स कतुं कुर्वीत मनोमयः प्राणशरीरो भारूप:

।। अथ प्रथमाध्याये द्वितीयः पादः ।।

सर्वत्र प्रसिद्धोपदेशात् इत्याद्यष्टसूत्रात्मकमिदमधिकरणं शाङ्करभाष्यरीत्या जीवब्रह्मणोर्भेदबोधकमेव न त्वैक्यबोधकम् । तथा हि-

'स कतुं कुर्वीत मनोमयः प्राणशरीरो भारूप:' (छां. ३.१४.१.२) इत्यादिवाक्ये मनोमयत्वेनोपास्यः किं शारीरः = जीवः ? आहोस्वित् परं ब्रह्मेति संशय्य मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इति प्राप्ते परमेव ब्रह्म मनोमयत्वादिभिर्धर्मैः उपास्यं न तु जीवः । कुतः?

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ (१.२.१)

ॐ विवक्षितगुणोपपत्तेश्च ॐ (१.२.२)

सर्वेषु वेदान्तवाक्येषु जगत्कारणतया ब्रह्मशब्दालम्बनतया च प्रसिद्धस्य 'सर्वं खल्विदं ब्रह्मेति' उपक्रमे कथनात् सत्यसङ्कल्पत्वादिविवक्षित (उपादेय) गुणानां परब्रह्मण्येवोपपत्तेश्चेति व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रद्वयमिति । १.२.१-२

ॐ अनुपपत्तेस्तु न शारीरः ॐ (१.२.३)

ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणं न तु शारीरो जीवः मनोमयत्वादिगुणः । सत्यसङ्कल्पत्वादिगुणानां शारीरे जीवेऽनुपपत्तेरिति शाङ्करव्याख्यानात् जीवपरब्रह्मणोर्भेदं कथयति सूत्रमिदम् । १.२.३

ॐ कर्मकर्तृव्यपदेशाच्च ॐ (१.२.४)

इतश्च न शारीरो मनोमयत्वादिगुणः यस्मात्कर्मकर्तृव्यपदेशो भवति ।एवमितः प्रेत्याभिसम्भवितास्मि' । ( छां. ३.१४.४) इति । एवमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति अभिसम्भावितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन अभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः । न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः । तत्रोपास्योपासकभावोऽपि भेदाधिष्ठान एव इति तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः इति व्याख्यातत्वेन शारीर (जीव ) परमात्मनो: प्राप्तिकर्तृत्वप्राप्तिकर्मत्वेन उपास्योपासकभावेन च भेदमेव व्यपदिशति सूत्रमिदम् । १.२.४

ॐ शब्दविशेषात् ॐ (१.२.५)

इतश्च शारीरादन्यो मनोमयत्वादिगुणः । यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे 'यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः (शत.ब्रा.१०.६.३२) इति । शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तोऽन्तरात्मन्निति तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्ट स्यात्मनोऽभिधायकः । तस्मात्तयोर्भेदोऽधिगम्यते इति व्याख्यातत्त्वेन जीवपरमात्मनोर्भेदप्रतिपादकमेवेदं सूत्रम् । १.२.५

ॐ स्मृतेश्च ॐ (१.२.६)

स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति ईश्वरः सर्वभूतानां हृद्दशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।। (गीता १८.६१ ) इत्याद्या इति व्याख्यातत्वेन जीवपरब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् ।

