सोऽयमात्मा चतुष्पात्

उपनिषत्

(अकारप्रतिपाद्यः जाग्रदवस्थाप्रेरकः विश्वः )

सोऽयमात्मा चतुष्पात् | जागरितस्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥

भाष्यम्  

'चतुर्द्धावस्थितो देहे परमात्मा सनातनः ।

वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥

निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः ।

अष्टादश मुखान्यस्य पुमाकाराणि सर्वशः ||

मद्ध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् ।

पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥

स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते नचाशुभान् ।

विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ।

तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः ||

विनायकस्तु विश्वस्य ध्यानादैद्गजवक्त्रताम् ।

तथैव तैजसद्ध्यानात् त्रिद्ध्यानादिन्द्र इन्द्रताम् ॥'

'चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ।

एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः ॥ ' इति महायोगे ॥