नान्तः प्रज्ञं न बहिः प्रज्ञं..

द्वितीयखण्डार्थः

ततश्चायं खण्डार्थ:-

नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञमदृष्ट- मव्यहार्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते ।

स आत्मा स विज्ञेयः ॥ १ ॥

एवं विश्वादीनां त्रयाणां महिमानं निरूप्य तुरीयस्य तन्निरूपयति नान्तःप्रज्ञमित्यादिना || विश्वादिवत्तुरीयस्य स्थानानुक्तेर्नासिकामूल- मारभ्य द्वादशाङ्गुलान्ते मस्तकमध्ये तिष्ठतीति स्थानं द्रष्टव्यम् । मस्तक- मारभ्योपरि द्वादशाङ्गुलिपरिमिताकाशप्रदेशे तिष्ठतीति तुरीयस्य स्थानं द्रष्टव्यमित्यप्याहुः । नान्तःप्रज्ञं देहान्तस्थिता ये स्वाप्नपदार्थाः । तान् न प्रज्ञापयतीति नान्तःप्रज्ञः तम् । स्वप्नावस्थाया अकर्तारमित्यर्थः । न बहिःप्रज्ञं बहिस्थिता ये पदार्था जाग्रत्कालीनाः तान् न प्रज्ञापयतीति न बहिःप्रज्ञः तम् । जाग्रदवस्थाया अकर्तारमित्यर्थः । नोभयतःप्रज्ञं बहिःशब्दादिकं जानाति अन्तःस्वप्नञ्च पश्यति, कस्याञ्चिदवस्थायां तामुभयज्ञानशब्दवाच्यावस्थां च न प्रज्ञापयतीति नोभयतःप्रज्ञः तम् । एतदवस्थाप्रवर्तकौ च विश्वतैजसाविति संप्रदायविदः । न प्रज्ञानघनं घनस्याज्ञानावृतस्य जीवस्य सुप्त्यवस्थाकालसुखानाञ्च प्रज्ञापनं यस्मान्न भवत्यसौ नप्रज्ञानघनः तम् । सुप्त्यवस्थायाः अकर्तारमित्यर्थः । न प्रज्ञं प्रज्ञाशब्दोक्तासंप्रज्ञातसमाध्यवस्थाज्ञानं यस्मान्नभवत्यसौ नप्रज्ञः तम् । असंप्रज्ञातसमाध्यवस्थाया अकर्तारमित्यर्थः । नाप्रज्ञं चरमदेहमुत्सृज्य मुक्तिं गच्छतां ज्ञानाप्रदो न भवतीति नाप्रज्ञः तम् । अदृष्टं मुख्य- प्राणानुग्रहाभावेनामुक्तो यस्तेनादृश्यमानत्वाददृष्टः तम् । अव्यवहार्यं मुक्तिं विना संसारे ग्रहणापरपर्यायव्यवहाराद्यविषयत्वादव्यवहार्यः तम् अग्राह्यमित्यर्थः । अलक्षणं विश्वादित्रयवत् जाग्रदाद्यवस्थाप्रवर्तकत्व- रूपानुमापकधर्मशून्यत्वादलक्षणः तम् । अचिन्त्यं अनुमापकधर्मशून्य- त्वादेवानुमितिरूपचिन्ताविषयो न भवतीत्यचिन्त्यः तम् । अव्यपदेश्यं व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादचिन्त्यत्वादेव व्यपदेष्टुमशक्य- त्वादव्यपदेश्यः तम् । ऐकात्म्यप्रत्ययसारं प्रधानत्वादेकः पूर्णत्वादात्मा । प्रधानं पूर्णं यस्मात् भगवत्स्वरूपं तस्मादेवैकात्म्यम् । ज्ञानरूपत्वात् प्रत्ययः । आनन्दरूपत्वात्सारः । ऐकात्म्यं चासौ प्रत्ययश्वासौ सारश्चेति तथोक्तः तम् । प्रपञ्चोपशमं गुणादिभिर्विस्तृतत्वात्प्रपञ्चः उशब्द (उच्छब्द ) वदुपशब्दोऽप्युत्कृष्टवाची । शमशब्दश्चानन्दरूपत्ववाची । तथा चोत्कृष्टानन्दरूपत्वादुपशमः प्रपञ्चश्चासावुपशमश्च प्रपञ्चोपशमः तम् । यद्वा प्रपञ्चस्य देहसम्बन्धरूपस्य उपशमो नाशो यस्माद्भवत्यसौ प्रपञ्चोपशमः तम् । शिवं निर्दुःखसुखरूपत्वात् शिवः तम् | अद्वैतं वस्तु स्वरूपापेक्षयाऽन्यथाप्रत्ययो द्वैतं तच्छमयतीत्यद्वैतः तं । अन्यथा - प्रत्ययाकारणमित्यर्थः । इदं च विशेषणं प्राज्ञेऽपि द्रष्टव्यम् । तादृशं तुरीयं ज्ञानिनश्चतुर्थं मन्यन्ते । सोऽयमात्मा चतुष्पात्' इत्युक्तमुपसंहरति- स इति । स विश्वादिरूपेण चतुष्पादात्मा आदानादिकर्ता स एव सर्वैर्मुमुक्षुभिर्विशेषेण न ज्ञेय इत्यर्थः ॥ १ ॥