अत्राह- कः पुनरयं शारीरो नाम परमात्मनोऽन्यः यः प्रतिषिध्यतेअनुपपत्तेस्तु न शारीरः' इत्यादिना । श्रुतिस्तु 'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता' (बृ.३.७.२३) इत्येवं जातीयका परमात्मनोऽन्यमात्मानं वारयति । तथा स्मृतिरपिक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' (गी.१३.२) इत्येवं जातीयकेति वाक्येन सूत्रेषु उक्तं जीव (शारीर) परमात्मनोर्भेदमाक्षिप्यऔपाधिकोऽयं भेदः कल्पितः न परमार्थः । कल्पितभेदापेक्षया कर्मकर्तृत्वादिव्यवहारः न विरुध्यते । प्राक्तत्त्वमसि' इत्यात्मैकत्वोपदेशग्रहणात् इति यत् स्वव्याहत्यादि - दोषयुक्तमुक्तं शङ्कराचार्यैः तत् बुद्धवत् आसुरजनमोहनार्थं वा स्वोक्तार्थविस्मरणमूलकं वा भ्रममूलकं वेति कल्प्यम् । अन्यथा गत्यभावात् । अन्यतमपक्षनिर्धारणं तु प्रकृतानवसरग्रस्तमिति न क्रियते । ते च स्वव्याहत्यादिदोषाः इत्थम् । तथाहि - १ यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः'योऽप्सु तिष्ठन्...' ' योऽग्नौ तिष्ठन् ....' ' योऽन्तरिक्षे तिष्ठन् ....' 'यो वायौ तिष्ठन् ....' 'यो दिवि तिष्ठन्.....य आदित्ये तिष्ठन् .... ' ८ यो दिक्षु तिष्ठन्...' यश्चन्द्रतारके तिष्ठन्...' १० य आकाशे तिष्ठन्...' ११यस्तमसि तिष्ठन्...१२यस्तेजसि तिष्ठन्...' १३यः सर्वेषु १४यः प्राणे तिष्ठन्...' १५ ' यो वाचि तिष्ठन् ... ' भूतेषु तिष्ठन्...' १६ 'यश्चक्षुषि तिष्ठन् ....' १७ 'य: श्रोत्रे तिष्ठन् ... ' १८ ' यो मनसि तिष्ठन्...' १९यस्त्वचि तिष्ठन् २०यो विज्ञाने तिष्ठन् अथवा य आत्मनि तिष्ठन्...' २१ 'यो रेतसि तिष्ठन् रेतसोऽन्तरो यं रेतो न वेद यस्य रेतश्शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' इत्यादिपूर्ववाक्यानि भूतभूताभिमानिदेवतानां जीवानां च परमात्मना नारायणेन भेदं बोधयन्तीति स्वयमेव कथयित्वा तदुत्तरं तद्भटकं 'नान्योऽतोऽस्ति द्रष्टा' इति वाक्यमभेदं बोधयतीति शङ्कराचार्योक्तिः कथं स्वव्याहता न भवेत् । न हि अपौरुषेयी प्रमाणभूता श्रुतिः शङ्कराचार्यवत् पूर्वोत्तरयोर्व्याहतभाषिणी इति वक्तुं शक्यत इति नेयं श्रुतिर्जीवब्रह्मणोर्भेदनिषेधिका । विशेषविचारस्तु एतच्छ्रुत्यर्थविचारे द्रष्टव्यः ।

'क्षेत्रज्ञं चापि मां विद्धि' इति गीता श्लोकोऽपि न जीवब्रह्मणोरैक्य- बोधकः। महाभूतादिसकलजगद्रूपक्षेत्रज्ञानस्य जीवेऽसम्भवात् । 'ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते' 'अनादिमत्परं ब्रह्म' इति श्लोकेन श्रीमद्भगवता श्रीकृष्णेनैव क्षेत्रज्ञः परब्रह्मेति कथितत्वेन शङ्कराचार्यैरपि क्षेत्रज्ञः परं ब्रह्मेतिज्ञेयं यत्तत्प्रवक्ष्यामि' इति श्लोके कृष्णेन कथ्यते इत्युक्तत्वेन क्षेत्रज्ञभूतपरब्रह्मणा कृष्णस्यैक्यमुच्यते न तु जीवेनेति नैष श्लोकः जीवब्रह्मणोरैक्यबोधकः । न वा तत्त्वमसीति वाक्यमात्मैकत्व- बोधकम् । शङ्करादिभिरद्वैतिभिरखण्डार्थबोधकतया अङ्गीकृतत्वादिति । विशेषविचारः तत्तच्छ्रुतिगीताविचारे अस्मत्कृते द्रष्टव्यः । स्मरणार्थं किंचिद्विचारितमत्रेत्यलम् ।

