ओमित्येतदक्षरमिदं सर्वम्
माण्डकोपनिषद्भाष्यम्
प्रथमः खण्डः
श्रीराघवेन्द्रयतिविरचितमाण्डूकोपनिषत् खण्डार्थः
समस्तगुणपूर्णाय दोषद्राय विष्णवे ।
नमः श्रीप्राणनाथाय विश्वादिचतुरात्मने ॥
अस्या उपनिषदो मण्डूकरूपी वरुणः ऋषिः । चतूरूपी हरिर्देवता । केषाञ्चिच्छन्दोबद्धानामक्षरगणनयाऽनुष्टुप्छन्दस्त्वं ज्ञेयम् । मुमुक्षोरधि- कारिणोऽखिलक्लेशनिवृत्तिविशिष्टपरमानन्दावाप्तये समस्तव्यस्तप्रणव- प्रतिपाद्यभगवदुपासनां वक्तुं प्रवृत्तेयमुपनिषत् । आदौ समस्तप्रवणवप्रतिपाद्यं तावदाह- ‘ओम्' इत्यादिना 'अयमात्मा ब्रह्म' इत्यन्तेन ।
ओमित्येतदक्षरमिदं सर्वम् ।
तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥ १ ॥
एतदिति श्रवणाद् यदित्यन्वेति । ओमिति । उक्तमिति शेषः । ओतं जगदस्मिन्निति व्युत्पत्त्या ओमित्युक्तं यद् ब्रह्म एतदक्षरमुच्यते । इदमक्षरं सर्वं गुणपूर्णम् । केन निमित्तेनोङ्कारवाच्यं ब्रह्माक्षरमित्युच्यत इत्यतो न क्षरति कालत्रयेऽपीति व्युत्पत्त्या कालत्रयेऽप्येकप्रकारतया नित्यत्वहेतुनेति भावेन प्रतिज्ञापूर्वकं प्रवृत्तिनिमित्तमाह तस्येति ॥ विशिष्याऽख्या- यतेऽनेनेति व्याख्यानं, प्रवृत्तिनिमित्तम् । ओमित्यक्षरप्रतिपाद्यस्याक्षर- शब्दार्थत्व उपपन्नं व्याख्यानमुच्यत इत्यर्थः । तत्किमित्यत आह- भूत- मिति ॥ ओमित्युक्तं ब्रह्म, भूतम् अतीतकाले विद्यमानं, भवद्वर्तमानकाले सत्, भविष्यत् आगामिकालेऽपि सत्, शश्वदेकप्रकारमिति यावत् । अतोऽ- क्षरमुच्यत इत्यर्थः । इतिशब्दस्योपव्याख्यानमिति पूर्वेणान्वयः ॥ १ ॥
यदक्षरस्य सर्वमित्यनेन पूर्णत्वमुक्तं तदन्यस्याप्यस्ति किमित्यतो नेत्याह- सर्वमिति ॥
सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ।
ओमित्याक्रियते प्रतिपाद्यत इत्योङ्कारः, कृञः कर्मणि घञ्प्रत्ययः । अचो णितीति वृद्धिः । ' घणञबन्ताः पुंसि' इति पुल्लिङ्गता । ओमित्युच्यमानमक्षरमेव सर्वं पूर्णं, न त्वन्यदित्यर्थः । भूतमित्यादिनोक्तं शश्वदेक प्रकारत्वरूपकालत्रयातीतत्वमक्षरपदप्रवृत्तिनिमित्तमपि नान्यस्येत्याह- यच्चान्यदिति ॥ कालत्रयकृतविकारहीनरूपं त्रिकालातीतं च यदन्यत् चित्प्रकृतिरूपमस्ति तदप्योङ्कार एव । ओमित्युच्यमानाक्षराख्यं ब्रह्मैव । न ततोऽन्यत् तादृशमस्तीत्यर्थः । श्रीतत्त्वे शश्वदेकप्रकारत्वरूपं कालत्रयातीतत्वमीशप्रसादायत्तं न स्वत इति भावः । यद्वा, यत् कालत्रयातीतं तदप्योङ्कार एव । अन्यच्च श्रीतत्वञ्च । तदुभयान्यत्काल- त्रयातीतं नेत्येवकारार्थः ।
सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ।। २ ।।