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।

अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ २ ॥ १ ॥

अस्मिन्नप्यर्थे सलिलेश्वरो ब्रह्मदृष्टान्मन्त्रान् संवादयन्नाह - अत्रैत इति ।। प्रपञ्चोपशममिति तुरीयस्य सर्वानिष्टनिवृत्तिकारणत्वमुक्तम् । तत्र तावन्मन्त्रं पठति- निवृत्तेरिति ।। अव्ययस्तुरीयः सर्वदुःखानां निवृत्तेः प्रभुः समर्थः कारणभूतः मोक्षदत्वात् । ईशानां मुक्तानामनश्श्रेष्टक ईशानः । अद्वैत- मित्युक्तार्थे मन्त्रं पठति- अद्वैत इति ।। विभुस्तुरीयः । सर्वभावानां भवन्ति देहयोगेनोत्पद्यन्त इति भावा जीवाः तेषां कर्तरि षष्ठी । तैः मुक्तिं गमिष्यद्भिर्देवो गम्यःस्मृतः । मन्त्रेऽधिकमेतत् || ||

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ I

प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥ २ ॥

'नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनम्' इति तुरीयस्य यद्विश्वादिभ्यस्त्रिभ्यो वैधर्म्यमुक्तं तत्र मन्त्रं पठति - कार्येति ॥ अत्र विश्वादीनां बद्धत्वोक्तिरन्यगतबन्धस्य तदधीनत्वात् 'तदधीनत्वादर्थवत्' (ब्र.सू. १.४.३) इति न्यायेन वा 'बन्धयतीति बद्ध' इति कर्तृव्युत्पत्त्या वेति ज्ञातव्यम् । न तु बद्धत्वम् । सर्वमानविरुद्धत्वात् । कार्यं भ्रमः कारणमविद्या । विश्वतैजसौ कार्यकारणरूपद्विविधबन्धवन्तौ । प्राज्ञः कारणरूपैकबन्धवान् । कार्यकारणाकारेण द्वावपि बन्धौ तुरीये न स्त