अनुपपत्तेस्तु न शारीरः' 'कर्मकर्तृव्यपदेशाच्च' 'शब्दविशेषात्’ ‘स्मृतेश्च' इत्येतानि सूत्राणि तदुदाहृतानि श्रुतिगीतावाक्यानि च जीवब्रह्मणोर्भेदबोधकानीत्यत्र न विवादः कर्तुं शक्यः अद्वैतिभिः । शङ्कराचार्यैरेव तथाऽङ्गीकृतत्वात् । श्रुतिसूत्रगीतोक्तस्य भेदस्य असत्यत्वकथनं ( श्रुतिसूत्रगीतानाम प्रामाण्यकथनं ) अवैदिकानां शोभावहं न तु वैदिकाना मिति । १.२.६

ॐ अर्भकौकस्त्वात्तव्यपदेशान्नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ (१.२.७)

'एष म आत्मान्तर्हृदय इति परिच्छिन्नायतनत्वात्, 'अणीयान् व्रीहेर्वा यवाद्वा इति अणीयस्त्वव्यपदेशात्, शारीर एव आराग्रमात्रो जीव इहोपदिश्यते न सर्वगतः परमात्मेति प्राप्ते यथा सर्वगतमपि सत् व्योम सूचीपाशाद्य- पेक्षया अर्भकौकोऽणीयश्च व्यपदिश्यते यथा समस्तवसुधाधिपतिरपि हि सन्नयोध्याधिपतिरिति व्यपदिश्यते तथा उपासनार्थं सर्वगतोऽपि अणीयस्त्वादिना व्यपदिश्यते यथा शालग्रामे हरिः इत्यर्थकतया व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । १.२.७

ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ (१.२.८)

व्योमवत् सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् चिद्रूपतया च शारीरादविशिष्टत्वात् सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येतेति चेन्नवैशेष्यात्विशेषो हि शरीरपरमात्मनोः । एकः कर्ता भोक्ता धर्माधर्म- साधनः सुखदुःखादिमांश्च । एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः । एतस्मादनयोर्विशेषादेकस्य भोगो नेतरस्येत्यर्थकतया व्याख्यातत्त्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । शङ्कराचार्यकृतस्य उत्सूत्रार्थकथनस्य विचारे नात्रावसरः । १.२.८

ॐ अत्ता चराचरग्रहणात् ॐ (१.२.९)

ॐ प्रकरणाच्च ॐ (१.२.१०)

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्थावेद यत्र सः (का.१.२.२४) इति कश्चिदत्ता प्रतीयते । स किं अग्निर्वा जीवो वा परमात्मा वेति संशये, 'अग्निरन्नाद' (बृ.१.४.६) इति श्रुतिप्रसिद्धिभ्यां अग्निरिति वा 'तयोरन्य: पिप्पलं स्वाद्वत्ति इति दर्शनात्, जीवो वा भवितुमर्हति न परमात्मा ।अनश्नन्नन्यो अभिचाकशीति' (मुं.३.१.१) इति परमात्मनः अनदनोक्तेरिति प्राप्तेअत्तापरमात्मा भवितुमर्हति ।चराचरग्रहणात् अद्यतया सर्वस्य ग्रहणात्न जायते न म्रियते वा विपश्चित् (का.१.२.१८) इत्यादिब्रह्मप्रकरणाच्चेत्यर्थकतया व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रद्वयम् । १.२.९,१०

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ (१.२.११)

ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेता : (का. १.३.१) इति वाक्ये प्रतिपाद्यौ किं बुद्धिजीवौ उत्त जीवपरमात्मानौ इति सन्दि बुद्धिजीवाविति पूर्वपक्षयित्वा, जीवपरमात्मानाविति सिद्धान्तयित्वा जीवस्तावत्पिवति ईश्वरस्तु पाययतीति पिवतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्, इति व्याख्यातत्वेन पातृत्वपाययितृत्वरूपविरुद्धधर्माधिकरणत्वेन विज्ञानात्मपरमात्मानौ इति द्विवचनप्रयोगेण च, जीपरमात्मनोर्भेदबोधकमेवेदं सूत्रम् । १.२.११

ॐ विशेषणाच ॐ (१.२.१२)

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ' (का.१.३.३) इत्यादिना ग्रन्थेन विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं, 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' (का. १.३.९) इति च परमात्मानं गन्तव्यं, तथा, 'तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' (का. १.२.१२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ । तस्मादिह जीवपरमात्मानावुच्येयातामित्यर्थकतया व्याख्यातत्वेन गन्तृगन्तव्यत्वेन मन्तृमन्तव्यत्वेन च जीवपरमात्मनोर्भेदवोधकमेवेदं सूत्रम् । १.२.१२

ॐ अन्तर उपपत्तेः ॐ (१.२.१३)

' य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतद- मृतमभयमेतद्ब्रह्म' (छां.४.१५) इति वाक्ये अक्ष्यधिकरणः किं विज्ञानात्मा =जीवः उत देवतात्मा इन्द्रियस्याधिष्ठाता अथवा ईश्वर इत्यादि संशय्य,अन्तरः अक्ष्यधिकरणः जीव इति वा आदित्यपुरुषो वा इत्यादि पूर्वपक्षयित्वा, चक्षुरन्तस्थः परमेश्वर एव 'उपपत्तेः' चक्षुरन्तस्थे उक्तानां आत्मत्वामृतत्वाभयत्वानां परमेश्वर उपपत्तेरित्यर्थकतया व्याख्यातत्वेन जीवपरब्रह्मणोर्भेदप्रतिपादकमेवेदं सूत्रम् । १.२.१३

आकाशवसर्वगतस्य ब्रह्मण: अक्षिरूपं अल्पस्थानं कथमुपपद्यते इत्याशङ्कायां प्रवृत्तम्

ॐ स्थानादिव्यपदेशाच्च ॐ (१.२.१४)

इति सूत्रम् । यदि चक्षुरेकमेव स्थानं व्यपदिश्येत तदा इयं शङ्का स्यात् । यः पृथिव्यां तिष्ठन् यश्चक्षुषि तिष्ठन् यो वायौ तिष्ठन् इत्याद्यनेकस्थानानां व्यपदेशात्, परमात्मा सर्वान्तस्थोऽपि चक्षुरन्तस्थो भवितुमर्हति इति पूर्वसूत्रोक्तार्थस्थापकतया व्याख्यातत्वेन पूर्वसूत्रवद्भेद- बोधकमेवेति । १.२.१४

ॐ सुखविशिष्टाभिधानादेव च ॐ (१.२.१५ )

प्राणो ब्रह्म, कं ब्रह्म, खं ब्रह्म,' इति वाक्योपक्रमे सुखविशिष्टब्रह्मणः अभिधानात् चक्षुरन्तस्थः परमात्मैवेति पूर्वोक्तस्यैव स्थापकतया व्याख्यानाज्जीवब्रह्मणोर्भेदबोधकमेवेदमपि सूत्रम् । १.२.१५

ॐ श्रुतोपनिपत्कगत्यभिधानाच्च ॐ (१.२.१६ )