सर्वमोङ्कार एवेत्यत्रोंपदवाच्यब्रह्मणः पूर्णत्वमुक्तम् । तत् कुत इत्याशंकां प्रमाणसूचनेन निराह - सर्वं ह्येतद् ब्रह्मेति । एतदपदवाच्यमक्षराख्यं ब्रह्म सर्वं पूर्णं हि, ‘परमं यो महद् ब्रह्म', 'तदेव ब्रह्म परमं कवीनाम्', 'पूर्णमदः पूर्णमिदम्', इत्यादिषु प्रसिद्धमित्यर्थः । ननु जीवानां हिताहित- क्रियास्वस्वातन्त्र्यानुभवेन तेष्वपि कश्चिदस्ति नियन्तेत्यनुमितस्यापि गुणपूर्त्यादेरपेक्षणीयत्वात् कथम् ? ओं पदवाच्यस्यैव पूर्णत्वादीत्यतोऽयमेव तत्रापि नियन्ता नान्य इत्याह- अयमिति । श्रीब्रह्मादिष्वादानादिकर्तृतया स्थितो य आत्माऽयं ब्रह्म प्रागुक्तमोंपदवाच्यं ब्रह्मैव, न त्वन्यः कश्चिदित्यर्थः । येन तस्यैव पूर्णत्वादीत्येतन्न स्यादिति भावः । इति समस्तप्रणवप्रतिपाद्योक्तिः || २ ||
एवं समस्तप्रणवप्रतिपाद्यमुपासनार्थं निरूप्येदानीं तदेकदेशैरकारोकार- मकारनादैः प्रतिपाद्यानां विश्वादिभगवद्रूपाणामुपासनमकारोकारमकार इत्यादिना तृतीयखण्डे वक्तुं तानि रूपाण्याह- सोऽयमिति
सोऽयमात्मा चतुष्पात् । जागारितस्थानो बहिःप्रज्ञः ।
सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ३॥
सः समस्तपदवाच्योऽक्षरनामाऽयं श्रीब्रह्मादिषु नियामकतया स्थित आत्मा चतुष्पात्, चत्वारः पादाः अंशाः स्वरूपभूता यस्य स चतुष्पात्, पादपदस्य सङ्ख्या सुपूर्वस्येत्यन्तलोपः । सर्वजीवनियामकतया तत्तद्देहेषु चतूरूपतया तिष्ठतीत्यर्थः । कानि तेषां स्थानानि, कश्च व्यापारः, कीदृशानि तानि रूपाणि, किं तेषां भोग्यं, कानि नामानीत्येतस्तत्सर्वं क्रमेणाऽऽह - जागरितेति ॥ यत्र स्थित्वा जागर्ति तचक्षुर्जागरितम् । अधिकरणे क्तप्रत्ययः । तदेव स्थानं यस्य स जागरितस्थान: चक्षुः स्थान इत्यर्थः । वहिःप्रज्ञः । बहिश्शब्दो बाह्यार्थपरः । बहिर्ब्राह्यार्थान् प्रज्ञापयतीति वहि:प्रज्ञः । जानातेरन्तर्णीतण्यर्थाद् 'इगुपधज्ञाप्रीकिरः कः ' इति कप्रत्यय: । 'आतो लोप इटि च' इत्याकारलोपः । सप्ताङ्गः, , चत्वारो हस्ता: द्वौ पादौ गजमुखत्वाद् गजहस्त एक इति सप्ताङ्गः । एकोनविंशतिमुखः नवोत्तरदशमुखः । मध्यममुखं गजमुखाकारं, पार्श्वद्वये तु नव नव मुखानि पुरुषमुखाकाराणीति विवेक: । स्थूलभुक्, स्थूलान् शुभभोगान् भुङ्त इति स्थूलभुक् । वैश्वानरः, विश्यते गम्यते सर्वैर्ज्ञायत इति विशतेः कर्मणि वप्रत्ययः । अनेकार्थत्वाद् धातूनां विशतिरत्र गत्यर्थस्सन् ज्ञानपरः । विश्वं सर्वैर्ज्ञेयं स्थूलं वस्तूच्यते । भोक्तृतया तत्सम्बन्धी वैश्वः । न रयते न क्षीयते इति नरः । रीङ् क्षये । डप्रत्ययः । वैश्वश्चासौ नरश्च । ‘नरे च संज्ञायाम्' इति सूत्रेण, भाष्योक्तनिरुक्तिबलाद् वा दीर्घः वैश्वानरः ।प्रथमः पादः । आत्मन इति विपरिणामेनात्रोत्तरत्र चानुषङ्गः । सर्वदेहेष्वा- दानादिकर्तृत्वेन स्थितस्यात्मनः प्रथमं रूपमित्यर्थः ॥ ३ ॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः ।
प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