इत्यर्थः । ननु विश्वतैजसयोर्द्विविधबन्धवत्त्वेन प्राज्ञतुरीयाभ्यां भेदेऽपि परस्परं व्यावर्तकधर्माभावेन कथं भेद इति चेत् उच्यते । अविद्यारूप- कारणबद्धत्वस्योभयत्राविशिष्टत्वेऽपि कार्यबद्धत्वे वैलक्षण्यसद्भावात् । तथाहि । अविद्या तत्कार्यस्वातन्त्र्यादिविषयकजाग्रत्कालीनभ्रमरूपोभय- बन्धप्रदो विश्वः । अविद्यातत्कार्यजाग्रत्कालीनभ्रमकार्यस्वाप्रभ्रमरूपोभय- बन्धप्रदस्तैजसः । न च स्वप्नस्य जाग्रत्कालीनभ्रमकार्यत्वं कथमिति शङ्कयम् ।अदृष्टे चाश्रुतेऽभावे न भाव उपजायते' (ब्र.सू. अनु. ३.२.३ श्लो. ९) इति वचनेन संस्कारद्वारा तत्कारणकत्वस्य सत्त्वात् । मूलाविद्या- रूपकारणमात्रबन्धप्रदः प्राज्ञ इति तत्त्वप्रकाशिकाभावबोधयोरुक्तरीत्याऽ- वगन्तव्यम् ।द्वौ तु तुर्ये न सिध्यतः' इत्यनेन तुरीयस्य सर्वथाऽबन्धकत्व- मुक्तम् । तेनार्थात्सर्वज्ञानप्रदत्वं तस्येति सूचितं भवति । तथा च नाप्रज्ञमित्युक्तार्थेऽप्ययमन्त्रः प्रमाणमिति ज्ञातव्यम् || ||

नाऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् ।

प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ।। ४ ।। ३ ।।

'न प्रज्ञानघनम्' इत्युक्ते प्राज्ञाद्वैधर्म्ये मन्त्रान्तरं पठति - नेति ॥ प्राज्ञः आत्मानं स्वस्वरूपं परान् जीवाज्ञानसुप्यवस्थाकालसुखेभ्योऽन्यान् पदार्थान् सत्यानृतशब्दलक्षितं तत्कार्यं पुण्यं पापञ्च न संवेत्ति । णिजन्त- मेतत्, न संवेदयतीत्यर्थः । इतरेषामसंवेदनरूपक्रियाप्रदाने प्राज्ञस्यैव स्वतन्त्रत्वात् ।न संवेत्तिइति श्रुतौ उक्तं 'स्वतन्त्रे कर्तृशब्दःस्यात्' इति वचनादित्यवगन्तव्यम् ।। तुर्यमिति । सर्वदृगित्येतदपि णिजन्तम् । तथा च तुरीयं रूपं आत्मानं परान् ज्ञानोत्तर कृतपुण्यं चैतत्सर्वं मुक्तौ दर्शयतीति सर्वदृगित्यर्थः । अनेन नाप्रज्ञमित्युक्तं सर्वज्ञानप्रदत्वं च प्रमापितं भवतीति ज्ञातव्यम् ।। ४ ।।

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।

बीज निद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ ५ ॥ ४ ॥

शिवमद्वैतम्' इति तुरीयस्योक्तमद्वैतमिति विशेषणं 'सुषुप्तस्थाने' इत्यादौ प्राज्ञस्वरूपकथनपरे वाक्ये प्राज्ञस्याप्यभिप्रेतम् । अतः प्राज्ञतुरीययोरद्वैतत्वं समानमित्यत्र मन्त्रं पठति - द्वैतस्येति ॥ प्राज्ञतुरीय- योरुभयोर्देहादिविषयस्वातन्त्र्यभ्रमरूपद्वैतग्रहणाकारपत्वं तुल्यमित्यर्थः । प्राज्ञं तुरीयं च प्राप्तानां देहादिविषयस्वातन्त्र्यभ्रमो न भवतीति तदकारणत्वमुभयोरपीति भावः । नात्मानमित्यादिना प्राज्ञतुरीय- योर्वैधर्म्यमुक्त्वा द्वैतस्येति साम्यं चोक्त्वा पुनर्वैधर्म्यं प्रकारान्तरेणाह - बीजेति || मूलाविद्यायुतः प्राज्ञः, तस्याः तदधीनत्वेन प्राज्ञस्य तत्प्रवर्तक- त्त्वात्तद्युक्तत्वं युक्तम् । भृत्ययुतः स्वामीत्यादाविवेति द्रष्टव्यम् । सा च मूलाविद्या तुरीये न विद्यते । तत्प्रवर्तको न भवतीत्यर्थः ॥ ५ ॥