इतश्चाक्षिस्थानः पुरुषः परमेश्वरः । यस्मात् श्रुतोपनिषत्कस्य श्रुतिरहस्यविज्ञानस्य ब्रह्मविदा या गतिर्देवयानाख्या प्रसिद्धा, श्रुतौअथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभि जयन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते' (प्र.१.१०) इति । स्मृतावपि - ' अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' (गी.८.२४) इति । सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते । 'अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्ति' इत्युपक्रम्यआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' (छां.४.१५५) इति । तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्याऽक्षिस्थानस्य ब्रह्मत्वं निश्चीयते इति व्याख्यातत्वेन ज्ञातृज्ञेयभावगन्तृगन्तव्यभावादिना जीवपरमात्मनोर्भेद बोधकमेवेदं सूत्रम् । १.२.१६

ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ (१.२.१७)

सर्वशरीरस्थितस्य जीवस्य चक्षुर्मात्रे अवस्थितिकथनायोगात् अमृतत्वादिगुणानामसम्भवाच इतर : परमात्मनोऽन्यः जीवः (विज्ञानात्मा) न चक्षुरन्तस्थ इत्याद्यर्थकतया व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । १.२.१७

य इमं लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति इत्युपक्रम्य श्रुतेषु यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयति, एष ते आत्माऽन्तर्याम्यमृतः (बृ. ३.७.१.२) इत्यादिवाक्येषु अधिदैवतं अधिलोकं अध्यात्मं अधिवेदं अधियज्ञं अधिभूतं च कश्चिदवस्थितोऽन्तर्यामी श्रूयते । स किं अधिदैवाद्यभिमानी देवतात्मा कश्चित् किं वा प्राप्ताणिमाद्यैश्वर्यः कश्विद्योगी किं वा परमात्मा इति संशय्य पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात् योगी वा स्यात् इति पूर्वपक्षे च प्रवृत्तम्-

ॐ अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ॐ (१.२.१८)

इति सूत्रं, अधिदैवादिषु श्रूयमाणः अन्तर्यामी परमात्मैव नान्यो देवतादिः ।तद्धर्मव्यपदेशात्' पृथिवीपृथिव्यभिमानिदेवतादिरूपसमस्तजगतः अन्तस्तिष्ठन् यमयितृत्वात् अमृतत्वात् अभयत्वात् पृथिव्याद्यभिमानि- देवताऽज्ञेयत्वपूर्वकं पृथिव्याद्यभिमानिदेवताभिन्नत्वतदन्तर्यामित्वादि- व्यपदेशादित्यर्थकतया व्याख्यातं पृथिव्यादिदेवेभ्यः भिन्नं परमात्मानं बोधयति । १.२.१८

ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ (१.२.१९)

इदं सूत्रं, सांख्यस्मृत्युक्तं प्रधानं पृथिव्याद्यन्तर्यामि भवितुं नार्हति । प्रधानधर्माणामन्तर्यामिणि कथनाभावात् इति व्याख्याततया प्रधानादिजडभेदं ब्रह्मणः कथयति । १.२.१९

ॐ शारीरचोभयेऽपि हि भेदेनैनमधीयते ॐ (१.२.२०)

शारीरश्र्च (जीवश्च) नान्तर्यामी । यतः 'यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं' इति 'य आत्मनि तिष्ठन् आत्मनोऽन्तरो यं' इति काण्वमाध्यन्दिनशाखिनौ अन्तर्यामिणो भेदेन एनं शारीरं (जीवं) पृथिव्यादिवत् अधिष्ठानत्वेन नियम्यत्वेन चाधीयते तस्माच्छारीरात् (जीवात्) अन्य ईश्वरोऽन्तर्यामीति सिद्धमिति व्याख्यातत्वेन जीवब्रह्मणोर्भेदं गमयति ।