स्वप्नस्थानः । यत्र स्थित्वा जीवः स्वाप्नपदार्थान् पश्यति स स्वप्नः । तदेव स्थानं यस्य स स्वप्नस्थान:, कण्ठदेशस्थ इत्यर्थः । अन्तःप्रज्ञः । अन्तश्शब्दोऽत्र बाह्यार्थज्ञानजन्यवासनापरिणामरूपार्थपरः । तान् अन्तःस्थितान् वासनामयार्थान् प्रज्ञापयति जानाति चेत्यन्तःप्रज्ञः । प्रज्ञ इति जानातेः कः । सप्ताङ्ग एकोनविंशतिमुख इति प्राग्वत् । प्रविविक्तभुक् । वासनामयतया बाह्यार्थेभ्यो विविक्तान् स्वाप्नार्थान् भुङ्क्ते भोजयति चेति प्रविविक्तभुक् । तेजोमयचित्तस्थतया चित्तसम्बन्धित्वेन तैजसनामा आत्मनो द्वितीयः पादः द्वितीयं रूपमित्यर्थः ॥ ४ ॥
तृतीयपादस्य स्थानं वक्तुं स्थानस्वरूपं तावदाह - यत्रेति ॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवाऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।। ५ ।।
यत्र देशे सुप्तः अज्ञानावृत:, सुं सुखरूपं भगवन्तं प्राप्त इति वा, 'प्राज्ञेनाऽत्मना सम्परिष्वक्त: इत्यादेः, कञ्चन कमपि कामं काम्यमानमर्थं न कामयते, कञ्चन स्वप्नं स्वाप्नपदार्थं च न पश्यति, उपलक्षणमेतत्, स्वात्मकालाज्ञानानि विना किमपि न पश्यतीत्यर्थः । तत्स्थानं सुषुप्तमित्युच्यते । सुषुप्तमेव स्थानं यस्य स सुषुप्तस्थान:, हृत्कर्णिकाऽग्रस्थ । इति यावत् । एकीभूतः वैश्वानरतैजसाभ्यां संश्लेषविशेषरूपैकीभावं प्राप्तः। प्रज्ञानघनः । अविद्यावृतो जीवो धन इत्युच्यते, सुषुप्तिवेलायाम् ।जीवस्वरूपमज्ञानं, तदुपलक्षितं कालं चेति त्रयं प्रज्ञापयति जीवस्येति प्रज्ञानघनः । प्रपूर्वादन्तर्णीतप्यर्थाद् 'ज्ञा अवबोधने' इति धातोः ‘कृत्यल्युटो बहुलम्' इति बहुलग्रह्णात् कर्मणि ल्युटि, अनादेशे प्रज्ञानः। प्रज्ञापितो घनो जीवो येन स: प्रज्ञानघन इति विग्रहः । यद्वा, घनप्रज्ञ इति वक्ष्यमाणत्वादिहापि प्रज्ञानघन इत्यस्य घनप्रज्ञान इति विपरीतसमासो ध्येयः । तथात्वेऽन्तर्णीतण्यर्थात् कर्तरि ल्युट् । आनन्दमयः आनन्दप्रचुरः, पूर्णानन्द इति यावत् । 'यतो वाचो निवर्तन्ते' इत्यादी प्रसिद्धमिति हेरर्थः । आनन्दभुक्, विषयभोगान् विनैवाऽऽनन्दं भुङ्क्ते भोजयति चेत्यानन्दभुक् । अत्र स्थूलभुक्त्वं प्रविविक्तभुक्त्वमानन्दभुक्त्वं च नित्यपूर्णानन्दानुभवरूपस्य क्रीडारूपं ध्येयम् । चेतोमुखः ज्ञानस्वरूपमुखः । मुख इत्युपलक्षणम् । ज्ञानरूपसर्वावयव इत्यर्थः । एतदानन्दमयत्वचेतोमुखत्वरूपविशेषणद्वयं प्रागुक्तरूपद्वये नान्त: प्रज्ञमिति वक्ष्यमाणचतुर्थरूपे च ध्येयम् । प्राज्ञः । प्रकर्षेण न ज्ञापयतीति प्राज्ञः । जीवस्वरूपकालाज्ञानातिरिक्तं बाह्यं स्वाप्नं वा किमपि न ज्ञापयतीति प्राज्ञनामक इत्यर्थः । प्रपूर्वाननुप- पदादन्तर्णीतण्यर्थादातश्चोपसर्ग इति कप्रत्ययः । आत्मनस्तृतीयः पादः तृतीयं रूपम् ।। ५ ।।
एवं रूपत्रयं निरूप्य चतुर्थपादं 'नान्त: प्रज्ञम्' इत्यादिना निरूपयिष्यन् वैश्वानरादिरूपाणामुक्तस्थानव्यापाराद्यर्थेषु श्लोकान् विवक्षुः मध्ये वक्ष्यमाणचतुर्थरूपेण सह चतुर्णां रूपाणां महिमानमाह - एष इति ॥
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामी ।
एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
