽपूर्व इत्यादिना सृष्ट्यादिकर्ताऽन्यो नास्तीत्युक्तम् । न केवलमेतावत्, किन्तु स्वयमेव सर्वस्योत्पत्त्यादिकर्तेति बदन् स्तज्ज्ञानिनः फलञ्चाह - सर्वस्येति ॥ जगत इत्यर्थः । आदिः कारणं मध्यं स्थितिकर्ता अन्तः संहारकः । ज्ञात्वेति त्वाप्रत्ययलब्धानन्तर्यस्यैव प्रकटनमनन्तरमिति । यद्वाऽनन्तरं उक्तरीत्या तच्छब्दाबाच्यं तत् ब्रह्म व्यश्नुते अशू व्याप्तौ विशेषेणा- प्नोतीति व्याख्येयम् ।। ५ ॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ ६॥५॥
अनन्तरो बाह्य इति पदाभ्यां जगदन्तर्बहिश्च तदन्यो नास्तीत्युक्तम् । न केवलमेतावत्, किन्तु स्वयमेव सर्वान्तर्बहिश्चेति वदंस्तज्ज्ञानिनः फलं चाह- प्रणवं हीति ।। ‘सर्वस्य हृदये स्थितम्' इत्यनेनाणुत्वमुक्तम् । 'सर्वव्यापिनम्' इति महत्त्वं चोक्तम् । तयोरविरोधोपपादनाय 'ईश्वरं हि' इति । अघटितघटकशक्तिसम्पन्नतया प्रमाणसिद्धमित्यर्थः ।। ६ ।।
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः
स मुनिर्नेतरो जन इति ।। ७ ।। ६ ।।
एवं प्रणवप्रतिपाद्यविश्वादिचतूरूपभगवज्ज्ञानिनं स्तुवन्नुपनिषदं समापयति- अमात्र इति ॥ अमात्रो भिन्नांशरहितः अनन्तमात्रः पुनरनन्तांशः द्वैतस्योपशमो मिथ्याज्ञानस्योपशमकर्तेति तत्वप्रकाशि- कोक्तरीत्या व्याख्येयम् । निर्दुःखसुखरूपत्वाच्छिवः । ओमित्याक्रिय- माणत्वादोङ्कारो विश्वादिचतूरूपो हरिः । येन अधिकारिणा विदितः
सम्यक्श्रवणादिना ज्ञातः स एव मुनिरपरोक्षज्ञानी भवति । इतरो जनस्तु न मुनिरित्यर्थः । उपनिषदर्थस्य सर्वस्यावधारणार्थमन्ते द्विरुक्तिः । 'अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिके पि वा । विचारो यंत्र सज्येत पूर्वोक्तस्यावधारणे' इति भगवत्पादैरभिहितत्वादित्यवगन्तव्यम् ॥ ७ ॥ ॥ माण्डूकखण्डार्थे चतुर्थः खण्डः ।।
एवं समापितभाष्यो भगवानाचार्योऽन्तेऽपि एतदुपनिषत्प्रतिपाद्यं विश्वादिचतूरूपं विष्णुं प्रणमति एकोऽपीति ॥ ऐक्येऽपीन्द्रार्जुनादि- वद्विशेषो न मन्तव्य इत्याशयेन निर्विशेषोऽपीत्युक्तम् । चतुर्धा व्यवहारभाक् विश्वादिरूपेणेति शेषः एकस्यापि चतुर्धा व्यवहारभाक्त्वमभेदे भेदकार्यकारिणा विशेषेणोपपन्नमित्याशयः । विश्वादि च तद्रूपञ्च विश्वादिरूपं तदस्यास्तीति विश्वादिरूपी तमिति कर्माधारयादिनिः । तेन बहुव्रीहिणैव मत्वर्थलाभादिनेर्वैयर्थ्यमिति शङ्कानवकाश इति ध्येयम् । चिदानन्दं ज्ञानानन्दादिस्वरूपम् । इदश्च ‘प्रत्ययसारं’ ‘प्रपञ्चोपशमम्' इत्यनेनोक्तमित्यवगन्तव्यम् । विष्णुं वन्दे अभिवादयामि स्तौमि चेत्यशेषमतिमङ्गलम् ।। माण्डूकोपनिषद्भाष्यं विवृतं गुर्वनुग्रहात् । तेष्टदोऽस्तु मत्पूज्यो भगवान् बादरायणः। यैरहं शुकवत्सम्यक् शिक्षितोऽस्मि कृपालुभिः । तान्वन्दे यादवाचार्यान् वेदेशमुनिसेवकान् ॥
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिता माण्डूकोपनिषद्भाष्यविवृति: श्रीनिवासतीर्थविरचिता पदार्थदीपिकाख्या सम्पूर्णा ॥ ॥ श्रीकृष्णार्पणमस्तु ॥