स्वप्रनिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्रनिद्रया ।

न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ६ ॥ ५ ॥

विश्वतैजसयोर्द्विविधबन्धवत्वेन साम्यं प्राज्ञस्यैकबन्धवत्वेन ताभ्यां वैलक्षण्यं सर्वथा बन्धशून्यत्वेन तुरीयस्य त्रिभ्यो वैधर्म्यं 'कार्यकारणबद्वी' इत्यनेनोक्तम् । तत्रैव मन्त्रान्तरं पठति - स्वप्नेति ॥ स्वप्नः कार्यरूपो भ्रमः । निद्रा अविद्या । आद्यौ विश्वतैजसौ स्वप्ननिद्रायुतौ । उक्तरीत्या कार्य- कारणबद्धौ' इत्यर्थः । प्राज्ञस्त्वस्वप्ननिद्रया स्वप्नशब्दोक्तकार्यभ्रमं विना निद्रया अविद्यया युतः । कारणमात्रबद्ध इत्यर्थः । निश्चिताः यथार्थ- निश्चयवन्तः । तुरीये निद्रां स्वप्नञ्च नैव पश्यन्ति सर्वथा कार्यकारण- बन्धशून्यत्वेनैव तं पश्यन्तीत्यर्थः ।। ६ ।।

अन्यथा गृह्णतः स्वप्नो निद्रातत्त्वमजानतः ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ७ ॥ ६ ॥

नन्वेतादृशस्य तुरीयस्य प्राप्तिः कदेत्याशङ्कापरिहाराय आह- अन्य - थेति ।। तत्त्वं स्वतन्त्रतत्त्वं भगवन्तं अजानतः पुंसो या निद्राऽविद्याऽस्ति तयाऽन्यथागृह्णतोऽहं ममेत्यादि जाग्रत्कालीनस्वातन्त्र्यभ्रमयुक्तस्य स्वप्नः स्वप्नदर्शित्वभ्रमो भवति । जाग्रदवस्थायां स्वातन्त्र्यादिविषयभ्रमजन्य- संस्कारेण जाग्रत्कालीनमिदमिति स्वप्नरूपो भ्रमो भवति । एवंरूपे तयोर्विपर्यासे जाग्रत्स्वप्नभ्रमयोर्विपरिवर्तने क्षीणे सति पद्यत इति पदं तुरीयं अश्नुते प्राप्नोतीत्यर्थः ॥ ७ ॥

अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते ।

अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ।। ८ , ७।।

नन्वनाद्यविद्याबद्धस्य जाग्रत्स्वप्रभ्रमयोर्विपर्यासक्षय एव कथं स्यादि- त्यतो यदा सद्गुरूपदेशादिना भगवत्प्रबोधोदयस्तदैवेत्याशयेनाह - अना- दीति । अनादेर्विष्णोरनादिभूतया मायया इच्छया तदधीनया प्रकृत्या च सुप्तः स्वापितो जीवो यदा ईश्वरेच्छयैव सद्गुरूपदेशेन प्रबुध्यते प्रबोधमायाति श्रवणादिमान् भवतीति यावत् । तदा अजं जनिरहितम् । अनिद्रं अज्ञानरहितम् । अस्वप्नं स्वप्नाद्युपलक्षित जाग्रदाद्यवस्थाऽतीतम् । अद्वैतं अन्यथाज्ञानशून्यं भगवन्तम् । बुध्यतेऽपरोक्षतो जानातीत्यर्थः । अनन्तरं विपर्यासक्षयो भवतीति भावः ।। ८ ।।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ९ ॥ ८ ॥