एष उक्तवक्ष्यमाणन्चतूरूप आत्मा । एष इत्यस्याभ्यासस्तात्पर्यार्थः।अन्तर्यामी अन्तर्नियन्ता । सर्वस्य योनिः कारणमित्यस्य विवरणम् - प्रभवाप्ययौ हि भूतानामिति । हि यस्मात् प्रभवाप्ययौ, प्रभवाप्ययहेतुरत इत्यर्थः ।। ६ ।।
उपनिषत् स्वयं प्रमाणत्वेऽपि दाढर्याय स्वोक्तार्थे ब्रह्मदृष्टान् मन्त्रानुदाहरति- अत्रै श्लोका भवन्तीति ॥
अत्रैते श्लोका भवन्ति ॥
बहि:प्रज्ञो विभुर्विश्वान्तः प्रज्ञस्तु तैजसः ।
घनःप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥
संवादिन इति शेषः । वैश्वानरो बहिः प्रज्ञ: तैजसोऽन्तः प्रज्ञः प्राज्ञः प्रज्ञानघन इत्युक्तार्थे मन्त्रमाह - बहिरिति । विश्वो वैश्वानरः । पदानामर्थः पूर्ववद् ध्येयः । स्मृतः इति । मन्त्रद्रष्ट्रा ब्रह्मणा स्मृत इत्यर्थः ॥ ७ ॥ जागरितस्थनः स्वप्नस्थान: सुषुप्तस्थानः इत्युक्तार्थे मन्त्रमाह- दक्षिणाक्षीति ।
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥
मुखे अग्रभागे । अन्तरित्यस्य विवरणम् - मनसीति । आकाशे च हृदि हृदयाकाशे, हृत्कर्णिका स्थाकाश इत्यर्थः ॥ ८ ॥ स्थूलभुगित्याद्युक्तार्थे मन्त्रमाह - विश्वो हीति ॥
विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥
निबोधतेति मन्त्रद्रष्ट्रा ब्रह्मणा स्वोपदेश्यान् प्रत्युच्यते । एवं विजानथे- त्यपि ध्येयम् ।। ९ ॥
उक्त एवार्थे मन्त्रान्तरं पठति - स्थूलमिति ।
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥
स्थूलं भोग्यं वस्तु कर्तृ । विश्वं कर्म । एवमग्रेऽपि । नित्यतृप्तस्य स्थूलादिना तृप्तिः क्रीडारूपा ध्येया । आनन्दमानन्दः लिङ्गव्यत्ययात् । विजानथ विजानीथ । विकरणव्यत्ययात् ॥ १० ॥
विश्वादिरूपत्रयस्वरूपं तत्स्थानेषु तद्भोज्यस्वरूपं जानतः फलमाह- त्रिष्विति ॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥
त्रिषु धामसु अक्षिमनोहृदयाकाशरूपेषु यद्भोज्यं स्थूलादि, यश्च भोक्ता विश्वादित्रिरूपात्मा, एतदुभयं भोक्तृभोज्यलक्षणमुभयं यस्तु योऽधिकारी वेद जानाति स ज्ञानी विषयान् भुञ्जान: अनुभवन्नपि तत्कृतलेपं न प्राप्नोति । तत्कृतोच्चत्वादिविकारं न प्राप्नोतीत्यर्थः ॥ ११ ॥ एष योनिस्सर्वस्येत्युक्तार्थे मन्त्रमाह - प्रभव इति ॥
प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्वेतोंऽशून् पुरुषः पृथक् ।। १२ ।।
प्रभवत्युत्पद्यतेऽनेनेति प्रभवः । सर्वभावानामशेषवस्तूनां यथायोगम् उत्पत्तिहेतुश्चतूरूप आत्मेति योज्यम् । इति सतां विनिश्चय इत्युक्त्याs- सतामन्यथा निश्चय इति लभ्यते । तदग्रे विवरिष्यते । सर्वप्रभवत्वं व्यनक्ति- सर्वं जनयति प्राण इति । सर्वस्य प्रणेतृत्वहेतुना प्राणनामा | सर्वं जनयतीत्युक्त्या न परिणामित्वादिरूपं सर्वप्रभवत्वमित्युक्तं भवति । पुरुषः पूर्णषड्गुणत्वादिना पुरुषनामा प्रागुक्तचतुरूपात्मा हरिः चेतोंऽशून् ज्ञानाख्यरश्मियुक्तान्, जीवानिति यावत् पृथग् देवदानवमानवादिभेदेन जनयतीत्यर्थः ।। १२ ॥