यत्पुनरुक्तं जीवब्रह्मणोर्भेदनिषेधिकया 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुत्या विरोधात् । ' अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्’ ‘न च स्मार्तमतद्धर्माभिलापात् ' ' शारीरश्वोभयेऽपि हि भेदेनैनमधीयते' इति सूत्रैः, तद्गृहीतैःयः पृथिव्यां तिष्ठन् ' 'यो विज्ञाने तिष्ठन्' ‘यः सर्वेषु भूतेषु तिष्ठन् इत्याद्येकविंशतिवाक्यैः प्रतिपादितस्य भेदस्य मिथ्यात्वं, तदत्यन्तमयुक्तम् । बहुबाधस्य अन्याय्यत्वात् । 'नान्योऽतोऽस्ति द्रष्टा इति श्रुतिरपि न भेदं निषेधतीति बाधिकैव भवितुं नार्हतीत्येष विचारः बहुस्थलेषु कृतः तत्रैव द्रष्टव्यः । पुनः पुनः शङ्कराचार्यैरुक्तमेव उच्यते तथा अस्माकमपि खण्डितस्यैव खण्डनमापद्यते इति नास्मिन् कर्मणि व्यापारयामः आत्मानमधिकम् । स्मृतेश्च (१.२.६ ) इति सूत्रव्याख्याने किंचित्प्रदर्शितं तथा अन्यत्रापि ।

किं च सर्वस्य कल्पितत्वाङ्गीकारेण ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते । तथा च श्रुतिः - 'यत्र हि द्वैतमिव भवति तदितर: इतरं पश्यति इत्यविद्याविषये सर्वव्यवहारं दर्शयति । 'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्' इति विद्याविषये सर्वं व्यवहारं वारयति इति यदुक्तं तदप्यसमञ्जसम् ।यत्र हि द्वैतमिव भवति' इति श्रुतिः शङ्कराचार्याद्यैरेव 'ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वम्' इत्यादिवाक्येन द्वैतस्य पारमार्थिकत्वं बोधयतीत्युक्तत्वेन तस्या जगन्मिथ्यात्वबोधकत्वाभवात् । यत्र त्वस्य सर्वमात्मैवाभूदित्युत्तरवाक्येऽपि जीवब्रह्मणोर्भेदबोधनाच्च । सर्वमेतदादिकं श्रुत्यर्थविचारे विवृतत्वेन नात्र पुनरुच्यते । १.२.२०

ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ (१.२.२१)

'अथ परा यया तदक्षरमधिगम्यते' 'यत्तदद्रेश्यमग्राह्यमगोत्रम वर्णमचक्षुःश्रोत्रं तदपाणिपादं । नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनिं परिपश्यन्ति धीराः' (मुण्ड. १.१.५.६ ) इति वाक्ये श्रूयमाणः अदृश्यत्वादिगुणको भृतयोनिः प्रधानं स्यादुत शारीरः (जीवः) आहोस्वित् परमेश्वर इति संदिह्य, प्रधानमिति किं वा जीव इति पूर्वपक्षयित्वा,‘अदृश्यत्वादिगुणाको भूतयोनिः परमेश्वर एव नान्यः प्रधानं जीवो वा, ‘धर्मोक्तेः=सर्वज्ञत्वसर्ववित्त्वादिधर्मोक्ते:' इति व्याख्यातत्वेन ब्रह्मणः चेतनाचेतनात्मक (जीवजडात्मक) प्रपञ्चाद्भेदप्रतिपादकमेवेदमपि सूत्रम् । १.२.२१

ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ (१.२.२२)

परमेश्वर एव भूतयोनिः नेतरः शारीरः, कुतः विशेषणभेदव्यपदेशाभ्यां- शारीरात् जीवात् विलक्षणत्वेन 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः' (मुं. २.१.२) इति दिव्यत्यादिविशेषणवत्वेन व्यपदेशात्' इति व्याख्याततया, जीवब्रह्मणोर्भेदं, ‘परमेश्वर एव भूतयोनिः नेतरत् प्रधानं' अक्षरात्परतः पर इति प्रधानात् भेदेन व्यपदेशात्' इति च व्याख्याततया प्रधानब्रह्मणोर्भेदं च बोधयतीदं सूत्रम् । १.२.२२