नन्वहं ममेत्यादिस्वस्वामिभावसम्बन्धरूपप्रपञ्चो यदि जीवस्वभावः स्यात् तदा भगवत्प्रसादादपि कथमसौ निवर्तेतेत्याशङ्कायां स न जीवस्वभावः । किन्त्वाभिमानिको भगवदिच्छाधीन एव । अतस्तज्ज्ञान- जनितात्तत्प्रसादान्निवृत्त्युपपत्तिरित्याशयेनाह - प्रपञ्च इति ॥ देहादि- निरूपितः स्वस्वामिभावरूपः प्रपञ्चो जीवस्याभिमानाद्विद्येत अस्वाभाविकतया भगवद्वशत्वेन च विद्यत इत्यङ्गीकारो यदि भवेत्तथापि भगवज्ज्ञानान्निवर्तेतैव । नात्र संशय इत्यर्थः ' । ननु भगवज्ज्ञानादपि कथं तन्निवृत्तिरित्यतो भगवदिच्छाधीनत्वात्तस्य तदिच्छयैव निवृत्तिर्युक्तेत्या- शयेनाह- मायामात्रमिति । यत् महद्भिरनन्यथाज्ञातत्वादद्वैतं ब्रह्म तदिदं द्वैतं अज्ञैरन्यथाज्ञातम् । तच्चान्यथाज्ञानं परमार्थतः, तसेः सार्व- विभक्तिकत्वात् पञ्चमी षष्ठ्यर्थे परमार्थस्योत्तमार्थस्य परमेश्वरस्य मायामात्रमिच्छानिर्मितं यस्मात्तस्मात्तदिच्छ्यैव निवर्तत इत्यर्थः || ||

विकल्पो विनिवर्त्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यत इति ॥ १० ॥ ९ ॥

उपसंहरति- विकल्प इति ।। अत्रात इत्युपस्कर्तव्यम् । केनचित्कल्पितो यदि विकल्प इत्यन्वयः । तथा चातः केनचिदज्ञानादिना कारणेन कल्पित- त्वादेव । यदि 'यदिशब्दस्त्ववस्तुत्वे' इत्येकादशस्कन्धतात्पर्ये । अत्रत्य- यदिशब्दस्यावस्तुत्वार्थत्वेन व्याख्यातत्वादवस्तुभूतो विकल्पः शरीरादि- निरूपितः स्वस्वामिभावसम्बन्धः । उपदेशात् गुरुकृतात् भगवदुपदेशाच्छ्रव- णादिरूपात्तज्ज्ञानादपरोक्षज्ञानद्वारा निवर्तत इत्यर्थः । तदनन्तरमानन्दा- विर्भावरूपां मुक्तिं चेतीति सिद्धमिति वाक्यशेषो द्रष्टव्यः । तत आनन्द- मेत्यसावित्युक्तत्वात् । अत्र लिङादेर्वस्तुस्थितिकथनपरत्वमेवाभिप्रेतं न प्रसङ्गार्थत्वमित्यवगन्तव्यम् । नन्वयमुपसंहारोऽनुपपन्नः। अज्ञानादिकल्पितस्य विकल्पस्य भगवज्ज्ञानान्निवृत्त्यनन्तरमानन्दाविर्भावरूपां मुक्तिमेतीत्यस्यार्थ –

स्याप्रामाणिकत्वादित्याशङ्कापरिहाराय आह- अयं वाद इति || ब्रह्मणि ज्ञाते सति । द्वैतं स्वस्वामिभावसम्बन्धज्ञानरूपमन्यथाज्ञानं न विद्यते निवर्तते । तदनन्तरमानन्दाविर्भावरूपां मुक्तिमेतीत्ययं सतां वादः सिद्धान्तः। अतो नात्राप्रामाणिकत्वशङ्का कार्येति भावः || १० ॥

॥ इतिमाण्डूकखण्डार्थे द्वितीयखण्डः ॥