सतामिति विनिश्चय इत्यत्रासतां वैपरीत्येन निश्चय इत्यर्थात् प्राप्तम् । तदुभयं व्यनक्ति- विभूतिमित्यादिना ।
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्रमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥
सृष्टिचिन्तकाः सृष्टिविषयविचारवन्तोऽन्ये ब्रह्मपरिणामवादिनोऽसन्तः प्रसवं सृष्टिं विभूतिं जीवजडात्मना विविधतया भवनं ब्रह्मणो मन्यन्ते । सृष्टिचिन्तका इत्यनेन यथावद् ब्रह्मस्वरूपानभिज्ञा इति सूचितम् । अन्यैर्ब्रह्मविवर्तः प्रपञ्च इति वादिभि: सृष्टिर्विकल्पिता विविधतया कल्पिता । कथम् ? स्वप्नमायासरूपेति । स्वाप्नपदार्थः सुप्तात्मविवर्तो यथा तत्सरूपा ब्रह्मविवर्तरूपा । मायासरूपा, मायापदेन मायाविनिर्मित गन्धर्वनगरादिग्रहः । तत्सरूपा मिथ्याभूतेत्येवं विकल्पितेत्यर्थः ।। १३ ।। परिणामविवर्तयोरभावे कथं हरेः सृष्टिरित्यतः सतां निश्चयप्रकारमाह- इच्छेति ॥
इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥
केवलमिच्छा इच्छामात्रम् । अनायासेनाविलम्बेनाविकारित्वेन च प्रभोः पूर्णशक्तेः सृष्टि: प्रभुकर्तृका विश्वविषयिणी सृष्टिरिति सृष्टिविषये विनिश्चिता विनिश्चयवन्तो ब्रह्मादयः सन्त इत्यर्थः । कर्तरि क्तः । प्रकर्षेण भवति शश्वदेकप्रकारेण वर्तत इति, प्रभवति समर्थो वर्तत इति, प्रकर्षेण भवत्यनुभवति अखिलमिति, प्रभुपदस्य व्युत्पत्तित्रयेण निर्विकारत्व पूर्णशक्तित्वसर्वज्ञत्वरूपार्थत्रयपरत्वात् प्रभुपदेनैव परिणामवादस्य विवर्तवादस्य मायासरूपत्ववादस्य च निरासो ध्येयः ।
सत्यसृष्टावशक्तस्यैव मायिकसर्जनात् सर्वज्ञसृष्टस्य च स्वाप्नार्थ- सरूपत्वायोगादिति । पुनर्मतान्तराण्याह कालादिति ॥ कालचिन्तकाः कालमेव परं मन्वानाः भूतानां प्रसूतिमुत्पत्तिं कालात् मन्यन्ते । उपलक्षण- मेतत् । विरिञ्श्चचिन्तकाः विरिञ्चात्, रुद्रचिन्तकाः रुद्रात् प्रसूतिं मन्यन्त इत्येवं मतान्तराण्यप्यत्र ध्येयानि । तेषां निरास: प्रभुपदेनैव ज्ञेयः । हरेरेकस्यैव पूर्णशक्त्यादिमत्त्वेनान्येषां तदभावादिति । अत एवेच्छामात्रमित्यर्धस्य मध्ये निवेशः || १४ ॥
तर्हि पूर्णस्य सृष्टिः किमर्थेत्यतो लोकानुग्रहार्थं स्वभाव इति वक्तुं मतान्तराण्याह- भोगार्थमिति ॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहेति ।। १५॥
|| प्रथमः खण्डः ॥
हरेरतृप्तस्यैव भोगार्थं सृष्टिरित्यन्ये मन्यन्ते । अपरे तु महाराजस्य कन्दुकादाविव क्रीडार्थं विश्वसृष्टिरिति मन्यन्त इत्यर्थः । स्वमतमाह श्रुतिः । देवस्येति । देवस्यायं सृष्ट्यादिविषय एष इच्छा, इच्छापूर्वको व्यापार इति यावत्, इषु इच्छायां घञ् । स्वभाव एव न प्रयोजनाय, कुत: ? आप्तकामस्य पूर्णकामस्य हरे: का स्पृहा ? प्रयोजनाशा का ? न काऽपीत्यर्थः । इतिशब्दो रूपत्रयनिरूपणसमाप्तौ ।। १५ ।।
|| इति प्रथमः खण्डः ||