ॐ रूपोपन्यासाच्च ॐ (१.२.२३)

इति सूत्रं, 'अदृश्यत्वादिगुणक: भूतयोनिः परमेश्वर एव न जीवः नापि प्रकृतिः; अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ ... एष सर्वभूतान्तरात्मा' (मुं. २.१.४) इति रूपोपन्यासात्' इति व्याख्यातत्वेन प्रधानजीवयोः ब्रह्मणा भेदं व्यपदिशति । १.२.२३

'आत्मानं वैश्वानरमुपास्ते' (छां. ५.११.१.६) इति वाक्ये श्रूयमाणः वैश्वानरः जाठराग्निर्वा भूताग्निर्वा तदभिमानिनी देवता वा जीवो वा अथ परमेश्वर इति संदिह्य, जाठराग्निर्वा, भूताग्निर्वा, अग्यभिमानिनी देवता वा जीवो वा, न परमेश्वर' इति पूर्वपक्षे प्राप्ते प्रवृत्तेन,

ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ (१.२.२४)

इति सूत्रेण, 'वैश्वानरः परमात्मैव, न जीवादिः । साधारणशब्द-विशेषात् । वैश्वानरात्मशब्दौ जीवादिसाधारणौ । तथापि सर्वपापदाहक - ज्ञानविषयत्वादिविशेषाणां (धर्माणां ) कथनात्' इति व्याख्याततया अग्न्यभिमानिदेवताजीवादिभिः ब्रह्मणः भेदः कथ्यते । १.२.२४

ॐ स्मर्यमाणमनुमानं स्यात् ॐ (१.२.२५)

इति सूत्रम्, 'इतश्च परमेश्वर एव वैश्वानरः ( न जीवः ) 'यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं चक्षोः सूर्यो अजायत आत्मशब्दस्य कारणवाचित्वात् । तस्मै लोकात्मने नमः' इति स्मृतौ स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वेऽनुमानं लिङ्गं स्यात् इति व्याख्याततया जीवब्रह्मणोर्भेद-बोधकमेवेति । १.२.२५

ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैनमधीयते ॐ (१.२.२६)

अन्यत्र रूढवैश्वानरशब्दात् अग्निशब्दाच्च तथा प्राणाहुत्यधिकरणतादि- सङ्कीर्तनात्पुरुषेऽन्तःप्रतिष्ठितं वेदेति' अन्तः प्रतिष्ठानाच्च वैश्वानरः परमेश्वरो भवितुं नार्हति इत्याशङ्क्य तथोपासनार्थमुपदेशात् अन्यत्र मूर्धैव सुतेजा इत्याद्युक्तधर्मस्यासम्भवात् पुरुषत्वकथनाच्च वैश्वानरः परमात्मैवेति शङ्करेण व्याख्यातत्वेन जडजीवाभ्यां ब्रह्मणः भेदबोधकमेवेदं सूत्रम् । १.२.२६

उक्तकारणादेवाग्निर्वा तच्छरीरस्थदेवता वा न वैश्वानर इत्यर्थकतया व्याख्यातम्

ॐ अत एव न देवता भूतं च ॐ (१.२.२७)

इति सूत्रमपि जीवजडाभ्यां ब्रह्मणः भेदबोधकमेव । १.२.२७

ॐ साक्षादप्यविरोधं जैमिनिः ॐ (१.२.२८)

ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ (१.२.२९)

ॐ अनुस्मृतेर्बादरिः ॐ (१.२.३०)

ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ (१.२.३१ )

ॐ आमनन्ति चैनमस्मिन् ॐ (१.२.३२)

इमानि सूत्राण्यपि वैश्वानरस्य परमात्मत्वप्रतिपादकान्येवेति व्याख्याततया पूर्वसूत्रवदेव भेदपराण्येवेति । १.२.२८,२९,३०,३१,३२   

।। इति प्रथमाध्याये द्वितीयः पादः ।।