नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतः..
उपनिषत्
(नादप्रतिपाद्यः तुर्यरूपी विष्णुः )
नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नप्रज्ञमदृष्टमव्यहार्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्यय-
सारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १ ॥
भाष्यम्
'विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः ।
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् ।
अपरोक्षदृशां कापि तुरीयं दृश्यते पदम् ॥
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च ।
बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ।
यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता ॥
एतत् सर्वं तुरीयेण रूपेण न करोत्यजः ।
सर्वज्ञानप्रदश्वापि मुक्तस्यैव तुरीयकः ॥ इति ब्रह्माण्डे ॥
'अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते ।
तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ।
विना मुक्तिं यतस्तेनाव्यवहार्य इतीरितः ।
जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ।
अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च ।
तत एव निर्देश्यश्चिदानन्दैकलक्षणः ।
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः ।
एक: प्रधान उद्दिष्ट आत्मा पूर्णत्त्वतः श्रुतः ।
तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः ।
प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ।
प्रपञ्चो विस्तृतेविष्णु: शम आनन्दरूपतः ।।
उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः ।
प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ।
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः ॥
अन्यथाप्रत्ययो द्वैतं शमयेत्तं यतो हरिः ।
अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ||' इति माहात्म्ये ।
'अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता ।
इण् गताविति धातोश्व तज्ज्ञानं द्वैतमुच्यते ।।' इति सङ्कल्पे ॥
'स आत्मा स विज्ञेयः' इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्' इति पृथगारम्भात् ।
'विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः ।
निर्विशेषोऽपि भगवान्धतुर्द्धा समुदीरितः' इति प्रत्यये ॥ १ ॥